स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search

।। मैथिल उवाच ।। ।।
वैशाखधर्माः सुलभाः पुण्यराशिविधायकाः ।।
विष्णुप्रीतिकराः सद्यः पुमर्थानां तु हेतवः ।। १ ।।
न प्रख्याताः कथं लोके शाश्वताः श्रुतिचोदिताः ।।
प्रख्याता राजसा धर्मास्तामसा अपि भूरिशः ।। २ ।।
दुर्घटा वहुयत्नाश्च वहुद्रव्यव्ययावहाः ।।
केचिन्माघं प्रशंसन्ति चातुर्मास्यान्परे जगुः ।। ३ ।।
व्यतीपातादिधर्माश्च वर्णयन्तीह भूरिशः ।।
एतद्विवेकं विस्तार्य श्रोतुकामाय मे वद ।। ४ ।।
।। श्रुतदेव उवाच ।। ।।
शृणु भूप प्रवक्ष्यामि न प्रख्याता इमे कथम् ।।
इतरेषां च धर्माणां कथं ख्यातिश्च भूतले ।। ५ ।।
राजसास्तामसा भूमौ बहवः कामुका जनाः ।।
इच्छंत्यैहिकभोगांस्ते पुत्रपौत्रादिसंपदः ।। ६ ।।
क्वचित्कथंचन क्वाऽपि जनेष्वेकोऽतिकृच्छ्रतः ।।
स्वर्गाय यतते लोके तस्माद्यज्ञादिसत्क्रियाः ।। ७ ।।
कुरुतेऽतिप्रयत्नेन मोक्षं नोपासते नरः ।।
क्षुद्राशा भूरिकर्माणो जनाः काम्यानुपासते ।। ८ ।।
प्रख्याता राजसा धर्मास्तामसा अपि तेन वै ।।
न ख्याताः सात्त्विका धर्मा हरिप्रीतिकरा इमे ।। ९ ।।
निष्कामिका इमे धर्मा ह्यैहिकाऽऽमुष्मिकप्रदाः ।।
न जानन्ति जना मूढा मोहिता देवमायया ।। 2.7.11.१० ।।
यथाऽऽधिपत्ये संप्राप्ते सर्वसिद्धो मनोरथः ।।
मोहनार्थं स्थलं प्राप्तमाधिपत्येन हीयते ।। ११ ।।
कारणं च प्रवक्ष्यामि गोपने भूतलेंऽजसा ।।
यद्वैशाखोक्तधर्माणां सात्त्विकानां नृणामिह ।। १२ ।।
सार्वभौमः पुरा काश्यामिक्ष्वाकुकुलभूषणः ।।
कीर्तिमानिति विख्यातो नृगपुत्रो महायशाः ।। १३ ।ऽ।
जितेंद्रियो जितक्रोधो ब्रह्मण्यो राजसत्तमः ।।
एकदा मृगयासक्तो वसिष्ठाश्रममाययौ ।। १४ ।।
गच्छन्मार्गे ददर्शाऽसौ वैशाखे घर्मनिष्ठुरे ।।
भूयोभूयः कार्यमाणाञ्च्छिष्यांस्तस्य महात्मनः ।। १५ ।।
क्वचित्प्रपां प्रकुर्वन्ति छायामण्डपमेव च ।।
तटप्रपातं निस्तीर्य वापीं कुर्वन्ति निर्मलाम् ।। १६।।
सूपविष्टान्क्वचिद्वृक्षे व्यजनैर्वीजयन्ति च ।।
क्वचिद्दद्युर्हीक्षुदण्डान्क्वचिद्गन्धान्क्वचित्फलम्।।१७।।
मध्याह्ने छत्रदानं च सायाह्ने पानकस्य च ।।
क्वचिद्यच्छंति ताम्बूलं नेत्रे कर्पूरलेपनम् ।। १८ ।।
सुच्छाये च वने केचित्सुसंमृष्टांऽगणेषु च ।।
केचिदास्तरयंत्यद्धा वालुकानि हितानि च।। १९ ।।
कुर्वन्त्यांदोलिकां राजन्वृक्षशाखावलंबिनीम् ।।
के यूयमिति पप्रच्छ वासिष्ठा इति तेऽब्रुवन् ।। 2.7.11.२० ।।
किमेतदिति पप्रच्छ धर्मा वैशाखचोदिताः ।।
पुमर्थहेतव इमे क्रियन्तेऽस्माभिरञ्जसा ।। २१ ।।
वसिष्ठस्याऽऽज्ञया चेति तेऽबुवन्नृपसत्तमम् ।।
एतदाचरणे पुंसां किं फलं कस्तु तुष्यति ।।२२।।
एतद्विस्तार्य मे ब्रूत यूयं सम्यग्यथाश्रुतम् ।।
इति राज्ञा तु संपृष्टाः प्रत्यूचुस्ते महीपतिम् ।। २३ ।।
गुरोराज्ञाक्रमेणैव कुर्वतां पथिसत्क्रियाः ।।
नास्माकमवकाशोऽत्र गुरुं पृच्छ यथोचितम् ।। २४ ।।
स वेत्ति तत्त्वतो नूनं धर्मानेतान्महायशाः ।।
इति शिष्यैर्वसिष्ठस्य प्रत्युक्तस्तु द्रुतं ययौ ।।२५।।
वसिष्ठस्याऽश्रमं पुण्यं विद्यायोगोपबृंहितम् ।।
समायान्तं नृपं वीक्ष्य वसिष्ठः प्रीतमानसः ।।२६।।
आतिथ्यं विधिवच्चक्रे सानुगस्य महात्मनः।।
सूपविष्टः कृताऽतिथ्यः प्रीतः पप्रच्छ तं गुरुम् ।। २७ ।।
।। राजोवाच ।। ।।
मार्गे दृष्टं महाश्चर्यं त्वच्छिष्यैश्च कृतं शुभम् ।।
मया पृष्टं च तैर्नोक्तं क्रियमाणं शुभावहम् ।। २८ ।।
नास्माकमवकाशोऽत्र ह्येतद्धर्मप्रशंसने ।।
कर्तब्या च क्रियाऽस्माभिर्गुरुणा या च चोदिता ।। २९ ।।
गुरुं गच्छेति तैरुक्त आगतोऽहं तवांतिकम् ।।
मृगयाऽऽसक्तचित्तेन श्रांतेनातिथ्यमिच्छता ।। 2.7.11.३० ।।
दृष्टं मार्गे त्विदं पुण्यं तव शिष्यैश्च कारितम् ।।
जिज्ञासाऽऽसीत्ततः श्रोतुं धर्मानेतान्मुनीश्वर ।। ३१ ।।
त्वमादिरादिमान्धर्मान्समाचरसि वै यतः ।।
तान्धर्माञ्च्छ्रोतुकामाय शिष्याय प्रणताय च ।। ३२ ।।
श्रद्दधानाय मे ब्रूहि विस्तरान्मुनिपुंगव ।।
इतीक्ष्वाकुकुलीनेन राज्ञा पृष्टो महायशाः ।। ३३ ।।
मनसा तोषमापेदे सम्यक्पृष्टोऽधुनाऽमुना ।।
अहो व्यवसिता बुद्धी राजस्तेऽद्य सुशिक्षिता ।। ३४ ।।
यस्माद्विष्णुकथायां च तद्धर्माचरणेऽपि च ।।
मतिरात्यंतिकी जाता सुकृतं फलितं तव ।। ३५ ।।
इति संभाष्य राजानं जातहर्षस्तमब्रवीत् ।।
शृणु भूप प्रवक्ष्यामि यत्पृष्टोऽहं त्वयाधुना ।। ३६ ।।
यस्य श्रवणमात्रेण मुच्यते सर्वकिल्बिषैः ।।
सर्वधर्मान्परित्यज्य वर्तते विषयात्मकः ।।३७।।
वैशाखस्नाननिरतः स प्रियो मधुविद्विषः ।।
सांगान्धर्माननुष्ठाय वैशाखो येन नादृतः ।। ३८ ।।
स्नानदानार्चनैः पुण्यैस्तस्य दूरतरो हरिः ।।
अस्नाप्य चाऽप्यदत्त्वा च वैशाखो येन नीयते ।। ३९ ।।
कर्मणा स तु चण्डालो नाऽत्र कार्या विचारणा ।।
वैशाखोक्तैर्महाधर्मैर्येन चाऽऽराधितो हरिः ।। 2.7.11.४० ।।
तैश्च तोषं समायाति प्रददाति समीहितम् ।।
लक्ष्मीभर्त्ता जगन्नाथो ह्यशेषाघौघनाशनः ।। ४१ ।।
धर्मैः सूक्ष्मैश्च प्रीणाति न प्रयासैर्धनैरपि ।।
भक्त्या संपूजितो विष्णुः प्रददाति समीहितम् ।। ४२ ।।
तस्माद्राजन्सदा भक्तिः कर्तव्या मधुविद्विषः ।।
जलेनाऽपि जगन्नाथः पूजितः क्लेशहा हरिः ।। ४३ ।।
परितोषं व्रजत्याशु तृषार्तः सलिलैर्यथा ।।
महदप्यल्पदं कर्म तथा ह्यल्पं च भूरिदम् ।। ४४ ।।
कर्मणाऽल्पत्वभूरित्वे न हेतू महदल्पके ।।
किन्तु कर्मस्वरूपं च गहना कर्मणो गतिः ।। ४५ ।।
वैशाखोक्ता इमे धर्माः स्वल्पाऽऽयासकृता अपि ।।
बहुव्ययविनाशाश्च विष्णोः प्रीतिकरा शुभाः ।। ४६ ।।
तस्मात्त्वमपि भूपाल वैशाखोक्तान्समाचर।।
त्वद्राष्ट्रीयैर्जनैः सर्वैः कारयेमाञ्च्छुभावहान्।।४७।।
न करोति च यो धर्मान्वैशाखोक्तान्नराधमः ।।
बहुधा शिष्यमाणोऽपि स दण्ड्यस्तव भूपते ।।४८।।
इत्यावश्यकतां सम्यक्छास्त्रैर्व्युत्पाद्य तस्य च ।।
पश्चाद्वैशाखनिर्दिष्टान्धर्मान्प्रोवाच सर्वशः।।४९।।
श्रुत्वा तान्सकलान्धर्मान्गुरुं संपूज्य भक्तितः ।।
स राजा गृहमागत्य सर्वान्धर्मांश्चकार ह ।। 2.7.11.५० ।।
भक्तिमान्केशवे राजन्देवदेवे निरञ्जने ।।
नाऽन्यं पश्यति देवेशात्पद्मनाभान्महीपतिः ।। ५१ ।।
भेरीमुद्वाह्य मातंगं स्वराष्ट्रेऽघोषयद्भटैः ।।
अष्टवर्षाधिको मर्त्यो ह्यशीतिर्नहि पूर्यते ।। ५२ ।।
प्रातर्न स्नाति मेषस्थे सूर्ये सर्वोऽपि यो जनः ।।
स मे दंड्यश्च वध्यश्च निर्यास्यो विषयाद्ध्रुवम् ।। ५३ ।।
पिता वा यदि वा पुत्रो भार्या वाऽथ सुहृज्जनः ।।
वैशाखधर्महीनश्च निर्ग्राह्यो दस्युवन्मया ।। ५४ ।।
दातव्यं विप्रमुख्येभ्यः स्नात्वा प्रातर्जले शुभे ।।
प्रपादानादिधर्मांश्च कुरुध्वं शक्तितोऽनघाः ।। ५५ ।।
विप्रं च धर्मवक्तारं ग्रामेग्रामे न्यवेशयत् ।।
पञ्चानामपि ग्रामाणामकरोदधिकारिणम् ।। ५६ ।।
दण्डार्थं त्यक्तधर्माणां दशवाजिनिषेवितम् ।।
एवं प्रवृत्तः सर्वत्र सार्वभौमस्य शासनात् ।। ५७ ।।
प्रवृद्धो धर्मवृक्षोयं सर्वदेशेषु विस्तरात् ।।
ये केचिन्निधनं यांति भूपालविषये नराः ।। ५८ ।।
प्रमादाच्च नृपश्रेष्ठ ते यांति हरिमन्दिरम् ।।
अवश्यं वैष्णवो लोकः प्राप्यते मानवैर्द्रुतम् ।। ५९ ।।
व्याजेनाऽपि सकृत्स्नातः प्रातर्मेषगते रवौ ।।
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ।। 2.7.11.६० ।।
न प्राप्नोति यमं धर्मं सकृद्वैशाखस्नानतः ।।
वैलेख्यमगमद्राजा रविसूनुस्तदा नृप ।। ६१ ।।
लेख्यकर्मणि विश्रान्तश्चित्रगुप्तोऽभवत्तदा ।।
मार्जितानि च लेख्यानि पुरा पापोद्भवानि च ।। ६२ ।।
गच्छद्भिर्वैष्णवं लोकं स्वकर्मस्थैर्जनैः क्षणात् ।।
शून्यास्तु नरकाः सर्वे पापिप्राणिविवर्जिताः ।। ६३ ।।
भग्नयानोऽभवन्मार्गो वैशाखस्य प्रभावतः ।।
सर्वेऽपि विमलाकारा जना यान्ति हरेः पदम् ।। ६४ ।।
दिवौकसां तु ये लोकाः शून्याः सर्वे तथाऽभवन् ।।
शून्ये त्रिविष्टपे जाते शून्येषु नर केषु च ।। ६५ ।।
नारदो धर्मराजानं गत्वा चेदमुवाच ह ।।
नाक्रन्दः श्रूयते राजन्प्राक्च्छ्रुतो नरके यथा ।। ६६ ।।
तथा न क्रियते लेख्यं किंचिद्दुष्कृतकर्मणाम्।।
चित्रगुप्तो मुनिरिव स्थितोऽयं मौनसंस्थितः ।। ६७ ।।
कारणं ब्रूहि राजेंद्र न यान्ति तव मन्दिरम् ।।
मनुष्याः पापकर्माणो मायादम्भविवर्धिताः ।। ६८ ।।
एवमुक्ते तु वचने नारदेन महात्मना ।।
प्राह वैवस्वतो राजा किंचिद्दैन्यसमन्वितः ।। ६९ ।।
योऽयं नारद भूपालः पृथिव्यां सांप्रतं स्थितः ।।
सोऽतिभक्तो हृषीकेशे पुराणपुरुषोत्तमे ।। 2.7.11.७० ।।
प्रबोधयति वैशाखधर्मे भेरीस्वनेन च ।।
अष्टवर्षाधिको मर्त्यो ह्यशीतिर्न हि पूर्यते ।। ७१ ।।
यो वै ह्यकृतवैशाखः स मे दण्ड्यो न संशयः ।।
तद्भयाद्धि जनाः सर्वे नोल्लंघंति कदाचन ।। ७२ ।।
गच्छंति वैष्णवं धाम कर्मणा तेन नारद ।।
वैशाखसेवनाल्लोका यास्यंति हरिमंदिरम् ।। ७३ ।।
तेन राज्ञा मुनिश्रेष्ठ मार्गो लुप्तो ममाऽधुना ।।
कृता हि नरकाः शून्या लोकाश्चापि दिवौकसाम् ।। ७४ ।।
विश्रांतो लेखको लेखे लिखितं मार्जितं जनैः ।।
वैशाखमासधर्मस्य माहात्म्यं त्वीदृशं मुने ।। ७५ ।।
ब्रह्महत्यादिपापानि विमुक्तानि जनैर्द्विज ।।
कृत्वा वैशाखकृत्यानि यांति विष्णोः परं पदम् ।। ७६ ।।
सोऽहं काष्ठसमो जातो न कश्चिन्मम गोचरः ।।
युद्धं कृत्वा तु तं हन्मि सर्वथाऽद्य महाबलम् ।। ७७ ।।
अकृत्वा स्वामिकार्यं तु निर्व्यापारो यदि स्थितः ।।
तस्य वित्तं समश्नाति स याति नरकं धुवम् ।। ।। ७८ ।।
यदि देवादवध्योऽयं तदा ब्रह्माणमेत्य च ।।
निवेद्य तस्मै तत्सर्वं पश्चात्स्वस्थस्थितिर्भवम् ।। ७९ ।।
इत्युक्त्वा द्विजमामंत्र्य सानुगः प्रययौ भुवम् ।।
स कालो महिषारूढो दण्डमुद्यम्य भीषणम् ।। 2.7.11.८० ।।
मृत्युरोगजराद्यैश्च पार्षदैश्च महोत्कटः ।।
पञ्चाशत्कोटिसंख्याकैर्यमदूतैर्वृतस्ततः ।। ८१ ।।
स तूर्णं तस्य राजर्षे रुरोध सकलां पुरीम् ।।
शंखं दध्मौ महाघोरं सर्वलोकभयंकरम् ।। ८२ ।।
तच्छुत्वा स तु राजर्षि र्ज्ञात्वा वैवस्वतं यमम् ।।
स सज्जीकृतसर्वस्वः पत्तनान्निर्ययौ रुषा ।। ८३ ।।
तयोर्युद्धमभूत्तत्र भीषणं रोमहर्षणम् ।।
मृत्युं कालं तथा रोगं यमं दूतपतिं तथा ।। ८४ ।।
जित्वा क्षणेन राजर्षिर्द्रावयामास रोषतः ।।
ततः क्रुद्धो यमो राजा स्वयमभ्येत्य तं रुषा ।। ८५ ।।
युयोध बहुभिर्बाणैः सिंहनादं चकार ह ।।
चकर्त राजा तस्याऽपि कार्मुकं विशिखैस्त्रिभिः ।। ८६ ।।
पुनश्चर्मासिमादाय यमो हंतुमथाऽऽगमत् ।।
तं दृष्ट्वा तु नृपः क्रुद्धः पुनश्छित्त्वाऽसिचर्मणी ।। ८७ ।।
निचखान ललाटे च शरं कालोरगप्रभम् ।।
यमस्तेनाऽऽहतः क्रुद्धस्ततो दंडमुपाददे ।।
ब्रह्मास्त्रेण च संमंत्र्य दण्डं तस्मै मुमोच ह ।। ८८ ।।
हाहाकारो महानासीज्जनानां पश्यतां तदा ।।
तदा विष्णुः स्वभक्तस्य रक्षायै प्राहिणोदरि ।। ८९ ।।
विष्णुमुक्तं तदा चक्रं शीघ्रमागत्य तद्रणे ।।
यमदण्डेन संयुध्य तद्ब्रह्मास्त्रं निवार्य च ।।2.7.11.९०।।
यमं हंतुमथारेभे सहस्रारं महाद्भुतम् ।।
देवभक्तस्ततो भीतस्तदाऽस्तौच्चक्रमञ्जसा ।।९१।।
सहस्रार नमस्तेऽस्तु विष्णुपाणिविभूषण ।।
त्वं सर्वलोकरक्षायै हरिणा च धृतं पुरा ।। ९२ ।।
त्वां याचेऽद्य यमं त्रातुं विष्णुभक्तं महाबलम् ।। ९३ ।।
नृणां देवद्रुहां कालस्त्वमेव हि न चाऽपरः।।
तस्मादेनं यमं रक्ष कृपां कुरु जगत्पते ।। ९४ ।।
नृपेणैवं स्तुतं चक्रं यमं हित्वा नृपांतिकम् ।।
पुनर्ययौ महाराज देवानां पश्यतां दिवि ।। ९५ ।।
ततो यमोऽतिनिर्विण्णो ब्रह्मणः सदनं ययौ ।।
स ददर्श समासीनं मूर्तामूर्तजनैर्वृतम् ।।९६।।
धुवाश्रयं जगद्बीजं सर्वलोकपितामहम्।।
उपास्यमानं विबुधैर्लोकपालैर्दिगीश्वरैः ।। ९७ ।।
इतिहासपुराणाद्यैर्देवैर्विग्रहसंस्थितैः ।।
मूर्तिमद्भिः समुद्रैश्च नदीभिश्च सरोवरैः ।। ९८ ।।
देहवद्भिस्तथा वृक्षैरश्वत्थाद्यैरशेषितैः ।।
वापीकूपतडागैश्च मूर्तिमद्भिश्च पर्वतैः ।। ९९ ।।
अहोरात्रैस्तथा पक्षैर्मासैः संवत्सरैस्तथा ।।
कलाकाष्ठा निमेषैश्च ऋतुभिश्चाऽयनैर्युगैः ।। 2.7.11.१०० ।।
संकल्पैश्च विकल्पैश्च निमिषोन्मेषणैस्तथा ।।
ऋक्षैर्योगैश्च करणैः पूर्णिमाभिः सुसंक्षयैः ।। १०१ ।।
सुखैर्दुःखैर्भयैश्चैव लाभाऽलाभैर्जयाजयैः।।
सत्त्वेन रजसा चैव तमसा च समन्वितम् ।।१०२।।
शांतमूढाऽतिप्रौढैश्च विकारैः प्राकृतैरपि ।।
वायुना देवदेवेन श्लेष्मपित्तादिभिर्वृतम् ।। १०३ ।।
तेषां मध्येऽविशत्सौरिः सव्रीडा च वधूर्यथा ।।
विलोकयन्धरापृष्ठं म्लानवक्त्रं व्यदर्शयत् ।।१०४।।
संप्रविष्टं यमं दृष्ट्वा सकाशस्थं सहानुगम् ।।
विस्मितास्ते मिथः प्रोचुः किमर्थं भास्करिस्त्विह ।। १०५ ।।
संप्राप्तो लोककर्तारं द्रष्टुं देवं पितामहम् ।।
निर्व्यापारः क्षणमपि योऽयं नास्ति रवेः सुतः ।। १०६ ।।
सोऽयमभ्यागतः कस्मात्कच्चित्क्षेमं दिवौकसाम् ।।
आश्चर्याऽतिशयोऽयं च संमार्जितपटस्त्वयम् ।।१०७।।
लेखकस्तमनुप्राप्तो दैन्येन महताऽन्वितः ।।
न कदाचित्पटो ह्यस्य मार्जितो धर्मभीरुणा ।।१०८।।
यन्न दृष्टं श्रुतं वाऽपि तदिहाऽद्य प्रपद्यते ।।
एवमुच्चरतां तेषां भूतानां भूतशासनः ।।
निष्पपाताऽग्रतो भूमौ ब्रह्मणो रविनंदनः ।।१०९।।
कृत्तमूलो यथा शाखी त्राहित्राहीति वै रुदन्।।
परिभूतोऽस्मि देवेश संमार्जितपटःकृतः ।।2.7.11.११०।।
त्वयि नाथे न विफलं पश्यामि कमलासन ।। १११ ।।
एवमुक्त्वा हि निश्चेष्टो बभूव नृपसत्तम ।।
ततः कोलाहलः शब्दः सभायां समजायत ।। ।। ११२ ।।
यो हि खेदयते मर्त्यान्सर्वान्स्थावरजंगमान् ।।
स वै रुदति दुःखार्तः कस्माद्वैवस्वतो यमः ।। १३४।।
जनसंतापकर्त्ता यः सोचिराद्यात्यशोभनम् ।।
नहि दुष्कृतकर्त्ता हि नरः प्राप्नोति शोभनम् ।। ११४ ।।
ततो निवारयामास वायुस्तेषां वचस्तदा ।।
लोकानां समवेतानां मतं ज्ञात्वा स वेधसः ।। ११५ ।।
निवार्य लोकान्मार्तंडि शनैरुत्थापयन्मरुत् ।।
भुजाभ्यां शालपीनाभ्यां लोकसूत्र उदारधीः ।।११६।।
विह्वलं तं परायत्तमासने संन्यवेशयत् ।।
आसनस्थमुवाचेदं व्योमसूनू रवेः सुतम् ।। ११७ ।।
केन त्वमभिभूतोऽसि केन स्थानान्निवारितः ।।
केनाऽयं मार्जितो देव पटो लेखपटस्तव ।।११८।।
ब्रूहि सर्वमशेषेण कुतो हैतोस्त्वमागतः ।।
यः प्रभुस्तात सर्वेषां स ते कर्ता ममाऽपि च ।।
अपि कस्माच्च मार्तंडे दुःखं हृदयसंस्थितम् ।।११९।।
स एवमुक्तः श्वसनेन सत्यमादित्यसूनुर्वचनं बभाषे ।।
विलोक्य वक्त्रं कुशकेतुसूनोः सगद्गदं चेदमहोऽतिदीनम् ।। 2.7.11.१२० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे कीर्तिमद्विजयवर्णनंनामैकादशोऽध्यायः ।। ११ ।।