स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः ०३

विकिस्रोतः तः
Jump to navigation Jump to search

।। नारद उवाच ।। ।।
यो मर्त्यो द्विजवर्याय पर्यंकं तु ददाति हि ।।
यत्र स्वस्थः सुखं शेते शीतानिलनिषेवितः ।। १ ।।
धर्मसाधनभूते हि देहे नैरुज्यमाप्नुते ।।
तं दत्त्वा सकलं तापं निरस्य गतकल्मषः ।। २ ।।
अखण्डपदवीं याति योगिनामपि दुर्लभाम् ।।
वैशाखे घर्मतप्तानां श्रान्तानां तु द्विजन्मनाम् ।।३।।
दत्त्वा श्रमापहं दिव्यं पर्यंकं मनुजेश्वर ।।
न जातु सीदते लोके जन्ममृत्युजरादिभिः।।४।।
गृहीत्वा ब्राह्मणो यत्र शेते चाजीवमास्थितः ।।
आसीने सकलं पापं ज्ञानतोऽज्ञानतः कृतम् ।। ५ ।।
विलयं याति राजेंद्र कर्पूर इव चाग्निना ।।
शयने ब्रह्मनिर्वाणं स नरो याति निश्चितम् ।। ६ ।।
यो दद्यात्कशिपुं मासे वैशाखे स्नानवल्लभे ।।
सर्वभोगसमायुक्तस्तस्मिन्नेव हि जन्मनि ।। ७ ।।
सान्वयो वर्तते नूनं रोगादिभिरनाहतः ।।
आयुष्यं परमारोग्यं यशो धैर्यं च विंदति ।। ८ ।।
नाधार्मिकः कुले तस्य जायते शतपौरुषम् ।।
भुक्त्वा तु सकलान्भोगांस्ततः पञ्चत्वमेष्यति ।। ९ ।।
निर्धूताखिलपापस्तु ब्रह्मनिर्वाणमृच्छति ।। श्रो
त्रियाय द्विजेंद्राय यो दद्यादुपबर्हणम् ।। 2.7.3.१० ।।
सुखं निद्रा विना येन न नृणां जायते क्वचित् ।।
सर्वेषामाश्रयो भूत्वा भुवि साम्राज्यमश्नुते ।। ११ ।।
पुनः सुखी पुनर्भोगी पुनर्धर्मपरायणः ।।
आसप्तजन्म राजेंद्र जायते सर्वतो जयी ।। १२ ।।
पश्चात्सप्तकुलैर्युक्तो ब्रह्मभूयाय कल्पते ।।
तार्णं कटं तु यो दद्यात्कटमन्यदथापि वा ।। १३ ।।
तत्र शेते स्वयं विष्णुर्यत्रस्थः परमेश्वरः ।।
यथा जलगता चोर्णा न जलैर्भिद्यते क्वचित् ।। १४ ।।
तथा संसारगो जन्तुः संसारे न च बध्यते ।।
आसने शयने सक्तः कटदः सर्वतः सुखी ।। १५ ।।
प्रश्रये शयनार्थाय यो दद्यात्कटकंबलम् ।।
तावन्मात्रेण मुक्तः स्यान्नात्र कार्या विचारणा ।। १६ ।।
निद्रया हीयते दुःखं निद्रया हीयते श्रमः ।।
सा निद्रा कटसंस्थस्य सुखं संजायते धुवम् ।। १७ ।।
यो दयात्कंबलं राजन्वैशाखे माधवाऽऽगमे ।।
अपमृत्योः कालमृत्योर्मुक्तो जीवति वै शतम् ।। १८ ।।
दद्याद्वस्त्रं सूक्ष्मतरं द्विजेंद्रे घर्मकर्शिते ।।
पूर्णमायुः समाप्नोति परत्र च परां गतिम् ।। १९ ।।
अतस्तापहरं दिव्यं कर्पूरं तु द्विजातये ।।
दत्त्वा मोक्षमवाप्नोति दुःखशांतिं च विंदति ।। 2.7.3.२० ।।
कुसुमानि च यो दद्यात्कुकुमं च द्विजातये ।।
सार्वभौमो भवेद्राजा सर्वलोकवशंकरः ।। २१ ।।
पुत्रपौत्रादिभोगांश्च भुक्त्वा मोक्षमवाप्नुयात् ।।
त्वगस्थिगतसंतापं सद्यो हरति चन्दनम् ।। २२ ।।
तापत्रयविनिर्मुक्तस्तद्दत्त्वा मोक्षमाप्नुयात् ।।
औशीरं चाषकं कौशं यो दद्याज्जलवासितम् ।। २३ ।।
सर्वभोगेषु राजेंद्र स तु देवसहायवान् ।।
पापहानिं दुःखहानिं प्राप्य निर्वृतिमाप्नुयात् ।। २४ ।।
गोरोचं मृगनाभिं च दद्याद्वैशाखधर्मवित् ।।
तापत्रयविनिर्मुक्तः परं निर्वाणमृच्छति ।। २५ ।।
तांबूलं च सकर्पूरं यो दद्यान्मेषगे रवौ ।।
सार्वभौमसुखं भुक्त्वा परं निर्वाणमृच्छति ।। २६ ।।
शतपत्रीं च यूथीं च मेषमासे ददन्नरः ।।
स सार्वभौमो भवति पश्चान्मोक्षं च विंदति ।।२७।।
केतकीं मल्लिकां वाऽपि यो दद्यान्माधवाऽऽगमे ।।
स तु मोक्षमवाप्नोति मधुशासनशासनात् ।। २८ ।।
पूगीफलं तु यो दद्यात्सुगन्धं तु द्विजातये ।।
नारिकेलफलं राजंस्तस्य पुण्यफलं शृणु ।। ।। २९ ।।
सप्त जन्म भवेद्विप्रो धनाढ्यो वेदपारगः ।।
पश्चात्सप्तकुलैर्युक्तो विष्णुलोकं स गच्छति ।। 2.7.3.३० ।।
विश्राममण्डपं यस्तु कृत्वा दद्याद्द्विजन्मने ।।
तस्य पुण्यफलं वक्तुं नाहं शक्नोमि भूपते ।। ३१ ।।
सुच्छायामण्डपं यस्तु सिकताऽऽकीर्णमञ्जसा ।।
सप्रपं कारयेद्यस्तु स तु लोकाधिपो भवेत् ।। ३२ ।।
मार्गोद्यानं तडागं वा कूपं मण्डपमेव च।।
यः करोति स धर्मात्मा तस्य पुत्रैस्तु किं फलम् ।। ३३ ।।
कूपस्तडागमुद्यानं मण्डपं च प्रपा तथा ।।
सद्धर्मकरणं पुत्रः संतानं सप्तधोच्यते ।। ३४ ।।
एतेष्वन्यतमाभावे नोर्ध्वं गच्छंति मानवाः ।।
सच्छास्त्र श्रवणं तीर्थयात्रा सजनसंगतिः ।। ३५ ।।
जलदानं चान्नदानमश्वत्थारोपणं तथा ।।
पुत्रश्चेति च संतानं सप्तेमेऽतिविदो विदुः ।। ३६ ।।
नासंततिर्लभेल्लोकान्कृत्वा धर्मशतान्यपि ।।
तस्मात्संतानमन्विच्छेत्संतानेष्वेकतो व्रजेत् ।। ३७ ।।
पशूनां पक्षिणां चैव मृगाणां चैव भूरुहाम् ।।
नोर्ध्वलोकं सुखं याति मनुष्याणां तु का कथा ।। ३८ ।।
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।।
कपूरागुरुसंयुक्तं ददत्तांबूलमुत्तमम् ।। ३९ ।।
शारीरैः सकलैः पापैर्मुच्यते नात्र संशयः ।।
तांबूलदो यशो धैर्यं श्रियमाप्नोति निश्चितम् ।। 2.7.3.४० ।।
रोगी दत्त्वा विरोगः स्यादरोगी मोक्षमाप्नुयात् ।।
वैशाखे मासि यो दद्यात्तक्रं तापविनाशनम् ।। ४१ ।।
विद्यावान्धनवान्भूमौ जायते नात्र संशयः ।।
न तक्रसदृशं दानं घर्मकालेषु विद्यते ।। ४२ ।।
तस्मात्तक्रं प्रदातव्यमध्वश्रांतद्विजातये ।।
जंबीरसुरसोपेतं लसल्लवणमिश्रितम्।।४३।।
यस्तक्रमरुचिघ्नं तु दत्त्वा मोक्षमवाप्नुयात् ।।
यो दद्याद्दधिखंडं तु वैशाखे घर्मशांतये ।। ४४ ।।
तस्य पुण्यफलं वक्तुं नाहं शक्नोमि भूमिप ।।
यो दद्यात्तंडुलान्दिव्यान्मधुसूदनवल्लभे ।। ४५ ।।
स लभेत्पूर्णमायुष्यं सर्वयज्ञफलं लभेत् ।।
यो घृतं तेजसो रूपं गव्यं दद्याद्द्विजातये ।।
सोऽश्वमेधफलं प्राप्य मोदते विष्णुमंदिरे ।। ४६ ।।
उर्वारुगुडसंमिश्रं वैशाखे मेषगे रवौ ।।
सर्वपापविनिर्मुक्तः श्वेतद्वीपे वसेद्ध्रुवम् ।। ४७ ।।
यश्चेक्षुदंडं सायाह्ने दिवा तापोपशान्तये ।।
ब्राह्मणाय च यो दद्यात्तस्य पुण्यमनंतकम् ।। ४८ ।।
वैशाखे पानकं दत्त्वा सायाह्ने श्रमशान्तये ।।
सर्वपापविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात् ।।४९।।
सफलं पानकं मेषमासे सायं द्विजातये ।।
दद्यात्तेन पितॄणां तु सुधापानं न संशयः।।2.7.3.५०।।
वैशाखे पानकं चूतसुपक्वफलसंयुतम् ।।
तस्य सर्वाणि पापानि विनाशं यांति निश्चितम् ।। ५१ ।।
यो दद्याच्चैत्रदर्शे तु कुम्भं पूर्णं तु पानकैः ।।
गयाश्राद्धशतं तेन कृतमेव न संशयः ।। ५२ ।।
कस्तूरी कर्पुरोपेतं मल्लिकोशीरसंयुतम् ।।
कलशं पानकैः पूर्णं चैत्रदर्शे तु मानवः ।।
दद्यात्पितॄन्समुद्दिश्य स षण्णवतिदो भवेत् ।। ५३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे दाननिरूपणंनाम तृतीयोऽध्यायः ।। ३ ।। ।। छ ।।