सूर्यसिद्धान्तः/अध्यायः ५

विकिस्रोतः तः
← अध्यायः ४ सूर्यसिद्धान्तः
अध्यायः ५
[[लेखकः :|]]
अध्यायः ६ →

मध्यलग्नसमे भानौ हरिजस्य न सम्भवः ।
अक्षोदङ्मध्यभक्रान्तिसाम्ये नावनतेरपि ।। ५.०१ ।।

देशकालविशेषेण यथावनतिसम्भवः ।
लम्बनस्यापि पूर्वान्यदिग्वशाच्च तथोच्यते ।। ५.०२ ।।

लग्नं पर्वान्तनाडीनां कुर्यात्स्वैरुदयासुभिः ।
तज्ज्यान्त्यापक्रमज्याघ्नी लम्बज्याप्तोदयाभिधा ।। ५.०३ ।।

तदा लङ्कोदयैर्लग्नं मध्यसंज्ञं यथोदितम् ।
तत्क्रान्त्यक्षांशसंयोगो दिक्षाम्ये +अन्तरं अन्यथा ।। ५.०४ ।।

शेषं नतांशास्तन्मौर्वी मध्यज्या साभिधीयते ।
मध्योदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितं फलम् ।। ५.०५ ।।

मध्यज्यावर्गविश्लिष्टं दृक्क्षेपः शेषतः पदम् ।
तत्त्रिज्यावर्गविश्लेषान्मूलं शङ्कुः स दृग्गतिः ।। ५.०६ ।।

नतांशबाहुकोटिज्ये +अस्फुटे दृक्क्षेपदृग्गती ।
एकज्यार्धगतश्छेदो लब्धं दृग्गतिजीवया ।। ५.०७ ।।

मध्यलग्नार्कविश्लेषज्या छेदेन विभाजिता ।
रवीन्द्वोर्लम्बनं ज्ञेयं प्राक्पश्चाद्घटिकादिकम् ।। ५.०८ ।।

मध्यलग्नाधिके भानौ तिथ्यन्तात्प्रविशोधयेत् ।
धनं ऊने +असकृत्कर्म यावत्सर्वं स्थिरीभवेत् ।। ५.०९ ।।

दृक्क्षेपः शीततिग्मांश्वोर्मध्यभुक्त्यन्तराहतः ।
तिथिघ्नत्रिज्यया भक्तो लब्धं सावनतिर्भवेत् ।। ५.१० ।।

दृक्क्षेपात्सप्ततिहृताद्भवेद्वावनतिः फलम् ।
अथवा त्रिज्यया भक्तात्सप्तसप्तकसङ्गुणात् ।। ५.११ ।।

मध्यज्यादिग्वशात्सा च विज्ञेया दक्षिणोत्तरा ।
सेन्दुविक्षेपदिक्षाम्ये युक्ता विश्लेषितान्यथा ।। ५.१२ ।।

तया स्थितिविमर्दार्धग्रासाद्यं तु यथोदितम् ।
प्रमाणं वलनाभीष्टग्रासादि हिमरश्मिवत् ।। ५.१३ ।।

स्थित्यर्धोनाधिकात्प्राग्वत्तिथ्या(?)न्तलाल्लम्बनं पुनः ।
ग्रासमोक्षोद्भवं साध्यं तन्मध्यहरिजान्तरम् ।। ५.१४ ।।

प्राक्कपाले +अधिकं मध्याद्भवेत्प्राग्रहणं यदि ।
मौक्षिकं लम्बनं हीनं पश्चार्धे तु विपर्ययः ।। ५.१५ ।।

तदा मोक्षस्थितिदले देयं प्रग्रहणे तथा ।
हरिजान्तरकं शोध्यं यत्रैतत्स्याद्विपर्ययः ।। ५.१६ ।।

एतदुक्तं कपालैक्ये तद्भेदे लम्बनैकता ।
स्वे स्वे स्थितिदले योज्या विमर्दार्धे +अपि चोक्तवत् ।। ५.१७ ।।