स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search

।। मैथिल उवाच ।। ।।
यत्कामपत्नीचरितमशून्यशयनं व्रतम् ।।
देवोपदिष्टं तस्याऽस्य विधानं ब्रूहि भूसुर ।। १ ।।
किं दानं को विधिस्तस्य पूजनं किं फलं तथा ।।
एतदाचक्ष्व भूदेव श्रोतुं कौतूहलं हि मे ।। २ ।।
।। श्रुतदेव उवाच ।। ।।
शृणु भूयः प्रवक्ष्यामि व्रतं पापप्रणाशनम् ।।
अशून्यशयनं नाम रमायै हरिणोदितम् ।। ३ ।।
येन चीर्णेन देवेशो जीमूताऽऽभः प्रसीदति ।।
लक्ष्मीभर्ता जगन्नाथः समस्ताऽघौघनाशनः ।। ४ ।।
अकृत्वा यस्त्विदं राजन्व्रतं पातकनाशनम् ।।
गार्हस्थ्यमनुवर्तेत तस्येदं निष्फलं भवेत् ।। ५ ।।
श्रावणे शुक्लपक्षे तु द्वितीयायां महीपते ।।
अशून्यशयनाख्यं तद्ग्राह्यं व्रतमनुत्तमम् ।।६।।
चातुर्मास्ये तु संप्राप्ते हविष्याशी भवेन्नरः ।।
चतुर्भिः पारणं मासैः सम्यङ्निष्पाद्यते प्रभो ।।७।।
लक्ष्मीयुक्तो जगन्नाथः पूजनीयो जनार्दनः ।।
पारणे दिवसे प्राप्ते भक्ष्यं चैव चतुर्विधम्।। ८ ।।
उपायनं च दातव्यं ब्राह्मणाय कुटुंबिने ।।
सौवर्णीं राजतीं चापि मूर्तिं कुर्यान्मनोरमाम् ।। ९ ।।
पीताम्बरधरां दिव्यां वनमालाविभूषिताम् ।।
शुक्लपुष्पैः सुगंधैश्च पूजयेत्पुरुषोत्तमम् ।। 2.7.10.१० ।।
शय्यादानैर्वस्त्रदानैर्विप्राणां भोजनैस्तथा ।।
दम्पत्योर्भोजनैश्चैव दक्षिणाभिः प्रपूजयेत् ।। ११ ।।
एवं तु चतुरो मासान्पूजयित्वा जनार्दनम् ।।
मार्गशीर्षादिमासेषु पूजयेत्पूर्ववद्धरिम्।। १२ ।।
रक्रवर्णं हरिं ध्यायेद्रुक्मिणीसहितं तथा ।।
चैत्रादींश्चतुरो मासानेवं संपूजयेत्ततः ।। १३ ।।
भूम्या सह स्थितं देवमर्चयेद्भक्तिपूर्वकम् ।।
सनंदनाद्यैर्मुनिभिः स्तूयमानमकल्मषम् ।। १४ ।।
आषाढस्य च मासस्य द्वितीयायां समापयेत् ।।
अष्टाक्षरेण मंत्रेण जुहुयादनले शुभे ।। १५ ।।
मार्गशीर्षादिमासानां पारणे भूमिपालक ।।
जुहुयाद्विष्णुगायत्र्या चैत्रादीनां निबोधय ।। १६ ।।
पौरुषेण च मंत्रेण जुहुयादनले शुभे ।।
पञ्चामृतं पायसं च ह्यपूपं घृतपाचितम् ।। १७ ।।
एवं क्रमेण द्रव्याणि प्रतिमासु निबोधय ।।
सौवर्णी प्रतिमां दद्याल्लक्ष्मीनारायणस्य च ।। १८ ।।
सौवर्णीं मध्यमे दद्यात्कृष्णस्य परमात्मनः ।।
राजतीं त्वंतिमे दद्याद्वराहस्य महात्मनः ।। १९ ।।
ब्राह्मणान्भोजयेत्पश्चान्नामभिः केशवादिभिः ।।
वस्त्रयुग्मैरलंकारैर्यथावित्तानुसारतः ।। 2.7.10.२० ।।
अर्चयित्वा ततो दद्यादपूपान्घृतपाचितान् ।।
उपायनार्थे विप्रेभ्यो द्वादशभ्यो निवेदयेत् ।। २१ ।।
आचार्याय ततो दद्यात्प्रतिमां पूर्वकल्पिताम् ।।
शय्यां संकल्पितां पूर्णां सर्वालंकारभूषिताम् ।। २२ ।।
तस्यामभ्यर्च्य विधिवल्लक्ष्मीनारायणं परम् ।।
कांस्यपात्रेण सहितामपूपैर्बहुभिस्तथा ।। २३ ।।
वस्त्रालंकारसहितां दक्षिणाभिस्तथैव च ।।
ब्राह्मणाय विशिष्टाय वैष्णवाय कुटुंबिने ।। ।। २४ ।।
दातव्या विधिवत्पूज्य ब्राह्मणांश्चापि भोजयेत् ।।
।। दानमन्त्रः ।। ।।
लक्ष्म्या अशून्यं शयनं यथा तव जनार्दन ।।२५।।
शय्या ममाप्यशून्या स्याद्दानेनाऽनेन केशव ।।
एवं सम्प्रार्थ्य देवेशं स्वयं भोजनमाचरेत् ।। २६ ।।
पुरुषो वा सती वाऽपि विधवा वा समाचरेत् ।।
अशून्यशयनार्थं च कर्तव्यं व्रतमुत्तमम् ।। २७ ।।
एवं तव मया ख्यातं विस्तरान्नृपसत्तम ।।
सुप्रसन्ने जगन्नाथे भवेयुर्विविधाः प्रजाः ।। २८ ।।
तस्मिंस्तुष्टे तु देवेशे देवानामपि दुर्लभाः ।।
तस्मात्सर्वप्रयत्नेन व्रतमेतत्समाचरेत् ।। २९ ।।
अवश्यं गन्तुकामेन तद्विष्णोः परमं पदम् ।।
एवमुक्तं मया सर्वं किमन्यच्छ्रोतुमिच्छसि ।। 2.7.10.३० ।।
इत्युक्तस्तेन राजर्षिः पुनरप्याह तं मुनिम् ।।
वैशाखे छत्रदानस्य माहात्म्यं विस्तराद्वद ।। ३१ ।।
शृण्वतोऽपि न तृप्तिर्मे वैशाखोक्ताञ्च्छुभावहान् ।। ३२ ।।
इति तद्वचनं श्रुत्वा यशस्यं पुण्यवर्द्धनम् ।।
प्रत्युवाच महाभागं श्रुतदेवो महायशाः ।।३३ ।।
।। श्रुतदेव उवाच ।। ।।
वैशाखे घर्मतप्तानां मानवानां महात्मनाम् ।।
ये कुर्वन्त्यातपत्राणं तेषां पुण्यमनंतकम् ।। ३४ ।।
अत्रैवोदाहरन्तीममिति हासं पुरातनम् ।।
वैशाखधर्ममुद्दिश्य पुरा कृतयुगे कृतम् ।। ३५ ।।
वङ्गदेशे पुरा कश्चिद्धेमकान्त इति श्रुतः ।।
कुशकेतोः सुतो धीमान्राजा शस्त्रभृतां वरः ।।
एकदा मृगयाऽऽसक्तो गहनं वनमाविशत् ।। ३६ ।।
तत्र नानाविधान्हत्वा मृगान्क्रोडादिकान्बहून्।।
श्रांतो मध्याह्नवेलायां मुनीनामाश्रमं ययौ ।। ३७ ।।
तदा शतर्चिनोनाम ऋषयः शंसितव्रताः ।।
समाधिस्था न जानन्ति बाह्यकृत्यं च किंचन ।। ३८ ।।
तान्दृष्ट्वा निश्चलान्विप्रान्क्रुद्धो हंतुं मनो दधे ।।
भूपं निवारयामास शिष्याणामयुतं तदा ।। ३९ ।।
दुर्बुद्ध शृणु नो वाक्यं गुरवस्तु समाधिगाः ।।
नो जानन्ति बहिःकृत्यं तस्मात्क्रोधं न चार्हसि ।। 2.7.10.४० ।।
ततः शिष्यानुवाचेदं वचनं क्रोधविह्वलः ।।
यूयं कुरुध्वमातिथ्यमध्वश्रांतस्य मे द्विजाः।। ४१ ।।
एवमुक्ताश्च भूपेन शिष्या ऊचुस्तदा नृपम् ।।
नाऽऽज्ञप्ता गुरुभिर्भूप वयं भिक्षाशिनः पुनः ।। ४२ ।।
गुरुतन्त्राः कथं कर्तुमातिथ्यं ते वयं क्षमाः ।।
प्रत्याख्यातो नृपः शिष्यैस्तान्हंतुं धनुराददे ।। ४३ ।।
मृगदस्युभयादिभ्यो बहुधा रक्षिता मया ।।
ते मामेवोपशिक्षंति मया दत्तप्रतिग्रहाः ।। ४४ ।।
एते मां न विजानंति कृतघ्ना भूरिमानिनः ।।
घ्नतोपि मे न दोषः स्यादेतान्वै ह्याततायिनः ।। ४५ ।।
एवं विक्रुद्धमानः सञ्छरान्मुंचञ्च्छरासनात् ।।
तान्विद्रुताननुद्रुत्य जघ्ने शिष्यशतत्रयम् ।।४६।।
दुद्रुवुर्भयतः सर्वे विहायाऽऽश्रममञ्जसा ।।
विद्रावितेषु शिष्येषु बलादाश्रमसंस्थितान् ।। ४७ ।।
संभाराञ्जगृहुः शीघ्रं सैनिकाः पापबुद्धयः ।।
यथेष्टं भोजनं चक्रुर्नृपेणैवानुमोदिताः ।। ४८ ।।
ततः सेनाऽऽवृतो राजा पुरीमागाद्दिनात्यये ।।
कुशकेतुस्ततः श्रुत्वा तनयस्य विचेष्टितम्।। ४९ ।।
पुरान्निर्यातयामास गर्हयन्गर्हयन्सुतम् ।।
राज्यानर्हं क्षमाहीनं स्वदेशादपि भूमिप ।। 2.7.10.५० ।।
पित्रा त्यक्तस्ततो राजा हेमकांतोऽतिविह्वलः ।।
वनं विवेश गहनं हत्याभिश्च सुपीडितः ।। ५१ ।।
बहुकालमवासीच्च गह्वरे निर्जने वने ।।
आहारं कल्पयामास व्याधधर्ममुपाश्रितः ।। ५२ ।।
न क्वाऽपि स्थितिमापेदे हत्ययाऽभिद्रुतो भृशम् ।।
अष्टाविंशतिवर्षाणि गतान्यस्य दुरात्मनः ।। ५३ ।।
तीर्थयात्राप्रसंगेन त्रितो नाम महामुनिः ।।
तस्मिन्नरण्ये वैशाखे रवौ मध्यंदिने गते ।। ५४ ।।
गच्छन्नातपविक्लांतस्तृषया चाऽपि पीडितः ।।
क्वचिद्वृक्षविहीने तु प्रदेशे मूर्च्छितोऽभवत् ।। ५५ ।।
दैवाद्दृष्ट्वा हेमकांतस्त्रितं नाम महामुनिम् ।।
तृषार्तं मूर्छितं श्रांतं कृपां चक्रे नृपाधमः ।।५६।।
ब्रह्मपत्रैस्तदा छत्रं कृत्वा चाऽऽतपवारणम्।।
मुनेर्जग्राह शिरसि ह्यलाबुस्थं जलं ददौ ।। ५७ ।।
लब्धसंज्ञोऽभवत्तेन ह्युपचारेण वै मुनिः ।।
पत्रच्छत्रं क्षत्रदत्तं गृहीत्वा गतविक्लमः ।। ५८ ।।
ग्रामं क्वचिच्छनैः प्राप्य किञ्चिदाप्यायितेन्द्रियः ।।
तेन पुण्यप्रभावेन ब्रह्महत्याशतत्रयम् ।। ५९ ।।
विनष्टमभवत्तस्य क्षणादेव महात्मनः ।।
ततो विस्मयमापन्नो हेमकान्तो महारथः ।।2.7.10.६०।।
बहुधा पीड्यमानस्य ब्रह्महत्याः कथं गताः ।।
केनाऽपि निष्कृता ह्येताः क्व गताः केन हेतुना ।।६१।।
इत्येवं चिन्तयामास ब्रह्महत्याविमोचनम्।।
एवं चाऽज्ञस्थिते राज्ञि यमदूता अथाऽऽगमन्।।६२।।
नेतुमेनं महात्मानं हेमकांतं वने स्थितम् ।।
ग्रहणीं जनयामासुः प्राणान्हर्तुं महात्मनः।।६३।।
तदा प्राणवियोगार्तः पुरुषांस्त्रीन्ददर्श ह ।।
यमदूतान्महाघोरानूर्ध्वकेशान्भयंकरान् ।। ६४ ।।
चिन्तयानः स्वकर्माणि तूष्णीमासीत्तदा नृपः ।।
छत्रदानप्रभावेन जाता विष्णुस्मृतिर्नृप ।। ६५ ।।
तेन स्मृतो महाविष्णुर्विष्वक्सेन स्वमंत्रिणम् ।।
उवाच तूर्णं त्वं गच्छ यमदूतान्निवारय ।।६६।।
वैशाखधर्मनिरतं हेमकांतं तु पालय ।।
निष्पापमेनं मद्भक्तं पित्रे देहि पुरं गतः ।। ६७ ।।
मदीरितेन वाक्येन कुशकेतुं च बोधय ।।
सर्वधर्म्मोज्झितो वापि ब्रह्मचर्यादिवर्जितः ।। ६८ ।।
वैशाखधर्मनिरतो मत्प्रियः स्यान्न संशयः।।
कृतागाश्चाऽपि त्वत्पुत्रो मुनित्राणपरायणः ।। ६९ ।।
वैशाखे छत्रदानेन निष्पापो नाऽत्र संशयः ।।
तेन पुण्यप्रभावेन शांतो दान्तश्चिरायुषः ।। 2.7.10.७० ।।
शौर्योदार्यगुणोपेतस्त्वत्समोऽयं गुणैरपि ।।
तस्मादेनं राज्यभारे संस्थापय महाबलम् ।। ७१ ।।
विष्णुनैव समाज्ञप्तमित्यादिश्य नृपोत्तमम् ।।
पितुर्वंशे हेमकांतं स्थाप्याऽऽयाहि च मां पुनः ।। ७२ ।।
इत्यादिष्टो भगवता विष्वक्सेनो महाबलः ।।
हेमकान्तं समासाद्य यमदूतान्निवार्य च ।। ७३ ।।
पाणिना शंतमेनैव पस्पर्शांगेषु भूमिपम् ।।
भगवद्भक्तसंस्पर्शाद्धतव्याधिः क्षणादभूत् ।। ७४ ।।
विष्वक्सेनस्ततस्तेन सह तस्य पुरीं ययौ ।।
तं दृष्ट्वा विस्मितो भूत्वा कुशकेतुर्महाप्रभुः ।। ७५ ।।
ननाम शिरसा भक्त्या दण्डवत्पतितो भुवि ।।
गृहं प्रवेशयामास पार्षदं परमात्मनः ।। ७६ ।।
स्तुत्वा च विविधैः स्तोत्रैः पूजयामास वैभवैः ।।
तस्मै प्रीतमनाः प्राह विष्वक्सेनो महाबलः ।। ।। ७७ ।।
हेमकान्तं समुद्दिश्य यदुक्तं विष्णुना पुरा ।।
तच्छ्रुत्वा कुशकेतुश्च पुत्रं राज्ये निवेश्य च ।। ७८ ।।
विष्वक्सेनाभ्यनुज्ञातः सभार्यो वनमाविशत् ।।
विष्वक्सेनो हेमकान्तमनुमंत्र्याभिपूज्य च ।। ७९ ।।
श्वेतद्वीपं ययौ धीमान्विष्णुपार्श्वे महामनाः ।।
हेमकांतस्ततो राजा वैशाखोक्ताञ्च्छुभावहान।।2.7.10.८०।।
विष्णुप्रीतिकरान्धर्मान्प्रतिवर्षं चकार ह ।।
ब्रह्मण्यो धर्ममार्गस्थः शान्तो दान्तो जितेन्द्रियः ।। ८१ ।।
दयालुः सर्वभूतेषु सर्वयज्ञेषु दीक्षितः ।।
प्रवृद्धः सर्वसम्पद्भिः पुत्रपौत्रादिभिर्वृतः ।। ८२ ।।
भुक्त्वा भोगान्समस्तांश्च विष्णुलोकमवाप्तवान् ।। ८३ ।।
नेक्षे तु वैशाखसमांश्च धर्मान्सुखप्रयत्नान्बहुपुण्यहेतून् ।।
पापेन्धनाद्यग्निनिभान्सुलभ्यान्धर्मादिमोक्षान्तपुमर्थहेतून् ।। ८४ ।।
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां द्वितीये वैष्णवखंडे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे छत्रदानप्रशंसने हेमकांतस्य ब्रह्महत्यादि पापशमनवर्णनं नाम दशमोऽध्यायः ।। १० ।।