स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः ०६
← अध्यायः ०५ | स्कन्दपुराणम् - स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम् अध्यायः ६ [[लेखकः :|]] |
अध्यायः ०७ → |
।। ।। ब्रह्मोवाच ।। ।।
घण्टानादस्य माहात्म्यं चंदनस्य तथाऽच्युत ।।
यत्फलं लभते स्वामिंस्तत्सर्वं ब्रूहि तत्त्वतः ।। १ ।।
।। श्रीभगवानुवाच ।। ।।
स्नानार्चनक्रियाकाले घंटानादं करोति यः ।।
पुरतो मम देवेश तस्य पुण्यफलं शृणु ।। २ ।।
वर्षकोटिसहस्राणि वर्षकोटिशतानि च ।।
वसते मामके लोके अप्सरोगणसेवितः ।। ३ ।।
सर्ववाद्यमयी घण्टा सर्वदेवमयी यतः ।।
तस्मात्सर्वप्रयत्नेन घण्टानादं तु कारयेत् ।। ४ ।।
सर्ववाद्यमयी घण्टा सर्वदा मम वल्लभा ।।
वादनाल्लभते पुण्यं यज्ञकोटिशतोद्भवम् ।। ५ ।।
घंटानादः सदा कार्यः पूजाकाले विशेषतः ।।
मन्वंतरसहस्राणि मन्वतरशतानि च ।। ६ ।।
प्रीतो भवामि सततं घंटानादेन पुत्रक ।।
भेरीशंखनिनादेन घंटानादान्वितेन च ।। ७ ।।
मृदंगशंखेन युतं प्रणवेन समन्वितम् ।।
अर्चनं मम देवेश सततं मोक्षदं नृणाम् ।। ८ ।।
यत्र तिष्ठेत पुरतो घंटा नादान्विता मम ।।
अर्चिता वैष्णवैर्यत्र तत्र मां विद्धि पुत्रक ।। ९ ।।
वैनतेयांऽकिता घंटा सुदर्शनयुताऽथवा ।।
ममाग्रे स्थापयेद्यस्तु तस्य पापं हराम्यहम् ।। 2.5.6.१० ।।
मदीयार्चनवेलायां घंटानादं करोति यः ।।
नश्यंति तस्य पापानि शतजन्मार्जितान्यपि ।। ११ ।।
स्वापकाले प्रकुर्वीत घण्टानादं स्वभक्तितः ।।
ममैवार्चनवेलायां फलं कोटिगुणोद्भवम् ।। १२ ।।
ये मामर्चंति देवेश सुपर्णोपरिसंस्थितम् ।।
शंखपद्मगदायुक्तं सचक्रं च श्रिया युतम् ।। १३ ।।
किं करिष्यंति ते तीर्थैर्देवतानां च दर्शनैः ।।
किं यज्ञैः किं व्रतैर्वापि किं दानैः किमुपोषणैः ।।१४।।
मूर्तिर्नारायणी यैश्च मामकी गरुडोपरि ।।
स्थापिता ते कलौ यांति कल्पकोटिं पदं मम ।। १५।।
ममाऽग्रे स्थापयेद्यस्तु प्रासादेऽथ गृहेऽथवा ।।
तीर्थकोटिसहस्राणि तत्र तिष्ठंति देवताः ।। १६ ।।
यस्तु पूजयते धन्यो गरुडोपरिसंस्थितम्।।
एकादश्यां तथा रात्रौ वासनासंयुतो मम ।।
कृत्वा गीतं च नृत्यं च तारयेन्नरकात्पितॄन् ।। १७ ।।
पुनश्च कथयिष्यामि शृणु घंटामहं सुत ।। १८ ।।
मम नामांकिता घण्टा पुरतो या च तिष्ठति ।।
अर्चिता वैष्णवी यत्र तत्र मां विद्धि पुत्रक ।। १९ ।।
यस्तु वादयते घंटां वैनतेयविचिह्निताम्।।
धूपे नीराजने स्नाने पूजाकाले विलेपने ।। 2.5.6.२० ।।
ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् ।।
मखायुतं गोऽयुतं च चांद्रायणशतोद्भवम्।। २१ ।।
विधिबाह्यकृता पृजा सफला जायते नृणाम् ।।
घण्टानादेन तुष्टोऽहं प्रयच्छामि स्वकं पदम् ।। २२ ।।
नागाऽरिचिह्निता घंटा रथांगेन समन्विता ।।
वादनात्कुरुते नाशं जन्मकोटिभयस्य वै ।। २३ ।।
गरुडेनांऽकितां घंटां दृष्ट्वाहं प्रत्यहं मुदा ।।
प्रीतिं करोमि देवेश लक्ष्मीं प्राप्य यथाऽधनः ।। २४ ।।
घंटादण्डस्य शिरसि सुचक्रं स्थापयेत्तु यः ।।
मत्प्रियं वैनतेयं वा स्थापितं भुवनत्रयम् ।। २५ ।।
घंटानादं सचक्रं च अंतकाले शृणोति यः ।।
पापकोटियुतस्याऽपि नश्यंति यमकिंकराः ।। २६ ।।
सर्वदोषाः प्रणश्यंति घंटानादेन वै सुत ।।
देवतानां सरुद्राणां पितॄणामुत्सवो भवेत् ।। २७ ।।
अभावे वैनतेयस्य चक्रस्याऽपि न संशयः ।।
घंटानादेन भक्तानां प्रसादं प्रकरोम्यहम् ।। २८ ।।
गृहे यस्मिन्भवेन्नित्यं घण्टा नागारिसंयुता ।।
सर्पाणां न भयं तत्र नाग्निविद्युत्समुद्भवम् ।। २९ ।।
यस्य घंटा गृहे नास्ति शंखो न पुरतो मम ।।
कथं भागवतो ज्ञेयः कथं भवति वल्लभः ।। 2.5.6.३० ।।
चंदनस्य प्रवक्ष्याम माहात्म्यं तव पुत्रक ।।
यस्मिन्कृते भवेत्प्रीतिर्ममात्यंतं न संशयः ।। ।। ३१ ।।
सचंदनं सकुसुमं कर्पूरागरुमिश्रितम् ।।
मृगनाभिसमायुक्तं जातीफलसमन्वितम् ।। ३२ ।।
तुलसीचंदनोपेतं ममात्यंतसुखावहम् ।।
यो ददाति हि मां नित्यं तुलसीकाष्ठसंभवम्।। ३३ ।।
युगानि वसते स्वर्गे ह्यनंतानि नरोत्तमः ।।
महाविष्णोः कलौ भक्त्या दत्त्वा तुलसिचंदनम् ।। ।।३४।।
अर्चयेन्मालतीपुष्पैर्न भूयः स्तनपो भवेत् ।।
तुलसीकाष्ठसंभूतं चंदनं यच्छते मम ।।३५।।
दहामि पातकं सर्वं पूर्वजन्मशतैः कृतम् ।।
सर्वेषामेव देवानां तुलसीकाष्ठचंदनम्।।३६।।
पितॄणां च विशेषेण सदाऽभीष्टं यथा मम ।।३७।।
श्रीखंडं चंदनं तावच्छ्रेष्ठं कृष्णागुरुं तथा ।।
यावन्न दीयते मह्यं तुलसीकाष्ठचंदनम्।। ३८ ।।
तावत्कस्तूरिकाऽऽमोदः कर्पूरस्य सुगंधिता ।।
यावन्न दीयते मह्यं तुलसीकाष्ठचंदनम् ।।३९।।
कलौ यच्छंति ये मह्यं तुलसीकाष्ठचंदनम्।।
मार्गशीर्षशुभेमासे ते कृतार्था न संशयः ।। 2.5.6.४० ।।
यो हि भागवतो भूत्वा कलौ तुलसिचंदनम् ।।
नार्पयेद्वै सहोमासे नाऽसौ भागवतो नरः ।।४१।।
कुंकुमागुरुश्रीखण्डकर्दमैर्मम विग्रहम् ।।
आलिपेद्वै सहोमासे कल्पकोटिं वसेद्दिवि ।।४२।।
कर्पूरागुरुमिश्रेण चंदनेनाऽनुलिंपयेत् ।।
मृगदर्पं विशेषेण अभीष्टं च सदा मम।।४३।।
विलेपयति यो मां वै शंखे कृत्वा तु चंदनम् ।।
मार्गशीर्षे तदा प्रीतिं करोमि शतवार्षिकीम् ।।४४।।
सेवते तुलसीपत्रैर्नित्यमामलकैश्च यः ।।
मार्गशीर्षे सदा भक्त्या स लभेद्वांछितं फलम् ।। ४५ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये भगवते तुलसीकाष्ठचंदनार्पणफलकथनंनाम षष्ठोऽध्यायः ।। ६ ।।