स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः ०९

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। ब्रह्मोवाच ।। ।।
नैवेद्यस्य विधिं ब्रूहि देव मे तत्त्वतः प्रभो ।।
अन्नं कतिविधं चेष्टं व्यंजनादीन्यशेषतः ।। १ ।।
।।श्रीभगवानुवाच ।। ।।
साधु पृष्टं त्वया वत्स मम प्रीतिकरं परम् ।।
वक्ष्यामि तेऽन्नपानादिव्यंजनादीन्यशेषतः ।। २ ।।
आदौ हिरण्मयं पात्रं तदभावे च राजतम् ।।
तदभावे च पालाशं विस्तीर्णं बहुसुन्दरम् ।। ३ ।।
कचोलाः शतशः कार्याः पात्रे वै परितोऽनघ ।।
तन्मध्ये व्यंजना देया नानाफलमयाः शुभाः ।। ४ ।।
पायसं चन्द्रसंकाशं पात्रे वै शर्करायुतम् ।।
भक्तं कुमुदसंकाशं मुद्गान्काचप्रभाञ्छुभान् ।। ५ ।।
नानाव्यंजनसंरुद्धं त्रिभिः पंक्तिभिरेव च ।।
निंबूरसेन चंद्रेण फलमूलयुतेन च ।। ६ ।।
वैकृताश्च तदा कार्याः शतशो भोजने मम ।।
द्राक्षास्तु मिश्रिताश्चूतकरमर्द कृताः शुभाः ।। ७ ।।
मरीचपिप्पलीसार्द्रकैलाचंद्रकसंयुताः ।।
क्वाथिताः कथिकाः कार्याः शतशो भोजने मम ।। ८ ।।
प्रलेहनास्तथा कार्याः कचोलशतसंकुलाः ।।
नानाकुसुमसंमोदयुक्ताः सहसि मे प्रियाः ।। ९ ।।
मंडका वर्तुला रम्याः समाः सर्वत्र बिंदुवत् ।।
सितया सहितेनाऽथ दुग्धेन क्वथितेन च ।। 2.5.9.१० ।।
मधुवर्णेन गव्येन युक्ते तस्मिन्सुभोजने ।।
कचोले सुप्रभे वत्स स्थितं कांचनसुप्रभम् ।। ११ ।।
घृतं सुवासितं प्रीत्या देयं हि मम भोजने ।।
तत्र गोधूमपात्रेण चंद्रकेण हि चोज्ज्वलम् ।। १२ ।।
सौवाह्लिकाः पूरिकास्तु शतच्छिद्राः सवेष्टिकाः ।।
अपूपाश्च तथा क्षीरं प्रकारांस्तु प्रकारयेत् ।। १३ ।।
मणयः सूत्रसंज्ञाश्च मालतीकुसुमादयः ।।
पर्पटा वर्पटा रम्या माषकूष्मांडसंभवाः ।। १४ ।।
वटकान्नवधा रम्यान्कुर्यान्मासे सहे मम ।।
द्विधा जातीमरीचैश्च पूरिता द्रोणके शुभाः ।। १५ ।।
युक्तेन लवणेनाऽतिशुद्धतैलेन पूरिताः ।।
कुंकुमाभाः स्नेहहीनाः सक्षता इव दुर्जनाः ।। १६ ।।
दधिदुग्धयुताः केचिच्चिंचिणीचूतसंभवाः ।।
द्राक्षारसयुताः केचित्तथैवेक्षुरसैर्युताः ।। १७ ।।
राजिका जलमध्यस्थास्तथाऽन्ये सितया सह ।।
रसैश्चतुर्विधैश्चान्यैर्वटका नवधा मताः ।। १८ ।।
वज्रप्रभाऽनुकणिकाचारबीजसुखारिकैः ।।
शकलैर्नारिकेलस्य लवंगशतसंयुताः ।। १९ ।।
घृतक्षीरसिताद्यास्ताः कटाहे सुप्रलोडिताः ।।
लब्धासितादिकृसररम्याः स्निग्धाश्च फेणिकाः ।। 2.5.9.२० ।।
पराकिकासु वै पक्वाः कृताश्चंद्रेण पोलिकाः ।।
मोदकास्तत्र वै कार्याश्चारबीजभवाः परे ।। २१ ।।
सितया सहिताः कार्या अन्ये दुग्धेन निर्मिताः ।।
नारिकेलफलैश्चाऽन्ये वृक्षनिर्यासनिर्मिताः ।। २२ ।।
बदामैश्च शुभाश्चाऽन्ये तिलैश्च कणबीजकैः ।।
ईदृशान्मोदकांश्चान्यांस्तुष्ट्यर्थं मम कारयेत् ।। २३ ।।
अर्शोघ्नं मोचनीकंदं तथाऽऽर्द्रं करमर्दकम् ।।
नारिंगं चिंचिणीकं च कंकोलफलमेव च ।। २४ ।।
दशारं त्रिपुरीजातं शुभं निंबफलं बिसम् ।।
तिंदूफलं लवंगं च श्रीफलं तिलकं लुति ।। २५ ।।
वल्कलं वंशकारीरं तथा कायफलं बलम् ।।
द्राक्षाफलं चूतफलं रम्यं कंटकिनीफलम् ।। २६ ।।
धात्रीफलं शुक्तिभवं फलमंबाडवं तथा ।।
रंभाफलं पिप्पली च मरीचाश्च मनोहराः ।। २७ ।।
शुद्धसर्षपतैलेन लवणेन सुवेधितम् ।।
तथा राजिकया विद्धं त्रिभिर्वर्षैर्घटे स्थितम् ।। २८ ।।
एवंविधानि जातानि व्यंजनानि च मानद ।।
कर्तव्यानि सहोमासे मम प्रीतिकराणि वै ।। २९ ।।
एतादृशे भोजने चेदसामर्थ्यं भवेद्यदि ।।
एवं कार्यं तदा तेन संक्षेपेण शृणुष्व मे ।। 2.5.9.३० ।।
लड्डूकमेकं घृतपूरमेकं फेनद्वयं कोकरसत्रयं च ।।
घृतप्लुतं मंडकषोडशानां वटाष्टदायी नरकं न पश्येत् ।। ३१ ।।
आढकं सुचिरपर्युषितं च दुग्धं खंडस्य षोडशपलानि शशिप्रभस्य ।।
सर्पिष्पलं मधुपलं मरिचं द्विकर्षं शुंठ्याः पलार्धमथवाऽर्धपलं चतुर्णाम् ।। ३२ ।।
श्लक्ष्णे पटे ललनया मृदुपाणिघृष्टां कर्पूरधूलिधवलीकृतभांडसंस्थाम् ।।
एतां शुभां रसवतीं प्रकरोति यो वै कामान्ददामि सकलान्मनुजस्य तस्य ।। ३३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये नैवेद्यविधिकथनंनाम नवमोऽध्यायः ।। ९ ।।