स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः १०
← अध्यायः ०९ | स्कन्दपुराणम् - स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम् अध्यायः १० [[लेखकः :|]] |
अध्यायः ११ → |
।। ब्रह्मोवाच ।। ।।
नैवेद्यानंतरं तात किं कर्तव्यं नृभिः प्रभो ।।
यत्कर्तव्यं सहोमासे तत्सर्वं ब्रूहि तत्त्वतः ।। १ ।।
श्रीभगवानुवाच ।। ।।
अथ भुक्तवते दत्त्वा जलैः कर्पूरवासितैः ।।
आचमनं च तांबूलं चंदनं करमार्जनम् ।। २ ।।
पुष्पांजलिं ततः कुर्याद्भक्त्याऽऽदर्शं प्रदर्शयेत् ।।
नीराजनं ततः कार्यं कार्पूरं विभवे सति ।। ३ ।।
समर्प्य मुकुटादीनि भूषणानि विचक्षणः ।।
ततः पश्चान्महाभाग प्रकल्प्य च्छत्रचामरे ।।४।।
प्रसादसुमुखं ध्यात्वा श्यामसुंदरविग्रहम् ।।
जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् ।।५।।
शंखरौप्यमयी माला कांचनी च विशेषतः ।।
पद्माक्षैश्चैव सुभगैर्विद्रुमैर्मणिमौक्तिकैः ।। ६ ।।
रचितेंद्राक्षकैर्माला तथैवांगुलिपर्वभिः ।।
पुत्रजीवमयी माला शस्ता वै जपकर्मणि ।। ७ ।।
न च क्रमन्न च हसन्न पार्श्वमवलोकयन् ।।
न पदा पदमाक्राम्य करप्राप्तशिरास्तथा ।।८।।
नोत्तिष्ठन्मन्मनुं विद्वान्न जपेद्व्यग्रमानसः ।।
जपकाले न भाषेत व्रतहोमार्चनादिषु ।।९।।
गृहेष्वेकगुणंजाप्यं गोष्ठे दशगुणं भवेत् ।।
नदीतीरे शतं विद्यादग्न्यगारे दशाऽधिकम् ।। 2.5.10.१० ।।
तीर्थादिषु सहस्रं स्यादनंतं मम सन्निधौ ।।
एवं कृत्वा सहोमासे यः कुर्याच्च प्रदक्षिणाम् ।। ११ ।।
सप्तद्वीपवतीपुण्यं लभते स पदेपदे ।।
पठन्नामसहस्रं तु अथवा नाम केवलम् ।। १२ ।।
एका प्रदक्षिणा भक्त्या दहेत्पापं सदाऽऽह्निकम् ।।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ।। १३ ।।
दिनसप्तोद्भवं पापं मम तिस्रः प्रदक्षिणाः ।।
तत्क्षणान्नाशयंत्येव पापं देहे दशाऽऽह्निकम् ।। १४ ।।
कृताः प्रदक्षिणा येन एकविंशति भक्तितः ।।
भ्रूणहत्यादिपापानि नाशमायांति तत्क्षणात् ।। १५ ।।
अष्टोत्तरशतं येन कृता भक्त्या प्रदक्षिणाः ।।
तेनेष्टं क्रतुभिः सर्वैः समाप्तवरदक्षिणैः ।। १६ ।।
प्रदक्षिणीकृता तेन तावद्वारं वसुन्धरा ।।
मातुः प्रदक्षिणास्तद्वद्भूतधात्रीप्रदक्षिणाः ।। १७ ।।
शालिग्रामशिलायाश्च सममेतत्त्रयं स्मृतम् ।।
एको दंडप्रपातश्च सहे सप्तप्रदक्षिणाः ।। १८ ।।
सममेतद्द्वयं नो वा दंडपातो विशिष्यते ।।
प्रदक्षिणे दंडपातं यः करोति सदा मम ।। १९ ।।
सहोमासे विशेषेण आकल्पं स वसेद्दिवि ।।
कल्पादनंतरं तात चक्रवर्ती प्रजायते ।। 2.5.10.२० ।।
चिरायुर्धनवान्भोगी दानवान्धर्मवत्सलः ।।
सहस्रनामपठनात्पापं नश्येत्त्रिधा कृतम् ।। २१ ।।
अथ किं बहुनोक्तेन शृणु गुह्यं च मे सुत ।।
दामोदरेति नाम्ना वै भवेत्प्रीतिर्ममाऽतुला ।। २२ ।।
गुणसंबंधि मन्नाम कृतं मात्रा यशोदया ।।
यदा मे दधिभांडस्य स्फोटनं गोकुले कृतम्।। २३ ।।
तदा यशोदया गाढं बद्धो दाम्ना ह्युलूखले ।।
ततः प्रभृति मे नाम ख्यातं दामोदरेति च।।२४।।
नमो दामोदरायेति जपेद्यः सुसमाहितः ।।
सूर्योदये शुचिर्भूत्वा त्रिसहस्रं दिनेदिने ।। २५ ।।
सार्द्धलक्षत्रयं यावत्तत उद्यापयेद्बुधः ।।
तर्पणं हवनं चैव ब्रह्मभोज्यं दशांशतः ।। २६ ।।
एवं यः कुरुते भक्त्या तस्य यच्छामि वांछितम् ।।
धनं धान्यं तथा दारान्पुत्रांश्चान्यच्च वांछितम् ।। २७ ।।
त्रिसत्येन मया चोक्तं श्रद्धत्स्व त्वं महामते ।।
मंत्रराजमिमं पुत्र कृपया मे प्रकाशितम् ।। २८ ।।
दामोदरायेति पठन्नित्यं कुर्यात्प्रदक्षिणम्।।
दंडपातं तथा पुत्र अष्टांगेन समन्वितम् ।। २९ ।।
पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा तथा ।।
मनसा वचसा दृष्टवा प्रणामोष्टांग उच्यते ।। 2.5.10.३० ।।
शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम्।।
प्रपन्नं पाहि मामीश भीतं मृत्युग्रहाऽर्णवात् ।। ३१ ।।
पश्चाच्छेषां मया दत्तां शिरस्याधाय सादरम् ।।
एवं ब्रूयात्ततो वत्स मम पूजाप्रपूर्त्तये ।। ३२ ।।
मंत्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ।। ३३ ।।
मृदंगवाद्येन समं प्रणवेन सुसंयुतम् ।।
एवं कार्यं सहोमासे नृत्यं पुण्यप्रदं नृणाम् ।। ३४ ।।
गीतं वाद्यं च नृत्यं च तथा पुस्तकवाचनम् ।।
पूजाकाले चतुर्वक्त्र सर्वदा मम च प्रियम् ।।३५।।
गीतवाद्याद्यभावे च मम नामसहस्रकम् ।।
स्तवराजं तथा पुत्र गजेंद्रस्य च मोक्षणम् ।।३६।।
अनुस्मृतिश्च गीता च स्तवनं पंचधा मतम् ।।
पंचस्तवं महाभाग मम प्रीतिकरं परम्।।३७।।
पादोदकं पिबेद्यो वै शालिग्रामसमुद्भवम् ।।
पंचगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम्।।३८।।
शालिग्रामशिलातोयं यः पिबेद्बिंदुना समम् ।।
मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्नरः।। ३९ ।।
आशौचं नैव विद्येत सूतके मृतकेऽपि च ।।
येषां पादोदकं मूर्ध्नि प्राशनं ये प्रकुर्वते ।। 2.5.10.४० ।।
अंतकालेऽपि यस्येदं दीयते पादयोर्जलम् ।।
सोऽपि सद्गतिमाप्नोति सदाचारबहिष्कृतः ।। ४१ ।।
अपेयं पिबते यस्तु भुंक्ते यद्यप्यभोजनम् ।।
अगम्यागमनो यो वै पापाचारश्च यो नरः ।। ४२ ।।
सोऽपि पूतो भवत्याशु सद्यः पादांबुधारणात् ।।
चांद्रायणात्पादकृच्छ्रादधिकं पादयोर्जलम् ।।४३।।
अगुरुं कुंकुमं वाऽपि कर्पूरं चाऽनुलेपनम् ।।
मम पादांबुसंस्पृष्टं तद्वै पावनपावनम् ।।४४।।
दृष्टिपूतं तु यत्तोयं भवेद्वै विप्रसत्तम ।।
तद्वै पापहरं नृणां किं पुनः पादयोर्जलम् ।। ४५ ।।
प्रियस्त्वं मेऽग्रजः पुत्रो विशेषेण च मत्प्रियः ।।
तदर्थं कथितं सर्वं रहस्यं यच्च मे स्थितम् ।।४६।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये पूजाविधिसमापनं तदुद्यापनं तत्फलकथनयोगोनाम दशमोऽध्यायः ।। १० ।।