स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search

।। नारद उवाच ।। ।।
राजा तदद्भुतं दृष्ट्वा मैथिलो धर्मवित्तमः ।।
कृताञ्जलिः सुखासीनं विस्मितो वाक्यमब्रवीत् ।। ।।१।।
।। मैथिल उवाच ।। ।।
दृष्टमेतन्महाश्चर्यं साधूनां चरितं तथा ।।
येन धर्मेण मुक्तोऽभूद्राजा चेक्ष्वाकुनन्दनः ।।२ ।।
तं धर्मं विस्तरेणैव श्रोतुं कौतूहलं हि मे ।।
मह्यं श्रद्धावते विद्वत्कृपया विस्तराद्वद ।। ३ ।।
इति राज्ञा सुसंपृष्टः श्रुतदेवो महामनाः ।।
साधुसाध्विति संभाष्य व्याजहार नृपोत्तमम् ।। ४ ।।
।। श्रुतदेव उवाच ।। ।।
सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम ।।
वासुदेवप्रियान्धर्माञ्छ्रोतुं यस्मान्मतिस्तव ।। ५ ।।
बहुजन्मार्जितं पुण्यं विना कस्यापि देहिनः ।।
वासुदेवकथालापे मतिनैवोपजायते ।। ६ ।।
यूने राजाधिराजाय जातेयं मतिरीदृशी ।।
शुद्धं भागवतं मन्ये तेन त्वां साधुसत्तमम् ।। ७ ।।
तस्मात्तुभ्यं ब्रुवे सौम्य धर्मान्भागवताञ्च्छुभान् ।।
याञ्ज्ञात्वा मुच्यते जंतुर्जन्मसंसारबन्धनात्।। ८ ।।
यथा शौचं यथा स्नानं यथा सन्ध्या च तर्पणम् ।।
अग्निहोत्रं यथा श्राद्धं तथा वैशाखसत्क्रियाः ।। ९ ।।
वैशाखे माधवे धर्मानकृत्वा नोर्ध्वगो भवेत् ।।
न वैशाखसमो धर्मो धर्मजातेषु विद्यते ।। 2.7.7.१० ।।
संत्येव बहवो धर्माः प्रजाश्चाराजका इव ।।
उपद्रवैश्च लुप्यंति नात्र कार्या विचारणा ।। ११ ।।
सुलभाः सकला धर्माः कर्तुं वैशाखचोदिताः ।।
उदकुम्भं प्रपादानं पथिच्छायादिनिर्मितिः ।। १२ ।।
उपानत्पादुकादानं छत्रव्यजनयोस्तथा।।
तिलयुक्तमधोर्दानं गोरसानां श्रमापहम्।। १३ ।।
वापीकूपतडागादिकरणं पथिकाश्रयम्।।
नारिकेलेक्षुकर्पूरकस्तूरीदानमेव च ।।१४।।
गन्धानुलेपनं शय्या खट्वा दानं तथैव च ।।
तथा चूतफलं रम्यमुर्वारुक रसायनम् ।। १५ ।।
दानं दमनपुष्पाणां तथा सायं गुडोदकम् ।।
चित्राण्यन्नानि पूर्णायां दध्यन्नं प्रत्यहं तथा ।। १६ ।।
तांबूलस्य सदा दानं चैत्रदर्शे करीरकम् ।।
रवावनुदिते सूर्ये प्रातः स्नानं दिनेदिने ।। १७ ।।
मधुसूदनपूजा च कथायाः श्रवणं तथा ।।
अभ्यंगवर्जने चैव तथा वै पत्रभोजनम् ।।१८।।
मध्येमध्ये श्रमार्तानां वीजनं व्यजनेन च ।।
सुगंधैः कोमलैः पुष्पैः प्रत्यहं पूजनं हरेः ।।१९।।
फलं दध्यन्न नैवेद्यं धूपदीपौ दिनेदिने ।।
गोग्रासं वृषपत्नीनां द्विजपादावनेजनम् ।। 2.7.7.२० ।।
गुडनागरदानं च धात्रीपिष्टप्रदापनम् ।।
पथिकानां प्रश्रयं च दानं तन्दुल शाकयोः ।।
एते धर्माः प्रशस्ता हि वैशाखे माधवप्रिये ।। २१ ।।
तथा च विष्णौः कुसुमार्पणं हरेः पूजा च कालोचित पल्लवाद्यैः ।।
दध्यन्ननैवेद्यनिवेदनं च समस्तपापौघ विनाशहेतुः ।। २२ ।।
नारी पुष्पैर्माधवं नार्चयेद्या कालोत्पन्नैर्मन्दिरे वा गृहे वा ।।
पुत्रं सौख्यं क्वाऽपि नाप्नोति हंति चायुर्भर्तुः स्वात्मनो वा महात्मन् ।। २३ ।।
रमासहाये माधवे मासि विष्णौ परीक्षायै धर्मसेतोः प्रजानाम् ।।
गृहं याते मुनिभिर्दैवतैश्च काले पुष्पैर्नार्चयेद्यस्तु मूढः ।। २४ ।।
स मूढात्मा रौरवं प्राप्य पश्चाद्यायाद्योनिं राक्षसीं पञ्चवारम् ।।
जलं चान्नं सर्वदा देयमस्मिन्क्षुधार्तानां प्राणिनां प्राणहेतुः ।। २५ ।।
तिर्यग्जंतुर्जायते वार्यदानादन्नादानाज्जायते वै पिशाचः ।।
अन्नादाने चानुभूतां कथां ते ह्यहं वक्ष्ये चाद्भुतां भूमिपाल ।।२६।।
रेवातीरे मत्पिताऽभूत्पिशाचः स्वमांसाशी क्षुत्तृषाश्रांतगात्रः ।।
छायाहीने शाल्मलीवृक्षमूले ह्यन्नाभावान्नष्टचैतन्य एषः ।। २७ ।।
क्षुधा तृषा कर्मणा यस्य बह्वी सूक्ष्मं छिद्रं कण्ठनालस्य चाऽसीत् ।।
मांसं चान्तःकण्ठमध्ये निषण्णं कुर्यात्पीडां प्राणपर्यन्तमेव ।। २८ ।।
जलं दृष्ट्वा कालकूटप्रकल्पं कौप्यं शीतं वाऽपि कासारसंस्थम् ।।
तस्यास्तीरे चागतं दैवयोगाद्गङ्गायात्राकारणान्मार्गमध्ये ।। २९ ।।
दृष्ट्वाऽद्भुतं शाल्मली वृक्षमूले त्रुटवा त्रुट्वा भक्षयन्तं स्वमांसम् ।।
क्रोशन्तं तं बहुधा शोचमानं क्षुधातृषाव्याधितं कर्मभिः स्वैः ।। 2.7.7.३० ।।
स मां हन्तुं प्राद्रवत्पापकर्मा मत्तेजसा निहतो दुद्रुवे च ।।
तं चाऽब्रवं कृपया क्लिन्नचित्तो मा भैष्ट त्वं ह्यभयं मे हि दत्तम् ।। ३१ ।।
कस्त्वं तात ब्रूहि सद्योऽत्र हेतुं कृच्छ्रादस्मान्मोचये मा विषीद ।।
इत्युक्तो मां प्राह पुत्रं त्वजानन्पुरानर्ते भूवराख्ये पुरे च ।। ३२ ।।
नाम्ना मैत्रः सांकृतेर्गोत्रजोऽहं तपोविद्यादानयज्ञादिनिष्ठः ।।
मयाऽधीताध्यापिताः सर्वविद्याः कृतो मया सर्वतीर्थाऽवगाहः ।। ३३ ।।
दत्तं नाऽन्नं मासि वैशाखसंज्ञे लोभाद्भिक्षामात्रमप्येव काले ।।
शोचे चाऽहं प्राप्य पैशाचयोनिं नाऽन्यो हेतुः सत्यमेवोक्तमङ्ग ।। ३४ ।।
पुत्रोऽधुना वर्तते मद्गृहे च भूरिख्यातिः श्रुतदेवाऽभिधानः ।।
वाच्या तस्मै मद्दशा चाऽऽत्मजाय वैशाखान्नादानतोऽभूत्पिशाचः ।। ३५ ।।
दृष्टस्तीरे ते पिता नर्मदाया नोर्ध्वं गतो वर्तते वृक्षमूले ।।
खादन्मांसं स्वीयमेवाऽन्वखिद्यत्पितुर्मुक्त्यै मासि वैशाखसंज्ञे ।। ३६ ।।
प्रातः स्नात्वा पूजयित्वा च विष्णुं निर्व्याजान्मां तर्पयित्वा जलैश्च ।।
देयं चाऽन्नं द्विजवर्ये गुणाढ्ये मुक्तो यो वै याति विष्णोः पदं च ।।३७।।
इत्थं चोक्तं त्वत्पुरस्ताद्वदेति दया चैषा मत्कृते नाऽत्र शंका ।।
भद्रं भूयात्सर्वतो मंगलं ते श्रुत्वा चाऽहं भाषितं मे पितुश्च ।। ३८ ।।
दुःखात्कायं दंडवत्पातयित्वा भृशार्तोऽहं पादयोर्भूरिकालम् ।।
निदन्निदन्भूर्यहं बाष्पनेत्रः पुत्रोऽहं ते तात दैवाऽऽगतोऽहम् ।। ३९ ।।
कर्मभ्रष्टो भूसुराणां विनिन्द्यो नाऽभूद्यस्मात्क्लेशमोक्षः पितॄणाम् ।।
आख्याहि त्वं कर्मणा केन मुक्तो भविता वै तत्करोमि द्विजेंद्र ।। 2.7.7.४० ।।
ततः प्राह प्रीतसर्वान्तरात्मा यात्रां कृत्वा शीघ्रमागत्य गेहम् ।।
प्राप्ते मासे मेषसंस्थे च भानौ निवेद्याऽन्नं विष्णवे त्वं गुणाढ्यम् ।। ४१ ।।
दानं देहि द्विजवर्ये महात्मंस्तस्मान्मोक्षो भविता सान्वयस्य ।।
पित्राऽऽदिष्टः कृतयात्रः स्वगेहे प्राप्याऽकरं माधवे चाऽन्नदानम् ।।४२।।
तस्मान्मुक्तो मत्पिता मां समेत्य यानारूढो ह्यभिनंद्याऽऽशिषा च ।।
गतो लोकं श्रीपतेर्दुर्विभाव्यं यस्मिन्गता न निवर्तंति भूयः ।।४३।।
तस्माद्दानं सर्वशास्त्रेषु चोक्तं तुभ्यं प्रोक्तं धर्मसारं सुधर्म्यम् ।।
किमन्यत्ते श्रोतुमिच्छा वदस्व श्रुत्वा सर्वं ते वदामीति सत्यम् ।। ४४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे पिशाचमोक्षप्राप्तिर्नाम सप्तमोऽध्यायः ।। ७ ।।