स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search

।। श्रीभगवानुवाच ।। ।।
ये त्वया वै कृताः प्रश्नाः पूर्वं प्रश्नविदां वर ।।
तान्वर्णयिष्ये क्रमशो निशामय सुनिश्चितम् ।।१ ।।
सहोमासे च देवो वै कीर्तियुक्तो हि केशवः ।।
तस्य पूजा प्रकर्तव्या यथापूर्वं प्रभाषितम् ।। २ ।।
ब्राह्मणं केशवं स्मृत्वा तत्पत्नीं कीर्तिमेव च ।।
दंपती विधिवत्पूज्यौ वस्त्राभरणधेनुभिः ।। ३ ।।
दम्पती पूजितौ वत्स पूजितोऽहं न संशयः।।
तस्मादवश्यं संपूज्यौ दंपती मम तुष्टिदौ ।।४।।
दानं च विविधं कार्यं मम तुष्टिकरं परम् ।।
गोदानं भूमिदानं च स्वर्णदानं विशेषतः ।।५।।
वस्त्रदानं तथा शय्या तथाऽलंकरणानि च ।।
सद्मदानं प्रकर्तव्यं मम सन्तोषकारकम् ।। ६ ।।
सर्वेषामेव दानानां विशेषं च त्रिकं स्मृतम् ।।
वसुन्धरा तथा धेनुर्विद्यादानं तथैव च ।।७।।
दत्ते दानत्रिके वत्स भवेत्प्रीतिर्ममाऽतुला ।।
तस्मान्नरैस्तु कर्तव्यं सहोमासे त्रिकं शुभम् ।। ८ ।।
स्नानस्य च विधिः सम्यक्पुरैवोक्तो मयाऽनघ ।।
पूजास्नानं च दानं च विधिरेष न संशयः ।। ९ ।।
मार्गशीर्षं समग्रं तु एकभक्तेन यः क्षिपेत् ।।
भोजयेद्यो द्विजान्भक्त्या स मुच्येद्व्याधिकिल्विषैः।।2.5.15.१०।।
कृषिभागी बहुधनो बहुधान्यश्च जायते ।।
किमत्र बहुनोक्तेन शृणु गुह्यं पर मम ।। ११ ।।
हुतभुग्ब्राह्मणश्चैव वदनं मम मानद ।।
ब्राह्मणाख्यं मुखं श्रेष्ठं न तथा हव्यवाहनः ।। १२ ।।
ब्राह्मणाख्ये मुखे पुत्र हुतं कोटिगुणं भवेत् ।।
अग्न्याख्यं ब्राह्मणाधीनं स्वतंत्रा ब्राह्मणाः किल ।। १३ ।।
सशर्करं घृतयुतं पायसं शशिसन्निभम् ।।
होतव्यं ब्राह्मणमुखे मम तुष्टिकरं सुत ।। १४ ।।
शुभमंडलमोदककोकरसं सुत फेनिकया घृतपूरयुतम् ।।
यज विप्रमुखे मम तुष्टिकरं यदि चेच्छसि दारसुतादिसुखम् ।।१५।।
कुमुदेन समप्रभसौरभदं शुभभक्तयुतं त्वथ मुद्गयुतम् ।।
सुरभीकृतपुष्कलसर्पिसमं कुरु विप्रमुखे हवनं हि सहे ।। १६ ।।
पयसा सह सर्पिषि च क्वथितं बहुखारिकचारफलैः सितया ।।
सह कर्पुरनारिफलेन समं युतसीकरकं सुत शुभ्रकरम् ।। १७ ।।
व्यंजनानि च शुभ्राणि मनोज्ञानि प्रियाणि च ।।
कर्त्तव्यानि सहोमासे ब्राह्मणार्थे चतुर्मुख ।। १८ ।।
प्रिया शिखरिणी कार्या चान्यत्तेषां प्रियं च यत् ।।
कृत्वैवं भोजयेद्विप्राञ्छ्रद्धया परया सुत ।। १९ ।।
रसास्वादनपूर्वं हि भुञ्जते वै यथायथा ।।
तथातथा मम प्रीतिर्जायते भुवि दुर्लभा ।।2.5.15.२०।।
तस्मात्तत्तत्तथा कार्यं यथा तुष्यंति ब्राह्मणाः ।।
तुष्टैस्तैश्चाप्यहं तुष्टो भवामीह न संशयः ।। २१ ।।
श्रद्धत्स्व त्वं चतुर्वक्त्र न ते मिथ्या ब्रवीम्यहम् ।।
एतद्गुह्यं मया प्रोक्तं श्रेयोर्थं तव मानद ।। २२ ।।
आक्रोशयंति यदि ते अथवा प्रहरंति चेत् ।।
तथापि ते नमस्या वै मम प्रीत्या हि मानद ।। २३ ।।
एवं कार्यं सदा पुत्र मार्गशीर्षे विशेषतः ।।
यदुक्तं भवता ब्रह्मन्भोक्तव्यं किं शृणुष्व तत् ।। २४ ।।
भोक्तव्यं मम चोच्छिष्टं मम भक्तिपरायणैः ।।
पवित्रकरणं पुत्र पापिनामपि मुक्तिदम् ।।२५।।
ममाशनस्य शेषं च यो भुनक्ति दिनेदिने ।।
सिक्थेसिक्थे भवेत्पुण्यं चांद्रायणशतोद्भवम् ।। २६ ।।
अवशिष्टं तथोच्छिष्टं भक्तानां भोजनद्वयम् ।।
नाऽन्यद्वै भोजनं तेषां भुक्त्वा चांद्रायणं चरेत् ।। २७ ।।
अनर्पयित्वा यो भुंक्ते अन्नपानादिकं च यत् ।।
श्वानविष्ठासमं चान्नं पानं च मदिरासमम् ।। ।। २८।।
तस्मान्मामर्पयेत्पुत्र अन्नपानादि चौषधम् ।।
भक्षयेत्परया भक्त्या अशुचेः शुचिकारकम् ।। २९ ।।
तीर्थयज्ञादिकफलं कलिदोषविनाशनम् ।।
ममोच्छिष्टं सुगतिदमपि दुष्कृतकर्मणाम् ।। 2.5.15.३० ।।
अन्येषां दैवतानां च न गृह्णीयाच्च भक्षितम् ।।
अभक्तानां च पक्वान्नं भुक्त्वा च नरकं व्रजेत् ।। ३१ ।।
वक्तव्यमेव यत्प्रोक्तं तच्छृणुष्व समाहितः ।।
कथयिष्ये तव प्रीत्या अपि गुह्यतरं मम ।। ३२ ।।
मम नाम प्रवक्तव्यं सहे चैव विशेषतः ।।
कृष्णकृष्णेति वक्तव्यं मम प्रीतिकरं परम् ।।३३।।
प्रतिज्ञैषा च मे पुत्र न जानंति सुरासुराः ।।
मनसा कर्मणा वाचा यो मे शरणमागतः ।। ।। ३४ ।।
स हि सर्वामवाप्नोति कामनामिह लौकिकीम् ।।
सर्वोत्कृष्टं च वैकुण्ठं मत्प्रियां कमलामपि ।। ३५ ।।
कृष्णकृष्णेति कृष्णेति यो मां स्मरति नित्यशः ।।
जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम्।।३६।।
विनोदेनाऽपि दंभेन मौढ्याल्लोभाच्छलादपि ।।
यो मां भजत्यसौ वत्स मद्भक्तो नाऽवसीदति ।। ३७ ।।
ये वै पठंति कृष्णेति मरणे पर्युपस्थिते ।।
यदि पापयुताः पुत्र न पश्यंति यमं क्वचित् ।। ३८ ।।
पूर्वे वयसि पापानि कृतान्यपि च कृत्स्नशः ।।
अंतकाले च कृष्णेति स्मृत्वा मामेत्यसंशयम् ।। ३९ ।।
नमः कृष्णाय महते विवशोऽपि वदेद्यदि ।।
ध्रुवं पदमवाप्नोति मरणे पर्युपस्थिते ।। 2.5.15.४० ।।
श्रीकृष्णेति कृतोच्चारैः प्राणैर्यदि वियुज्यते ।।
दूरस्थः पश्यति च तं स्वर्गतं प्रेतनायकः ।। ४१ ।।
श्मशाने यदि रथ्यायां कृष्णकृष्णेति जल्पति ।।
म्रियते यदि चेत्पुत्र मामेवैति न संशयः ।। ४२ ।।
दर्शनात्मम भक्तानां मृत्युमाप्नोति यः क्वचित् ।।
विना मत्स्मरणात्पुत्र मुक्तिमेति स मानवः ।। ४३ ।।
पापानलस्य दीप्तस्य भयं मा कुरु पुत्रक ।।
श्रीकृष्णनाममेघोत्थैः सिच्यते नीरबिंदुभिः ।। ४४ ।।
कलिकालभुजंगस्य तीक्ष्णदंष्ट्रस्य किं भयम् ।।
श्रीकृष्णनामदारूत्थवह्निदग्धः स नश्यति ।। ४८ ।।
पापपावकदग्धानां कर्मचेष्टावियोगिनाम् ।।
भेषजं नास्ति मर्त्यानां श्रीकृष्णस्मरणं विना ।।४६।।
प्रयागे वै यथा गंगा शुक्लतीर्थे च नर्मदा ।।
सरस्वती कुरुक्षेत्रे तद्वच्छ्रीकृष्णकीर्तनम् ।।४७।।
भवांभोधिनिमग्नानां महापापोर्मिपातिनाम् ।।
न गतिर्मानवानां च श्रीकृष्णस्मरणं विना ।। ४८ ।।
मृत्युकालेऽपि मर्त्यानां पापिनां तदनिच्छताम् ।।
गच्छतां नाऽस्ति पाथेयं श्रीकृष्णस्मरणं विना ।। ४९ ।।
तत्र पुत्र गया काशी पुष्करं कुरुजांगलम् ।।
प्रत्यहं मंदिरे यस्य कृष्णकृष्णेति कीर्तनम् ।। 2.5.15.५० ।।
जीवितं जन्मसाफल्यं सुखं तस्यैव सार्थकम् ।।
सततं रसना यस्य कृष्णकृष्णेति जल्पति ।। ५१ ।।
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।। ५२ ।।
नाम्नोऽस्य यावती शक्तिः पापनिर्दहने मम ।।
तावत्कर्तुं न शक्नोति पातकं पातकी जनः ।। ५३ ।।
नाऽपविद्धं भवेत्तस्य शरीरं नैव मानसम् ।।
न पापं न च वैक्लव्यं कृष्णकृष्णेति कीर्तनात् ।। ५४ ।।
श्रीकृष्णेति वचः पथ्यं न त्यजेद्यः कलौ नरः ।।
पापामयो वै न भवेत्कलौ तस्यैव मानसे ।। ५५ ।।
श्रीकृष्णेति प्रजल्पंतं दक्षिणाशापतिर्नरम् ।।
श्रुत्वा मार्जयते पापं तस्य जन्मशतार्जितम् ।। ५६ ।।
चांद्रायणशतैः पापं पराकाणां सहस्रकैः ।।
यन्नापयाति तद्याति कृष्णकृष्णेति कीर्तनात् ।। ।। ५७ ।।
नान्याभिर्नामकोटीभिस्तोषो मम भवेत्क्वचित् ।।
श्रीकृष्णेति कृतोच्चारे प्रीतिरेवाऽधिकाधिका ।। ५८ ।।
चंद्रसूर्योपरागैस्तु कोटीभिर्यत्फलं स्मृतम् ।।
तत्फलं समवाप्नोति कृष्णकृष्णेति कीर्तनात् ।। ५९ ।।
गुरुदाराभिगमनं हेमस्तेयादि पातकम् ।।
श्रीकृष्णकीर्तनाद्याति घर्मतप्तं हिमं यथा ।। 2.5.15.६० ।।
युक्तो यदि महापापैरगम्यागमनादिभिः ।।
मुच्यते चांतकालेऽपि सकृच्छ्रीकृष्णकीर्तनात् ।। ।। ६१ ।।
अविशुद्धमना यस्तु विनाप्याचारवर्तनात् ।।
प्रेतत्वं सोऽपि नाप्नोति अन्ते श्रीकृष्णकीर्तनात् ।। ६२ ।।
मुखे भवतु मा जिह्वाऽसती यातु रसातलम् ।।
न सा चेत्कलिकाले या श्रीकृष्णगुणवादिनी ।। ६३ ।।
स्ववक्त्रे परवक्त्रे च वंद्या जिह्वा प्रयत्नतः ।।
कुरुते या कलौ पुत्र श्रीकृष्ण गुणकीर्तनम् ।। ६४ ।।
पापवल्ली मुखे तस्य जिह्वारूपेण कीर्त्यते ।।
या न वक्ति दिवारात्रौ श्रीकृष्णगुणकीर्तनम् ।। ६५ ।।
पततां शतखण्डा तु सा जिह्वा रोगरूपिणी ।।
श्रीकृष्णकृष्णकृष्णेति श्रीकृष्णेति न जल्पति ।। ६६ ।।
श्रीकृष्णनाममाहात्म्यं प्रातरुत्थाय यः पठेत् ।।
तस्याऽहं श्रेयसां दाता भवाम्येव न संशयः ।। ६७ ।।
श्रीकृष्णनाममाहात्म्यं त्रिसंध्यं हि पठेत्तु यः ।।
सर्वान्कामानवाप्नोति स मृतः परमां गतिम् ।। ६८ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये श्रीकृष्णनाममाहात्म्यवर्णनंनाम पंचदशोऽध्यायः ।।१५।।


[सम्पाद्यताम्]

टिप्पणी

२.५.१५.२ सहोमासे च देवो वै कीर्तियुक्तो हि केशवः --

केशवोपरि टिप्पणी

कीर्तिरुपरि संदर्भाः