स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः ०५
।। ।। अम्बरीष उवाच ।। ।।
वैशाखः सर्वधर्मेभ्यस्तपोधर्मेभ्य एव च ।।
स कथं सर्वमासेभ्यो दानेभ्योऽप्यधिकोऽभवत् ।। १ ।।
।। नारद उवाच ।। ।।
तद्वक्ष्यामि महाप्राज्ञ शृणु चैकमना भव ।।
कल्पांते देवराड्विष्णुः शेषशायी महाप्रभुः ।। २ ।।
कुक्षिस्थ लोकसङ्घोऽयं स शेते प्रलयार्णवे ।।
अनेको ह्येकतां प्राप्य भूतिभिर्योगमायया ।। ३ ।।
निमेषस्यावसाने तु श्रुतिभिर्बोधितस्ततः ।।
कुक्षिस्थजीवसंघानां रक्षां चक्रे दयानिधिः ।। ४ ।।
तत्तत्कर्मफलप्राप्त्यै सृष्टिं स्रष्टुं मनो दधे ।।
तस्य नाभेरभूत्पद्म सौवर्णं भुवनाश्रयम् ।। ५ ।।
ब्रह्माणं जनयामास वैराजं पुरुषाह्वयम् ।।
तस्मिन्ससर्ज भगवान्भुवनानि चतुर्दश ।। ६ ।।
भिन्नकर्माशयान्प्राणिसङ्घांश्च विविधान्बहून् ।।
त्रिगुणान्प्रकृतिं लोके मर्यादाश्चाधिपांस्तथा ।। ७ ।।
वर्णाश्रमविभागांश्च धर्मक्लृप्तिं च सोऽकरोत् ।।
वेदैश्चतुर्भिस्तत्रैश्च सहितान्स्मृतिभिस्तथा ।। ८ ।।
पुराणैरितिहासैश्च स्वाज्ञारूपैर्महेश्वरः ।।
ऋषीन्प्रवर्तकांश्चक्रे धर्मगुप्त्यै महाप्रभुः ।। ९ ।।
तैः प्रवर्तितधर्मास्तु वर्णाश्रमविभागजाः ।।
प्रजाः श्रद्दधिरे सर्वाः स्वोचितान्विष्णुतोषदान् ।। 2.7.5.१० ।।
तांस्तु प्रवर्तमानांस्तु स्वाश्रमान्द्रष्टुमीश्वरः ।।
हृदिस्थोऽप्यव्ययः साक्षाद्विभीषार्थं परीक्षया ।। ११ ।।
अनूनान्कुशलान्यत्र धर्मान्कुर्वंति वै प्रजाः ।।
स कालः को भवेद्विद्वानिति सर्चितयत्प्रभुः ।। १२ ।।
वर्षाकालो मया सृष्टः सीदंत्यस्ता इमाः प्रजाः ।।
तत्रानूनान्न कुर्वंति धर्मान्पंकाद्युपद्रुताः ।।१३।।
तान्दृष्ट्वा कोप एव स्यात्तेषु तुष्टिर्न मे भवेत् ।।
मयेक्षिता न सीदंतु तस्मात्तानवलोकये ।।१४।।
शरद्यपि तथा पूर्तिः कर्षणान्नैव जायते ।।
केचित्पक्वफलासक्ताः केचिद्वृष्टिभिरर्दिताः ।।१५।।
केचिच्छीतार्दिताश्चैव तान्दृष्ट्वा रोष एव मे ।।
वैगुण्यं पश्यतश्चैव न मे तोषोऽभिजायते ।। १६ ।।
उत्थापनं तु नेच्छंति प्रातर्हेमंत आगते ।।
कोपो मेऽनुत्थितान्दृष्ट्वा प्रातः सूर्योदये सति ।। ।। १७ ।।
शिशिरेऽपि तथैवार्ताः प्रातःकाल इमाः प्रजाः ।।
तथा पक्वफलादानाशक्ता ह्यनिशमंजसा ।। १८ ।।
पुनः शीतार्दिताः प्रातःस्नानार्थमिति चिंतिताः ।।
तेषां तु कर्मलोपः स्यान्नैव पूर्तिः कथंचन ।। १९ ।।
प्रेक्षायाः समयो नाऽयमिति चिंताऽऽकुलो विभुः ।।
वसंत समयं मेने सर्वापत्तिनिवारकम् ।। 2.7.5.२० ।।
स्नाने दाने तथा यागे क्रियायां भोग एव च ।।
नानाधर्मविधाने च ह्यनुकूलस्त्वयं ह्यृतुः ।। २१ ।।
अप्रयासेन लभ्यानि द्रव्याण्यसुभृतां धुवम् ।।
येन केनापि द्रव्येण तुष्टिस्तनुभृतां भवेत् ।। २२ ।।
विष्णोराधारभूतानां तद्द्रव्यं धर्मसाधनम् ।।
वसंते सकलं द्रव्यं प्राणिनां तु सुखावहम् ।। २३ ।।
दानयोग्यं धर्मयोग्यं भोगयोग्यं तु सर्वशः ।।
निर्धनानां तु पङ्वादि विकलानां महात्मनाम्।। २४ ।।
द्रव्याणि च सुलभ्यानि जलादीनि न संशयः ।।
द्रव्यैरेतैः स्वात्महितं धर्मं कुर्वंति मत्प्रियाः ।। २५ ।।
पत्रैः पुष्पैः फलैरन्यैः शाकैश्चापि प्रियोक्तिभिः ।।
स्रक्तांबूलैश्चन्दनाद्यैः पादप्रक्षालनादिभिः ।। २६ ।।
प्रश्रयाद्यैरहो तेषां वरदोऽहमितीरयन् ।।
संचिंत्य भगवान्विष्णुः प्रतस्थे रमया सह।। २७ ।।
वनानि सर्वतः पश्यन्विकसत्कुसुमानि च ।।
हृष्टपुष्टजनाकीर्णं मत्तालिद्विजसेवितम् ।। २८ ।।
आश्रमाणां महार्हाणां वनग्रामनिवासिनाम्।।
प्रांगणादीनि रम्याणि ह्युद्यानानि स्थलानि च ।। २९ ।।
रमायै दर्शयन्विष्णुः सह देवैर्मुनीश्वरैः ।।
सिद्धचारणगन्धर्वकिन्नरोरगराक्षसैः ।। 2.7.5.३० ।।
स्तूयमानोऽभ्यगाद्गेहान्वर्णाश्रमनिवासिनाम् ।।
मीनादिकर्कटांतं वै स तिष्ठन्रमया सुरैः ।। ३१ ।।
सार्द्धं प्रतीक्ष्य पुरुषान्कृताकृत सपर्यया ।।
तत्र धर्मवतां पुंसां ददातीष्टान्मनोरथान् ।। ३२ ।।
मत्तान्न सहते पुंसो हरत्यायुर्धनादिकम् ।।
यदि कुर्वंति वैशाखे सपर्या परमात्मनः ।। ३३ ।।
तत्रापि चलमूर्तीनां साधूनां यत्र वै विभुः ।।
मासेवन्येषु यज्जातं कर्मलोपं सहिष्यति ।। ३४ ।।
यथा देशागतं भूपं दृष्ट्वा जानपदाः प्रजाः ।।
यदि तं चोपतिष्ठन्ति प्रश्रयाद्यैर्महार्हणैः ।। ३५ ।।
तदा करादिकं न्यूनं पूर्णं जानाति पार्थिवः ।।
पुनरप्यधिकं चेष्टं तुष्टो दास्यति निश्चितम् ।। ३६ ।।
तदा त्वकृतपूजानां दण्डं तेषां करोति च ।।
तथा विष्णुः स्वकीयानां वैशाखे माधवागमे ।। ३७ ।।
सपर्यां कुर्वतां पुंसां ददातीष्टान्मनोरथान् ।।
अकुर्वतां तथा पुंसां धनादीनि हरत्यलम् ।। ३८ ।।
धर्मगोप्तुर्महाविष्णोर्देवदेवस्य शार्ङ्गिणः ।।
परीक्षाकाल एवाऽयं तस्मान्मासोत्तमो ह्ययम् ।। ३९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदांवरीषसंवादे वैशाखश्रेष्ठत्वनिरूपणं नाम पञ्चमोध्यायः ।। ५ ।।