सूर्यसिद्धान्तः/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ सूर्यसिद्धान्तः
अध्यायः ४
[[लेखकः :|]]
अध्यायः ५ →

सार्धानि षट्सहस्राणि योजनानि विवस्वतः ।
विष्कम्भो मण्डलस्येन्दोः सहाशीत्या चतुश्शतम् ।। ४.०१ ।।

स्फुटस्वभुक्त्या गुणितौ मध्यभुक्त्योद्धृतौ स्फुटौ ।
रवेः स्वभगणाभ्यस्तः शशाङ्कभगणोद्धृतः ।। ४.०२ ।।

शशाङ्ककक्षागुणितो भाजितो वा +अर्ककक्षया ।
विष्कम्भश्चन्द्रकक्षायां तिथ्याप्ता मानलिप्तिका ।। ४.०३ ।।

स्फुटेन्दुभुक्तिर्भूव्यासगुणिता मध्ययोद्धृता ।
लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम् ।। ४.०४ ।।

मध्येन्दुव्यासगुणितं मध्यार्कव्यासभाजितम् ।
विशोध्य लब्धं सूच्यां तु तमो लिप्तास्तु पूर्ववत् ।। ४.०५ ।।

भानोर्भार्धे महीच्छाया तत्तुल्ये +अर्कसमे +अपि ।
शशाङ्कपाते ग्रहणं कियद्भागाधिकोनके ।। ४.०६ ।।

तुल्यौ राश्यादिभिः स्यातां अमावास्यान्तकालिकौ ।
सूर्येन्दू पौर्णमास्यन्ते भार्धे भागादिकौ समौ ।। ४.०७ ।।

गतैष्यपर्वनाडीनां स्वफलेनोनसंयुतौ ।
समलिप्तौ भवेतां तौ पातस्तात्कालिको +अन्यथा ।। ४.०८ ।।

छादको भास्करस्येन्दुरधःस्थो घनवद्भवेत् ।
भूच्छायां प्राङ्मुखश्चन्द्रो विशत्यस्य भवेदसौ ।। ४.०९ ।।

तात्कालिकेन्दुविक्षेपं छाद्यच्छादकमानयोः ।
योगार्धात्प्रोज्झ्य यच्छेषं तावच्छन्नं तदुच्यते ।। ४.१० ।।

यद्ग्राह्यं अधिके तस्मिन्सकलं न्यूनं अन्यथा ।
योगार्धादधिके न स्याद्विक्षेपे ग्राससम्भवः ।। ४.११ ।।

ग्राह्यग्राहकसंयोगवियोगौ दलितौ पृथक् ।
विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्यां उभे पदे ।। ४.१२ ।।

षष्ठ्या संगुण्य सूर्येन्द्वोर्भुक्त्यन्तरविभाजिते ।
स्यातां स्थितिविमर्दार्धे नाडिकादिफले तयोः ।। ४.१३ ।।

स्थित्यर्धनाडिकाभ्यस्ता गतयः षष्ठिभाजिताः ।
लिप्तादि प्रग्रहे शोध्यं मोक्षे देयं पुनः पुनः ।। ४.१४ ।।

तद्विक्षेपैः स्थितिदलं विमर्दार्धे तथा +असकृत् ।
संसाध्यं अन्यथा पाते तल्लिप्तादिफलं स्वकम् ।। ४.१५ ।।

स्फुटतिथ्यवसाने तु मध्यग्रहणं आदिशेत् ।
स्थित्यर्धनाडिकाहीने ग्रासो मोक्षस्तु संयुते ।। ४.१६ ।।

तद्वदेव विमर्दार्धनाडिकाहीनसंयुते ।
निमीलनोन्मीलनाख्ये भवेतां सकलग्रहे ।। ४.१७ ।।

इष्टनाडीविहीनेन स्थित्यर्धेनार्कचन्द्रयोः ।
भुक्त्यन्तरं समाहन्यात्षष्ट्याप्ताः कोटिलिप्तिकाः ।। ४.१८ ।।

भानोर्ग्रहे कोटिलिप्ता मध्यस्थित्यर्धसंगुणाः ।
स्फुटस्थित्यर्धसंभक्ताः स्फुटाः कोटिकलाः स्मृता ।। ४.१९ ।।

क्षेपो भुजस्तयोर्वर्गयुतेर्मूलं श्रवस्तु तत् ।
मानयोगार्धतः प्रोज्झ्य ग्रासस्तात्कालिको भवेत् ।। ४.२० ।।

मध्यग्रहणतश्चोर्ध्वं इष्टनाडीर्विशोधयेत् ।
स्थित्यर्धान्मौक्षिकाच्छेषं प्राग्वच्च्छेषं तु मौक्षिके ।। ४.२१ ।।

ग्राह्यग्राहकयोगार्धाच्छोध्याः स्वच्छन्नलिप्तिकाः ।
ताद्वर्गात्प्रोज्झ्य तत्कालविक्षेपस्य कृतिं पदम् ।। ४.२२ ।।

कोटिलिप्ता रवेः स्पष्टस्थित्यर्धेनाहता हृताः ।
मध्येन लिप्तास्तन्नाड्यः स्थितिवद्ग्रासनाडिकाः ।। ४.२३ ।।

नतज्या +अक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम् ।
वलनांशा सौम्ययाम्याः पूर्वापरकपालयोः ।। ४.२४ ।।

राशित्रययुताद्ग्राह्यात्क्रान्त्यंशैर्दिक्षमैर्युताः ।
भेदे +अन्तराज्ज्या वलना सप्तत्यङ्गुलभाजिता ।। ४.२५ ।।

सोन्नतं दिनमध्यार्धं दिनार्धाप्तं फलेन तु ।
छिन्द्याद्विक्षेपमानानि तान्येषां अङ्गुलानि तु ।। ४.२६ ।।