स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ३९
← अध्यायः ३८ | स्कन्दपुराणम् - स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम् अध्यायः ३९ [[लेखकः :|]] |
अध्यायः ४० → |
।। अथ पुत्रार्थमञ्जनाकृततपःप्रकारः ।।
।। श्रीसूत उवाच ।। ।।
पुत्रहीनाञ्जना पूर्वं दुःखिता तपसि स्थिता ।।
तां दृष्ट्वा मुनिशार्दूलो मतङ्गो विष्णुतत्परः ।। १ ।।
अञ्जनाख्यामुवाचेदमत्युग्रे तपसि स्थिताम् ।। २ ।।
।। मतंग उवाच ।। ।।
समुत्तिष्ठाञ्जने देवि किमर्थं तपसि स्थिता ।।
वद देवि महाभागे कार्यं तव वरानने ।। ३ ।।
।। अंजनोवाच ।। ।।
मतंग मुनिशार्दूल वचनं मे शृणुष्व ह ।।
पिता मे केसरी नाम राक्षसः शिवतत्परः ।। ४ ।।
शैवं घोरं तपश्चक्रे पुत्रार्थं तु सुदुष्करम् ।।
पार्वतीसहितः शंभुर्वृषभोपरि संस्थितः ।। ५ ।।
प्रादुरासीत्तदा देवो ददौ तस्मै वरं शुभम् ।। ६ ।।
।। शम्भुरुवाच ।। ।।
शृणु राजन्प्रवक्ष्यामि विधिना निर्मितं तव ।।
अस्मिजन्मन्यपुत्रत्वं तथाप्यन्यद्ददामि ते ।। ७ ।।
विश्रुता सर्वलोकेषु पुत्री तव भविष्यति ।।
तस्याः पुत्रो महाबुद्धिस्तव प्रीतिं करिष्यति ।। ८ ।।
इति तस्मै वरं दत्त्वा तत्रैवान्तर्दधे हरः ।।
मां लब्ध्वा मत्पिता विप्रः कृतकृत्यो बभूवू ह ।। ९ ।।
ततः कालान्तरे विप्रः केसर्याख्यो महाकपिः ।।
ययाचेमां ददस्वेति पितरं मे ततः पिता ।। ।। 2.1.39.१० ।।
तस्मै मां दत्तवांश्चैव पारिबर्हं ददौ च सः ।।
गवां लक्षसहस्राणि गजलक्षं महामनाः ।। ११ ।।
वाजिनामर्बुदं चैव रथानामर्बुदं तथा ।।
वस्त्ररत्नान्यनेकानि दासदासीसहस्रकम् ।। १२ ।।
अन्तःपुरचरीर्नारीर्नृत्यगीतविशारदाः ।।
ददौ वासः सहस्रं च मया साकं महामते ।। १३ ।।
पत्या मे रममाणाया भूयान्कालो गतो मुने ।।
अपुत्रा दुःखिता विप्र व्रतानि विविधानि च ।। १४ ।।
कृतानि च मया तत्र किष्किन्धायां महापुरि ।।
माघे मासि च विप्रेन्द्र वैशाखे कार्तिके तथा ।। १५ ।।
स्नानदानव्रतादीनि चातुर्मास्यव्रतं तथा ।।
नमस्कारस्तथा विप्र प्रदक्षिणमनुत्तमम् ।। ।।१६ ।।
शालग्रामान्नदानानि दीपदानं तथैव च ।।
गोदानं तिलदानं च वस्त्रदानं महामुने ।। १७ ।।
भूदानं वारिदानं च दत्त्वा पुष्पादिकं मुने ।।
यानि यानि च मुख्यानि वैष्णवानि व्रतानि च ।।
मया कृतानि सर्वाणि सत्पुत्रफलकांक्षया ।। १८ ।।
श्रवणादिषु यत्प्रोक्तं व्रतं विप्रैमहात्मभिः ।।
मया कृतं च विप्रेद्रं तुष्ट्यर्थं मधुविद्विषः ।। १९ ।।
यानि यानि च मुख्यानि फलानि विविधानि च ।।
मया दत्तानि सर्वाणि सत्पुत्रफलकांक्षया ।। 2.1.39.२० ।।
मया कृतान्यसंख्यानि व्रतानि विविधानि च ।।
पुत्रं तथाप्यलब्ध्वाहं दुःखिता तपसि स्थिता ।। २१ ।।
भविष्यति कथं विप्र पुत्रस्त्रैलोक्यविश्रुतः ।।
याचेऽहं तु मुनिश्रेष्ठ प्रणता च तवाग्रतः ।। २२ ।।
वद त्वं मुनिशार्दूल दीनाहं तपसि स्थिता ।। २३ ।।
।। श्रीसूत उवाच ।। ।।
एवं वदन्तीं तां प्राह मतङ्गो मुनिसत्तमः ।।
शृणु मद्वचनं देवि पुत्रपौत्रप्रदायकम् ।। २४ ।।
इतो दक्षिणदिग्भागे दशयोजनदूरतः ।।
घनाचल इति ख्यातो नृसिंहस्य निवासभूः ।। २५ ।।
तस्योपरि महाभागे ब्रह्मतीर्थं मनोहरम् ।।
तस्यापि पूर्वदिग्भागे दशयोजनमात्रतः ।। २६ ।।
सुवर्णमुखरी नाम नदीनां प्रवरा नदी ।।
तस्या एवोत्तरे भागे वृषभाचलनामतः ।। २७ ।।
तस्याग्रे सरसी नाम्ना स्वामिपुष्करिणी शुभा ।।
गत्वा दृष्ट्वा शुभं तोयं मनःशुद्धिं गमिष्यसि ।। २८ ।।
तत्र स्नात्वा विधानेन वराहं तं प्रणम्य च ।।
वेङ्कटेशं नमस्कृत्य ततो गच्छ वरानने ।। २९ ।।
उत्तरे स्वामितीर्थस्य सिंहशादूलसंयुते ।।
चूतपुन्नागपनसैर्बकुलामलकः शुभैः ।। 2.1.39.३० ।।
चन्दनागुरुनिम्बैश्च तालहिन्तालकिंशुकैः ।।
कपित्थाश्वत्थबिल्वैश्च इङ्गुदैश्च वरानने ।। ३१ ।।
एतादृशैर्महापुण्यैर्वृक्षैश्च विविधैः शुभैः ।।
वियद्गंगेति विख्यातं तीर्थमेकं विराजते ।। ३२ ।।
तस्मिंस्तीर्थेऽञ्जने देवि संकल्पविधिपूर्वकम् ।।
स्नात्वा पीत्वा शुभं तीर्थं तीर्थस्याभिमुखी स्थिता ।। ३३ ।।
वायुमुद्दिश्य हे देवि तपः कुरु वरानने ।।
देवैश्च राक्षसैर्विप्रैर्मनुजैर्मुनिसत्तमैः ।। ३४ ।।
भृङ्गैः पक्षिभिरस्त्रैश्च शस्त्रैश्च विविधैः शुभैः ।।
अवध्यो भविता पुत्रस्तपसा ते न संशयः ।। ३५ ।।
।। श्रीसूत उवाच ।। ।।
इति प्रोक्ताञ्जना देवी तं प्रणम्य पुनःपुनः ।।
भर्त्रा साकं ययावाशु वेंकटाचलसंज्ञकम् ।। ३६ ।।
कापिलं तीर्थमासाद्य स्नात्वा निर्मलमानसा ।।
वेंकटाद्रिं समारुह्य स्वामिपुष्करिणीं ययौ । ३७ ।।
स्नात्वा वराहमानम्य वेंकटेशकृतानतिः ।।
मतंगस्य ऋषेर्वाक्यं स्मरन्ती च मुहुर्मुहुः ।। ३८ ।।
वियद्गङ्गां ययावाशु चाञ्जना मंजुभाषिणी ।।
स्नात्वा पीत्वा शुभं तोयं तीरं तस्य तदुन्मुखी ।। ३९ ।।
प्राणवायुं समुद्दिश्य तपश्चक्रे यतव्रता ।।
फलाहारा जलाहारा निराहारा ततः परम् ।। 2.1.39.४० ।।
सहस्राब्दं तपश्चक्रे न्यस्तनासाग्रदृष्टिका ।।
वयस्या विपुला नाम शुश्रूषामकरोच्छुभा ।। ४१ ।।
वर्षाणां च सहस्रान्ते वायुर्देवो महामतिः ।।
प्रादुरासीत्तदा तां वै भाषमाणो महामतिः ।। ४२ ।।
मेषसंक्रमणं भानौ संप्राप्ते मुनिसत्तमाः ।।
पूर्णिमाख्ये तिथौ पुण्ये चित्रानक्षत्रसंयुते ।। ४३ ।।
तवेप्सितमहं दास्ये वरं वरय सुव्रते ।।
इति तद्वचनं श्रुत्वा ततः प्राहाञ्जना सती ।। ४४ ।।
पुत्रं देहि महाभाग वायो देव महामते ।।
तस्यास्तद्वचनं श्रुत्वा मातरिश्वाब्रवीत्ततः ।। ४५ ।।
पुत्रस्तेऽहं भविष्यामि ख्यातिं दास्ये शुभानने ।।
इति तस्यै वरं दत्त्वा तत्रैवास्ते महाबलः ।। ४६ ।।
तदा ब्रह्मादयो देवा इन्द्राद्या लोकपालकाः ।।
वसिष्ठाद्या महात्मानः सनकाद्याश्च योगिनः ।। ४७ ।।
व्यासादयश्च विप्रेंद्रा लक्ष्म्या साकं जगत्पतिः ।।
मुनिपत्न्यो देवपत्न्य ऋषिपत्न्यस्तथैव च ।। ४८ ।।
स्वं स्वं वाहनमारुह्य दारभृत्यसुतादिभिः ।।
आगतास्ते महात्मानो द्रष्टुं तां तपसि स्थिताम् ।। ४९ ।।
आश्चर्यमाश्चर्यमिति ब्रुवाणा ब्रह्मादयो देवगणाश्च सर्वे ।।
आलोकयन्तो दिवि दूरतस्ते स्थितास्तदा ब्रह्ममहेशमुख्याः ।। 2.1.39.५० ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये अंजनातपःकरणप्रकारादिवर्णनं नामैकोनचत्वारिंशोऽध्यायः ।। ३९ ।।