सौन्दरनन्दकाव्यम्/अष्टादशः सर्गः

विकिस्रोतः तः
← सप्तदशः सर्गः सौन्दरनन्दकाव्यम्
अष्टादशः सर्गः
[[लेखकः :|]]

सर्ग १८

अथ द्विजो बाल इवाप्तवेदः क्षिप्रं वणिक्प्राप्त इवाप्तलाभः ।
जित्वा च राजन्य इवार्सैन्यं नन्दः कृतार्थो गुरुं अभ्यगच्छत् ।। १८.१ ।।

द्रष्टुं सुखं ज्ञानसमाप्तिकाले गुरुर्हि शिष्यस्य गुरोश्च शिष्यः ।
परिश्रमस्ते सफलो मयीति यतो दिदृक्षास्य मुनौ बभूव ।। १८.२ ।।

यतो हि येनाधिगतो विशेषस्तस्योत्तमाङ्गेऽर्हति कर्तुमिड्यां ।
आर्यः सरागोऽपि कृतज्ञभावात्प्रक्षीणमानः किमु वीतरागः ।। १८.३ ।।

यस्यार्थकामप्रभवा हि भक्तिस्ततोऽस्य सा तिष्ठति रूढमूला ।
धर्मान्वयो यस्य तु भक्तिरागस्तस्य प्रसादो हृदयावगाढः ।। १८.४ ।।

काषायवासाः कनकावदातस्ततः स मूर्ध्ना गुरवे प्रणेमे ।
वातेरितः पल्लवताम्ररागः पुष्पोज्ज्वलश्रीरिव कर्णिकारः ।। १८.५ ।।

अथात्मनः शिष्यगुणस्य चैव महामुनेः शास्तृगुणस्य चैव ।
संदर्शनार्थं स न मानहेतोः स्वां कार्यसिद्धिं कथयां बभूव ।। १८.६ ।।

या दृष्टिशल्यो हृदयावगाढः प्रभो भृशं मां अतुदत्सुतीक्ष्णः ।
त्वद्वाक्यसंदंशमुखेन मे स समुद्धृतः शल्यहृतेव शल्यः ।। १८.७ ।।

कथङ्कथाभावगतोऽस्मि येन छिन्नः स निःसंशय संशयो मे ।
त्वच्छासनात्सत्पथं आगतोऽस्मि सुदेशिकस्येव पथि प्रनष्टः ।। १८.८ ।।

यत्पीतं आस्वादवशेन्द्रियेण दर्पेण कन्दर्पविषं मयासीत् ।
तन्मे हतं त्वद्वचनागदेन विषं विनाशीव महागदेन ।। १८.९ ।।

क्षयं गतं जन्म निरस्तजन्मन्सद्धर्मचर्यां उषितोऽस्मि सम्यक् ।
कृत्स्नं कृतं मे कृतकार्य कार्यं लोकेषु भूतोऽस्मि न लोकधर्मा ।। १८.१० ।।

मैत्रीस्तनीं व्यञ्जनचारुसास्नां सद्धर्मदुग्धां प्रतिभानशृङ्गां ।
तवास्मि गां साधु निपीय तृप्तस्तृषेव गां उत्तमवत्सवर्णः ।। १८.११ ।।

यत्पश्यतश्चाधिगमो ममायं तन्मे समासेन मुने निबोध ।
सर्वज्ञ कामं विदितं तवैतत्स्वं तूपचरां प्रविवक्षुरस्मि ।। १८.१२ ।।

अन्येऽपि सन्तो विमुमुक्षवो हि श्रुत्व विमोक्षाय नयं परस्य ।
मुक्तस्य रोगादिव रोगवन्तस्तेनैव मार्गेण सुखं घटान्ते ।। १८.१३ ।।

उर्व्यादिकान्जन्मनि वेद्मि धातून्नात्मानं उर्व्यादिषु तेषु किं चित् ।
यस्मादतस्तेषु न मेऽस्ति सक्तिर्बहिश्च कायेन समा मतिर्मे ।। १८.१४ ।।

स्कन्धांश्च रूपप्रभृतीन्दशार्धान्पश्यामि यस्माच्चपलानसारान् ।
अनात्मकांश्चैव वधात्मकांश्च तस्माद्विमुक्तोऽस्म्यशिवेभ्य एभ्यः ।। १८.१५ ।।

यस्माच्च पश्याम्युदयं व्ययं च सर्वास्ववस्थास्वहं इन्द्रियाणां ।
तस्मादनित्येषु निरात्मकेषु दुःखेषु मे तेष्वपि नास्ति संगः ।। १८.१६ ।।

यतश्च लोकं सम्जन्मनिष्ठं पश्यामि निःसारं असच्च सर्वं ।
अतो धिया मे मनसा विबद्धं अस्मीति मे नेञ्जितं अस्ति येन ।। १८.१७ ।।

चतुर्विधे नैकविधप्रसंगे यतोऽहं आहारवैधावसक्तः ।
अमूर्छितश्चाग्रथितश्च तत्र त्रिभ्यो विमुक्तोऽस्मि ततो भवेभ्यः ।। १८.१८ ।।

अनिश्रितश्चाप्रतिबद्धचित्तो दृष्टशुतादौ व्यवहारधर्मे ।
यस्मात्समात्मानुगतश्च तत्र तस्माद्विसंयोगगतोऽस्मि मुक्तः ।। १८.१९ ।।

इत्येवं उक्त्वा गुरुबाहुमान्यात्सर्वेण कायेन स गां निपन्नः ।
प्रवेरितो लोहितचन्दनाक्तो हैमो महास्तम्भ इवाभासे ।। १८.२० ।।

ततः प्रमादात्प्रसृतस्य पूर्वं श्रुत्वा धृतिं व्याकरणं च तस्य ।
धर्मान्वयं चानुगतं प्रसादं मेघस्वरस्तं मुनिराबभाषे ।। १८.२१ ।।

उत्तिष्ठ धर्मे स्थित शिष्यजुष्टे किं पादयोर्मे पतितोऽसि मूर्ध्ना ।
अभ्यर्चनं मे न तथा प्रणामो धर्मे यथैषा प्रतिपत्तिरेव ।। १८.२२ ।।

अद्यासि सुप्रव्रजितो जितात्मन्नैश्वर्यं अप्यात्मनि येन लब्धं ।
जितात्मनः प्रव्रजनं हि साधु चलात्मनो न त्वजितेन्द्रियस्य ।। १८.२३ ।।

अद्यासि शौचेन परेण युक्तो वाक्कायचेतांसि शुचीनि यत्ते ।
अतः पुनश्चाप्रयतां अस्ॐयां यत्स्ॐय नो वेक्ष्यसि गर्भशय्यां ।। १८.२४ ।।

अद्यार्थवत्ते श्रुतवच्छ्रुतं तच्छ्रुतानुरूपं प्रतिपद्य धर्मं ।
कृतश्रुतो विप्रतिपद्यमानो निन्द्यो हि निर्वीर्य इवात्तशस्त्रः ।। १८.२५ ।।

अहो धृतिस्तेऽविषयात्मकस्य यत्त्वं मतिं मोक्षविधावकार्षीः ।
यास्यामि निष्ठां इति बालिशो हि जन्मक्षयात्त्रासं इहाभ्युपैति ।। १८.२६ ।।

दिष्ट्या दुरापः क्षणसंनिपातो नायं कृतो मोहवशेन मोघः ।
उदेति दुःखेन गतो ह्यधस्तात्कूर्मो युगच्छिद्र इवार्ञवस्थः ।। १८.२७ ।।

निर्जित्य मारं युधि दुर्निवारं अद्यासि लोके रणशीर्षूरः ।
शूरोऽप्यासूरः स हि वेदितव्यो दोषैरमित्रैरिव हन्यते यः ।। १८.२८ ।।

निर्वाप्य रागाग्निं उदीर्णं अद्यासि लोके रणशीर्षशूरः ।
दुःखं हि शेते शयनेऽप्युदारे क्लेशाग्निना चेतसि धयमानः ।। १८.२९ ।।

अभ्युच्छ्रितो द्रव्यमदेन पूर्वं अद्यासि तृष्नोपरमात्समृद्धः ।
यावत्सतर्षः पुरुषो हि लोके तावत्समृद्धोऽपि सदा दरिद्रः ।। १८.३० ।।

अद्यापदेष्टुं तव युक्तरूपं शुद्धोधनो मे नृपतिः पितेति ।
भ्रष्टस्य धर्मात्पितृभिर्निपातादश्लाघनियो हि कुलापदेशः ।। १८.३१ ।।

दिष्ट्यासि शान्तिं परमां उपेतो निस्तीर्णकान्तार इवाप्तसारः ।
सर्वो हि संसारगतो भयार्तो यथैव कान्तारगतस्तथैव ।। १८.३२ ।।

आरण्यकं क्भैक्षचरं विनीतं द्क्रष्यामि नन्दं निभृतं कदेति ।
आसीत्पुरस्तात्त्वयि मे दिदृक्षा तथासि दिष्ट्या मम दर्शनीयः ।। १८.३३ ।।

भवत्यरूपोऽपि हि दर्शनीयः स्वलङ्कृतः श्रेष्ठतमैर्गुणैः स्वैः ।
दोषैः परीतो मलिनीकरैस्तु सुदर्शनीयोऽपि विरूप एव ।। १८.३४ ।।

अद्य प्रकृष्ता तव बुद्धिमत्ता कृत्स्नं यया ते कृतं आत्मकार्यं ।
श्रुतोन्नतस्यापि हि नास्ति बुद्धिर्नोत्पद्यते श्रेयसि यस्य बुद्धिः ।। १८.३५ ।।

उन्मीलितस्यापि जनस्य मध्ये निमीलितस्यापि तथैव चक्षुः ।
प्रज्ञामयं यस्य हि नास्ति चक्षुश्चक्षुर्न तस्यास्ति सचक्षुषोऽपि ।। १८.३६ ।।

दुःखप्रतीकारनिमित्तं आर्तः कृष्यादिभिः खेदं उपैति लोकः ।
अजस्रं आगच्छति तच्च भूयो ज्ञानेन यस्याद्य कृतस्त्वयान्तः ।। १८.३७ ।।

दुःखं न मे स्यात्सुखं एव मे स्यादिति प्रवृत्तः स्ततं हि लोकः ।
न वेत्ति तच्चैव तथा यथा स्यात्प्राप्तं त्वयाद्यासुलभं यतावत् ।। १८.३८ ।।

इत्येवमादि स्थिरबुद्धिचित्तस्तथागतेनाभिहितो हिताय ।
स्तवेषु निन्दासु च निर्व्यपेक्षः कृताञ्जलिर्वाक्यं उवाच नन्दः ।। १८.३९ ।।

अहो विशेषेण विषेषदर्शिंस्त्वयानुकम्पा मयि दर्षितेयं ।
यत्कामपण्के भगवन्निमग्नस्त्रातोऽस्मि संसारभयादकामः ।। १८.४० ।।

भ्रात्रा त्वया श्रेयसि दैशिकेन पित्रा फलस्थेन ततैव मात्रा ।
हतोऽभविष्यं यदि न व्यमोक्ष्यं सार्थात्परिभ्रष्ट इवाकृतार्थः ।। १८.४१ ।।

शान्तस्य तुष्टस्य सुखो विवेको विज्ञातत्त्वस्य परीक्षकस्य ।
प्रहीणमानस्य च निर्मदस्य सुखं विरागत्वं असक्तबुद्धेः ।। १८.४२ ।।

अतो हि तत्त्वं परिगम्य सम्यञ्निर्धूय दोषानधिगम्य शान्तिं ।
स्वं नाश्रयं संप्रति चिन्तयामि न तं जनं नाप्सरसो न देवान् ।। १८.४३ ।।

इदं हि भुक्त्वा सुचि शामिकं सुखं न मे मनः कांषति काम्जं सुखं ।
महार्हं अप्यन्नं अदैवाहृतं दिवौकसो भुक्तवतः सुधां इव ।। १८.४४ ।।

अहोऽन्धविज्ञाननिमीलितं जगत्पटान्तरे पश्यति नोत्तमं सुखं ।
सुधीरं अध्यात्मसुखं व्यपास्य हि श्रमं तथा कामसुखार्थं ऋच्छति ।। १८.४५ ।।

यथा हि रत्नाकरं एत्य दुर्मतिर्विहाय रत्नान्यसतो मणिन्हरेत् ।
अपास्य संबोधिसुखं तहोत्तमं श्रमं व्रजेत्कामसुखोपाब्धये ।। १८.४६ ।।

अहो हि सत्तेष्वतिमैत्रचेतसस्तथागतस्यानुजिघृक्षुता परा ।
अपास्य यद्ध्यानसुखं मुने परं परस्य दुःखोपरमाय खिद्यसे ।। १८.४७ ।।

मया न शक्यं प्रतिकर्तुं अद्य किं गुरौ हितैषिण्यनुकम्पके त्वयि ।
समुद्धृतो येन भवार्णवादहं महार्णवाच्चूर्णितनौरिवोर्मिभिः ।। १८.४८ ।।

ततो मुनिस्तस्य निशम्य हेतुमत्प्रहीणसर्वास्रवसूचकं वचः ।
इदं बभाषे वदतां अनुत्तमो यदर्हति श्रीघन एव भाषितुं ।। १८.४९ ।।

इदं कृतार्थः परमार्थवित्कृती त्वं एव धीमन्नभिधातुं अर्हसि ।
अतीत्य कान्तारं अवाप्तसाधनः सुदैशिकस्येव कृतं महावणिक् ।। १८.५० ।।

अवैति बुद्धं नरदम्यसार्थिं कृती यथार्हन्नुप्शान्तमानसः ।
न दृष्टसत्योऽपि तथावबुध्यते पृथग्जनः किं बत बुद्धिमानपि ।। १८.५१ ।।

रजस्तमोभ्यां परिमुक्तचेतसस्तवैव चेयं सदृसी कृतज्ञता ।
रजःप्रकर्षेण जगत्यवस्थिते कृतज्ञभावो हि कृतज्ञ दुर्लभः ।। १८.५२ ।।

अतोऽस्ति भूयस्त्वयि मे विवक्षितं नतो हि भक्तश्च नियोगं अर्हसि ।। १८.५३ ।।

अवाप्तकार्योऽसि परां गतिं गतो न तेऽस्ति किं चित्करणीयं अण्वपि ।
अतःपरं स्ॐय चरानुकम्पया विमोक्षयन्कृच्छ्रगतान्परानपि ।। १८.५४ ।।

इहार्थं एवारभते नरोऽधमो विमध्यमस्तूभयलौकिकीं क्रियां ।
क्रियां अमुत्रैव फलाय मध्यमो विशिष्टधर्मा पुनरप्रवृत्तये ।। १८.५५ ।।

इहोत्तमेभ्योऽपि मतः स तूत्तमो य उत्तमं धर्मं अवाप्य नैष्ठिकं ।
अचिन्तयित्वात्मगतं परिश्रमं शमं परेभ्योऽप्युपदेष्टुं इच्छति ।। १८.५६ ।।

विहाय तस्मादिह कार्यं आत्मनः कुरु स्थिरात्मन्परकार्यं अप्यथो ।
भ्रमत्सु सत्त्वेषु तमोवृतात्मसु श्रुतप्रदीपो निशि धार्यतां अयं ।। १८.५७ ।।

ब्रवीतु तावत्पुरि विस्मितो जनस्त्वयि स्थिते कुर्वति धर्मदेशनाः ।
अहो बताश्चर्यं इदं विमुक्तये करोति रागी यदयं कथां इति ।। १८.५८ ।।

ध्रुवं हि संश्रुत्य तव स्थिरं मनो निवृत्तनानाविषयैर्मनोरथैः ।
वधूर्गृहे सापि तवानुकुर्वती करिष्यते स्त्रीषु विरागिणीः कथाः ।। १८.५९ ।।

त्वयि परमधृतौ निविष्टतत्त्वे भवनगता न हि रंस्यते ध्रुवं सा ।
मनसि शमदमात्मैके विविक्ते मतिरिव कामसुखैः परीक्षकस्य ।। १८.६० ।।

इत्यर्हतः परमकारुणिकस्य शास्तुर्मूर्ध्ना वचश्च चरणौ च समं गृहीत्वा ।
स्वस्थः प्रशान्तहृदयो विनिवृत्तकार्यः पार्श्वान्मुनेः प्रतिययौ विमदः करीव ।। १८.६१ ।।

भिक्षर्थं समये विवेश स पुरं दृष्टीर्जनस्याक्षिपन्लाभालाभसुखासुखादिषु समः स्वस्थेन्द्रियो निःस्पृहः ।
निर्मोक्षाय चकार तत्र च कथां काले जनायार्थिने नैवोन्मार्गगतान्परान्परिभवन्नात्मानं उत्कर्षयन् ।। १८.६२ ।।

इत्येषा व्युपशान्तये न रतये मोक्षार्थगर्भा कृतिः श्रोत्éणां ग्रहणार्थं अन्यमनसां काव्योपचारात्कृता ।
यन्मोक्षात्कृतं अन्यदत्र हि मया तत्काव्यधर्मात्कृतं पातुं तिक्तं इवौषधं मधुयुतं हृद्यं कथं स्यादिति ।। १८.६३ ।।

प्रायेणालोक्य लोकं विषयरतिपरं मो क्षात्प्रतिहतं काव्यवाजेन तत्त्वं कथितं इह मया मोक्षः परं इति ।
तद्बुद्ध्वा शामिकं यत्तदवहितं इतो ग्राह्यं न ललितं पांसुभ्यो धातुजेभ्यो नियतं उपकरं चामीकरं इति ।। १८.६४ ।।


Sऔन्दरनन्दे महाकाव्य आज्ञाव्याकरणो नामाष्टादशः सर्गः ।

आर्यसुवर्णाक्षीपुत्रस्य साकेतकस्य भिक्षोराचार्यभदन्ताश्वघोषस्य महाकवेर्महावादिनः कृतिरियं ।।