स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search

।। यम उवाच ।। ।।
शृणु मे वचनं नाथ लोपितोऽहं पितामह ।।
मरणादधिकं मन्ये मत्पदस्य च खण्डनम् ।। १ ।।
नियोगी न नियोगं हि करोति कमलासन ।।
प्रभोर्वित्तं समश्नाति स भवेत्काष्ठकीटकः ।। २ ।।
योऽश्नाति लोभाद्वित्तानि प्रज्ञावांश्च महीपते ।।
स तिर्यग्योनि नरके याति कल्पशतत्रयम् ।। ३ ।।
निःस्पृहो नाऽऽचरेद्यस्तु नियोगं पद्मसंभव ।।
भुक्त्वा तु नरकान्घोरान्स पुमान्वायसो भवेत् ।। ४ ।।
आत्मकार्यपरो यस्तु स्वामिकार्यं विलुंपति ।।
भवेद्वेश्मनि पापात्मा आखुः कल्पशतत्रयम् ।। ५ ।।
नियोगी यश्च भूत्वा वै तिष्ठन्नित्यं स्ववेश्मनि ।।
शक्तस्तु कार्यकरणे मार्जारो जायते नरः ।। ६ ।।
सोऽहं देव तवादेशात्प्रजा धर्मेण साधये ।।
पुण्येन पुण्यकर्तारं पापं पापेन कर्मणा ।। ७ ।।
सम्यग्विचार्य मुनिभिर्धर्मशास्त्रान्वितैः प्रभो ।।
कल्पादौ वर्तमानस्य यातना दापयन्मम ।। ८ ।।
कर्तुं नियोगमेवं हि त्वदीयो नैव शक्नुयाम् ।।
राज्ञा कीर्तिमता भग्नो नियोगस्तव च क्षितौ ।। ९ ।।
भयादस्य जगन्नाथ पृथिवीं सागराम्बराम् ।।
वैशाखधर्मसहितां पालयन्वर्तते क्वचित् ।। 2.7.12.१० ।।
विहाय सर्वधर्मांश्च विहाय पितृपूजनम् ।।
विहायाऽग्निसपर्यां तु तीर्थ यात्रादिसत्क्रियाः ।। ११ ।।
योगसांख्यावुभौ त्यक्त्वा त्यक्त्वा प्राणनिरोधनम् ।।
त्यक्त्वा होमं च स्वाध्यायं कृत्वा पापानि भूरिशः ।। १२ ।।
प्रयान्ति वैष्णवं लोकं कृत्वा वैशाखसत्क्रियाः ।।
मनुजाः पितृभिः सार्द्धं तथैव च पितामहैः ।।१३।।
तेषामतीतपितरः पितॄणां पितरस्तथा ।।
तथा मातामहा यांति तेषां वै जनकादयः ।। १४ ।।
तेषामपि च नेतारो जनित्रीणां च पूर्वजाः ।।
एतद्दुःखं पुनर्देव मम मस्तकभेदनम् ।।१५।।
प्रियायाः पितरो यान्ति मार्जयित्वा लिपिं मम ।।
पितॄणां बीजजो यस्तु धात्र्या कुक्षौ धृतो विभो ।। १६ ।।
यदंकेन कृतं कर्म तदेकेनैव भुज्यते ।।
तन्निरस्य कृतं सर्वं जानंस्त्वेकः कुले तु यः ।। १७ ।।
तारयेत्तावुभौ पक्षौ षड्विंशोपर्यलं विभो ।।
प्रियायाश्चाऽपि वै तात सर्वे वै कुक्षिसंभवाः ।। १८ ।।
तेऽपि सर्वे जगन्नाथ यान्ति विष्णोः परं पदम् ।।
न मे प्रयोजनं देव नियोगेनेदृशेन वै ।। १९ ।।
वैशाखधर्मनिरतः स मां त्यक्त्वा व्रजेद्धरिम् ।।
त्रिःसप्तकुलमुद्धत्य त्यक्तपापोऽतिशोभनः ।। 2.7.12.२० ।।
स त्यक्त्वा मम मार्गं हि प्रयाति हरिमंदिरम् ।।
न यज्ञैस्तादृशैर्देव गतिं प्राप्नोति मानवः ।। २१ ।।
सर्वतीर्थैर्न दानाद्यैर्न तपोभिश्च न व्रतैः ।।
अपि वा सकलैर्धर्मैर्युक्तो नाऽप्नोति तां गतिम्।। २२ ।। ।
प्रयागपाताद्रणमध्यपाताद्भृगोश्च पातान्मरणाच्च काश्याम् ।।
न तां गतिं यांति जनाश्च सर्वे वैशाखनिष्ठेन च या प्रपद्यते ।। २३ ।।
प्रातः स्नात्वा देवपूजां च कृत्वा श्रुत्वा कथां मासमाहात्म्यसंज्ञाम् ।।
धर्मान्कृत्वा चोचितान्वैष्णवांश्च स वै भवेद्विष्णुलोकैकनाथः ।। २४ ।।
अप्रमाणमहं मन्ये लोकं विष्णोर्जगत्पतेः ।।
यो न पूर्येत कोट्योघैः सर्वतः कमलासन ।। २५ ।।
माधवावसथेनेह समस्तेन पितामहम् ।।
विकर्मस्थाऽविकर्मस्थाः शुचयोऽशुचयस्तथा ।।२६।।
कृत्वा वैशाखकृत्यानि लोका यान्ति नृपाऽऽज्ञया ।।
योऽस्माकं हि महच्छत्रुर्भवतां च विशेषतः।।२७।।
निग्राह्यो जगतां नाथ भवताऽसौ महीपतिः ।।
हित्वा हि सकलान्धर्मान्सकृद्वैशाखस्नानतः ।। २८ ।।
असंस्कृतजना यांति वैकुण्ठं हरिमंदिरम् ।।
अस्माभिस्तु कृतोपेक्षो लिणुपादैकसंश्रयः ।। २९ ।।
समस्तं नेष्यते लोकं पार्थिवो नात्र संशयः ।।
एष दण्डपटो ह्यद्य तव पद्भ्यां निवेदितः ।2.7.12.३०।।
लोकपालत्वमतुलमर्जितं तेन भूभुजा।।
किमपत्येन जातेन मातुः क्लेशंकरेण वै।।३१।।
यो न पातयते शत्रुं ज्येष्ठमासीव भास्करः ।।
वृथासुता हि युवतिर्जाता चेद्धि कुपुत्रिणी ।।३२।।
न तस्याः स्फुरते कीर्तिर्घनस्येव शतह्रदा ।।
यत्पितुर्नोद्धरेत्पापाद्विद्यया वा बलेन वा ।।३३।।
मातुर्जठरजो रोगः स प्रसूतो धरातले ।।
धर्मे चाऽर्थे च कामे च यत्प्रतीपो भवेत्सुतः ।। ३४ ।।
मातृहा ह्युच्यते सद्भिः स पुत्रः पुरुषाधमः ।।
तन्माता नृपपत्नी च लोकविख्यातसत्क्रिया ।। ३५ ।।
एकैव वीरसूर्लोके वीरः स नात्र संशयः ।।
यथा वै कीर्तिमाञ्जातो मल्लिपेर्मार्जनाय वै ।। ।। ३६ ।।
नेदं व्यवसितं देव केनचित्क्षत्रियेण हि ।।
पुराणेषु जगन्नाथ न श्रुतं पटमार्जनम् ।। ३७ ।।
सोऽहं न जानामि जगत्पतीश ऋते क्षितीशं हरितत्परं तम् ।।
प्रचोदयन्तं पटहं सुघोषाद्विलोपयानं मम वेश्ममार्गम् ।। ३८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे यमदुःखनिरूपणंनाम द्वादशोऽध्यायः ।। १२ ।।