सामग्री पर जाएँ

सुश्रुतसंहिता/सूत्रस्थानम्/अध्याय ३१-४६

विकिस्रोतः तः
एकत्रिंशत्तमोऽध्यायः
अथातश्छायाविप्रतिपत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
श्यावा लोहितिका नीला पीतिका वाऽपि मानवम्
अभिद्र वन्ति यं छायाः स परासुरसंशयम् ३
ह्रीरपक्रमते यस्य प्रभास्मृतिधृतिश्रियः
अकस्माद्यं भजन्ते वा स गतासुरसंशयम् ४
यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः
उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् ५
आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा
खञ्जनप्रतिमा वाऽपि तं गतायुषमादिशेत् ६
कृष्णा स्तब्धाऽवलिप्ता वा जिह्वा शूना च यस्य वै
कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून् ७
कुटिला स्फुटिता वाऽपि शुष्का वा यस्य नासिका
अवस्फूर्जति मग्ना वा न स जीवति मानवः ८
संक्षिप्ते विषमे स्तब्धे रक्ते स्रस्ते च लोचने
स्यातां वा प्रस्रुते यस्य स गतायुर्नरो ध्रुवम् ९
केशाः सीमन्तिनो यस्य संक्षिप्ते विनते भ्रुवौ
लुण्डन्ति चाक्षिपक्ष्माणि सोऽचिराद्याति मृत्यवे १०
नाहरत्यन्नमास्यस्थं न धारयति यः शिरः
एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान् जहाति सः ११
बलवान् दुर्बलो वाऽपि संमोहं योऽधिगच्छति
उत्थाप्यमानो बहुशस्तं पक्वं भिषगादिशेत् १२
उत्तानः सर्वदा शेते पादौ विकुरुते च यः
विप्रसारणशीलो वा न स जीवति मानवः १३
शीतपादकरोच्छ्वासश्छिन्नोच्छ्वासश्च यो भवेत्
काकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्जयेत् १४
निद्रा न छिद्यते यस्य यो वा जागर्ति सर्वदा
मुह्येद्वा वक्तुकामश्च प्रत्याख्येयः स जानता १५
उत्तरौष्ठं च यो लिह्यादुत्कारांश्च करोति यः
प्रेतैर्वा भाषते सार्धं प्रेतरूपं तमादिशेत् १६
खेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्तते
पुरुषस्याविषार्तस्य सद्यो जह्यात् स जीवितम् १७
वाताष्ठीला तु हृदये यस्योर्ध्वमनुयायिनी
रुजान्नविद्वेषकरी स परासुरसंशयम् १८
अनन्योपद्र वकृतः शोफः पादसमुत्थितः
पुरुषं हन्ति नारीं तु मुखजो गुह्यजो द्वयम् १९
अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेढ्रता
श्वासिनः कासिनो वाऽपि यस्य तं क्षीणमादिशेत् २०
स्वेदो दाहश्च बलवान् हिक्का श्वासश्च मानवम्
बलवन्तमपि प्राणैर्वियुञ्जन्ति न संशयः २१
श्यावा जिह्वा भवेद्यस्य सव्यं चाक्षि निमज्जति
मुखं च जायते पूति यस्य तं परिवर्जयेत् २२
वक्त्रमापूर्यतेऽश्रूणां स्विद्यतश्चरणावुभौ
चक्षुश्चाकुलतां याति यमराष्ट्रं गमिष्यतः २३
अतिमात्रं लघूनि स्युर्गात्राणि गुरुकाणि वा
यस्याकस्मात् स विज्ञेयो गन्ता वैवस्वतालयम् २४
पङ्कमत्स्यवसातैलघृतगन्धांश्च ये नराः
मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम् २५
यूका ललाटमायान्ति बलि नाश्नन्ति वायसाः
येषां चापि रतिर्नास्ति यातारस्ते यमालयम् २६
ज्वरातिसारशोफाः स्युर्यस्यान्योन्यावसादिनः
प्रक्षीणबलमांसस्य नासौ शक्यश्चिकित्सितम् २७
क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा
न शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः २८
प्रवाहिका शिरःशूलं कोष्ठशूलं च दारुणम्
पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः २९
विषमेणोपचारेण कर्मभिश्च पुराकृतैः
अनित्यत्वाच्च जन्तूनां जीवितं निधनं व्रजेत् ३०
प्रेता भूताः पिशाचाश्च रक्षांसि विविधानि च
मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् ३१
तानि भेषजवीर्याणि प्रतिघ्नन्ति जिघांसया
तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषाम् ३२
इति सुश्रुतसंहितायां सूत्रस्थाने छायाविप्रतिपत्तिर्नामैकत्रिंशत्तमोऽध्यायः ३१


द्वात्रिंशत्तमोऽध्यायः
अथातः स्वभावविप्रतिपत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्वभावसिद्धानां शरीरैकदेशानामन्यभावित्वं मरणाय तद्यथाशुक्लानां कृ-ष्णत्वं कृष्णानां शुक्लता रक्तानामन्यवर्णत्वं स्थिराणां मृदुत्वं मृदूनां स्थिरता चलानामचलत्वम् अचलानां चलता पृथूनां संक्षिप्तत्वं संक्षिप्तानां पृथुता दीर्घाणां ह्रस्वत्वं ह्रस्वानां दीर्घता अपतनधर्मिणां पतनधर्मित्वं पतनधर्मि-णामपतनधर्मित्वमकस्मात् शैत्यौष्ण्यस्नैग्ध्यरौक्ष्यप्रस्तम्भवैवर्ण्यावसादनं
चाङ्गानाम् ३
स्वेभ्यः स्थानेभ्यः शरीरैकदेशानामवस्रस्तोत्क्षिप्तभ्रान्तावक्षिप्त पतितविमुत्त-क्त्!निर्गतान्तर्गतगुरुलघुत्वानि प्रवालवर्णव्यङ्गप्रादुर्भावो वाऽप्यकस्मात्सिराणां च दर्शनं ललाटे नासावंशे वा पिडकोत्पत्तिः ललाटे वा प्रभातकाले स्वेदः नेत्ररोगाद्विना वाऽश्रुप्रवृत्तिः गोमयचूर्णप्रकाशस्य वा रजसो दर्शनमुत्तमाङ्गे निलयनं वा कपोतकङ्ककाकप्रभृतीनां मूत्रपुरीषवृद्धिरभुञ्जानानां तत्प्रणाशो वा भुञ्जानानां स्तनमूलहृदयोरःसु च शूलोत्पत्तयः मध्ये शूनत्वमन्तेषु परि-म्लायित्वं विपर्ययो वा तथाऽधाङ्गे श्वयथुः शोषोऽङ्गपक्षयोर्वा नष्टहीनविक-लविकृतस्वरता वा विवर्णपुष्पप्रादुर्भावो वा दन्तमुखनखशरीरेषु यस्य वा-ऽप्सु कफपुरीषरेतांसि निमज्जन्ति यस्य वा दृष्टिमण्डले भिन्नविकृतानि रू-पाण्यालोक्यन्ते स्नेहाभ्यक्तकेशाङ्ग इव यो भाति यश्च दुर्बलो भक्तद्वेषातिसा-राभ्यां पीड्यते कासमानश्च तृष्णाभिभूतः क्षीणश्छर्दिभक्तद्वेषयुक्तः सफेन
पूयरुधिरोद्वामी हतस्वरः शूलाभिपन्नश्च मनुष्यः शूनकरचरणवदनः क्षीणो-ऽन्नद्वेषी स्रस्तपिण्डिकांसपाणिपादो ज्वरकासाभिभूतः यस्तु पूर्वाह्णे भुक्तमप-राह्णे छर्दयत्यविदग्धमतिसार्यते वा स श्वासान्म्रियते बस्तवद्विलपन् यश्च भू-मौ पतति स्रस्तमुष्कः स्तब्धमेढ्रो भग्नग्रीवः प्रनष्टमेहनश्च मनुष्यः प्राग्वि-शुष्यमाणहृदय आर्द्र शरीरः यश्च लोष्टं लोष्टेनाभिहन्ति काष्ठं काष्ठेन तृणानि वा छिनत्ति अधरोष्ठं दशति उत्तरोष्ठं वा लेढि आलुञ्चति वा कर्णौ केशांश्च देवद्विजगुरुसुहृद्वैद्यांश्च द्वेष्टि यस्य वक्रानुवक्रगा ग्रहा गर्हितस्थानगताः पी-डयन्ति जन्मर्क्षं वा यस्योल्का शनिभ्यामभिहन्यते होरा वागृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावो वेति ४
भवन्ति चात्र
चिकित्स्यमानः सम्यक् च विकारो योऽभिवर्धते
प्रक्षीणबलमांसस्य लक्षणं तद्गतायुषः ५
निवर्तते महाव्याधिः सहसा यस्य देहिनः
न चाहारफलं यस्य दृश्यते स विनश्यति ६
एतान्यरिष्टरूपाणि सम्यग् बुध्येत यो भिषक्
साध्यासाध्यपरीक्षायां स राज्ञः संमतो भवेत् ७
इति सुश्रुतसंहितायां सूत्रस्थाने स्वभावविप्रतिपत्तिर्नाम द्वात्रिंशोऽध्यायः ३२


त्रयस्त्रिंशत्तमोऽध्यायः
अथातोऽवारणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
उपद्र वैस्तु ये जुष्टा व्याधयो यान्त्यवार्यताम्
रसायनाद्विना वत्स तान् शृण्वेकमना मम ३
वातव्याधिः प्रमेहश्च कुष्ठमर्शो भगन्दरम्
अश्मरी मूढगर्भश्च तथैवोदरमष्टमम् ४
अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः
प्राणमांसक्षयः शोषस्तृष्णा च्छर्दिर्ज्वरस्तथा ५
अतीसारश्च मूर्च्छा च हिक्का श्वासस्तथैव च
एतैरुपद्र वैर्जुष्टान् सर्वानेव विवर्जयेत् ६
शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम्
नरं रुजार्तमन्तश्च वातव्याधिर्विनाशयेत् ७
यथोक्तोपद्र वाविष्टमतिप्रस्रुतमेव वा
पिडकापीडितं गाढं प्रमेहो हन्ति मानवम् ८
प्रभिन्नप्रस्रुताङ्गं च रक्तनेत्रं हतस्वरम्
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ९
तृष्णारोचकशूलार्तमतिप्रस्रुतशोणितम्
शोफातीसारसंयुक्तमर्शोव्याधिर्विनाशयेत् १०
वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च
भगन्दरात् प्रस्रवन्ति यस्य तं परिवर्जयेत् ११
प्रशूननाभिवृषणं रुद्धमूत्रं रुगन्वितम्
अश्मरी क्षपयत्याशु सिकताशर्करान्विता १२
गर्भकोषपरासङ्गो मक्कल्लो योनिसंवृतिः
हन्यात् स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्र वाः १३
पार्श्वभङ्गान्नविद्वेषशोफातीसारपीडितम्
विरिक्तं पूर्यमाणं च वर्जयेदुदरार्दितम् १४
यस्ताम्यति विसंज्ञश्च शेते निपतितोऽपि वा
शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः १५
यो हृष्टरोमा रक्ताक्षो हृदि संघातशूलवान्
नित्यं वक्त्रेण चोच्छ्वस्यात्तं ज्वरो हन्ति मानवम् १६
हिक्काश्वासपिपासार्तं मूढं विभ्रान्तलोचनम्
संततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः १७
आविलाक्षं प्रताम्यन्तं निद्रा युक्तमतीव च
क्षीणशोणितमांसं च नरं नाशयति ज्वरः १८
श्वासशूलपिपासार्तं क्षीणं ज्वरनिपीडितम्
विशेषेण नरं वृद्धमतीसारो विनाशयेत् १९
शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम्
कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् २०
श्वासशूलपिपासान्नविद्वेषग्रन्थिमूढताः
भवन्ति दुर्बलत्वं च गुल्मिनो मृत्युमेष्यतः २१
आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृडन्वितम्
रुजाश्वाससमाविष्टं विद्र धिर्नाशयेन्नरम् २२
पाण्डुदन्तनखो यश्च पाण्डुनेत्रश्च मानवः
पाण्डुसंघातदर्शी च पाण्डुरोगी विनश्यति २३
लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः
रक्तानां च दिशां द्र ष्टा रक्तपित्ती विनश्यति २४
अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः
जागरिष्णुरसंदेहमुन्मादेन विनश्यति २५
बहुशोऽपस्मरन्तं तु प्रक्षीणं चलितभ्रुवम्
नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् २६
इति सुश्रुतसंहितायां सूत्रस्थानेऽवारणीयो नाम त्रयस्त्रिंशत्तमोऽध्यायः ३३


चतुस्त्रिंशत्तमोऽध्यायः
अथातो युक्तसेनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नृपतेर्युक्तसेनस्य परानभिजिगीषतः
भिषजा रक्षणं कार्यं यथा तदुपदेक्ष्यते ३
विजिगीषुः सहामात्यैर्यात्रायुक्तः प्रयत्नतः
रक्षितव्यो विशेषेण विषादेव नराधिपः ४
पन्थानमुदकं छायां भक्तं यवसमिन्धनम्
दूषयन्त्यरयस्तच्च जानीयाच्छोधयेत्तथा ५
तस्य लिङ्गं चिकित्सा च कल्पस्थाने प्रवक्ष्यते
एकोत्तरं मृत्युशतमथर्वाणः प्रचक्षते ६
तत्रैकः कालसंयुक्तः शेषा आगन्तवः स्मृताः
दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ ७
रक्षेतां नृपतिं नित्यं यत्तौ वैद्यपुरोहितौ
ब्रह्मा वेदाङ्गमष्टाङ्गमायुर्वेदमभाषत ८
पुरोहितमते तस्माद्वर्तेत भिषगात्मवान्
संकरः सर्ववर्णानां प्रणाशो धर्मकर्मणाम्
प्रजानामपि चोच्छित्तिर्नृपव्यसनहेतुतः ९
पुरुषाणां नृपाणां च केवलं तुल्यमूर्तिता १०
आज्ञा त्यागः क्षमा धैर्यं विक्रमश्चाप्यमानुषः
तस्माद्देवमिवाभीक्ष्णं वाङ्मनःकर्मभिः शुभैः ११
चिन्तयेन्नृपतिं वैद्यः श्रेयांसीच्छन् विचक्षणः
स्कन्धावारे च महति राजगेहादनन्तरम् १२
भवेत्सन्निहितो वैद्यः सर्वोपकरणान्वितः
तत्रस्थमेनं ध्वजवद्यशःख्यातिसमुच्छ्रितम् १३
उपसर्पन्त्यमोहेन विषशाल्यामयार्दिताः
स्वतन्त्रकुशलोऽन्येषु शास्त्रार्थेष्वबहिष्कृतः १४
वैद्यो ध्वज इवाभाति नृपतद्विद्यपूजितः
वैद्यो व्याध्युपसृष्टश्च भेषजं परिचारकः १५
एते पादाश्चिकित्सायाः कर्मसाधनहेतवः
गुणवद्भिस्त्रिभिः पादैश्चतुर्थो गुणवान् भिषक् १६
व्याधिमल्पेन कालेन महान्तमपि साधयेत्
वैद्यहीनास्त्रयः पादा गुणवन्तोऽप्यपार्थकाः १७
उद्गातृहोतृब्रह्माणो यथाऽध्वर्युं विनाऽध्वरे
वैद्यस्तु गुणवानेकस्तारयेदातुरं सदा १८
प्लवं प्रतितरैर्हीनं कर्णधार इवाम्भसि
तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयंकृती १९
लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः
प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः २०
सत्यधर्मपरो यश्च स भिषक् पाद उच्यते
आयुष्मान् सत्त्ववान् साध्यो द्र व्यवानात्मवानपि २१
आस्तिको वैद्यवाक्यस्थो व्याधितः पाद उच्यते
प्रशस्तदेशसंभूतं प्रशस्तेऽहनि चोद्धृतम् २२
युक्तमात्रं मनस्कान्तं गन्धवर्णरसान्वितम्
दोषध्नमग्लानिकरमविकारि विपर्यये
समीक्ष्य दत्तं काले च भेषजं पाद उच्यते २३
स्निग्धोऽजुगुप्सुर्बलवान् युक्तो व्याधितरक्षणे
वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः २४
इति सुश्रुतसंहितायां सूत्रस्थाने युक्तसेनीयो नाम चतुस्त्रिंशत्तमोऽध्यायः ३४


पञ्चत्रिंशत्तमोऽध्यायः
अथात आतुरोपक्रमणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
आतुरमुपक्रममाणेन भिषजाऽयुरादावेव परीक्षितव्यं सत्यायुषि व्याध्यृत्वग्निवयोदेहबलसत्त्वसात्म्यप्रकृतिभेषजदेशान् परीक्षेत ३
तत्र महापाणिपादपार्श्वपृष्ठस्तनाग्रदशनवदनस्कन्धललाटं दीर्घाङ्गुलिपर्वो-च्छ्वासप्रेक्षणबाहुं विस्तीर्णभ्रूस्तनान्तरोरस्कं ह्रस्वजङ्घामेढ्रग्रीवं गम्भीरस-त्त्वस्वरनाभिम् अनुच्चैर्बद्धस्तनम् उपचितमहारोमशकर्णं पश्चान्मस्तिष्कं स्न-तानुलिप्तं मूर्धानुपूर्व्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमाणहृदयं पुरुषं
जानीयाद्दीर्घायुः खल्वयमिति तमेकान्तेनोपक्रमेत् एभिर्लक्षणैर्विपरीतैरल्पायुः मिश्रैर्मध्यमायुरिति ४
भवन्ति चात्रगूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रि यः
उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते ५
गर्भात् प्रभृत्यरोगो यः शनैः समुपचीयते
शरीरज्ञानविज्ञानैः स दीर्घायुः समासतः ६
मध्यमस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे
अधस्तादक्षयोर्यस्य लेखाः स्युर्व्यक्तमायताः ७
द्वे वा तिस्रोऽधिका वाऽपि पादौ कर्णौ च मांसलौ
नासाग्रमूर्ध्वं च भवेदूर्ध्वं लेखाश्च पृष्ठतः ८
यस्य स्युस्तस्य परममायुर्भवति सप्ततिः
जघन्यस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे ९
ह्रस्वानि यस्य पर्वाणि सुमहच्चापि मेहनम्
तथोरस्यवलीढानि न च स्यात्पृष्ठमायतम् १०
ऊर्ध्वं च श्रवणौ स्थानान्नासा चोच्चा शरीरिणः
हसतो जल्पतो वाऽपि दन्तमांसं प्रदृश्यते
प्रेक्षते यश्च विभ्रान्तं स जीवेत्पञ्चविंशतिम् ११
अथ पुनरायुषो विज्ञानार्थमङ्गप्रत्यङ्गप्रमाणसारानुपदेक्ष्यामः तत्राङ्गान्यन्तरा-धिसक्थिबाहुशिरांसि तदवयवाः प्रत्यङ्गानीति तत्र स्वैरङ्गुलैः पादाङ्गु-ष्ठप्रदेशिन्यौ द्व्यङ्गुलायत्प्रदेशिन्यास्तु मध्यमानामिकाकनिष्ठिका यथोत्तरं पञ्चमभागहीनाः चतुरङ्गुलायते पञ्चाङ्गुलविस्तृते प्रपदपादतले पञ्चचतु-रङ्गुलायतविस्तृता पार्ष्णिः चतुर्दशाङ्गुलायतः पादः चतुर्दशाङ्गुलपरि-णाहानि पादगुल्फजङ्घजानुमध्यानि अष्टादशाङ्गुला जङ्घा जानूपरिष्टाच्च द्वात्रिंशदङ्गुलम् एते पञ्चाशत् जङ्घायामसमावूरू द्व्यङ्गुलानिवृषणचि-बुकदशननासापुटभागकर्णमूलभ्रूनयनान्तराणि चतुरङ्गुलानि मेहनवदना-न्तरनासाकर्णललाटग्रीवोच्छ्रायदृष्टयन्तराणि द्वादशाङ्गुलानि भगविस्तार-मेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठस्थौल्यानि इन्द्र ब-स्तिपरिणाहांस पीठकूर्परान्तरायामः षोडशाङ्गुलः चतुर्विंशत्यङ्गुलो ह-स्तः द्वात्रिंशदङ्गुलपरिमाणौ भुजौ द्वात्रिंशत्परिणाहावूरू मणिबन्धकूर्परान्तरं षोडशाङ्गुलं तलं षट्चतुरङ्गुलायामविस्तारम् अङ्गुष्ठमूलप्रदेशिनीश्रव-णापाङ्गान्तरमध्यमङ्गुल्यौ पञ्चाङ्गुले अर्धपञ्चाङ्गुले प्रेदेशिन्यनामिके सार्धत्र्! यङ्गुलौ कनिष्ठाङ्गुष्ठौ चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवं त्रिभा-गाङ्गुलविस्तारा नासापुटमर्यादा नयनत्रिभागपरिणाहा तारका नवमस्तार-कांशो दृष्टिः केशान्तमस्तकान्तरमेकादशाङ्गुलं मस्तकादवटुकेशान्तो दशाङगुलः कर्णावट्वन्तरं चतुर्दशाङ्गुलं पुरुषोरः प्रमाणविस्तीर्णा स्त्री-श्रोणिः अष्टादशाङ्गुलविस्तारमुरः तत्प्रमाणा पुरुषस्य कटी सविंशम-ङ्गुलशतंपुरुषायाम इति १२
भवन्ति चात्र श्लोकाः
पञ्चविंशे ततो वर्षे पुमान् नारी तु षोडशे
समत्वागतवीर्यौ तौ जानीयात् कुशलो भिषक् १३
देहः स्वैरङ्गुलैरेष यथावदनुकीर्तितः
युक्तः प्रमाणेनानेन पुमान् वा यदि वाऽङ्गना १४
दीर्घमायुरवाप्नोति वित्तं च महदृच्छति
मध्यमं मध्यमैरायुर्वित्तं हीनैस्तथाऽवरम् १५
अथ सारान् वक्ष्यामःस्मृतिभक्तिप्रज्ञाशैचशौर्योपेतं कल्याणाभिनिवेशं सत्त्व-सारं विद्यात् स्निग्धसंहतश्वेतास्थिदन्तनखं बहुलकामप्रजं शुक्रेण अकृशमु-त्तमबलं स्निग्धगम्भीरस्वरं सौभाग्योपपय्ननं महानेत्रं च मज्ज्ञा महाशिरः स्कन्धं दृढदन्तहन्वस्थिनखमस्थिभिः स्निग्धमूत्रस्वेदस्वरं बृहच्छरीरमाया-सासहिष्णुं मेदसा अच्छिद्र गात्रं गूढास्थिसन्धिं मांसोपचितं च मांसेन स्नि-ग्धताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलं रक्तेन सुप्रसन्नमृदुत्वग्रोमाणं त्वक्सारं विद्यादिति एषां पूर्वं पूर्वं प्रधानमायुः सौभाग्ययोरिति १६
विशेषतोऽङ्गप्रत्यङ्गप्रमाणादथ सारतः
परीक्ष्यायुः सुनिपुणो भिषक् सिध्यति कर्मसु १७
व्याधिविशेषास्तु प्रागभिहिताः सर्व एवैते त्रिविधाः साध्या याप्याः प्रत्या-ख्येयाश्च तत्रैतान् भूयस्त्रिधा परीक्षेतकिमयमौपसर्गिकः प्राक्केवलः अन्य-लक्षण इति तत्र औपसर्गिको नाम यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति स तन्मूल एवोपद्र वसंज्ञः प्राक्केवलो नाम यः प्रागेवोत्पन्नो व्याधिरपूर्वरूपोऽनुपद्र वश्च अन्यलक्षणो नाम यो भविष्यद्व्याधिख्यापकः स पूर्वरूपसंज्ञः तत्र सोपद्र वमन्योन्या विरोधेनोपक्रमेत बलवन्तमुपद्र वं वा प्राक्केवलं यथास्वं प्रतिकुर्वीत अन्यलक्षणे त्वादिव्याधौ प्रयतेत १८
भवति चात्र
नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः
अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् १९
प्रागभिहिता ऋतवः २०
शीते शीतप्रतीकारमुष्णे चोष्णनिवारणम्
कृत्वा कुर्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत् २१
अप्राप्ते वा क्रियाकाले प्राप्ते वा न कृता क्रिया
क्रिया हीनाऽतिरिक्ता वा साध्येष्वपि न सिध्यति २२
या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च
सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत् २३
प्रागभिहितोऽग्निरन्नस्य पाचकः स चतुर्विधो भवति दोषानभिपन्न एकः वि-क्रियामापन्नस्त्रिविधो भवतिविषमो वातेन तीक्ष्णः पित्तेन मन्दः श्लेष्मणा चतुर्थः समः सर्वसाम्यादिति तत्र यो यथाकालमुपयुक्तमन्नं सम्यक् पचति स समः समैर्दोषैः यः कदाचित् सम्यक् पचति कदाचिदाध्मानशूलोदाव-र्तातिसारजठरगौरवान्त्रकूजनप्रवाहणानि कृत्वा स विषमः यः प्रभूतमप्यु-पयुक्तमन्नमाशुपचति स तीक्ष्णः स एवाभिवर्धमानोऽत्यग्निरित्याभाष्यते स मुहुर्मुहुः प्रभूतमप्युपयुक्तमन्नमाशुतरं पचति पाकान्ते च गलताल्वोष्ठशोषदा-हसंतापाञ्जनयति यस्त्वल्पमप्युपयुक्तमुदरशिरोगौरवकासश्वासप्रसेकच्छर्दिगात्रसदनानि कृत्वा महताकालेन पचति स मन्दः २४
विषमो वातजान् रोगांस्तीक्ष्णः पित्तनिमित्तजान्
करोत्यग्निस्तथा मन्दो विकरान्कफसंभवान् २५
तत्र समे परिरक्षणं कुर्वीत विषमे स्निग्धाम्ललवणैः क्रियाविशेषैः प्रतिकु-र्वीत तीक्ष्णे मधुरस्निग्धशीतैर्विरेकैश्च एवमेवात्यग्नौ विशेषेण माहिषैश्च क्षी-रदधिसर्पिर्भिः मन्दे कटुतिक्तकषायैर्वमनैश्च २६
जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः
सौक्ष्म्याद्र सानाददानो विवेक्तुं नैव शक्यते २७
प्राणापानसमानैस्तु सर्वतः पवनैस्त्रिभिः
ध्मायते पाल्यते चापि स्वां स्वां गतिमवस्थितैः २८
वयस्तु त्रिविधंबाल्यं मध्यं वृद्धमिति तत्रोनषोडशवर्षीया बालाः ते त्रिवि-धाःक्षीरपाः क्षीरान्नादा अन्नादा इति तेषु संवत्सरपराः क्षीरपाः द्विसंवत्सर-पराः क्षीरान्नादाः परतोऽन्नादा इति षोडशसप्तत्योरन्तरे मध्यं वयः तस्य विकल्पोवृद्धिः यौवनं संपूर्णता परिहाणिरिति तत्र आविंशतेर्वृद्धिः आत्रिं-शतो यौवनम् आचत्वारिंशतः सर्वधात्विन्द्रि यबलवीर्यसंपूर्णता अत ऊर्ध्व-मीषत्परिहाणिर्यावत्सप्ततिरिति सप्ततेरूर्ध्वं क्षीयमाणधात्विन्द्रि यबलवी-र्योत्साहमहन्यहनि वलीपलित खालित्यजुष्टं कासश्वासप्रभृतिभिरुपद्र वैरभि-भूयमानं सर्वक्रियास्वसमर्थं जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते
२९
तत्रोत्तरोत्तरासु वयोवस्थासूत्तरोत्तरा भेषजमात्राविशेषा
भवन्ति ऋते च परिहाणेः तत्राद्यापेक्षया प्रतिकुर्वीत ३०
भवन्ति चात्रबाले विवर्धते श्लेष्मा मध्यमे पित्तमेव तु
भूयिष्ठं वर्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् ३१
अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्जयेत्
तत्साध्येषु विकारेषु मृद्वीं कुर्यात् क्रियां शनैः ३२
देहः स्थूलः कृशो मध्य इति प्रागुपदिष्टः ३३
कर्शयेद्बृंहयेच्चापि सदा स्थूलकृशौ नरौ
रक्षणं चैव मध्यस्य कुर्वीत सततं भिषक् ३४
बलमभिहितगुणं दौर्बल्यं तु स्वभावदोषजरादिभिरवेक्षितव्यम्
यस्माद्बलवतः सर्वक्रियाप्रवृत्तिस्तस्माद्बलमेव प्रधानमधिकरणानाम् ३५
केचित् कृशाः प्राणवन्तः स्थूलाश्चाल्पबला नराः
तस्मात् स्थिरत्वं व्यायामैर्बलं वैद्यः प्रतर्कयेत् ३६
सत्त्वं तु व्यसनाभ्युदयक्रियादिस्थानेष्वविक्लवकरम् ३७
सत्त्ववान् सहते सर्वं संस्तभ्यात्मानमात्मना
राजसः स्तभ्यमानोऽन्यै सहते नैव तामसः ३८
सात्म्यानि तु देशकालजात्यृतुरोगव्यायामोदकदिवास्वप्नरसप्रभृतीनि प्रकृ-तिविरुद्धान्यपि यान्यबाधकराणि भवन्ति ३९
यो रसः कल्पते यस्य सुखायैव निषेवितः
व्यायामजातमन्यद्वा तत् सात्म्यमिति निर्दिशेत् ४०
प्रकृतिं भेषजं चोपरिष्टाद्वक्ष्यामः ४१
देशस्त्वानूपो जाङ्गलः साधारण इति तत्र बहूदकनिम्नोन्नतनदीवर्षगहनो मृ-दुशीतानिलो बहुमहापर्वतवृक्षो मृदुसुकुमारोपचितशरीरमनुष्यप्रायः कफ-वातरोगभूयिष्ठश्चानूपः आकाशसमः प्रविरलाल्पकण्टकिवृक्ष प्रायोऽल्पव-र्षप्रस्रवणोदपानोदकप्राय उष्णदारुणवातः प्रविरलाल्पशैलः स्थिरकृशशरी-रमनुष्यप्रायो वातपित्तरोगभूयिष्ठश्च जाङ्गलः उभयदेशलक्षणः साधारण इति
४२
भवन्ति चात्रसमाः साधारणे यस्माच्छीतवर्षोष्ममारुताः
दोषाणां समता जन्तोस्तस्मात्साधारणो मतः ४३
न तथा बलवन्तः स्युर्जलजा वा स्थलाहृताः
स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः ४४
उचिते वर्तमानस्य नास्ति देशकृतं भयम्
आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति ४५
देशप्रकृतिसात्म्यर्तुविपरीतोऽचिरोत्थितः
संपत्तौ भिषगादीनां बलसत्त्वायुषां तथा ४६
केवलः समदेहाग्नेः सुखसाध्यतमो गदः
अतोऽन्यथा त्वसाध्यः स्यात्कृच्छ्रो व्यामिश्रलक्षणः ४७
क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत्
पूर्वस्यां शान्तवेगायां न क्रियासंकरो हितः ४८
गुणालाभेऽपि सपदि यदि सैव क्रिया हिता
कर्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि ४९
य एवमेनं विधिमेकरूपं बिभर्ति कालादिवशेन धीमान्
स मृत्युपाशाञ्जगतो गदौघाञ्छिनत्ति भैषज्यपरश्वधेन ५०
इति सुश्रुतसंहितायां सूत्रस्थाने आतुरोपक्रमणीयो नाम पञ्चत्रिंशोऽध्यायः ३५
षट्त्रिंशत्तमोऽध्यायः
अथातो भूमिप्रविभागीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
श्वभ्रशर्कराश्मविषमवल्मीकश्मशानाघातनदेवतायतनसिकताभिरनुपहतामनूषरामभङ्गुरामदूरोदकां स्निग्धां प्ररोहवतीं मृद्वीं स्थिरा समां कृष्णां गौरीं लोहितां वा भूमिमौषधग्रहणाय परीक्षेत तस्यां जातमपि कृमिविषशस्त्रात-पपवनदहनतोयसंबाधमार्गैरनुपहतमेकरसं पुष्टं पृथ्ववगाढमूलमुदीच्यां चौषधमाददीतेत्येष भूमिपरीक्षाविशेषः सामान्यः ३
विशेषतस्तु तत्र अश्मवती स्थिरा गुर्वी श्यामा कृष्णा वा स्थूलवृक्षशस्य-प्राया स्वगुणभूयिष्ठा स्निग्धा शीतलाऽसन्नोदका स्निग्शस्यतृणकोमलवृक्ष-प्राय शुक्लाऽम्बुगुणभूयिष्ठा नानावर्णा लघ्वश्मवति प्रविरलाल्पपाण्डुवृक्ष-प्ररोहाऽग्निगुणभूयिष्ठा रूक्षा भस्मरासभवर्णा तनुवृक्षाल्परस कोटरवृक्षप्राया-ऽनिलगुणभूयिष्ठा मृद्वी समा श्वभ्रवत्यव्यक्तरसजला सर्वतोऽसारवृक्षा महापर्वतवृक्षप्राया श्यामा चाकाशगुणभूयिष्ठा ४
अत्र केचिदाहुराचार्याःप्रावृड्वर्षाशरद्धेमन्तवसन्तग्रीष्मेषु यथासंख्यं मूल-पत्रत्वक्क्षीरसारफलान्याददीतेति तत्तु न सम्यक् सौम्याग्नेयत्वाज्जगतः सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीत आग्नेयान्याग्नेयेषु एवमव्यापय्ननगुणा-नि भवन्ति सौम्यान्यौषधानि सौम्येष्वृतुषुगृहीतानि सोमगुणभूयिष्ठायां भूमौ
जातान्यतिमधुरस्निग्ध शीतानि जायन्ते एतेन शेषं व्याख्यातम् ५
तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ जातानि विरेचनद्र व्याण्याददीत अग्न्या काशमारुतगुणभूयिष्ठायां वमनद्र व्याणि उभयगुणभूयिष्ठायामुभयतोभागानि
आकाशगुणभूयिष्ठायां संशमनानि एवं बलवत्तराणि भवन्ति ६
सर्वाण्येव चाभिनवानि अन्यत्र मधुघृतगुडपिप्पलीविडङ्गेभ्यः ७
विडङ्गं पिप्पली क्षौद्रं सर्पिश्चाप्यनवं हितम्
शेषमन्यत्वभिनवं गृह्णीयाद्दोषवर्जितम् ८
सर्वाण्येव सक्षीराणि वीर्यवन्ति तेषामसंपत्तावति क्रान्तसंवत्सराण्याददीतेति ९
भवन्ति चात्र
गोपालास्तापसा व्याधा ये चान्ये वनचारिणः
मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते १०
सर्वावयवसाध्येषु पलाशलवणादिषु
व्यवस्थितो न कालोऽस्ति तत्र सर्वो विधीयते ११
गन्धवर्णरसोपेता षडिवधा भूमिरिष्यते
तस्माद्भूमिस्वभावेन बीजिनः षड्रसायुताः १२
अव्यक्तः किल तोयस्य रसो निश्चयनिश्चितः
रसः स एव चाव्यक्तो व्यक्तो भूमिरसाद्भवेत् १३
सर्वलक्षणसंपन्ना भूमिः साधारणा स्मृता
द्र व्याणि यत्र तत्रैव तद्गुणानि विशेषतः १४
विगन्धेनापरामृष्टमविपन्नं रसादिभिः
नवं द्र व्यं पुराणं वा ग्राह्यमेवं विनिर्दिशेत् १५
जङ्गमानां वयःस्थानां रक्तरोमनखादिकम्
क्षीरमूत्रपुरीषाणि जीर्णाहारेषु संहरेत् १६
प्लोतमृद्भाण्डफलकशङ्कुविन्यस्तभेषजम्
प्रशस्तायां दिशि शुचौ भेषजागारमिष्यते १७
इति सुश्रुतसंहितायां सूत्रस्थाने भूमिप्रविभागीयो नाम षट्त्रिंशोऽध्यायः ३६


सप्तत्रिंशत्तमोऽध्यायः
अथातो मिश्रकमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मातुलुङ्ग्यग्निमन्थौ च भद्र दारु महौषधम्
अहिंस्रा चैव रास्ना च प्रलेपो वातशोफजित् ३
दूर्वा च नलमूलं च मधुकं चन्दनं तथा
शीतलाश्च गणाः सर्वे प्रलेपः पित्तशोफहृत् ४
आगन्तुजे रक्तजे च ह्येष एव विधिः स्मृतः
विधिर्विषघ्नो विषजे पित्तघ्नोऽपि हितस्तथा ५
अजगन्धाऽश्वगन्धा च काला सरलया सह
एकैषिकाऽजशृङ्गी च प्रलेपः श्लेष्मशोफहृत् ६
एते वर्गास्त्रयो लोध्रं पथ्या पिण्डीतकानि च
अनन्ता चेति लेपोऽय सन्निपातिकशोफहृत् ७
स्निन्धाम्ललवणो वाते कोष्णः शीतः पयोयुतः
पित्ते चोष्णः कफे क्षारमूत्राढ्यस्तत्प्रशान्तये ८
शणमूलकशिग्रूणां फलानि तिलसर्षपाः
सक्तवः किण्वमतसी द्र व्याण्युष्णानि पाचनम् ९
चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः
कपोतकङ्कगृध्राणां पुरीषाणि च दारणम्
क्षारद्र व्याणि वा यानि क्षारो वा दारणं परम् १०
द्र व्याणां पिच्छिलानां तु त्वङ्मूलानि प्रपीडनम्
यवगोधूममाषाणां चूर्णानि च समासतः ११
शङ्खिन्यङ्कोठसुमनःकरवीरसुवर्चलाः
शोधनानि कषायाणि वर्गश्चारग्वधादिकः १२
अजगन्धाऽजशृङ्गी च गवाक्षी लाङ्गलाह्वया
पूतीकश्चित्रकः पाठा विडङ्गैलाहरेणवः १३
कटुत्रिकं यवक्षारो लवणानि मनः शिला
कासीसं त्रिवृता दन्ती हरितालं सुराष्ट्रजा १४
संशोधनीनां वर्तीनां द्र व्याण्येतानि निर्दिशेत्
एतैरेवौषधैः कुर्यात्कल्कानपि च शोधनान् १५
अर्कोत्तमां स्नुहीक्षीरं पिष्ट्वा क्षारोत्तमानि च
जातीमूलं हरिद्रे द्वे कासीसं कटुरोहिणीम् १६
पूर्वोद्दिष्टानि चान्यानि कुर्यात् संशोधनं घृतम्
मयूरको राजवृक्षो निम्बः कोशातकी तिलाः १७
बृहती कण्टकारी च हरितालं मनः शिला
शोधनानि च योज्यानि तैले द्र व्याणि शोधने १८
कासीसे सैन्धवे किण्वे वचायां रजनीद्वये
शोधनाङ्गेषु चान्येषु चूर्णं कुर्वीत शोधनम् १९
सालसारादिसारेषु पटोलत्रिफलासु च
रसक्रिया विधातव्या शोधनी शोधनेषु च २०
श्रीवेष्टके सर्जरसे सरले देवदारुणि
सारेष्वपि च कुर्वीत मतिमान् व्रणधूपनम् २१
कषायाणामनुष्णानां वृक्षाणां त्वक्षु साधितः
शृतः शीतकषायो वा रोपणार्थं प्रशस्यते २२
सोमामृताश्वगन्धासु काकोल्यादौ गणे तथा
क्षीरिप्ररोहेष्वपि च वर्तयो रोपणाः स्मृताः २३
समङ्गा सोमसरला सोमवल्कः सचन्दनः
काकोल्यादिश्च कल्कः स्यात् प्रशस्तो व्रणरोपणे २४
पृथक्पर्ण्यात्मगुप्ता च हरिद्रे मालती सिता
काकोल्यादिश्च योज्यः स्याद्भिषजा रोपणे घृते २५
कालानुसार्यागुरुणी हरिद्रे देवदारु च
प्रियङ्गवश्च रोध्रं च तैले योज्यानि रोपणे २६
कङ्गुका त्रिफला रोध्रं कासीसं श्रवणाह्वया
धवाश्वकर्णयोस्त्वक् च रोपणं चूर्णमिष्यते २७
प्रियङ्गुका सर्जरसः पुष्पकासीसमेव च
त्वक्चूर्णं धवजं चैव रोपणार्थं प्रशस्यते २८
त्वक्षु न्यग्रोधवर्गस्य त्रिफलायास्तथैव च
रसक्रियां रोपणार्थे विदधीत यथाक्रमम् २९
अपामार्गोऽश्वगन्धा च तालपत्री सुवर्चला
उत्सादने प्रशस्यन्ते काकोल्यादिश्च यो गणः ३०
कासीसं सैन्धवं किण्वं कुरुविन्दो मनः शिला
कुक्कुटाण्डकपालानि सुमनोमुकुलानि च ३१
फले शैरीषकारञ्जे धातुचूर्णानि यानि च
व्रणेषूत्सन्नमांसेषु प्रशस्तान्यवसादने ३२
समस्तं वर्गमर्धं वा यथालाभमथापि वा
प्रयुञ्जीत भिषक् प्राज्ञो यथोद्दिष्टेषु कर्मसु ३३
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने मिश्रकाध्यायो नाम सप्तत्रिंशत्तमोऽध्यायः ३७


अष्टत्रिंशत्तमोऽध्यायः
अथातो द्र व्यसंग्रहणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
समासेन सप्तत्रिंशद्द्र व्यगणा भवन्ति ३
तद्यथाविदारिगन्धा विदारी विश्वदेवा सहदेवा श्वदंष्ट्रा पृथक्पर्णी शतावरी सारिवा कृष्णसारिवा जीवकर्षभकौ महासहा क्षुद्र सहा बृहत्यौ पुनर्नवैरण्डो
हंसपादी वृश्चिकाल्यृषभी चेति ४
विदारिगन्धादिरयं गणः पित्तानिलापहः
शोषगुल्माङ्गमर्दोर्ध्वश्वासकासविनाशनः ५
आरग्वधमदनगोपघोण्टाकण्टकीकुटजपाठापाटलामूर्वेन्द्र यवसप्तपर्णनिम्ब-कुरुण्टकदासीकुरुण्टकगुडूचीचित्रकशार्ङ्गर्ङ्गिए!ष्टिआ!करञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति ६
आरग्वधादिरित्येष गणः श्लेष्मविषापहः
मेहकुष्ठज्वरवमीकण्डूघ्नो व्रणशोधनः ७
सालसाराजकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जमेषशृङ्गतिनिशचन्दनकुचन्दनशिंशपाशिरीषासनधवार्जुनतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि
कालीयकं चेति ८
सालसारादिरित्येष गणः कुष्ठविनाशनः
मेहपाण्ड्वामयहरः कफमेदोविशोषणः ९
वरुणार्तगलशिग्रुमधुशिग्रुतर्कारीमेषशृङ्गीपूतीकनक्तमालमोरटाग्निमन्थसैरे-यकद्वयबिम्बीवसुकवसिरचित्रक शतावरीबिल्वाजशृङ्गीदर्भा बृहतीद्वयंचेति
१०
वरुणादिर्गणो ह्येष कफमेदोनिवारणः
विनिहन्ति शिरःशूलगुल्माभ्यन्तरविद्र धीन् ११
वीरतरुसहचरद्वयदर्भवृक्षादनीगुन्द्रा नलकुशकाशाश्मभेदकाग्निमन्थमोरटाव
सुकवसिरभल्लूककुरण्टिकेन्दीवरकपोतवङ्काः श्वदंष्ट्रा चेति १२
वीरतर्वादिरित्येष गणो वातविकारनुत्
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः १३
लोध्रसावरलोध्रपलाशकुटन्नटाशोकफञ्जीकट्फलैलवालु
कशल्लकीजिङ्गिनीकदम्बसालाः कदली चेति १४
एष रोध्रादिरित्युक्तो मेदःकफहरो गणः
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः १५
अर्कालर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीरास्नेन्द्र पुष्पीक्षुद्र श्वेतामहाश्वेतावृश्चिकाल्यलवणास्तापसवृक्षश्चेति १६
अर्कादिको गणो ह्येष कफमेदोविषापहः
कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः १७
सुरसाश्वेतसुरसाफणिज्झकार्जकभूस्तृणसुगन्धकसुमुख कालमाल कुठेरकका समर्दक्षवकखरपुष्पाविडङ्गकट् फलसुरसीनिर्गुण्डी कुलाहलोन्दुरुकर्णिकाफञ्जीप्राचीबलकाकमाच्यो विषमुष्टिकश्चेति १८
सुरसादिर्गणो ह्येष कफहृत् कृमिसूदनः
प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः १९
मुष्ककपलाशधवचित्रकमदनवृक्षकशिंशपावज्रवृक्षास्त्रिफला चेति २०
मुष्ककादिर्गणो ह्येष मेदोघ्नः शुक्रदोषहृत्
मेहार्शःपाण्डुरोगाश्मशर्करानाशनः परः २१
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोदे-न्द्र यवपाठाजीरकसर्षपमहानिम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविड-ङ्गानि कटुरोहिणी चेति २२
पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः
निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः २३
एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रियङ्गुहरेणुकाव्याघ्रनख शुक्ति-चण्डास्थौणेयकश्रीवेष्टकचोचचोरकवालुकगुग्गुलुसर्जरसतुरुष्ककुन्दुरुकागुरुस्पृक्कोशीरभद्र दारुकुङकुमानि पुन्नागकेशरं चेति २४
एलादिको वातकफौ विहन्याद्विषमेव च
वर्णप्रसादनः कण्डूपिडकाकोठनाशनः २५
वचामुस्तातिविषाभयाभद्र दारूणि नागकेशरं चेति २६
हरिद्रा दारुहरिद्रा कलशीकुटजबीजानि मधुकं चेति २७
एतौ वचाहरिद्रा दी गणौ स्तन्यविशोधनौ
आमातिसारशमनौ विशेषाद्दोषपाचनौ २८
श्यामामहाश्यामात्रिवृद्दन्तीशङ्खिनीतिल्वककम्पिल्लकरम्यकक्रमुकपुत्रश्रेणी
गवाक्षीराजवृक्षकरञ्जद्वयगुडूचीसप्तलाच्छगलान्त्रीसुधाः सुवर्णक्षीरी चेति २९
उक्तः श्यामादिरित्येष गणो गुल्मविषापहः
आनाहोदरविड्भेदी तथोदावर्तनाशनः ३०
बृहतीकण्टकारिकाकुटजफलपाठा मधुकं चेति ३१
पाचनीयो बृहत्यादिर्गणः पित्तानिलापहः
कफारोचकहृद्रो गमूत्रकृच्छ्ररुजापहः ३२
पटोलचन्दनकुचन्दनमूर्वागुडूचीपाठाः कटुरोहिणी चेति ३३
पटोलादिर्गणः पित्तकफारोचकनाशनः
ज्वरोपशमनो व्रण्यश्छर्दिकण्डूविषापहः ३४
काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपर्णीमेदामहामेदाच्छिन्नरुहाकर्कटशृङ्गीतुगाक्षीरीपद्मकप्रपौण्डरीकर्धि वृद्धिमृद्वीकाजीवन्त्यो मधुकं चेति ३५
काकोल्यादिरयं पित्तशोणितानिलनाशनः
जीवनो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ३६
ऊषकसैन्धवशिलाजतुकासीसद्वयहिङ्गूनि तुत्थकं चेति ३७
ऊषकादिः कफं हन्ति गणो मेदोविशोषणः
अश्मरीशर्करामूत्रकृच्छ्रगुल्मप्रणाशनः ३८
सारिवामधुकचन्दनकुचन्दनपद्मककाश्मरीफलमधू कपुष्पाण्युशीरं चेति ३९
सारिवादिः पिपासाघ्नो रक्तपित्तहरो गणः
पित्तज्वरप्रशमनो विशेषाद्दाहनाशनः ४०
अञ्जनरसाञ्जननागपुष्पप्रियङ्गुनीलोत्पल नलदनलिनकेशराणि मधुकं चेति ४१
अञ्जनादिर्गणो ह्येष रक्तपित्तनिबर्हणः
विषोपशमनो दाहं निहन्त्याभ्यन्तरं भृशम् ४२
परूषकद्रा क्षाकट्फलदाडिमराजादनकतकफलशाकफलानि त्रिफला चेति ४३
परूषकादिरित्येष गणोऽनिलविनाशनः
मूत्रदोषहरो हृद्यः पिपासाघ्नो रुचिप्रदः ४४
प्रियङ्गुसमङ्गाधातकीपुन्नागनागपुष्पचन्दनकुचन्दनमोचरसरसाञ्जनकुम्भी कस्रोतोजपद्मकेसरयोजनवल्ल्यो दीर्घमूला चेति ४५
अम्बष्ठाधातकीकुसुमसमङ्गाकट्वङ्गमधुकबिल्वपेशिकासावररोध्रपलाशन-न्दीवृक्षाः पद्मकेशराणि चेति ४६
गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ
सन्धानीयौ हितौ पित्ते व्रणानां चापि रोपणौ ४७
न्यग्रोधोदुम्बराश्वत्थप्लक्षमधुककपीतनककुभाम्रकोशाम्रचोरकपत्रजम्बूद्वय प्रियालमधूकरोहिणीवञ्जुलकदम्बबदरीतिन्दुकीसल्लकीरोध्रसावररोध्रभ-ल्लातकपलाशा नन्दीवृक्षश्चेति ४८
न्यग्रोधादिर्गणो व्रण्यः संग्राही भग्नसाधकः
रक्तपित्तहरो दाहमेदोघ्नो योनिदोषहृत् ४९
गुडूचीनिम्बकुस्तुम्बुरुचन्दनानि पद्मकं चेति ५०
एष सर्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः
हृल्लासारोचकवमीपिपासादाहनाशनः ५१
उत्पलरक्तोत्पलकुमुदसौगन्धिककुवलयपुण्डरीकाणि मधुकं चेति ५२
उत्पलादिरयं दाहपित्तरक्तविनाशनः
पिपासाविषहृद्रो गच्छर्दिमूर्च्छाहरो गणः ५३
मुस्ताहरिद्रा दारुहरिद्रा हरीतक्यामलकबिभीतककुष्ठहैमवतीवचापाठाकटु रोहिणीशार्ङ्गष्टातिविषाद्रा विडीभल्लातकानि चित्रकश्चेति ५४
एष मुस्तादिको नाम्ना गणः श्लेष्मनिषूदनः
योनिदोषहरः स्तन्यशोधनः पाचनस्तथा ५५
हरीतक्यामलकबिभीतकानीति त्रिफला ५६
त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशनी
चक्षुष्या दीपनी चैव विषमज्वरनाशनी ५७
पिप्पलीमरिचशृङ्गवेराणीति त्रिकटुकम् ५८
त्र्! यूषणं कफमेदोघ्नं मेहकुष्ठत्वगामयान्
निहन्याद्दीपनं गुल्मपीनसाग्न्यल्पतामपि ५९
आमलकीहरीतकीपिप्पल्यश्चित्रकश्चेति ६०
आमलक्यादिरित्येष गणः सर्वज्वरापहः
चक्षुष्यो दीपनो वृष्यः कफारोचकनाशनः ६१
त्रपुसीसताम्ररजतसुवर्णकृष्णलोहानि लोहमलश्चेति ६२
गणस्त्रप्वादिरित्येष गरक्रिमिहरः परः
पिपासाविषहृद्रो गपाण्डुमेहहरस्तथा ६३
लाक्षारेवतकुटजाश्वमारकट्फलहरिद्रा द्वयनि
म्बसप्तच्छदमालत्यस्त्रायमाणा चेति ६४
कषायतिक्तमधुरः कफपित्तार्तिनाशनः
कुष्ठक्रिमिहरश्चैव दुष्टव्रणविशोधनः ६५
पञ्च पञ्चमूलान्यत ऊर्ध्वं वक्ष्यामःतत्र त्रिकण्टकबृहतीद्वयपृथ
क्पर्ण्यो विदारिगन्धा चेति कनीयः ६६
कषायतिक्तमधुरं कनीयः पञ्चमूलकम्
वातघ्नं पित्तशमनं बृंहणं बलवर्धनम् ६७
बिल्वाग्निमन्थटिण्टुकपाटलाः काश्मरी चेति महत् ६८
सतिक्तं कफवातघ्नं पाके लघ्वग्निदीपनम्
मधुरानुरसं चैव पश्चमूलं महत् स्मृतम् ६९
अनयोर्दशमूलमुच्यते ७०
गणः श्वासहरो ह्येष कफपित्तानिलापहः
आमस्य पाचनश्चैव सर्वज्वरविनाशनः ७१
विदारीसारिवारजनीगुडूच्योऽजशृङ्गी चेति वल्लीसंज्ञः ७२
करमर्दीत्रिकण्टकसैरीयकशतावरीगृध्रनख्य इति कण्टकसंज्ञः ७३
रक्तपित्तहरौ ह्येतौ शोफत्रयविनाशनौ
सर्वमेहहरौ चैव शुक्रदोषविनाशनौ ७४
कुशकाशनलदर्भकाण्डेक्षुका इति तृणसंज्ञकः ७५
मूत्रदोषविकारं च रक्तपित्तं तथैव च
अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत् ७६
एषां वातहरावाद्यावन्त्यः पित्तविनाशनः
पञ्चकौ श्लेष्मशमनावितरौ परिकीर्तितौ ७७
त्रिवृतादिकमन्यत्रोपदेक्ष्यामः ७८
समासेन गणा ह्येते प्रोक्तास्तेषां तु विस्तरम्
चिकित्सितेषु वक्ष्यामि ज्ञात्वा दोषबलाबलम् ७९
एभिर्लेपान् कषायांश्च तैलं सर्पींषि पानकान्
प्रविभज्य यथान्यायं कुर्वीत मतिमान् भिषक् ८०
धूमवर्षानिलक्लेदैः सर्वर्तुष्वनभिद्रुते
ग्राहयित्वा गृहे न्यस्येद्विधिनौषधसंग्रहम् ८१
समीक्ष्य दोषभेदांश्च भिन्नान् मिश्रान् प्रयोजयेत्
पृथङ्मिश्रान् समस्तान्वा गणं वा व्यस्तसंहतम् ८२
इति सुश्रुतसंहितायां सूत्रस्थाने द्र व्यसंग्रहणीयो नामाष्टत्रिंशोऽध्यायः ३८
एकोनचत्वारिंशत्तमोऽध्यायः
अथातः संशोधनसंशमनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मदनकुटजजीमूतकेक्ष्वाकुधामार्गवकृतवेधनसर्षपविडङ्गपिप्पलीकरञ्जप्रपु-न्नाडकोविदारकर्बुदारारिष्टाश्वगन्धाविदुलबन्धुजीवकश्वेताशणपुष्पीबिम्बीव-चामृगेर्वारवश्चित्रा चेत्यूर्ध्वभागहराणि तत्र कोविदारपूर्वाणां फलानि को-विदारादीनां मूलानि ३
विवृताश्यामादन्तीद्र वन्तीसप्तलाशङ्खिनीविषाणिकागवाक्षीच्छगलान्त्रीस्नु-क्सुवर्णक्षीरीचित्रककिणिहीकुशकाशतिल्वककम्पिल्लकरम्यकपाटलापू-गहरीतक्यामलकबिभीतकनीलिनीचतुरङ्गुलैरण्डपूतीकमहावृक्षसप्तच्छदार्का ज्योतिष्मती चेत्यधोभागहराणि तत्र तिल्वकपूर्वाणां मूलानि इतल्व-कादीनां पाटलान्तानां त्वचः कम्पिल्लकफलरजः पूगादीनामेरण्डान्तानां
फलानि पूतीकारग्वधयोः पत्राणि शेषाणां क्षीराणीति ४
कोशातकी सप्तला शङ्खिनी देवदाली कारवेल्लिका चेत्युभयतोभागहराणि
एषां स्वरसा इति ५
पिप्पलीविडङ्गापामार्गशिग्रुसिद्धार्थकशिरीषमरिचकरवीर बिम्बीगिरिकर्णि काकिणिहीवचाज्योतिष्मतीकरञ्जा र्कालर्कलशुनातिविषाशृङ्गवेरतालीशत- मालसुरसार्जकेङ्गुदीमेषशृङ्गीमातुलुङ्गीमुरङ्गीपीलुजातीशालतालमधूकला-क्षाहिङ्गुलवणमद्यगोशकृद्र समूत्राणीति शिरोविरेचनानि तत्र करवीरपूर्वा-णां फलानि करवीरादीनामर्कान्तानां मूलानि तालीशपूर्वाणां कन्दाः ताली-शादीनामर्जकान्तानां पत्राणि इङ्गुदीमेषशृङ्ग्योस्त्वचः मातुलुङ्गीमुर ङ्गीपी-लुजातीनां पुष्पाणि शालतालमधूकानां साराः हिङ्गुलाक्षे निर्यासौ लवणानि पार्थिवविशेषाः मद्यान्यासुतसंयोगाः शकृद्र समूत्रे मलाविति ६
संशमनान्यत ऊर्ध्वं वक्ष्यामःतत्र भद्र दारुकुष्ठहरिद्रा वरुण मेषशृङ्गीबलातिब-लार्तगलकच्छुराशल्लकीकुबेराक्षी वीरतरुसहचराग्निमन्थवत्सादन्येरण्डा-श्मभेदकालर्का र्कशतावरीपुनर्नवावसुकवशिरकाञ्चनकभार्गीकार्पा सीवृ-श्चिकाली पत्तूरबदरयवकोलकुलत्थप्रभृतीनि विदारिगन्धादिश्च द्वे चाद्ये पञ्चमूल्यौ समासेन वातसंशमनो वर्गः ७
चन्दनकुचन्दनह्रीबेरोशीरमञ्जिष्ठापयस्याविदारीशतावरीगुन्द्रा शैवलकह्लार कुमुदोत्पलकन्ददिलिई!दूर्वामूर्वाप्रभृतीनि काकोल्यादिः सारिवादिरञ्जनादि-रुत्पलादिर्न्यग्रोधादिस्तृणपञ्चमूलमिति समासेन पित्तसंशमनो वर्गः ८
कालेयकागुरुतिलपर्णीकुष्ठहरिद्रा शीतशिवशतपुष्पासरलारास्नाप्रकीर्योदकी-र्येङ्गुदीसुमनाकाकादनीलाङ्गलकीहस्तिकर्णमुञ्जातकलामज्जकप्रभृतीनि व-ल्लीकण्टकपञ्चमूल्यौ पिप्पल्यादिर्बृहत्यादिर्मुष्ककादिर्वचादिः सुरसादिरारग्वधादिरिति समासेन श्लेष्मसंशमनो वर्गः ९
तत्र सर्वाण्येवौषधानि व्याध्यग्निपुरुषबलान्यभिसमीक्ष्य विदध्यात् तत्र व्याधिबलादधिकमौषधमुपयुक्तं तमुपशम्य व्याधिं व्याधिमन्यमावहति अ-ग्निबलादधिकमजीर्णं विष्टभ्य वा पच्यते पुरुषबलादधिकंग्लानिमूर्च्छाम-दानावहति संशमनम् एवं संशोधनमतिपातयति हीनमेभ्यो दत्तमकिंचित्करं भवति तस्मात् सममेव विदध्यात् १०
भवन्ति चात्र
रोगे शोधनसाध्ये तु यो भवेद्दोषदुर्बलः
तस्मै दद्याद्भिषक् प्राज्ञो दोषप्रच्यावनं मृदु ११
चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम्
अव्याधिदुर्बलस्यापि शोधनं हि तदा भवेत् १२
स्वयं प्रवृत्तदोषस्य मृदुकोष्ठस्य शोधनम्
भवेदल्पबलस्यापि प्रयुक्तं व्याधिनाशनम् १३
व्याध्यादिषु तु मध्येषु क्वाथस्याञ्जलिरिष्यते
बिडालपदकं चूर्णं देयः कल्कोऽक्षसंमितः १४
इति सुश्रुतसंहितायां सूत्रस्थाने संशोधनसंशमनीयो नामैकोनचत्वारिंशोऽध्यायः ३९


चत्वारिंशत्तमोऽध्यायः
अथातो द्र व्यरसगुणवीर्यविपाकविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
केचिदाचार्या ब्रुवतेद्र व्यं प्रधानं कस्मात् व्यवस्थितत्वात् इह खलु द्र व्यं व्यवस्थितं न रसादयः यथा आमे फले ये रसादयस्ते पक्वे न सन्ति नित्य-त्वाच्च नित्यं हि द्र व्यमनित्या गुणाः यथा कल्कादिप्रविभागः स एव संप-न्नरसगन्धो व्यापन्नरसगन्धो वा भवति स्वजात्यवस्थानाच्च यथा हि पार्थिवं द्र व्यमन्यभावं न गच्छत्येवं शेषाणि पञ्चेन्द्रि यग्रहणाच्च पञ्चभिरिन्द्रि यैर्गृह्यते द्र व्यं न रसादयः आश्रयत्वाच्च द्र व्यमाश्रिता रसादयः आरम्भसामर्थ्याच्च द्र -व्याश्रित आरम्भः यथाविदारिगन्धादिमाहृत्य संक्षुद्य विपचेत इत्येवमादि-षुन रसादिष्वारम्भः शास्त्रप्रामाण्याच्च शास्त्रे हि द्र व्यं प्रधानमुपदेशे योगानां यथा मातुलुङ्गाग्निमन्थौ च इत्यादौ न रसादय उपदिश्यन्ते क्रमापेक्षितत्वाच्च रसादीनां रसादयो हि द्र व्यक्रममपेक्षन्ते यथातरुणे तरुणाः संपूर्णे संपूर्णा इति एकदेशसाध्यत्वाच्च द्र व्याणामेकदेशेनापि व्याधयः साध्यन्ते यथामहावृक्ष-क्षीरेणेति तस्माद्द्र व्यं प्रधानं न रसादयः कस्मात् निरवयवत्वात् द्र व्यल-क्षणं तु क्रियागुणवत् समवायिकारणम् इति ३ नेत्याहुरन्ये रसास्तु प्रधानं कस्मात् आगमात् आगमो हि शास्त्रमुच्यते शास्त्रे हि रसा अधिकृताः य-थारसायत्त आहार इति तस्मिंस्तु प्राणाः उपदेशाच्च उपदिश्यन्ते हि रसाः यथामधुराम्ललवणा वातं शमयन्ति अनुमानाच्च रसेन ह्यनुमीयते द्र व्यं य-थामधुरमिति ऋषिवचनाच्च ऋषिवचनं वेदो यथाकिंचिदिज्यार्थं मधुरमाहरेदिति तस्माद्र साः प्रधानं रसेषु गुणसंज्ञा रसलक्षणमन्यत्रोपदेक्ष्यामः ४
नेत्याहुरन्ये वीर्यं प्रधानमिति कस्मात् तद्वशेनौषधकर्मनिष्पत्तेः इहौषधक-र्माण्यूर्ध्वाधोभागोभयभागसंशोधनसंशमनसां ग्राहिकाग्निदीपन पीडनलेख-नबृंहणरसायनवाजीकरणश्वयथुकरविलयन दहन दारणमादनप्राणर्नघविष-प्रशमनादीनि वीर्यप्राधान्याद्भवन्ति तच्च वीर्यं द्विविधमुष्णं शीतं च अग्नी-षोमीयत्वाज्जगतः केचिदष्टविधमाहुःशीतमुष्णं मुष्णं स्निग्धं रूक्षं विशदं पिच्छिलं मृदु तीक्ष्णं चेति एतानि वीयार्णि स्वबलगुणोत्कर्षाद्र समभिभूया-त्म कर्म कुर्वन्ति यथा तावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयति उष्णवीर्यत्वात् तथा कुलत्थः कषायः कटुकः पलाण्डुः स्नेहभावाच्च मधु-रश्चेक्षुरसो वातं वर्धयति शीतवीर्यत्वाता कटुका पिप्पली पित्तं शमयति मृ-दुशीतवीर्यत्वात् अम्लमामलकं लवणं सैन्धवं च तिक्ता काकमाची पित्तं
वर्धयति उष्णवीर्यत्वात् मधुरा मत्स्याश्च कटुकं मूलकं श्लेष्माणं वर्धयति स्निग्धवीर्यत्वात् अम्लंकपित्थं श्लेष्माणं शमयति रूक्षवीर्यत्वात् मधुरं
क्षौद्रं च तदेतन्निदर्शनमात्रमुक्तम् ५
भवन्ति चात्रये रसा वातशमना भवन्ति यदि तेषु वै रौक्ष्यलाघवशैत्यानि न
ते हन्युः समीरणम् ६
ये रसाः पित्तशमना भवन्ति यदि तेषु वै
तैक्ष्ण्यौष्ण्यलघुताश्चैव न ते तत्कर्मकारिणः ७
ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै
स्नेहगौरवशैत्यानि न ते तत्कर्मकारिणः ८
तस्माद्वीर्यं प्रधानमिति ९
नेत्याहुरन्ये विपाकः प्रधानमिति कस्मात् सम्यङ्मिथ्याविपक्वत्वात् इह सर्वद्र वाण्यभ्यवहृतानि सम्यङ्मिथ्याविपक्वानि गुणं दोषं वा जनयन्ति त-त्राहुरन्येप्रति रसं पाक इति केचित्त्रिविधमिच्छन्ति मधुरमम्लं कटुकं चेति तत्तु न सम्यक् भूतगुणादामाच्चान्योऽम्लो विपाको नास्ति पित्तं हि विदग्ध-मम्लतामुपैत्याग्नेयत्वात् यद्येवं लवणोऽप्यन्यः पाको भविष्यति श्लेष्मा हि विदग्धो लवणतामुपैतीति मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्वेषामिति के-चिदाहुः दृष्टान्तं चोपदिशन्तियथा तावत् क्षीरमुखागतं पच्यमानं मधुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति तद्वदिति केचिद्वदन्तिअबलवन्तो बलवतां वशमायान्तीति एवमनवस्थि-तिः तस्मादसिद्धान्त एषः आगमे हि द्विविध एव पाको मधुरः कटुकश्च त-योर्मधुराख्यो गुरुः कटुकाख्यो लघुरिति तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च पृथिव्यापश्च गुर्व्यः शेषाणि
लघूनितस्माद्द्विविध एव पाक इति १०
भवन्ति चात्रद्र व्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः
निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ११
तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु
निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते १२
पृथक्त्वदर्शिनामेष वादिनां वादसंग्रहः
चतुर्णामपि सामग्र्यमिच्छन्त्यत्र विपश्चितः १३
तद्द्र व्यमात्मना किंचित्किंचिद्वीर्येण सेवितम्
किंचिद्र सविपाकाभ्यां दोषं हन्ति करोति वा १४
पाको नास्ति विना वीर्याद्वीर्यं नास्ति विना रसात्
रसो नास्ति विना द्र व्याद्द्र व्यं श्रेष्ठतमं स्मृतम् १५
जन्म तु द्र व्यरसयोरन्योन्यापेक्षिकं स्मृतम्
अन्योन्यापेक्षिकं जन्म यथा स्याद्देहदेहिनोः १६
वीर्यसंज्ञा गुणा येऽष्टौ तेऽपि द्र व्याश्रयाः स्मृताः
रसेषु न भवन्त्येते निर्गुणास्तु गुणाः स्मृताः १७
द्र व्ये द्र व्याणि यस्माद्धि विपच्यन्ते न षड्रसाः
श्रेष्ठं द्र व्यमतो ज्ञेयं शेषा भावास्तदाश्रयाः १८
अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः
आगमेनोपयोज्यानि भेषजानि विचक्षणैः १९
प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः
नौषधीर्हेतुभिर्विद्वान् परीक्षेत कदाचन २०
सहस्रेणापि हेतूनां नाम्बष्ठादिर्विरेचयेत्
तस्मात्तिष्ठेत्तु मतिमानागमे न तु हेतुषु २१
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने द्र व्यगुणरसवीर्यविपाकविज्ञानीयो
नाम चत्वारिंशत्तमोऽध्यायः ४०


एकचत्वारिंशत्तमोऽध्यायः
अथातो द्र व्यविशेषविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तत्र पृथिव्यप्तेजोवाय्वाकाशानां समुदायाद्द्र व्याभिनिर्वृत्तिः
उत्कर्षस्त्वभिव्यञ्ज को भवतिइदं पार्थिवमिदमाप्यमिदं तैजसमिदं वायव्य-मिदमाकाशीयमिति ३ तत्र स्थूलसान्द्र मन्दस्थिरगुरुकठिनं गन्धबहुलमीष-त्कषायं प्रायशो मधुरमिति पार्थिवं तत् स्थैर्यबलगौरवसंघातोपचयकरं विशेषतश्चाधोगतिस्वभावमिति १
शीतस्तिमितस्निग्धमन्दगुरुसरसान्द्र मृदुपिच्छिलं रसबहुलमीषत्कषायाम्ल-लवणं मधुररसप्रायमाप्यं तत् स्नेहनह्लादनक्लेदनबन्धन विष्यन्दनकरमिति २
उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं रूपबहुलमीषदम्ललवणं कटुकरसप्रायं विशेषतश्चोर्ध्वगतिस्वभावमिति तैजसं तद्दहनपचनदारणतापनप्रकाशनप्रभावर्णकरमिति ३
सूक्ष्मरूक्षखरशिशिरलघुविशदं स्पर्शबहुलमीषत्तिक्तं विशेषतः कषायमिति
वायवीयं तद्वैशद्यलाघवग्लपनविरूक्षणविचारणकरमिति ४
श्लक्ष्णसूक्ष्ममृदुव्यवायिविशदविविक्तमव्यक्तरसं शब्दबहुल माकाशीयं
तन्मार्दवशौषिर्यलाघवकरमिति ५ ४
अनेन निदर्शनेन नानौषधीभूतं जगति किंचिद्द्र व्यमस्तीति कृत्वा तं तं यु-क्तिविशेषमर्थं चाभिसमीक्ष्य स्ववीर्यगुणयुक्तानि द्र व्याणि कार्मुकाणि भव-न्ति तानि यदा कुर्वन्ति स कालः यत् कुर्वन्ति तत् कर्म येन कुर्वन्ति तद्वीर्यं यत्र कुर्वन्ति तदधिकरणं यथा कुर्वन्ति स उपायः यन्निष्पादयन्ति तत् फलमिति ५
तत्र विरेचनद्र व्याणि पृथिव्यम्बुगुणभूयिष्ठानि पृथिव्यापोगुर्व्यः तानि गुरु-त्वादधो गच्छन्ति तस्माद्विरेचनमधोगुणभूयिष्ठमनुमानात् वमनद्र व्याण्य ग्नि-वायुगुणभूयिष्ठानि अग्निवायू हि लघू लघुत्वाच्च तान्यूर्ध्वमुत्तष्ठन्ति तस्मा-द्वमनमप्यूर्ध्वगुणभूयिष्ठम् उभयगुणभूयिष्ठमुभयतोभागमाकाशगुण भूयिष्ठं संशमनं सांग्राहिकमनिलगुणभूयिष्ठम् अनिलस्यशोषणात्मकत्वात् दीपनम-ग्निगुणभूयिष्ठं तत्समानत्वात्लेखनमनिलानलगुणभूयिष्ठं बृंहणं पृथिव्यम्बुगुणभूयिष्ठम्! एवमौषधकर्माण्यनुमानात् साधयेत् ६
भवन्ति चात्रभूतेजोवारिजैर्द्र व्यैः शमं याति समीरणः
भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृतिम् ७
खतेजोनिलजैः श्लेष्मा शममेति शरीरिणाम्
वियत्पवनजाताभ्यां वृद्धिमभ्येति मारुतः ८
आग्नेयमेव यद्द्र व्यं तेन पित्तमुदीर्यते
वसुधाजलजाताभ्यां बलासः परिवर्धते ९
एवमेतद्गुणाधिक्यं द्र व्ये द्र व्ये विनिश्चितम्
द्विशो वा बहुशो वाऽपि ज्ञात्वा दोषेषु चाचरेत् १०
तत्र य इमे गुणा वीर्यसंज्ञकाः शीतोष्णस्निग्धरूक्षमृदुतीक्ष्णपिच्छिल विश-दास्तेषां तीक्ष्णोष्णावाग्नेयौ शीतपिच्छिलावम्बुगुणभूयिष्ठौ पृथिव्य म्बुगुण-भूयिष्ठः स्नेहः तोयाकाशगुणभूयिष्ठं मृदुत्वं वायुगुणभूयिष्ठं रौक्ष्यं क्षितिस-मीरणगुणभूयिष्ठं वैशद्यंविपाकावुक्तगुणौ तत्र उष्णस्निग्धौ वातघ्नौ शीतमृ-दुपिच्छिलाः पित्तघ्नाः तीक्ष्णरूक्षविशदाः श्लेष्मघ्नाः गुरुपाको वातपित्तघ्नः लघुपाकः पाकः श्लेष्मघ्नः तेषां मृदुशीतोष्णाः स्पर्शग्राह्याः पिच्छिलविश-दौ चक्षुःस्पर्शाभ्यां स्निग्धरूक्षौ चक्षुषा तीक्ष्णो मुखे दुःखोत्पादनात् गुरुपा-कः सृष्टविण्मूत्रतया कफोत्क्लेशेन च लघुर्बद्धविण्मूत्रतया मारुतकोपेन च तत्र तुल्यगुणेषु भूतेषु रसवैशेष्य मुपलक्षयेत् तद्यथामधुरो गुरुश्च पार्थिवः
मधुरः स्निग्धश्चाप्य इति ११
भवति चात्रगुणा य उक्ता द्र व्येषु शरीरेष्वपि ते तथा स्थानवृद्धिक्षयास्तस्माद्देहिनां द्र व्यहेतुकाः १२
इति सुश्रुतसंहितायां सूत्रस्थाने द्र व्यविशेषविज्ञानीयो नामैकचत्वारिंशत्तमोऽध्यायः ४१


द्विचत्वारिंशत्तमोऽध्यायः
अथातो रसविशेषविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेकोत्तरपरिवृद्धाःशब्दस्पर्शरूप र-सगन्धाः तस्मादाप्यो रसः परस्परसंसर्गात् परस्परानुग्रहात् परस्परानुप्रवे-शाच्च सर्वेषु सर्वेषांसान्निध्यमस्ति उत्कर्षापकर्षात्तउ ग्रहणम् स खल्वाप्यो रसः शेषभूतसंसर्गाद्विदग्धः षोढा विभज्यते तद्यथामधुरोऽम्लो लवणः क-टुकस्तिक्तः कषाय इति ते च भूयः परस्परसंसर्गात्त्रिषष्टिधा भिद्यन्ते तत्र भूम्यम्बुगुणबाहुल्यान्मधुरः भूम्यग्निगुणबाहुल्यादम्लः तोयाग्निगुणबाहुल्या-ल्लवणः वाय्वग्निगुणबाहुल्यात् कटुकः वाय्वा काशगुणबाहुल्यात्तिक्तः पृथिव्यनिलगुणबाहुल्यात्कषाय इति ३
तत्र मधुराम्ललवणा वातघ्नाः मधुरतिक्तकषायाः
पित्तघ्नाः कटुतिक्तकषायाः श्लेष्मघ्नाः ४
तत्र वायोरात्मैवात्मा पित्तमाग्नेयं श्लेष्मा सौम्य इति ५
त एते रसाः स्वयोनिवर्धना अन्ययोनिप्रशमनाश्च ६
केचिदाहुःअग्नीषोमीयत्वाज्जगतो रसा द्विविधाःसौम्या आग्नेयाश्च मधुरति-क्तकषायाः सौम्याः कट्वम्ललवणा आग्नेयाः तत्र मधुराम्ललवणाः स्नि-ग्धा गुरवश्च कटुतिक्तकषाया रूक्षा लघवश्च सौम्याः शीताः आग्नेया उष्मा
तत्र शैत्यरौक्ष्यलाघववैशद्यवैष्टम्भ्यगुणलक्षणो वायुः तस्य समानयोनिः क-षायो रसः सोऽस्य शैत्याच्छत्यं वर्धयति रौक्ष्याद्रौ क्ष्यं लाघवाल्लाघवं वैशद्याद्वैशद्यं वैष्टम्भ्याद्वैष्टम्भ्यमिति ८
औष्ण्यतैक्ष्यरौक्ष्यलाघववैशद्यगुणलक्षणं पित्तं तस्य समानयोनिः कटुको रसः सोऽस्य औष्ण्यादौष्ण्यं वर्धयति तैक्ष्ण्यात्तैक्ष्ण्यं रौक्ष्याद्रौ क्ष्यं लाघवाल्लाघवं वैशद्याद्वैशद्यमिति ९
माधुर्यस्नेहगौरवशैत्यपैच्छिल्यगुणलक्षणः श्लेष्मा तस्य समान योनिर्मधुरो रसः सोऽस्य माधुर्यान्माधुर्यं वर्धयति स्नेहात् स्नेहं गौरवाद्गौरवं शैत्याच्छत्यं
पैच्छिल्यात् पैच्छिल्यमिति १०
तस्य पुनरन्योनिः कटुको रसः स श्लेष्मणः प्रत्यनीकत्वात् कटुकत्वान्मा-धुर्यमभिभवति रौक्ष्यात् स्नेहं लाघवाद्गौरवम् औष्ण्याच्छत्यं वैशद्यात् पैच्छिल्यमिति तदेतन्निदर्शनमात्रमुक्तं भवति ११
रसलक्षणमत ऊर्ध्वं वक्ष्यामः--तत्र यः परितोषमुत्पादयति प्रह्लादयति तर्पयति
जीवयति मुखोपलेपं जनयति श्लेष्माणं चाभिवर्धयति स
मधुरः यो दन्तहर्षमुत्पादयति मुखास्रावं जनयति श्रद्धां चोत्पादयति सोऽम्ल यो भक्तरुचिमुत्पादयति कफप्रसेकं जनयति मार्दवं चापादयति स लवणः यो जिह्वाग्रं बाधते उद्वेगं जनयति शिरो गृह्णीते नासिकां च स्रावयति स कटुकः यो गले चोषमुत्पादयति मुखवैशद्यं जनयति भक्तरुचिं चापादयति हर्षं च स तिक्तः यो वक्त्रं परिशोषयति जिह्वां स्तम्भयति कण्ठं बध्नाति हृदयं कर्षति पीडयति च स कषाय इति १२
रसगुणानत ऊर्ध्वं वक्ष्यामःतत्र मधुरो रसो रसरक्तमांसमेदोऽस्थिमज्जौजः शुक्रस्तन्यवर्धनश्चक्षुष्यः केश्यो वर्ण्यो बलकृत्सन्धानः शोणितरसप्रसादनो बालवृद्धक्षतक्षीणहितः षट्पदपिपीलिकानामिष्टतमस्तृष्णामूर्च्छादाह प्रश-मनः षडिन्द्रि यप्रसादनः कृमिकफकरश्चेति स एवंगुणोऽप्येक एवात्यर्थमा-सेव्य मानः कासश्वासालसकवमथुवदनमाधुर्यस्वरोपघातकृमिगलगण्डानापा दयति तथाऽबुदश्लीपद बस्तिगुदोपलेपाभिष्यन्दप्रभृतीञ्जनयति १३
अम्लो जरणः पाचनो दीपनः पवननिग्रहणोऽनुलोमनः कोष्ठविदाही बहिः शीतः क्लेदनः प्रायशो हृद्यश्चेति स एवंगुणोऽप्येकएवार्थमुपसेव्यमानो दन्त-हर्षनयनसंमीलनरोमसंवेजनकफविलयनशरीरशैथिल्यान्यापादयति तथा क्षताभिहतदग्धदष्टभग्नरुग्णशूनप्रच्युतावमूत्रितविसर्पितच्छिन्नभिन्नविद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात् परिदहति कण्ठमुरो हृदयं चेति १४
लवणः संशोधनः पाचनो विश्लेषणः क्लेदनः शैथिल्यकृदुष्णः सर्वरसप्र-त्यनीको मार्गविशोधनः सर्वशरीरावयवमार्दवकरश्चेति स एवंगुणोऽप्येक
एवात्यर्थमासेव्यमानो गात्रकण्डूकोठशोफवैवर्ण्यपुंस्त्वोपघातेन्द्रि योपताप
मुखाक्षिपाकरक्तपित्तवातशोणिताम्लीकाप्रभृतीनापादयति १५
कटुको दीपनः पाचनो रोचनः शोधनः स्थौल्यालस्यकफकृमिविषकुष्ठक-ण्डूप्रशमनः सन्धिबन्धविच्छेदनोऽवसादनः स्तन्यशुक्रमेदसामुपहन्ता चेति स एवंगुणोप्येक एवात्यर्थमुपसेव्यमानो भ्रममदगलताल्वोष्ठ शोषदाहसंता-पबल विघातकम्पतोदभेदकृत करचरणपार्श्वपृष्ठप्रभृतिषु च वातशूलानापादयति १६
तिक्तश्छेदनो रोचनो दीपनः शोधनः कण्डूकोठतृष्णामूर्च्छाज्वरप्रशमनः स्तन्यशोधनो विण्मूत्रक्लेदमेदोवसापूयोपशोषणश्चेति स एवंगुणोऽप्येक एवात्यर्थ मुपसेव्यमानोगात्रमन्यास्तम्भाक्षेप कार्दितशिरः शूलभ्रमतोदभेदच्छेदास्यवैरस्यान्यापादयति १७
कषायः संग्राहको रोपणः स्तम्भनः शोधनोलेखनः शोषणः पीडनः क्लेदोप-शोषण श्चेति स एवंगुणोऽप्येक एवात्यर्थमुपसेव्यमानो हृत्पीडास्यशोषोदरा-ध्मानवाक्यग्रहमन्यास्तम्भगात्रस्फुरणचुमुचुमायनाकुञ्चनाक्षेपणप्रभृतीञ्जनयति
१८
अतः सर्वेषामेव द्र व्याण्युपदेक्ष्यामः तद्यथा काकोल्यादिः क्षीरघृतव सा-मज्जशालिषष्टिकयवगोधूममापशृङ्गाटककसेरुकत्रपुसैर्वारुकर्कारुकाला बू-कालिन्दकतकगिलोड्यप्रियालपुष्करबीजकाशमर्यमधूकद्रा क्षाखर्जूरराजा दनतालनालिकेरेक्षुविकारवलातिबलात्मगुप्ताविदारीपयस्यागोक्षुरकक्षीर
मोरटमधूलिकाकूष्माण्डप्रभृतीनि समासेन मधुरो वर्गः १९
दाडिमामलकमा तुलुङ्गाम्रातककपित्थकरमर्दबदरकोलप्राचीनामलकति-न्तिडीककोशाम्रक भव्यपारावतवेत्रफललकुचाम्लवेतसदन्तशठदधितक्रसु-राशुक्तसौवीरकतु षोदकधान्याम्लप्रभृतीनिसमासेनाम्लो वर्गः सैन्धवसौव-र्चलविडपाक्यरोम कसामुद्र कपक्त्रिमयवक्षारोषरप्रसूतसुवर्चिकाप्रभृतीनि समासेन लवणो वर्गः २१
पिप्पल्यादिः सुरसादिः शिग्रुमधुशिग्रुमूलकलशुनसुमुखशीतशिव कुष्ठदेवदारुहरेणुकावल्गुजफलचण्डागुग्गुलुमुस्तलाङ्गलकीशुकनासापीलु
प्रभृतीनि सालसारादिश्चप्रायशः कटुको वर्गः २२
आरग्वधादिर्गुडूच्यादिर्मण्डूकपर्णीवेत्रकरीरहरिद्रा द्वयेन्द्र यववरुणस्वादुक-ण्टकसप्तपर्णबृहती द्वयशङ्खिनीद्र वन्ती त्रिवृत्कृतवेधनकर्कोटककारवेल्लवा-र्ताककरीरकरवीर सुमनःशङ्खपुष्प्यपामार्गत्रायमाणाशोकरोहिणीवैजयन्ती-सुवर्चलापुनर्नवावृश्चिकालीज्योतिष्मतीप्रभृतीनि समासेन तिक्तो वर्गः २३ न्यग्रोधादिरम्बष्ठादिः प्रियङ्ग्वादीरोध्रादिस्त्रिफलाशल्लकीजम्ब्वाम्रबकुल-तिन्दुकफलानि कतकशाकफलपाषाणभेदकवनस्पतिफलानि सालसारादिश्च प्रायशः कुरुवककोविदारकजीवन्तीचिल्लीपालङ्क्यासुनिषण्णकप्रभृतीनि
वरकादयो मुद्गादयश्च समासेन कषायो वर्गः २४
तत्रैतेषां रसानां संयोगास्त्रिषष्टिर्भवन्ति तद्यथापञ्चदश द्विकाः विंशतिस्त्रि-काः पञ्चदश चतुष्काः षट् पञ्चकाः एकशः षड्रसाः एकःषट्क इति तेषामन्यत्र प्रयोजनानि वक्ष्यामः २५
भवति चात्रजग्धाः षडधिगच्छन्ति बलिनो वश्यतां रसाः
यथा प्रकुपिता दोषा वशं यान्ति बलीयसः २६
इति सुश्रुतसंहितायां सूत्रस्थाने रसविशेषविज्ञानीयोनाम द्विचत्वारिंशत्तमोऽध्यायः ४२


त्रिचत्वारिंशत्तमोऽध्यायः
अथातो वमनद्र व्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वमनद्र व्याणां फलादीनां मदनफलानि श्रेष्ठतमानि भवन्ति अथ मदनपु-ष्पाणामातपपरिशुष्काणां चूर्णप्रकुञ्जं प्रत्यक्पुष्पासदापुष्पीनिम्ब कषायाणा-मन्यतमेनालोड्य मधुसैन्धवयुक्तां पुषपचूर्णमात्रां पाययित्वा वामयेत् मद-नशलाटुचूर्णान्येवं वा बकुलरम्यकोपयुक्तानि मधुलवण युक्तान्यभिप्रतप्तानि मदनशलाटुचूर्णसिद्धां वा तिलतण्डुलयवागूम् निर्वृत्तानां वा नातिहरित-पाण्डूनां कुशमूढाववद्धमृद्गोमयप्रलिप्तानां यवबुतिउ!षिमुद्गमाषशाल्यादिधा-न्यराशावष्टरात्रोषितक्लिन्नभिन्नानां फलानां फलपिप्पलीरुद्धृत्यातपे शोषयेत् तासां दधिमधुपललविमृदितपरि शुष्काणां सुभाजनस्थानामन्तर्नखमुइष्टमु-ष्णे यष्टीमधुककषाये कोविदारादी नामन्यतमे वा कषाये प्रमृद्य रात्रिपर्युषितं मधुसैन्धवयुक्तमाशीर्भिरभिमन्त्रितमुदङ्मुखः प्राङ्मुखमातुरं पाययेदनेनमन्त्रेणाभिमन्त्र्! य ब्रह्मदक्षा श्विरुद्रे न्द्र भूचन्द्रा र्कानलानिलाः
ऋषयः सौषधिग्रामा भूतसंघाश्च पान्तु ते १
रसायनमिवर्षीणां देवानाममृतं यथा
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते २
विशेषेण श्लेष्मज्वरप्रतिश्यायान्तर्विद्र धिषु अप्रवर्तमाने वा दोषे पिप्पली-वचागौरसर्षपकल्कोन्मिश्रैः सलवणैरुष्णाम्बुभिः पुनः पुनः प्रवर्तयेदासम्य-ग्वान्तलक्षणादिति मदनफलमज्जचूर्णं वा तत्क्वाथपरिभावितं मदनफलक-षायेण मदनफलमज्जसिद्धस्य वा पयसः सन्तानिकां क्षौद्र युक्तां मदनफल-मज्जसिद्धं वा पयः मदनफलमज्जसिद्धेन वा पयसा यवागूम् अधोभागासृ-क्पित्तहृद्दाहयोः मदनफलमज्जसिद्धस्य वा पयसो दधिभावमुपगतस्य दध्यु-त्तरं दधि वा कफप्रसेकच्छर्दिमूर्च्छातमकेषु मदनफलमज्जरसं स्नेहं वा भ-ल्लातकस्नहेवदादाय फाणितीभूतं लेहयेत् आतपपरिशुष्कं वा तमेव जी-वन्तीकषायेण पित्ते कफस्थानगते मदनफलमज्जक्वाथं वा पिप्पल्यादिप्रती-वापं तच्चूर्णं वा निम्बरूपिकाकषाययोरन्यतरेण संतर्पणकफजव्याधिहरं मदनफलमज्जचूर्णं वा मधूककाश्मर्यद्रा क्षाकषायेण मदनफलविधानमुक्तम् ३
जीमूतककुसुमचूर्णं पूर्ववदेव क्षीरेण निर्वृत्तेषु क्षीरयवागूं रोमशेषु सन्तानि-कां अरोमशेषु दध्युत्तरं हरितपाण्डुषु दधि तत्कषायसंसृष्टां वा सुरां कफारोचककासश्वासपाण्डुरोगयक्ष्मसु पर्यागतेषुमदनफलमज्जवदुपयोगः ४
तद्वदेव कुटजफलविधानम् ५
कृतवेधनानामप्येष एव कल्पः ६
इक्ष्वाकुकुसुमचूर्णं वा पूर्ववत् एवं क्षीरेण
कासश्वासच्छर्दिकफरोगेषूपयोगः ७
धामार्गवस्यापि मदनफलमज्जवदुपयोगः विशेषतस्तु गरगुल्मोदरकासश्वासश्लेष्मामयेषु वायौच कफस्थानगते ८
कृतवेधनफलपिप्पलीनां वमनद्र व्यकषायपरिपीतानां बहुशश्चूर्णमुत्पलादि-षुदत्तमाघ्रातं वामयति तत्त्वनवबद्धदोषेषु यवागूमाकण्ठात्पीतवत्सु च विदध्यात् वमनविरेचनशिरोविरेचनद्र व्याण्येवं वा प्रधानतमानि भवन्ति ९
भवतश्चात्र
वमनद्र व्ययोगाणां दिगियं संप्रकीर्तिता
तान् विभज्य यथाव्याधि कालशक्तिविनिश्चयात् १०
कषायैः स्वरसैः कल्कैश्चूर्णैरपि च बुद्धिमान्
पेयलेह्याद्यभोज्येषु वमनान्युपकल्पयेत् ११
इति सुश्रुतसंहितायां सूत्रस्थाने वमनद्र व्यविकल्पविज्ञानीयो
नाम त्रिचत्वारिंशत्तमोऽध्यायः ४३
चतुश्चत्वारिंशत्तमोऽध्यायः
अथातो विरेचनद्र व्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अरुणाभं त्रिवृन्मूलं श्रेष्ठं मूलविरेचने
प्रधानं तिल्वकस्त्वक्षु फलेष्वपि हरीतकी ३
तैलेष्वेरण्डजं तैलं स्वरसे कारवेल्लिका
सुधापयः पयःसूक्तमिति प्राधान्यसंग्रहः
तेषां विधानं वक्ष्यामि यथावदनुपूर्वशः ४
वैरेचनद्र व्यरसानुपीतं मूलं महत्त्रैवृतमस्तदोषम्
चूर्णीकृतं सैन्धवनागराढ्यमम्लैः पिबेन्मारुतरोगजुष्टः ५
इक्षोर्विकारैर्मधुरै रसैस्तत् पैत्ते गदे क्षीरयुतं पिबेच्च
गुडूच्यरिष्टत्रिफलारसेन सव्योषमूत्रं कफजे पिबेत्तत् ६
त्रिवर्णकत्र्! यूषणयुक्तमेतद्गुडेन लिह्यादनवेन चूर्णम्
प्रस्थे च तन्मूलरसस्य दत्वा तन्मूलकल्कं कुडवप्रमाणम् ७
कर्षोन्मिते सैन्धवनागरे च विपाच्य कल्कीकृतमेतदद्यात्
तत्कल्कभागः समहौषधार्धः ससैन्धवो मूत्रयुतश्च पेयः ८
समास्त्रिवृन्नागरकाभयाः स्युर्भागार्धकं पूगफलं सुपक्वम्
विडङ्गसारो मरिचं सदारु योगः ससिन्धूद्भवमूत्रयुक्तः ९
विरेचनद्र व्यभवं तु चूर्णं रसेन तेषां भिषजा विमृद्य
तन्मूलसिद्धेन च सर्पिषाऽक्त सेव्यं तदाज्ये गुटिकीकृतं च १०
गुडे च पाकाभिमुखे निधाय चूर्णीकृतं सम्यगिदं विपाच्य
शीतं त्रिजाताक्तमथो विमृद्य योगानुरूपा गुटिकाः प्रयोज्याः ११
वैरेकीयद्र व्यचूर्णस्य भागं सिद्धं सार्धं क्वाथभागैश्चतुर्भिः
आमृद्गीयात् सर्पिषा तच्छृतेन तत्क्वाथोष्मस्वेदितं सामितं च १२
पाकप्राप्ते फाणिते चूर्णितं तत् क्षिप्तं पक्वं चावतार्य प्रयत्नात्
शीतीभूता मोदका हृद्यगन्धाः कार्यास्त्वेते भक्ष्यकल्पाः समासात् १३
रसेन तेषां परिभाव्य मुद्गान् यूषः ससिन्धूद्भवसर्पिरिष्टः
वैरेचनेऽन्यैरपि वैदलैः स्यादेवं विदध्याद्वमनौषधैश्च १४
भित्त्वा द्विधेक्षुं परिलिप्य कल्कैस्त्रिभण्डिजातैः प्रतिबध्य रज्ज्वा
पक्वं च सम्यक् पुटपाकयुक्त्या खादेत्तु तं पित्तगदी सुशीतम् १५
सिताजगन्धात्वक्क्षीरीविदारीत्रिवृतः समाः
लिह्यान्मधुघृताभ्यां तु तृड्दाहज्वरशान्तये १६
शर्कराक्षौद्र संयुक्तं त्रिवृच्चूर्णावचूर्णितम्
रेचनं सुकुमाराणां त्वक्पत्रमरिचांशकम् १७
पचेल्लेहं सिताक्षौद्र पलार्धकुडवान्वितम्
त्रिवृच्चूर्णयुतं शीतं पित्तघ्नं तद्विरेचनम् १८
त्रिवृच्छ्यामाक्षारशुण्ठीपिप्पलीर्मधुनाऽप्नुयात्
सर्वश्लेष्मविकाराणां श्रेष्ठमेतद्विरेचनम् १९
बीजाढ्यपथ्याकाश्मर्यधात्रीदाडिमकोलजान्
तैलभृष्टान् रसानम्लफलैरावाप्य साधयेत् २०
घनीभूतं त्रिसौगन्ध्यत्रिवृत्क्षौद्र समन्वितम्
लेह्यमेतत्कफप्रायैः सुकुमारैर्विरेचनम् २१
नीलीतुल्यं त्वगेलं च तैस्त्रिवृत्ससितोपला
चूर्णं संतर्पणं क्षौद्र फलाम्लं सन्निपातनुत् २२
त्रिवृच्छ्यामासिताकृष्णात्रिफलामाक्षिकैः समैः
मोदकाः सन्निपातोर्ध्वरक्तपित्तज्वरापहाः २३
त्रिवृद्भागास्त्रयः प्रोक्तास्त्रिफला तत्समा तथा
क्षारकृष्णाविडङ्गानि संचूर्ण्य मधुसर्पिषा २४
लिह्याद्गुडेन गुटिकाः कृत्वा वाऽप्यथ भक्षयेत्
कफवातकृतान् गुल्मान् प्लीहोदरहलीमकान् २५
हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम्
चूर्णं श्यामा त्रिवृन्नीली कट्वी मुस्ता दुरालभा २६
चव्येन्द्र बीजं त्रिफला सर्पिर्मांसरसाम्बुभिः
पीतं विरेचनं तद्धि रूक्षाणामपि शस्यते २७
वैरेचनिकनिःक्वाथभागाः शीतास्त्रयो मताः
द्वौ फाणितस्य तच्चापि पुनरग्नावधिश्रयेत् २८
तत् साधुसिद्धं विज्ञाय शीतं कृत्वा निधापयेत्
कलसे कृतसंस्कारे विभज्यर्तू हिमाहिमौ २९
मासादूर्ध्वं जातरसं मधुगन्धं वरासवम्
पिबेदसावेव विधिः क्षारमूत्रासवेष्वपि ३०
वैरेचनिकमूलानां क्वाथे माषान् सुभावितान्
सुधौतांस्तत्कषायेण शालीनां चापि तण्डुलान् ३१
अवक्षुद्यैकतः पिण्डान् कृत्वा शुष्कान् सुचूर्णितान्
शालितण्डुलचूर्णं च तत्कषायोष्मसाधितम् ३२
तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमिश्रितान्
मण्डोदकार्थे क्वाथं च दद्यात्तत्सर्वमेकतः ३३
निदध्यात्कलसे तां तु सुरां जातरसां पिबेत्
एष एव सुराकल्पो वमनेष्वपि कीर्तितः ३४
मूलानि त्रिवृदादीनां प्रथमस्य गणस्य च
महतः पञ्चमूलस्य मूर्वाशार्ङ्गष्टयोरपि ३५
सुधां हैमवतीं चैव त्रिफलातिविषे वचाम्
संहृत्यैतानि भागौ द्वौ कारयेदेकमेतयोः ३६
कुर्यान्निःक्वाथमेकस्मिन्नेकस्मिंश्चूर्णमेव तु
क्षुण्णांस्तस्मिंस्तु निःक्वाथे भावयेद्बहुशो यवान् ३७
शुष्काणां मृदुभृष्टानां तेषां भागास्त्रयो मताः
चतुर्थं भागमावाप्य चूर्णानामत्र कीर्तितम् ३८
प्रक्षिप्य कलसे सम्यक् ततस्तं तदनन्तरम्
तेषामेव कषायेण शीतलेन सुयोजितम् ३९
पूर्ववत् सन्निदध्यात्तु ज्ञेयं सौवीरकं हि तत्
पूर्वोक्तं वर्गमाहृत्य द्विधा कृत्वैकमेतयोः ४०
भागं संक्षुद्य संसृज्य यवैः स्थाल्यामधिश्रयेत्
अजशृङ्ग्याः कषायेण तमभ्यासिच्य साधयेत् ४१
सुसिद्धांश्चावतार्यैतानौषधिभ्यो विवेचयेत्
विमृद्य सतुषान् सम्यक् ततस्तान् पूर्ववन्मितान् ४२
पूर्वोक्तौषधभागस्य चूर्णं दत्त्वा तु पूर्ववत्
तेनैव सह यूषेण कलसे पूर्ववत् क्षिपेत् ४३
ज्ञात्वा जातरसं चापि तत्तुषोदकमादिशेत्
तुषाम्बुसौवीरकयोर्विधिरेष प्रकीर्तितः ४४
षड्रात्रात् सप्तरात्राद्वा ते च पेये प्रकीर्तिते
वैरेचनेषु सर्वेषु त्रिवृन्मूलविधिः स्मृतः ४५
दन्तीद्र वन्त्योर्मूलानि विशेषान्मृत्कुशान्तरे
पिप्पलीक्षौद्र युक्तानि स्विन्नान्युद्धृत्य शोषयेत् ४६
ततस्त्रिवृद्विधानेन योजयेच्छ्लेष्मपित्तयोः
तयोः कल्ककषायाभ्यां चक्रतैलं विपाचयेत् ४७
सर्पिश्च पक्वं वीसर्पकक्षादाहालजीर्जयेत्
मेहगुल्मानिलश्लेष्मविबन्धांस्तैलमेव च ४८
चतुःस्नेहं शकृच्छुक्रवातसंरोधजा रुजः
दन्तीद्र वन्तीमरिचकनकाह्वयवासकैः ४९
विश्वभेषजमृद्वीकाचित्रकैर्मूत्रभावितम्
सप्ताहं सर्पिषा चूर्णं योज्यमेतद्विरेचनम् ५०
जीर्णे संतर्पणं क्षौद्रं पित्तश्लेष्मरुजापहम्
अजीर्णपार्श्वरुक्पाण्डुप्लीहोदरनिबर्हणम् ५१
गुडस्याष्टपले पथ्या विंशतिः स्युः पलं पलम्
दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश ५२
कृत्वैतान्मोदकानेकं दशमे दशमेऽहनि
ततः खादेदुष्णतोयसेवी निर्यन्त्रणास्त्विमे ५३
दोषघ्ना ग्रहणीपाण्डुरोगार्शःकुष्ठनाशनाः
व्योषं त्रिजातकं मुस्ता विडङ्गामलके तथा ५४
नवैतानि समांशानि त्रिवृदष्टगुणानि वै
श्लक्ष्णचूर्णीकृतानीह दन्तीभागद्वयं तथा ५५
सिर्वाणि चूर्णितानीह गालितानि विमिश्रयेत्
षड्भिश्च शर्कराभागैरीषत्सैन्धवमाक्षिकैः ५६
पिण्डितं भक्षयित्वा तु ततः शीताम्बु पाययेत्
बस्तिरुक्तृड्ज्वरच्छर्दिशोषपाण्डुभ्रमापहम् ५७
निर्यन्त्रणमिदं सर्वविषघ्नं तु विरेचनम्
त्रिवृदष्टकसंज्ञोऽय प्रशस्तः पित्तरोगिणाम् ५८
भक्ष्यः क्षीरानुपानो वा पित्तश्लेष्मातुरैर्नरैः
भक्ष्यरूपसधर्मत्वादाढ्येष्वेव विधीयते ५९
तिल्वकस्य त्वचं बाह्यामन्तर्वल्कविवर्जिताम्
चूर्णयित्वा तु द्वौ भागौ तत्कषायेण गालयेत् ६०
तृतीयं भावितं तेन भागं शुष्कं तु भावितम्
दशमूलीकषायेण त्रिवृद्वत्संप्रयोजयेत् ६१
विधानं त्वक्षु निर्दिष्टं फलानामथ वक्ष्यते
हरीतक्याः फलं त्वस्थिविमुक्तं दोषवर्जितम् ६२
योज्यं त्रिवृद्विधानेन सर्वव्याधिनिबर्हणम्
रसायनं परं मेध्यं दुष्टान्तर्व्रणशोधनम् ६३
हरीतकी विडङ्गानि सैन्धवं नागरं त्रिवृत्
मरिचानि च तत्सर्वं गोमूत्रेण विरेचनम् ६४
हरीतकी भद्र दारु कुष्ठं पूगफलं तथा
सैन्धवं सृङ्गवेरं च गोमूत्रेण विरेचनम् ६५
नीलिनीफलचूर्णं तु नागराभययोस्तथा
लिह्याद्गुडेन सलिलं पश्चादुष्णं पिबेन्नरः ६६
पिप्पल्यादिकषायेण पिबेत्पिष्टां हरीतकीम्
सैन्धवोपहितां सद्य एष योगो विरेचयेत् ६७
हरीतकी भक्ष्यमाणा नागरेण गुडेन वा
सैन्धवोपहिता वाऽपि सातत्येनाग्निदीपनी ६८
वातानुलोमनी वृष्या चेन्द्रि याणां प्रसादनी
संतर्पणकृतान् रोगान् प्रायो हन्ति हरीतकी ६९
शीतमामलकं रूक्षं पित्तमेदःकफापहम्
बिभीतकमनुष्णं तु कफपित्तनिबर्हणम् ७०
त्रीण्यप्यम्लकषायाणि सतिक्तमधुराणि च
त्रिफला सर्वरोगघ्नी त्रिभागघृतमूर्च्छिता ७१
वयसः स्थापनं चापि कुर्यात् संततसेविता
हरीतकीविधानेन फलान्येवं प्रयोजयेत् ७२
विरेचनानि सर्वाणि विशेषाच्चतुरङ्गुलात्
फलं काले समुद्धृत्य सिकतायां निधापयेत् ७३
सप्ताहमातपे शुष्कमतो मज्जानमुद्धरेत्
तैलं ग्राह्यं जले पक्त्वा तिलवद्वा प्रपीड्य च ७४
तस्योपयोगो बालानां यावद्वर्षाणि द्वादश
लिह्यादेरण्डतैलेन कुष्ठत्रिकटुकान्वितम् ७५
सुखोदकं चानुपिबेदेष योगो विरेचयेत्
एरण्डतैलं त्रिफलाक्वाथेन त्रिगुणेन तु ७६
युक्तं पीतं तथा क्षीररसाभ्यां तु विरेचयेत्
बालवृद्धक्षतक्षीणंसुकुमारेषु योजितम् ७७
फलानां विधिरुद्दिष्टः क्षीराणां शृणु शुश्रुत
विरेचनानां तीक्ष्णानां पयः सौधं परं मतम् ७८
अज्ञप्रयुक्तं तद्धन्ति विषवत् कर्मविभ्रमात्
विजानता प्रयुक्तं तु महान्तमपि संचयम् ७९
भिनत्त्याश्वेव दोषाणां रोगान् हन्ति च दुस्तरान्
महत्याः पञ्चमूल्यास्तु बृहत्योश्चैकशः पृथक् ८०
कषायैः समभागं तु तदङ्गारेषु शोषितम्
अम्लादिभिः पूर्ववत्तु प्रयोज्यं कोलसंमितम् ८१
महावृक्षपयः पीतैर्यवागूस्तण्डुलैः कृता
पीता विरेचयत्याशु गुडेनोत्कारिका कृता ८२
लेहो वा साधितः सम्यक् स्नुहीक्षीरपयोघृतैः
भावितास्तुस्नुहीक्षीरे पिप्पल्यो लवणान्विताः ८३
चूर्णं काम्पिल्लकं वाऽपि तत्पीतं गुटिकीकृतम्
सप्तला शङ्खिनी दन्ती त्रिवृदारग्वधं गवाम् ८४
मूत्रेणाप्लाव्य सप्ताहं स्नुहीक्षीरे ततः परम्
कीर्णं तेनैव चूर्णेन माल्यं वसनमेव च ८५
आघ्रायावृत्य वा सम्यङ्मृदुकोष्ठो विरिच्यते
क्षीरत्वक्फलमूलानां विधानैः परिकीर्तितैः
अवेक्ष्य सम्यग्रोगादीन् यथावदुपयोजयेत् ८६
त्रिवृच्छाणा मितास्तिस्रस्तिस्रश्च त्रिफलात्वचः
विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः ८७
लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन वा
भक्षयेन्निष्परीहारमेतच्छ्रेष्ठं विरेचनम् ८८
गुल्मं प्लीहोदरं कासं हलीमकमरोचकम्
कफवातकृतांश्चान्यान् व्याधीनेतद्व्यपोहति ८९
घृतेषु तैलेषु पयःसु चापि मद्येषु मूत्रेषु तथा रसेषु
भक्ष्यान्नलेह्येषु च तेषु तेषु विरेचनान्यग्रमतिर्विदध्यात् ९०
क्षीरं रसः कल्कमथो कषायः शृतश्च शीतश्च तथैव चूर्णम्
कल्पाः षडेते खलु भेषजानां यथोत्तरं ते लघवः प्रदिष्टाः ९१
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने विरेचनद्र व्यविकल्पविज्ञानीयो
नाम चतुश्चत्वारिंशोऽध्यायः ४४


पञ्चचत्वारिंशत्तमोऽध्यायः
अथातो द्र वद्र व्यविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवनं तर्पणं धारणमाश्वासजननं श्रमक्लमपिपासामदमूर्च्छातन्द्रा निद्रा दाहप्रशमनमेकान्ततः पथ्यतमं च ३
तदेवावनिपतितमन्यतमं रसमुपलभते स्थानविशेषान्नदीनदसरस्तडागवापीकूपचुण्टीप्रस्रवणोद्भिदवि किरकेदारपल्वलादिषु स्थानेष्ववस्थितमिति ४
तत्र लोहितकपिलपाण्डुनीलपीतशुक्लेष्ववनिप्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ख्यमुदकानि संभवन्ति इत्येके भाषन्ते ५
तत्तु न सम्यक् पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलिलरसो भवत्युत्क-र्षापकर्षेण तत्र स्वलक्षणभूयिष्ठायां भूमावम्लं लवणं च अम्बुगुणभूयिष्ठायां मधुरं तेजोगुणभूयिष्ठायां कटुकं तिक्तं च वायुगुणभूयिष्ठायां कषायम् आ-काशगुणभूयिष्ठायामव्यक्तरसम् अव्यक्तं ह्याकाशमित्यतः तत् प्रधानम् व्यक्तरसत्वात् तत्पेयमान्तरीक्षालाभे ६
तत्रान्तरीक्षं चतुर्विधम् तद्यथाधारं कारं तौषारं हैममिति तेषां धारं प्रधानं लघुत्वात् तत् पुनर्द्विविधंगाङ्गं सामुद्रं चेति तत्र गाङ्गमाश्वयुजे मासि प्राय-शो वर्षति तयोर्द्वयोरपि परीक्षणं कुर्वीत शाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे बहिष्कुर्वीत स यदि मुहूर्तं स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यं वर्णान्यत्वे सिक्थप्रक्लेदे च सामुद्र मिति विद्यात् तन्नोपादेयम् सामुद्र मप्याश्वयुजे मासि गृहीतं गाङ्गवद्भवति गाङ्गं पुनः प्रधानं तदुपाददीताश्वयुजे मासि शुचिशुक्लविततपटैकदेशच्युतमथवा हर्म्यतलपरिभ्रष्टमन्यैर्वा शुचिभिर्भाजनैर्गृहीतं सौवर्णे राजते मृन्मये वा पात्रे निदध्यात् तत् सर्वकालमुपयुञ्जीत तस्यालाभे भौमम् तच्चाकाशगुण बहु-लम् तत् पुनः सप्तविधम् तद्यथाकौपं नादेयं सारसं ताडागं प्रास्रवणम् औद्भिदं चौण्ट्यमिति ७
तत्र वर्षास्वान्तरिक्षमौद्भिदं वा सेवेत महागुणत्वात्शरदि सर्वं प्रसन्नत्वात् हेमन्ते सारसं ताडागं वावसन्ते कौपं प्रास्रवणं वा ग्रीष्मेऽप्येवं प्रावृषि चौण्ट्यमनभिवृष्टं सर्वं चेति ८
कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम्
तृणपर्णोत्करयुतं कलुषं विषसंयुतम् ९
योऽवगाहेत वर्षासु पिबेद्वाऽपि नवं जलम्
स बाह्याभ्यन्तरान् रोगान् प्राप्नुयात् क्षिप्रमेव तु १०
तत्र यत् पङ्कशैवलहठतृणपद्मपत्रप्रभृतिभिरवच्छन्नं रविशशिकिरणानि लैना-भिजुष्टं गन्धवर्णरसोपसृष्टं तद्व्यापन्नमिति विद्यात् तस्य स्पर्शरूपरसगन्ध-वीर्यविपाकदोषाः षट् संभवन्ति तत्र खरता पैच्छिल्यमौष्ण्यं दन्तग्राहिता च स्पर्शदोषः पङ्कसिकताशैवालबहुवर्णता रूपदोषः व्यक्तरसता रसदोषः अनिष्टगन्धता गन्धदोषाः यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापादयति स वीर्यदोषः यदुपयुक्तं चिराद्विपच्यते विष्टम्भयति वा स विपाकदोष इति त
एते आन्तरिक्षे न सन्ति ११
व्यापन्नस्य चाग्निक्वथनं सूर्यातपप्रतापनं तप्तायः पिण्डसिकतालोष्ट्राणां वा
निर्वापणं प्रसादनं च कर्तव्यं नागचम्पकोत्पलपाटलापुष्पप्रभृतिभिश्चाधिवासनमिति १२
सौवर्णे राजते ताम्रे कांस्ये मणिमयेऽपि वा
पुष्पावतंसं भौमे वा सुगन्धि सलिलं पिबेत् १३
व्यापन्नं वर्जयेन्नित्यं तोयं यच्चाप्यनार्तवम्
दोषसंजननं ह्येतन्नाददीताहितं तु तत् १४
व्यापन्नमुदकं यस्तु पिबतीहाप्रसादितम्
श्वयथुं पाण्डुरोगं च त्वग्दोषमविपाकताम् १५
श्वासकासप्रतिश्यायशूलगुल्मोदराणि च
अन्यान्वा विषमान्रोगान्प्राप्नुयादचिरेण सः १६
तत्र सप्त कलुषस्य प्रसादनानि भवन्ति तद्यथाकतकगोमे
दकबिसग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति १७
पञ्च निक्षेपणानि भवन्ति तद्यथाफलकं त्र्! यष्टकं
मुञ्जवलय उदकमञ्चिका शिक्यं चेति १८
सप्त शीतीकरणानि भवन्ति तद्यथाप्रवातस्थापनम्
उदकप्रक्षेपणं यष्टिकाभ्रामणं व्यजनं वस्त्रोद्धरणं
वालुकाप्रक्षेपणं शिक्यावलम्बनं चेति १९
निर्गन्धमव्यक्तरसं तृष्णाघ्नं शुचि शीतलम्
अच्छं लघु च हृद्यं च तोयं गुणवदुच्यते २०
तत्र नद्यः पश्चिमाभिमुखाः पथ्याः लघूदकत्वात् पूर्वाभिमुखास्तु न प्रशस्य-न्ते गुरूदकत्वात् दक्षिणाभिमुखा नातिदोषलाः साधारणत्वात् तत्र सह्य-प्रभवाः कुष्ठं जनयन्ति विन्ध्यप्रभवाः कुष्ठं पाण्डुरोगं च मलयप्रभवाः कृमीन् महेन्द्र प्रभवाः श्लीपदोदराणि हिमवत्प्रभवा हृद्रो गश्वयथुशिरोरोगश्लीपदग-लगण्डान् प्राच्यावन्त्या अपरावन्त्याश्चार्शांस्युपजन यन्ति पारियात्रप्रभवाः
पथ्याबलारोग्यकर्य इति २१
नद्यः शीघ्रवहा लघ्व्यः प्रोक्ता याश्चामलोदकाः
गुर्व्यः शैवालसंछन्नाः कलुषा मन्दगाश्च याः २२
प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः
लघ्व्यः समधुराश्चैव पौरुषेया बले हिताः २३
तत्र सर्वेषामेव भौमानां ग्रहणं प्रत्यूषसि तत्र ह्यमलत्वं शैत्यं चाधिकं भवति स एव चापां परो गुण इति २४
दिवार्ककिरणैर्जुष्टं निशायामिन्दुरश्मिभिः
अरूक्षमनभिष्यन्दि तत्तुल्यं गगनाम्बुना २५
गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने
बल्यं रसायनं मेध्यं पात्रापेक्षि ततः परम् २६
रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम्
चन्द्र कान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् २७
मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये
भ्रमक्लमपरीतेषु तमके वमथौ तथा २८
ऊर्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते
पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे २९
आध्माने स्तिमिते कोष्ठे सद्यःशुद्धे नवज्वरे
हिक्कायां स्नेहपीते च शीताम्बु परिवर्जयेत् ३०
नादेयं वातलं रूक्षं दीपनं लघु लेखनम्
तदभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम् ३१
तृष्णाघ्नं सारसं बल्यं कषायं मधुरं लघु
ताडागं वातलं स्वादु कषायं कटुपाकि च ३२
वातश्लेष्महरं वाप्यं सक्षारं कटु पित्तलम्
सक्षारं पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु ३३
चौण्ट्यमग्निकरं रूक्षं मधुरं कफकृन्न च
कफघ्नं दीपनं हृद्यं लघु प्रस्रवणोद्भवम् ३४
मधुरं पित्तशमनमविदाह्यौद्भिदं स्मृतम्
वैकिरं कटु सक्षारं श्लेष्मघ्नं लघु दीपनम् ३५
कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम्
तद्वत्पाल्वलमुद्दिष्टं विशेषाद्दोषलं तु तत् ३६
सामुद्र मुदकं विस्रं लवणं सर्वदोषकृत्
अनेकदोषमानूपं वार्यभिष्यन्दि गर्हितम् ३७
एभिर्दोषैरसंयुक्तं निरवद्यं तु जाङ्गलम्
पाकेऽविदाहि तृष्णाघ्नं प्रशस्तं प्रीतिवर्धनम् ३८
दीपनं स्वादु शीतं च तोयं साधारणं लघु
कफमेदोऽनिलामघ्नं दीपनं बस्तिशोधनम् ३९
श्वासकासज्वरहरं पथ्यमुष्णोदकं सदा
यत् क्वाथ्यमानं निर्वेगं निष्फेनं निर्मलं लघु ४०
चतुर्भागावशेषं तु तत्तोयं गुणवत् स्मृतम्
न च पर्युषितं देयं कदाचिद्वारि जानता ४१
अम्लीभूतं कफोत्क्लेदि न हितं तत् पिपासवे
मद्यपानात्समुद्भूते रोगे पित्तोत्थिते तथा ४२
सन्निपातसमुत्थे च शृतशीतं प्रशस्यते
स्निग्धं स्वादु हिमं हृद्यं दीपनं बस्तिशोधनम् ४३
वृष्यं पित्तपिपासाघ्नं नालिकेरोदकं गुरु
दाहातीसारपित्तासृङ्मूर्च्छामद्यविषार्तिषु ४४
शृतशीतं जलं शस्तं तृष्णाच्छर्दिभ्रमेषु च
अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ४५
मन्देऽग्नावुदरे कुष्ठे ज्वरे नेत्रामये तथा
व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ४६
इति जलवर्गः
अथ क्षीरवर्गः
गव्यमाजं तथा चौष्ट्रमाविकं माहिषं च यत्
अश्वायाश्चैव नार्याश्च करेणूनां च यत्पयः ४७
तत्त्वनेकौषधिरसप्रसादं प्राणदं गुरु मधुरं पिच्छिलं शीतं स्निग्धं श्लक्ष्णं सरं मृदु सर्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते ४८
तत्र सर्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जातिसात्म्यात् वातपित्तशोणित मान-सेष्वपि विकारेष्वविरुद्धं जीर्णज्वरकासश्वासशोषक्षयगुल्मोन्मादोदरमूर्च्छा-भ्रममददाहपिपासाहृद्बस्तिदोषपाणडुरोगग्रहणीदोषार्शः शूलोदावर्तातिसार-प्रवाहिकायोनिरोगगर्भास्रावरक्तपित्तश्रमक्लमहरं पाप्मापहं बल्यं वृष्यं वा-जीकरणं रसायनं मेध्यं वयःस्थापनमायुष्यं जीवनं बृंहणं संधानं वमनविरे-चनास्थापनं तुल्यगुणत्वाच्चौजसो वर्धनं बालवृद्धक्षतक्षीणानां क्षुद्व्ययवायव्यायामकर्शितानां च पथ्यतमम् ४९
अल्पाभिष्यन्दि गोक्षीरं स्निग्धं गुरु रसायनम्
रक्तपित्तहरं शीतं मधुरं रसपाकयोः ५०
जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम्
गव्यतुल्यगुणं त्वाजं विशेषाच्छोषिणां हितम् ५१
दीपनं लघु संग्राहि श्वासकासास्रपित्तनुत्
अजानामल्पकायत्वात् कटुतिक्तनिषेवणात् ५२
नात्यम्बुपानाद्व्यायामात् सर्वव्याधिहरं पयः
रूक्षोष्णं लवणं किंचिदौष्ट्रं स्वादुरसं लघु ५३
शोफगुल्मोदरार्शोघ्नं कृमिकुष्ठविषापहम्
आविकं मधुरं स्निग्धं गुरु पित्तकफावहम् ५४
पथ्यं केवलवातेषु कासे चानिलसंभवे
महाभिष्यन्दि मधुरं माहिषं वह्निनाशनम् ५५
निद्रा करं शीततरं गव्यात् स्निग्धतरं गुरु
उष्णमैकशफं बल्यं शाखावातहरं पयः ५६
मधुराम्लरसं रूक्षं लवणानुरसं लघु
नार्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम् ५७
नस्याश्च्योतनयोः पथ्यं जीवनं लघु दीपनम्
हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ५८
स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम्
प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ५९
रात्र्! याः सोमगुणत्वाच्च व्यायामाभावतस्तथा
दिवाकराभितप्तानां व्यायामानिलसेवनात् ६०
श्रमघ्नं वातनुच्चैव चक्षुष्यं चापराह्णिकम्
पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्तितम् ६१
तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम्
वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् ६२
धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा
तदेवातिशृतं शीतं गुरु बृंहणमुच्यते ६३
अनिष्टगन्धमम्लं च विवर्णं विरसं च यत्
वर्ज्यं सलवणं क्षीरं यच्च विग्रथितं भवेत् ६४
इति क्षीरवर्गः
अथ दधिवर्गः
दधि तु मधुरमम्लमत्यम्लं चेति तत्कषायानुरसंस्निग्धमुष्णं पीनसविषम ज्वरातिसारारोचकमूत्रकृच्छ्रकार्श्यापहं वृष्यं प्राणकरं मङ्गल्यं च ६५
महाभिष्यन्दि मधुरं कफमेदोविवर्धनम्
कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ६६
विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत्
स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् ६७
वातापहं पवित्रं च दधि गव्यं रुचिप्रदम्
दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् ६८
दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम्
विपाके मधुरं वृष्यं वातपित्तप्रसादनम् ६९
बलासवर्धनं स्निग्धं विशेषाद्दधि माहिषम्
विपाके कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि ७०
वातमर्शांसि कुष्ठानि कृमीन् हन्त्युदराणि च
कोपनं कफवातानां दुर्नाम्नां चाविकं दधि ७१
रसे पाके च मधुरमत्यभिष्यन्दि दोषलम्
दीपनीयमचक्षुष्यं वाडवं दधि वातलम् ७२
रूक्षमुष्णं कषायं च कफमूत्रापहं च तत्
स्निग्धं विपाके मधुरं बल्यं संतर्पणं गुरु ७३
चक्षुष्यमग्र्यं दोषघ्नं दधि नार्या गुणोत्तरम्
लघु पाके बलासघ्नं वीर्योष्णं पक्तिनाशनम् ७४
कषायानुरसं नाग्या दधि वर्चोविवर्धनम्
दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् ७५
विज्ञेयमेवं सर्वेषु गव्यमेव गुणोत्तरम्
वातघ्नं कफकृत् स्निग्धं बृंहणं नातिपित्तकृत् ७६
कुर्याद्भक्ताभिलाषं च दधि यत् सुपरिस्रुतम्
शृतात् क्षीरात्तु यज्जातां गुणवद्दधि तत् स्मृतम् ७७
वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम्
दध्नः सरो गुरुर्वृष्यो विज्ञेयोऽनिलनाशनः ७८
वह्नेर्विधमनश्चापि कफशुक्रविवर्धनः
दधि त्वसारं रूक्षं च ग्राहि विष्टम्भि वातलम् ७९
दीपनीयं लघुतरं सकषायं रुचिप्रदम्
शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ८०
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते
तृष्णाक्लमहरं मस्तु लघु स्रोतोविशोधनम् ८१
अम्लं कषायं मधुरमवृष्यं कफवातनुत्
प्रह्लादनं प्रीणनं च भिनत्त्याशु मलं च तत्
बलमावहते क्षिप्रं भक्तच्छन्दं करोति च ८२
स्वाद्वम्लमत्यम्लकमन्दजातं तथा शृतक्षीरभवं सरश्च
असारमेवं दधि सप्तधाऽस्मिन् वर्गे स्मृता मस्तुगुणास्तथैव ८३
इति दधिवर्गः
अथ तक्रवर्गः
तक्रं तु मधुरमम्लं कषायानुरसमुष्णवीर्यं लघु रूक्षमग्निदीपनं गरशोफाति-सारग्रहणीपाण्डुरोगार्शः प्लीहगुल्मारोचकविषमज्वर-तृष्णाच्छर्दिप्रसेकशू-लमेदः श्लेष्मानिलहरं मधुरविपाकं हृद्यं मूत्रकृच्छ्रस्नहेव्यापत्प्रशमनमवृष्यं च ८४
मन्थनादिपृथग्भूतस्नेहमर्धोदकं च यत्
नातिसान्द्र द्र वं तक्रं स्वाद्वम्लं तुवरं रसे
यत्तु सस्नेहमजलं मथितं घोलमुच्यते ८५
नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले
न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ८६
शीतकालेऽग्निमान्द्ये च कफोत्थेष्वामयेषु च
मार्गावरोधे दुष्टे च वायौ तक्रं प्रशस्यते ८७
तत् पुनर्मधुरं श्लेष्मप्रकोपणं पित्तप्रशमनं च
अम्लं वातघ्नं पित्तकरं च ८८
वातेऽम्ल सैन्धवोपेतं स्वादु पित्ते सशर्करम्
पिबेत्तक्रं कफे चापि व्योषक्षारसमन्वितम् ८९
ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका
तक्राल्लघुतरो मण्डः कूर्चिकादधितक्रजः ९०
गुरुः किलाटोऽनिलहा पुंस्त्वनिद्रा प्रदः स्मृतः
मधुरौ बृंहणौ वृष्यौ तद्वत्पीयूषमोरटौ ९१
नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुरं कषायमीषदम्लं शीतलं मेध्यं दीपनं हृद्यं संग्राहि पित्तानिलहरं वृष्यमविदाहि क्षयकासव्रणशोषार्शोऽदि-तापहं चिरोत्थितं गुरु कफमेदोविवर्धनं बलकरं बृंहणं शोषघ्नं विशेषेण बालानां प्रशस्यते ९२
क्षीरोत्थं पुनर्नवनीतमुत्कृष्टस्नेहमाधुर्यमतिशीतं सौकुमार्यकरं चक्षुष्यं संग्राहि
रक्तपित्तनेत्ररोगहरं प्रसादनं च ९३
संतानिका पुनर्वातघ्नी तर्पणी वृष्या बल्या स्निग्धा रुच्या मधुरा मधुरविपा-का रक्तपित्तप्रसादनीगुर्वी च ९४
विकल्प एष दध्यादिः श्रेष्ठो गव्योऽभिवर्णितः
विकल्पानवशिष्टांस्तु क्षीरवीर्यात्समादिशेत् ९५
इति तक्रवर्गः
अथ घृतम्
घृतं तु मधुरं सौम्यं मृदुशीतवीर्यमनभिष्यन्दिस्नेहनमुदावर्तोन्मादापस्मार-शूलज्वरानाहवातपित्तप्रशमनमग्निदीपनं स्मृतिमतिमेधाकान्तिस्वरलावण्य-सौकुमार्यौजस्तेजोबलकर-मायुष्यं वृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं
श्लेष्माभिवर्धनं पाप्मालक्ष्मीप्रशमनं विषहरं रक्षोघ्नं च ९६
विपाके मधुरं शीतं वातपित्तबिषापहम्
चक्षुष्यमग्र्यं बल्यं च गव्यं सर्पिर्गुणोत्तरम् ९७
आजं घृतं दीपनीयं चक्षुष्यं बलवर्धनम्
कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु ९८
मधुरं रक्तपित्तघ्नं गुरु पाके कफावहम्
वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ९९
औष्ट्रं कटु घृतं पाके शोफक्रिमिविषापहम्
दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् १००
पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपणम्
कफेऽनिले योनिदोषे शोषे कम्पे च तद्धितम् १०१
पाके लघूष्णवीर्यं च कषायं कफनाशनम्
दीपनं बद्धमूत्रं च विद्यादैकशफं घृतम् १०२
चक्षुष्यमग्र्यं स्त्रीणां तु सर्पिः स्यादमृतोपमम्
वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् १०३
कषायं बद्धविण्मूत्रं तिक्तमग्निकरं लघु
हन्ति कारेणवं सर्पिः कफकुष्ठविषक्रिमीन् १०४
क्षीरघृतं पुनः संग्राहि रक्तपित्तभ्रममूर्च्छाप्रशमनं नेत्ररोगहितं च १०५
सर्पिर्मण्डस्तु मधुरः सरो योनिश्रोत्राक्षिशिरसां शूलघ्नो बस्तिनस्याक्षिपूरणेषूपदिश्यते १०६
सर्पिः पुराणं सरं कटुविपाकं त्रिदोषापहं मूर्च्छामदोन्मादोदरज्वरगरशोषापस्मारयोनिश्रोत्राक्षिशिर शूलघ्नं दीपनं बस्तिनस्यपूरणेषूपदिश्यते १०७
भवति चात्रपुराणं तिमिरश्वासपीनसज्वरकासनुत्
मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् १०८
एकादशशतं चैव वत्सरानुषितं घृतम्
रक्षोघ्नं कुम्भसर्पिः स्यात् परतस्तु महाघृतम् १०९
पेयं महाघृतं भूतैः कफघ्नं पवनाधिकैः
बल्यं पवित्रं मेध्यं च विशेषात्तिमिरापहम् ११०
सर्वभूतहरं चैव घृतमेतत् प्रशस्यते १११
इति घृतवर्गः
अथ तैलानि
तैलं त्वाग्नेयमुष्णं तीक्ष्णं मधुरं मधुरविपाकं बृंहणं प्रीणनं व्यवायि सूक्ष्मं विशदं गुरु सरं विकासि वृष्यं त्वक् प्रसादनं मेधामार्दवमांसस्थैर्यवर्णब-लकरं चक्षुष्यं बद्धमूत्रं लेखनं तिक्तकषायानुरसं पाचनमनिलबलासक्षयकरं क्रिमिघ्नमशितपित्तजननं योनिशिरः कर्णशूलप्रशमनं गर्भाशयशोधनं च तथा छिन्नभिन्नविद्धोत्पिष्टच्युतमथितक्षतपिच्चितभग्न स्फुटितक्षाराग्निदग्धविश्लि-ष्टदारिताभिहतदुर्भग्नमृगव्यालविदष्टप्रभृतिषु च परिषेकाभ्यङ्गावगाहादिषु
तिलतैलं प्रशस्यते ११२
तद्बस्तिषु च पानेषु नस्ये कर्णाक्षिपूरणे
अन्नपानविधौ चापि प्रयोज्यं वातशान्तये ११३
एरण्डतैलं मधुरमुष्णं तीक्ष्णं दीपनं कटु कषायानुरसं सूक्ष्मं स्रोतोविशोधनं त्वच्यं वृष्यं मधुरविपाकं वयःस्थापनं योनिशुक्रविशोधनमारोग्य मेधाकान्तिस्मृतिबलकरं वातकफहरमधोभागदोषहरं च ११४
निम्बातसीकुसुम्भमूलकजीमूतकवृक्षककृतवेधनार्ककम्पिल्लकहस्तिकर्ण पृथ्वीकापीलुकरञ्जेङ्गुदीशिग्रुसर्षपसुवर्चलाविडङ्गज्योतिष्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवीर्याणि कटूनि कटुविपाकानि सराण्यनिलकफकृमिकुष्ठप्रमेहशिरोरोगापहराणि चेति ११५
वातघ्नं मधुरं तेषु क्षौमं तैलं बलापहम्
कटुपाकमचक्षुष्यं स्निग्धोष्णं गुरुपित्तलम् ११६
कृमिघ्नं सार्षपं तैलं कण्डूकुष्ठापहं लघु
कफमेदोनिलहरं लेखनं कटु दीपनम् ११७
कृमिघ्नमिङ्गुदीतैलमीषत्तिक्तं तथा लघु
कुष्ठामयकृमिहरं दृष्टिशुक्रबलापहम् ११८
विपाके कटुकं तैलं कौसुम्भं सर्वदोषकृत्
रक्तपित्तकरं तीक्ष्णमचक्षुष्यं विदाहि च ११९
किराततिक्तकातिमुक्तकबिभीतकनालिकेरकोलाक्षोडजीवन्तीप्रियालकर्बुदा-रसूर्यवल्लीत्रपुसैर्वारुककर्कारुकूष्माण्डप्रभृतीनां तैलानि मधुराणि मधुरवि-पाकानि वातपित्तप्रशमनानि शीतवीर्याण्यभिष्यन्दीनि सृष्टमूत्राण्यग्निसादनानि चेति १२०
मधूककाश्मर्यपलाशतैलानि मधुरकषायाणि कफपित्तप्रशमनानि १२१
तुवरकभल्लातकतैले उष्णे मधुरकषाये तिक्तानुरसे वातकफकुष्ठमेदोमेहकृमिप्रशमने उभयतोभागदोषहरे च १२२


सरलदेवदारुशिंशपागुरुगण्डीरसारस्नेहास्तिक्तकटुकषाया दुष्टव्रणशोधनाः
कृमिकफकुष्ठानिलहराश्च १२३
तुम्बीकोशम्रदन्तीद्र वन्तीश्यामासप्तलानीलिकाकम्पिल्ल कशङ्खिनी स्नेहास्तिक्तकटुकषाया अधोभागदोषहराः कृमिकफकुष्ठानिलहरा दुष्टव्रणशोधनाश्च १२४
यवतिक्तातैलं सर्वदोषप्रशमनमीषत्तिक्तमग्निदीपनं लेखनं मेध्यं पथ्यं च१२५
एकैषिकातैलं मधुरमतिशीतं पित्तहरमनिलप्रकोपणं श्लेष्माभिवर्धनं च १२६
सहकारतैलमीषत्तिक्तमतिसुगन्धि वातकफहरं रूक्षं मधुरकषायं रसवन्नाति-पित्तकरं च १२७
फलोद्भवानि तैलानि यान्युक्तानीह कानिचित्
गुणान् कर्म च विज्ञाय फलानीव विनिर्दिशेत् १२८
यावन्तः स्थावराः स्नेहाः समासात्परिकीर्तिताः
सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः १२९
सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते
निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि १३०
ग्राम्यानूपौदकानां च वसामेदोमज्जानो गुरूष्णमधुरा वातघ्नाः जाङ्गलैकश
फक्रव्यादादीनां लघुशीतकषाया रक्तपित्तघ्नाः प्रतुदविष्किराणां श्लेष्मघ्नाः
तत्र घृततैलवसामेदोमज्जानो यथोत्तरं गुरुविपाका वातहराश्च १३१
इति तैलवर्गः
अथ मधुवर्गः
मधु तु मधुरं कषायानुरसं रूक्षं शीतमग्निदीपनं वर्ण्यं स्वर्यं लघु सुकुमारं लेखनं हृद्यं वाजीकरणं सन्धानं शोधनं रोपणं सिंग्राहि चक्षुष्यं प्रसादनं सूक्ष्ममार्गानुसारि पित्तश्लेष्ममेदोमेहहिक्काश्वासकासातिसारच्छर्दितृष्णाकृ-मिविषप्रशमनं ह्लादि त्रिदोषप्रशमनं च तत्तुलघुत्वात् कफघ्नं पैच्छिल्यान्माधुर्यात् कषायभावाच्च वातपित्तघ्नम् १३२
पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च
आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः १३३
विशेषात्पौत्तिकं तेषु रूक्षोष्णं सविषान्वयात्
वातासृक्पित्तकृच्छेदि विदाहि मदकृन्मधु १३४
पैच्छिल्यात् स्वादुभूयस्त्वाद्भ्रामरं गुरुसंज्ञितम्
क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेखनम् १३५
तस्माल्लघुतरं रूक्षं माक्षिकं प्रवरं स्मृतम्
श्वासादिषु च रोगेषु प्रशस्तं तद्विशेषतः १३६
स्वादुपाकं गुरु हिमं पिच्छिलं रक्तपित्तजित्
श्वित्रमेहकृमिघ्नं च विद्याच्छात्रं गुणोत्तरम् १३७
आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम्
कषायं कटु पाके च बल्यं तिक्तमवातकृत् १३८
औद्दालकं रुचिकरं स्वर्यं कुष्ठविषापहम्
कषायमम्लमुष्णं च पित्तकृत् कटुपाकि च १३९
छर्दिमेहप्रशमनं मधु रूक्षं दलोद्भवम्
बृंहणीयं मधु नवं नातिश्लेष्महरं समम् १४०
मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम्
दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् १४१
तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून्
नानाद्र व्यात्मकत्वाच्च योगवाहि परं मधु १४२
तत्तु नानाद्र व्यरसगुणवीर्यविपाकविरुद्धानां पुष्प
रसानां मक्षिकासंभवत्वाच्चानुष्णोपचारम् १४३
उष्णैर्विरुध्यते सर्वं विषान्वयतया मधु
उष्णार्तमुष्णैरुष्णे वा तन्निहन्ति यथा विषम् १४४
तत्सौकुमार्याच्च तथैव शैत्यान्नानौषधीनां रससंभवाच्च
उष्णैर्विरुध्येत विशेषतश्च तथाऽन्तरीक्षेण जलेन चापि १४५
उष्णेन मधु संयुक्तं वमनेष्ववचारितम्
अपाकादनवस्थानान्न विरुध्येत पूर्ववत् १४६
मध्वामात्परतस्त्वन्यदामं कष्टं न विद्यते
विरुद्धोपक्रमत्वात्तत् सर्वं हन्ति यथा विषम् १४७
इति मधुवर्गः
अथेक्षुवर्गः
इक्षवो मधुरा मधुरविपाका गुरवः शीताः स्निग्धा बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफकराश्चेति ते चानेकविधाः तद्यथा १४८
पौण्ड्रको भीरुकश्चैव वंशकः श्वेतपोरकः
कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः १४९
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत्
इत्येता जातयः स्थौल्याद् गुणान् वक्ष्याम्यतः परम् १५०
सुशीतो मधुरः स्निग्धो बृंहणः श्लेष्मलः सरः
अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा १५१
आभ्यां तुल्यगुणः किंचित्सक्षारो वंशको मतः
वंशवच्छ्वेतपोरस्तु किंचिदुष्णः स वातहा १५२
कान्तारतापसाविक्षू वंशकानुगतौ मतौ
एवंगुणस्तु काष्ठेक्षुः स तु वातप्रकोपणः १५३
सूचीपत्रो नीलपोरौ नैपालो दीर्घपत्रकः
वातलाः कफपित्तघ्नाः सकषाया विदाहिनः १५४
कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः
अतीव मधुरो मूले मध्ये मधुर एव तु १५५
अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः १५६
अविदाही कफकरो वातपित्तनिवारणः
वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः १५७
गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्तितः
पक्वोगुरुःसरःस्निग्धः सतीक्ष्णः कफवातनुत् १५८
फाणितं गुरु मधुरमभिष्यन्दि बृंहणमवृष्यं त्रिदोषकृच्च १५९
गुडः सक्षारमधुरो नातिशीतः स्निग्धो मूत्ररक्तशोधनो नाति पित्तजिद्वातघ्नो मेदःकृमिकफकरो बल्यो वृष्यश्च १६०
पित्तघ्नो मधुरः शुद्धो वातघ्नोऽसृक्प्रसादनः
सपुराणोऽधिकगुणो गुडः पथ्यतमः स्मृतः १६१
मत्स्यण्डिकाखण्डशर्करा विमलजाता उत्तरोत्तरं शीताः स्निग्धाः
गुरुतरा मधुरतरा वृष्या रक्तपित्तप्रशमनास्तृष्णाप्रशमनाश्च १६२
यथा यथैषां वैमल्यं मधुरत्वं तथा तथा
स्नेहगौरवशैत्यानि सरत्वं च तथा तथा १६३
यो यो मत्स्यण्डिकाखण्डशर्कराणां स्वको गुणः
तेन तेनैव निर्देश्यस्तेषां विस्रावणो गुणः १६४
सारस्थिता सुविमला निःक्षारा च यथा यथा
तथा गुणवती सर्वा विज्ञेया शर्करा बुधैः १६५
मधुशर्करा पुनश्छर्द्यतीसारहरी रूक्षा छेदनी प्रसादनी
कषायमधुरा मधुरविपाका च १६६
यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्महरी सरा चेति १६७
यावत्यः शर्कराः प्रोक्ताः सर्वा दाहप्रणाशनाः
रक्तपित्तप्रशमनाश्छर्दिमूर्च्छातृषापहाः १६८
रूक्षं मधूकपुष्पोत्थं फाणितं वातपित्तकृत्
कफघ्नं मधुरं पाके कषायं बस्तिदूषणम् १६९
इतीक्षुवर्गः
अथ मद्यवर्गः
सर्वं पित्तकरं मद्यमम्लं रोचनदीपनम्
भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् १७०
पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्रि यबोधनम्
विकासि सृष्टविण्मूत्रं शृणु तस्य विशेषणम् १७१
मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा
रक्तपित्तेऽपि सततं बुधैर्न प्रतिषिध्यते १७२
मधुरं तद्धि रूक्षं च कषायानुरसं लघु
लघुपाकि सरं शोषविषमज्वरनाशनम् १७३
मार्द्वीकाल्पान्तरं किंचित् खार्जूरं वातकोपनम्
तदेव विशदं रुच्यं कफघ्नं कर्शनं लघु १७४
कषायमधुरं हृद्यं सुगन्धीन्द्रि यबोधनम्
कासार्शोग्रहणीदोषमूत्राघातानिलापहा १७५
स्तन्यरक्तक्षयहिता सुरा बृंहणदीपनी
कासार्शोग्रहणीश्वासप्रतिश्यायविनाशनी १७६
श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा
छर्द्यरोचकहृत्कुक्षितोदशूलप्रमर्दनी १७७
प्रसन्ना कफवातार्शोविबन्धानाहनाशनी
पित्तलाऽल्पकफा रूक्षा यवैर्वातप्रकोपणी १७८
विष्टम्भिनी सुरा गुर्वी श्लेष्मलं तु मधूलकम्
रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता १७९
त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः
ग्राह्युष्णो जगलः पक्ता रूक्षस्तृट्कफशोफकृत् १८०
हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषहृत्
बक्कसो हृतसारत्वाद्विष्टम्भी वातकोपनः १८१
दीपनः सृष्टविण्मूत्रो विशदोऽल्पमदो गुरुः
कषायो मधुरः शीधुर्गौडः पाचनदीपनः १८२
शार्करो मधुरो रुच्यो दीपनो बस्तिशोधनः
वातघ्नो मधुरः पाके हृद्य इन्द्रि यबोधनः १८३
तद्वत् पक्वरसः शीधुर्बलवर्णकरः सरः
शोफघ्नो दीपनो हृद्यो रुच्यः श्लेष्मार्शसां हितः १८४
कर्शनः शीतरसिकः श्वयथूदरनाशनः
वर्णकृज्जरणः स्वर्यो विबन्धघ्नोऽशसां हितः १८५
आक्षिकः पाण्डुरोगघ्नो व्रण्यः संग्राहको लघुः
कषायमधुरः शीधुः पित्तघ्नोऽसृक्प्रसादनः १८६
जाम्बवो बद्धनिस्यन्दस्तुवरो वातकोपनः
तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् १८७
मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः
लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः १८८
तिक्तः कषायः शोफघ्नस्तीक्ष्णः स्वादुरवातकृत्
तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत् १८९
कृमिमेदोनिलहरो मैरेयो मधुरो गुरुः
बल्यः पित्तहरो वर्ण्यो हृद्यश्चेक्षुरसासवः १९०
शीधुर्मधूकपुष्पोत्थो विहाह्यग्निबलप्रदः
रूक्षः कषायः कफहृद्वातपित्तप्रकोपणः १९१
निर्दिशेद्र सतश्चान्यान् कन्दमूलफलासवान्
नवं मद्यमभिष्यन्दि गुरु वातादिकोपनम् १९२
अनिष्टगन्धि विरसमहृद्यं च विदाहि च
सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् १९३
स्फुटस्रोतस्करं जीर्णं लघु वातकफापहम्
अरिष्टो द्र व्यसंयोगसंस्कारादधिको गुणैः १९४
बहुदोषहरश्चैव दोषाणां शमनश्च सः
दीपनः कफवातघ्नः सरः पित्ताविरोधनः १९५
शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः
पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः १९६
चिकित्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः पृथक्
अरिष्टासवशीधूनां गुणान् कर्माणि चादिशेत् १९७
बुद्ध्या यथास्वं संस्कारमवेक्ष्य कुशलो भिषक्
सान्द्रं विदाहि दुर्गन्धं विरसं कृमिलं गुरु १९८
अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम्
अल्पौषधं पर्युषितमत्यच्छं पिच्छिलं च यत् १९९
तद्वर्ज्यं सर्वथा मद्यं किंचिच्छेषं च यद्भवेत्
तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु २००
कफप्रकोपि तन्मद्यं दुर्जरं च विशेषतः
पित्तप्रकोपि बहलं तीक्ष्णमुष्णं विदाहि च २०१
अहृद्यं पेलवं पूति कृमिलं विरसं च यत्
तथा पर्युषितं चापि विद्यादनिलकोपनम् २०२
सर्वदोषैरुपेतं तु सर्वदोषप्रकोपणम्
चिरस्थितं जातरसं दीपनं कफवातजित् २०३
रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम्
तस्यानेकप्रकारस्य मद्यस्य रसवीर्यतः २०४
सौक्ष्म्यादौष्ण्याच्च तैक्ष्ण्याच्च विकासित्वाच्च वह्निना
समेत्य हृदयं प्राप्य धमनीरूर्ध्वमागतम्
विचाल्येन्द्रि यचेतांसि वीर्यं मदयतेऽचिरात् २०
चिरेण श्लैष्मिके पुंसि पानतो जायते मदः
अचिराद्वातिके दृष्टः पैत्तिके शीघ्रमेव च २०६
सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः
गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः २०७
राजसे दुःखशीलत्वमात्मत्यागं ससाहसम्
कलहं सानुबन्धं तु करोति पुरुषे मदः २०८
अशौचनिद्रा मात्सर्यागम्यागमनलोलताः
असत्यभाषणं चापि कुर्याद्धि तामसे मदः २०९
रक्तपित्तकरं शुक्तं छेदनं भुक्तपाचनम्
वैस्वर्यं जरणं श्लेष्मपाण्डुक्रिमिहरं लघु २१०
तीक्ष्णोष्णं मूत्रलं हृद्यं कफघ्नं कटुपाकि च
तद्वत्तदासुतं सर्वं रोचनं च विशेषतः २११
गौडानि रसशुक्तानि मधुशुक्तानि यानि च
यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च २१२
तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत्
ग्रहण्यर्शोविकारघ्नं भेदि सौवीरकं तथा २१३
धान्याम्लं धान्ययोनित्वाज्जीवनं दाहनाशनम्
स्पर्शात् पानात्तु पवनकफतृष्णाहरं लघु २१४
तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात्
मुखवैरस्यदौर्गन्ध्यमलशोषक्लमापहम् २१५
दीपनं जरणं भेदि हितमास्थापनेषु च
समुद्र माश्रितानां च जनानां सात्म्यमुच्यते २१६
इति मद्यवर्गः
अथ मूत्राणि
मूत्राणि गोमहिष्यजाविगजहयखरोष्ट्राणां तीक्ष्णान्युष्णानि कटूनि तिक्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृतिमेदोविषगुल्मार्शउदरकुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यआनि दीपनानि च सामान्यतः २१७
भवतश्चात्र
तत् सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु
शोधनं कफवातघ्नं कृमिमेदोविषापहम् २१८
अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम्
पाण्डुरोगहरं भेदि हृद्यं दीपनपाचनम् २१९
गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम्
लघ्वग्निदीपनं मेध्यं पित्तलं कफवातनुत् २२०
शूलगुल्मोदरानाहविरेका स्थापनादिषु
मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् २२१
दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु
आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् २२२
कासश्वासापहं शोफकामलापाण्डुरोगनुत्
कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् २२३
कासप्लीहोदरश्वासशोषवर्चोग्रहे हितम्
सक्षारं तिक्तकटुकमुष्णं वातघ्नमाविकम् २२४
दीपनं कटु तीक्ष्णोष्णं वातचेतोविकारनुत्
आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते २२५
सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम्
तीक्ष्णं क्षारे किलासे च नागं मूत्रं प्रयोजयेत् २२६
गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत्
दीपनं गार्दभं मूत्रं कृमिवातकफापहम् २२७
शोफकुष्ठोदरोन्मादमारुत क्रिमिनाशनम्
अर्शोघ्नं कारभं मूत्रं मानुषं च विषापहम् २२८
द्र वद्र व्याणि सर्वाणि समासात् कीर्तितानि तु
कालदेशविभागज्ञो नृपतेर्दातुमर्हति २२९
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने द्र वद्र व्यविज्ञानीयो नाम पञ्चचत्वारिंशोऽध्यायः ४५
षट्चत्वारिंशत्तमोऽध्यायः
अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धन्वन्तरिमभिवाद्य सुश्रुत उवाचप्रागभिहितः प्राणिना पुनर्मूलमाहारो बल-वर्णौजसां च स षट्सु रसेष्वायत्तः रसाः पुनर्द्र व्याश्रयिणः द्र व्यरसगुणवीय-र्!विपाकनिमित्ते च क्षयवृद्धी दोषाणां साम्यं च ब्रह्मादेरपि च लोकस्याहारः स्थित्युत्पत्तिविनाशहेतुः आहारादेवाभिवृद्धिर्बलमारोग्यं वर्णेन्द्रि यप्रसादश्च तथा ह्याहारवैषम्यादस्वास्थ्यां तस्याशितपीतलीढखा दितस्य नानाद्र व्या-त्मकस्यानेकविधविकल्पस्यानेकविधप्रभावस्य पृथक् पृथग्द्र व्यरसगुणवी-र्यविपाककर्माणीच्छामि ज्ञातुं न ह्यनवबुद्धस्वभावा भिषजः स्वस्थानुवृत्तिं रोगनिग्रहणं च कर्तुं समर्थाः आहारायत्ताश्च सर्वप्राणिनो यस्मात्तस्मादन्नपा-नविधिमुपदिशतु मे भगवानित्युक्तः प्रोवाच भग वान् धन्वन्तरिःअथ खलु
वत्स सुश्रुत यथाप्रश्नमुच्यमानमुपधारयस्व ३
तत्र लोहितशालिकलमकर्दमकपाण्डुकसुगन्धकशकुनाहृतपुष्पाण्डकपुण्ड-रीकमहाशालिशीतभीरुकरोध्रपुष्पकदीर्घशूककाञ्चनकमहिषमहाशूक हायनकदूषकमहादूषकप्रभृतयः शालयः ४
मधुरा वीर्यतः शीता लघुपाका बलावहाः
पित्तघ्नाल्पानिलकफाः स्निग्धा बद्धाल्पवर्चसः ५
तेषां लोहितकः श्रेष्ठो दोषघ्नः शुक्रमूत्रलः
चक्षुष्यो वर्णबलकृत् स्वर्यो हृद्यस्तृषापहः ६
व्रण्यो ज्वरहरश्चैव सर्वदोषविषापहः
तस्मादल्पान्तरगुणाः क्रमशः शालयोऽवराः ७
षष्टिककाङ्गुकमुकुन्दकपीतकप्रमोदककाकलकासनपुष्पकमहाषष्टिकचूर्णककुरवककेदारप्रभृतयः षष्टिकाः ८
रसे पाके च मधुराः शमना वातपित्तयोः
शालीनां च गुणैस्तुल्या बृंहणाः कफशुक्रलाः ९
षष्टिकः प्रवरस्तेषां कषायानुरसो लघुः
मृदुः स्निग्धस्त्रिदोषघ्नः स्थैर्यकृद्बलवर्धनः १०
विपाके मधुरो ग्राही तुल्यो लोहितशालिभिः
शेषास्त्वल्पान्तरास्तस्मात् षष्टिकाः क्रमशो गुणैः ११
कृष्णव्रीहिशालामुखजतुमुखनन्दीमुखलावाक्षकत्वरि
तककुक्कुटाण्डकपारावतकपाटलप्रभृतयो व्रीहयः १२
कषायमधुराः पाकेऽमधुरा वीर्यतोऽहिमाः
अल्पाभिष्यन्दिनस्तुल्याः षष्टिकैर्बद्धवर्चसः १३
कृष्णव्रीहिर्वरस्तेषां कषायानुरसो लघुः
तस्मादल्पान्तरगुणाः क्रमशो व्रीहयोऽपरे १४
दग्धायामवनौ जाताः शालयो लघुपाकिनः
कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षणाः १५
स्थलजाः कफपित्तघ्नाः कषायाः कटुकान्वयाः
किंचित्सतिक्तमधुराः पवनानलवर्धनाः १६
कैदारा मधुरा वृष्या बल्याः पित्तनिबर्हणाः
ईषत्कषायाल्पमला गुरवः कफशुक्रलाः १७
रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः
अदाहिनो दोषहरा बल्या मूत्रविवर्धनाः १८
शालयश्छिन्नरूढा ये रूक्षास्ते बद्धवर्चसः
तिक्ताः कषायाः पित्तघ्नालघुपाकाः कफापहाः १९
विस्तरेणायमुद्दिष्टः शालिवर्गो हिताहितः
इति शालिवर्गः
अथ कुधान्यवर्गः
तद्वत् कुधान्यमुद्गादिमाषादीनां च वक्ष्यते २०
कोरदूषकश्यामाकनीवारशान्तनुवरकोद्दालकप्रियङ्गुमधूलिकानन्दी मुखी-कुरु विन्दगवेधुकसरबरुक तोदयिपिर्णीमुकुन्दकवेणुयवप्रभृतयः कुधान्यविशेषाः २१
उष्णाः कषायमधुरा रूक्षाः कटुविपाकिनः
श्लेष्मघ्ना बद्धनिस्यन्दा वातपित्तप्रकोपणाः २२
कषायमधुरस्तेषां शीतः पित्तापहः स्मृतः
कोद्र वश्च सनीवारः श्यामाकश्च सशान्तनुः २३
कृष्णा रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः
यथोत्तरं प्रधानाः स्यू रूक्षाः कफहराः स्मृताः २४
मधूली मधुरा शीता स्निग्धा नन्दीमुखी तथा
विशोषी तत्र भूयिष्ठं वरुकः समुकुन्दकः २५
रूक्षा वेणुयवा ज्ञेया वीर्योष्णा कटुपाकिनः
बद्धमूत्राः कफहराः कषाया वातकोपनाः २६
मुद्गवनमुद्गकलायमकुष्ठमसूरमङ्गल्यचणकसतीनत्रिपुटकहरेण्वाढकीप्रभृतयो
वैदलाः २७
कषायमधुराः शीताः कटुपाका मरुत्कराः
बद्धमूत्रपुरीषाश्च पित्तश्लेष्महरास्तथा २८
नात्यर्थं वातलास्तेषु मुद्गा दृष्टिप्रसादनाः
प्रधाना हरितास्तत्र वन्या मुद्गसमाः स्मृताः २९
विपाके मधुराः प्रोक्ता मसूरा बद्धवर्चसः
मकुष्ठकाः कृमिकराः कलायाः प्रचुरानिलाः ३०
आढकी कफपित्तघ्नी नातिवातप्रकोपणी
वातलाः शीतमधुराः सकषाया विरूक्षणाः ३१
कफशोणितपित्तघ्नाश्चणकाः पुंस्त्वनाशनाः
त एव घृतसंयुक्तास्त्रिदोषशमनाः परम् ३२
हरेणवः सतीनाश्च विज्ञेया बद्धवर्चसः
ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारकाः ३३
माषो गुरुर्भिन्नपुरीषमूत्रः स्निग्धोष्णवृष्यो मधुरोऽनिलघ्नः
संतर्पणः स्तन्यकरो विशेषाद्बलप्रदः शुक्रकफावहश्च ३४
कषायभावान्न पुरीषभेदी न मूत्रलो नैव कफस्य कर्ता
स्वादुर्विपाके मधुरोऽलसान्द्र ः! संतर्पणः स्तन्यरुचिप्रदश्च ३५
माषैः समानं फलमात्मगुप्तमुक्तं च काकाण्डफलं तथैव
आरण्यमाषा गुणतः प्रदिष्टा रूक्षाः कषाया अविदाहिनश्च ३६
उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः
शुक्राश्मरीगुल्मनिषूदनश्च सांग्राहिकः पीनसकासहन्ता ३७
आनाहमेदोगुदकीलहिक्काश्वासापहः शोणितपित्तकृच्च
कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलत्थ उक्तः ३८
ईषत्कषायो मधुरः सतिक्तः सांग्राहिकः पित्तकरस्तथोष्णः
तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणे लेपन एव पथ्यः ३९
दन्त्योऽग्निमेधाजननोऽल्पमूत्रस्त्वच्योऽथ केश्योऽनिलहा गुरुश्च
तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास्तथाऽन्ये ४०
यवः कषायो मधुरो हिमश्च कटुर्विपाके कफपित्तहारी
व्रणेषु पथ्यस्तिलवच्च नित्यं प्रबद्धमूत्रो बहुवातवर्चाः ४१
स्थैर्याग्निमेधास्वरवर्णकृच्च सपिच्छिलः स्थूलविलेखनश्च
मेदोमरुत्तृड्हरणोऽतिरूक्षः प्रसादनः शोणितपित्तयोश्च ४२
एभिर्गुणैर्हीनतरैस्तु किंचिद्विद्याद्यवेभ्योऽतियवानशेषैः
गोधूम उक्तो मधुरो गुरुश्च बल्यः स्थिरः शुक्ररुचिप्रदश्च ४३
स्निग्धोऽतिशीतोऽनिलपित्तहन्ता सन्धानकृच्छ्लेष्मकरः सरश्च
रूक्षः कषायो विषशोषशुक्रबलासदृष्टिक्षयकृद्विदाही ४४
कटुर्विपाके मधुरस्तु शिम्बः प्रभिन्नविण्मारुतपित्तलश्च
सितासिताः पीतकरक्तवर्णा भवन्ति येऽनेकविधास्तु शिम्बाः ४५
यथादितस्ते गुणतः प्रधाना ज्ञेयाः कटूष्णा रसपाकयोश्च
सहाद्वयं मूलकजाश्च शिम्बाः कुशिम्बिवल्लीप्रभवास्तु शिम्बाः ४६
ज्ञेया विपाके मधुरा रसे च बलप्रदाः पित्तनिबर्हणाश्च
विदाहवन्तश्च भृशं विरूक्षा विष्टभ्य जीर्यन्त्यनिलप्रदाश्च ४७
रुचिप्रदाश्चैव सुदुर्जराश्च सर्वे स्मृता वैदलिकास्तु शिम्बाः
कटुर्विपाके कटुकः कफघ्नो विदाहिभावादहितः कुसुम्भः ४८
उष्णाऽतसी स्वादुरसाऽनिलघ्नी पित्तोल्बणा स्यात् कटुका विपाके
पाके रसे चापि कटुः प्रदिष्टः सिद्धार्थकः शोणितपित्तकोपी ४९
तीक्ष्णोष्णरूक्षः कफमारुतघ्न स्तथागुणश्चासितसर्षपोऽपि
अनार्तवं व्याधिहतमपर्यागतमेव च
अभूमिजं नवं चापि न धान्यं गुणवत् स्मृतम् ५०
नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम्
विदाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् ५१
शाल्यादेः सर्षपान्तस्य विविधस्यास्य भागशः
कालप्रमाणसंस्कारमात्राः संपरिकीर्तिताः ५२
इति कुधान्यवर्गः
अथ मांसवर्गः
अत ऊर्ध्वं मांसवर्गानुपदेक्ष्यामः तद्यथाजलेशया आनूपा ग्राम्याः क्रव्यभुज एकशफा जाङ्गलाश्चेति षण्मांसवर्गा भवन्ति एतेषां वर्गाणामुत्तरोत्तरा प्रधा-नतमाः ते पुनर्द्विविधा जाङ्गला आनूपाश्चेति तत्र जाङ्गलवर्गोऽष्टविधः त-द्यथाजङ्घाला विष्किराः प्रतुदा गुहाशयाः प्रसहाः पर्णमृगा बिलेशया ग्राम्याश्चेति तेषां जङ्घालविष्किरौ प्रधानतमौ ५३
तावेणहरिणर्क्षकुरङ्गकरालकृतमालशरभश्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयो जङ्घाला मृगाः कषाया मधुरा लघवो वातपित्तहरास्तीक्ष्णा हृद्या बस्तिशोधनाश्च ५४
कषायमधुरो हृद्यः पित्तासृक्कफरोगहा
संग्राही रोचनो बल्यस्तेषामेणो ज्वरापहः ५५
मधुरो मधुरः पाके दोषघ्नोऽनलदीपनः
शीतलो बद्धविण्मूत्रः सुगन्धिर्हरिणो लघुः ५६
एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते
यो न कृष्णो न ताम्रश्च कुरङ्गः सोऽभिधीयते ५७
शीताऽसृक्पित्तशमनी विज्ञेया मृगमातृका
सन्निपातक्षयश्वासकासहिक्कारुचिप्रणुत् ५८
लावतित्तिरिकपिञ्जलवर्तीरवर्तिकावर्तकनप्तृकावार्तीकच कोरकलविङ्कमयू-रक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रकुतित्तिरिकुरुवाहकयवालकप्रभृतयस्त्र्! याहला विष्किराः ५९
लघवः शीतमधुराः कषाया दोषनाशनाः
संग्राही दीपनश्चैव कषायमधुरो लघुः
लावः कटुविपाकश्च सन्निपाते तु पूजितः ६०
ईंषद्गुरुष्णमधुरो वृष्यो मेधाग्निवर्धनः
तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः ६१
रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः
कफोत्थेषु च रोगेषु मन्दवाते च शस्यते ६२
हिक्काश्वासानिलहरो विशेषाद्गौरतित्तिरिः
वातपित्तहरा वृष्या मेधाग्निबलवर्धनाः ६३
लघवः क्रकरा हृद्यास्तथा चैवोपचक्रकाः
कषायः स्वादुलवणस्त्वच्यः केश्योऽरुचौ हितः ६४
मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्द्रि यदार्ढ्यकृत्
स्निग्धोष्णोऽनिलहा वृष्यः स्वेदस्वरबलावहः ६५
बृंहणः कुक्कुटो वन्यस्तद्वद्ग्राम्यो गुरुस्तु सः
वातरोगक्षयवमीविषमज्वरनाशनः ६६
कपोतपारावतभृङ्गराजपरभृतकोयष्टिककुलिङ्गगृहकुलिङ्गगोक्ष्वेडकडिण्डि-माणवकशतपत्रकमातृनिन्दकभेदाशिशुकसारिकावल्गुलीगिरिशालट्वालट्टूषकसुगृहाखञ्जरीटहारीतदात्यूहप्रभृतयः प्रतुदाः ६७
कषायमधुरा रूक्षाः फलाहारा मरुत्कराः
पित्तश्लेष्महराः शीता बद्धमूत्राल्पवर्चसः ६८
सर्वदोषकरस्तेषां भेदाशी मलदूषकः
कषायस्वादुलवणो गुरुः काणकपोतकः ६९
रक्तपित्तप्रशमनः कषायविशदोऽपि च
विपाके मधुरश्चापि गुरुः पारावतः स्मृतः ७०
कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्धनः
रक्तपित्तहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः ७१
सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगेर्वारुकप्रभृतयो गुहाशयाः ७२
मधुरा गुरवः स्निग्धा बल्या मारुतनाशनाः
उष्णवीर्या हिता नित्यं नेत्रगुह्यविकारिणाम् ७३
काककङ्ककुररचाषभासशशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः प्रसहाः ७४
एते सिंहादिभिः सर्वे समाना वायसादयः
रसवीर्यविपाकेषु विशेषाच्छोषिणे हिताः ७५
मद्गुमूषिकवृक्षशायिकावकुशपूतिघासवानरप्रभृतयः पर्णमृगाः ७६
मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः
सृष्टमूत्रपुरीषाश्च कासार्शःश्वासनाशनाः ७७
श्वाविच्छल्यकगोधाशशवृषदंशलोपाकलोमशकर्णकदलीमृगप्रिंयकाजगर सर्प मूषिकनकुलमहाबभ्रुप्रभृतयो बिलेशयाः ७८
वर्चोमूत्रं संहतं कुर्युरेते वीर्ये चोष्णाः पूर्ववत् स्वादुपाकाः वातं हन्युः श्लेष्मपित्ते च कुर्युः स्निग्धाः कासश्वासकार्श्यापहाश्च ७९
कषायमधुरस्तेषां शशः पित्तकफापहः
नातिशीतलवीर्यत्वाद्वातसाधारणो मतः ८०
गोधा विपाके मधुरा कषायकटुका स्मृता
वातपित्तप्रशमनी बृंहणी बलवर्धनी ८१
शल्यकः स्वादुपित्तघ्नो लघुः शीतो विषापहः
प्रिंयको मारुते पथ्योऽजगरस्त्वर्शसां हितः ८२
दुर्नामानिलदोषघ्नाः कृमिदूषीविषापहाः
चक्षुष्या मधुराः पाके सर्पा मेधाग्निवर्धनाः ८३
दर्वीकरा दीपकाश्च तेषूक्ताः कटुपाकिनः
मधुराश्चातिचक्षुष्याः सृष्टविण्मूत्रमारुताः ८४
अश्वाश्वतरगोखरोष्ट्रबस्तोरभ्रमेदः पुच्छकप्रभृतयो ग्राम्याः ८५
ग्राम्या वातहराः सर्वे बृंहणाः कफपित्तलाः
मधुरा रसपाकाभ्यां दीपना बलवर्धनाः ८६
नातिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः
छगलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ८७
बृंहणं मांसमौरभ्रं पित्तश्लेष्मावहं गुरु
मेदःपुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः ८८
श्वासकासप्रतिश्यायविषमज्वरनाशनम्
श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम् ८९
औरभ्रवत्सलवणं मांसमेकशफोद्भवम्
अल्पाभिष्यन्द्ययं वर्गो जाङ्गलः समुदाहृतः ९०
दूरे जनान्तनिलया दूरे पानीयगोचराः
ये मृगाश्च विहङ्गाश्च तेऽल्पाभिष्यन्दिनो मताः ९१
अतीवासन्ननिलयाः समीपोदकगोचराः
ये मृगाश्च विहङ्गाश्च महाभिष्यन्दिनस्तु ते ९२
आनूपवर्गस्तु पञ्चविधः तद्यथाकूलचराः प्लवाः
कोषस्थाः पादिनो मत्स्याश्चेति ९३
तत्र गजगवयमहिषरुरुचमरसृमररोहितवराहखङ्गि गोकर्णकाल पुच्छको द्र न्यङ्क्वरण्यगवयप्रभृतयः कूलचराः पशवः ९४
वातपित्तहरा वृष्या मधुरा रसपाकयोः
शीतला बलिनः स्निग्धा मूत्रलाः कफवर्धनाः ९५
विरूक्षणो लेखनश्च वीर्योष्णः पित्तदूषणः
स्वाद्वम्ललवणस्तेषां गजः श्लेष्मानिलापहः ९६
गवयस्य तु मांसं हि स्निग्धं मधुरकासजित्
विपाके मधुरं चापि व्यवायस्य तु वर्धनम् ९७
स्निग्धोष्णमधुरो वृष्यो महिषस्तर्पणो गुरुः
निद्रा पुंस्त्वबलस्तन्यवर्धनो मांसदार्ढ्यकृत् ९८
रुरोर्मांसं समधुरं कषायानुरसं स्मृतम्
वातपित्तोपशमनं गुरु शुक्रविवर्धनम् ९९
तथा चमरमांसं तु स्निग्धं मधुरकासजित्
विपाके मधुरं चापि वातपित्तप्रणाशनम् १००
सृमरस्य तु मांसं च कषायानुरसं स्मृतम्
वातपित्तोपशमनं गुरु शुक्रविवर्धनम् १०१
स्वेदनं बृंहणं वृष्यं शीतलं तर्पणं गुरु
श्रमानिलहरं स्निग्धं वाराहं बलवर्धनम् १०२
कफघ्नं खङ्गिपिशितं कषायमनिलापहम्
पित्र्! यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् १०३
गोकर्णमांसं मधुरं स्निग्धं मृदु कफावहम्
विपाके मधुरं चापि रक्तपित्तविनाशनम् १०४
हंससारसक्रौञ्चचक्रवाककुररकादम्बकारण्डवजीवञ्जीवकबकबलाकापु-ण्डरीकप्लवशरारीमुखनन्दीमुखमद्गूत्क्रोशकाचाक्षमल्लिकाक्षशुक्लाक्षपु-ष्करशायिकाकोनालकाम्बुकुक्कुटिकामेघरावश्वेतवारलप्रभृतयः प्लवाः संघातचारिणः १०५
रक्तपित्तहराः शीताः स्निग्धा वृष्या मरुज्जितः
सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः १०६
गुरूष्णमधुरः स्निग्धः स्वरवर्णबलप्रदः
बृंहणः शुक्रलस्तेषां हंसो वातविकारनुत् १०७
शङ्खशङ्खनकशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः १०८
कूर्मकुम्भीरकर्कटककृष्णकर्कटकशिशुमारप्रभृतयः पादिनः १०९
शङ्खकूर्मादयः स्वादुरसपाका मरुन्नुदः
शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्धनाः ११०
कृष्णकर्कटकस्तेषां बल्यः कोष्णोऽनिलापहः
शुक्लः सन्धानकृत् सृष्टविण्मूत्रोऽनिलपित्तहा १११
मत्स्यास्तु द्विविधा नादेयाः सामुद्रा श्च ११२
तत्र नादेयाःरोहितपाठीनपाटलाराजीववर्मिगोमत्स्य
कृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्रप्रभृतयः ११३
नादेया मधुरा मत्स्या गुरवो मारुतापहाः
रक्तपित्तकराश्चोष्णा वृष्याः स्निग्धाल्पवर्चसः ११४
कषायानुरसस्तेषां शष्पशैवालभोजनः
रोहितो मारुतहरो नात्यर्थं पित्तकोपनः ११५
पाठीनः श्लेष्मलो वृष्यो निद्रा लुः पिशिताशनः
दूषयेद्र क्तपित्तं तु कुष्ठरोगं करोत्यसौ
मुरलो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ११६
सरस्तडागसंभूताः स्निग्धाः स्वादुरसाः स्मृताः
महाह्रदेषु बलिनः स्वल्पेऽम्भस्यबलाः स्मृताः ११७
तिमितिमिङ्गिलकुलिशपाकमत्स्यनिरुलनन्दिवारलकमकरगर्गकरचन्द्र कम-हामीनराजीवप्रभृतयः सामुद्रा ः! ११८
सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः
उष्णा वातहरा वृष्या वर्चस्याः श्लेष्मवर्धनाः ११९
बलावहा विशेषेण मांसाशित्वात् समुद्र जाः
समुद्र जेभ्यो नादेया बृंहणत्वाद्गुणोत्तराः १२०
तेषामप्यनिलघ्नत्वाच्चौण्ट्यकौप्यौ गुणोत्तरौ
स्निग्धत्वात् स्वादुपाकत्वात्तयोर्वाप्यागुणाधिकाः १२१
नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः
सरस्तडागजानां तु विशेषेण शिरो लघु १२२
अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः
किंचिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु ते १२३
अधस्ताद्गुरवो ज्ञेया मत्स्याः सागरसंभवाः
उरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम् १२४
इत्यानूपो महाष्यन्दी मांसवर्ग उदीरितः १२५
तत्र शुष्कपूतिव्याधिविषसर्पहतदिग्धविद्धजीर्णकृशबा लानामसात्म्यचा-रिणां च मांसान्यभक्ष्याणि यस्माद्विगतव्यापन्ना पहतपरिणताल्पासंपूर्णवीर्यत्वाद्दोषकराणि भवन्ति एभ्योऽन्येषामुपादेयं मांसमिति १२६
अरोचकं प्रतिश्यायं गुरु शुष्कं प्रकीर्तितम्
विषव्याधिहतं मृत्युं बालं छर्दिं च कोपयेत् १२७
कासश्वासकरं वृद्धं त्रिदोषं व्याधिदूषितम्
क्लिन्नमुत्क्लेशजननं कृशं वातप्रकोपणम् १२८
स्त्रियश्चतुष्पात्सु पुमांसो विहङ्गेषु महाशरीरेष्वल्पशरीराः अल्पशरीरेषु महा-शरीराः प्रधानतमाःएवमेकजातीयानां महाशरीरेभ्यः कृशशरीराः प्रधानतमाः
१२९
स्थानादिकृतं मांसस्य गुरुलाघवमुपदेक्ष्यामः तथद्यारक्तादिषु शुक्रान्तेषु धातुषूत्तरोत्तरा गुरुतराः तथा सक्थिस्कन्धक्रोडशिरःपादकरकटीपृष्ठचर्मकलेयकयकृदन्त्राणि १३०
शिरः स्कन्धं कटी पृष्ठं सक्थिनी चात्मपक्षयोः
गुरु पूर्वं विजानीयाद्धातवस्तु यथोत्तरम् १३१
सर्वस्य प्राणिनो देहे मध्यो गुरुरुदाहृतः
पूर्वभागो गुरुः पुंसामधोभागस्तु योषिताम् १३२
उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम्
पक्षोत्क्षेपात्समो दृष्टो मध्यभागस्तु पक्षिणाम् १३३
अतीव रूक्षं मांसं तु विहङ्गानां फलाशिनाम्
बृंहणं मांसमत्यर्थं खगानां पिशिताशिनाम् १३४
मत्स्याशिनां पित्तकरं वातघ्नं धान्यचारिनाम्
जलजानूपजा ग्राम्या क्रव्यादैकशफास्तथा १३५
प्रसहा बिलवासाश्च ये च जङ्घालसंज्ञिताः
प्रतुदा विष्किराश्चैव लघवः स्युर्यथोत्तरम्
अल्पाभिष्यन्दिनश्चैव यथापूर्वमतोऽन्यथा १३६
प्रमाणाधिकास्तु स्वजातावल्पसारा गुरवश्च सर्वप्राणिनां सर्वशरीरेभ्यः प्र-धानतमा भवन्ति यकृत्प्रदेशवर्तिनस्तानाददीता प्रधानालाभे मध्यमवयस्कं
सद्यस्कमक्लिष्टमुपादेयं मांसमिति १३७
भवति चात्र
चरः शरीरावयवाः स्वभावो धातवः क्रिया
लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते १३८
इति मांसवर्गः
अथ फलवर्गः
अत ऊर्ध्वं फलान्युपदेक्ष्यामः तद्यथादाडिमामलकबदरकोलकर्कन्धुसौ-वीरसिञ्चितिकाफलकपित्थमातुलुङ्गाम्राम्रा तक करमर्द प्रियालनारङ्गजम्बी-रलकुचभव्यपारावतवेत्रफलप्राचीनामलकतिन्तिडीक नीपकोशाम्राम्ली
काप्रभृतीनि १३९
अम्लानि रसतः पाके गुरूण्युष्णानि वीर्यतः
पित्तलान्यनिलघ्नानि कफोत्क्लेशकराणि च १४०
कषायानुरसं तेषां दाडिमं नातिपित्तलम्
दीपनीयं रुचिकरं हृद्यं वर्चोविबन्धनम् १४१
द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च
त्रिदोषघ्नं तु मधुरमम्लं वातकफापहम् १४२
अम्लं समधुरं तिक्तं कषायं कटुकं सरम्
चक्षुष्यं सर्वदोषघ्नं वृष्यमामलकीफलम् १४३
हन्ति वातं तदम्लत्वात् पित्तं माधुर्यशैत्यतः
कफं रूक्षकषायत्वात् फलेभ्योऽभ्यधिकं च तत् १४४
कर्कन्धुकोलबदरमामं पित्तकफावहम्
पक्वं पित्तानिलहरं स्निग्धं समधुरं सरम् १४५
पुरातनं तृट्शमनं श्रमघ्नं दीपनं लघु
सौवीरं बदरं स्निग्धं मधुरं वातपित्तजित् १४६
कषायं स्वादु संग्राहि शीतं सिञ्चितिकाफलम्
आमं कपित्थमस्वर्यं कफघ्नं ग्राहि वातलम् १४७
कफानिलहरं पक्वं मधुराम्लरसं गुरु
श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् १४८
लघ्वम्लं दीपनं हृद्यं मातुलुङ्गमुदाहृतम्
त्वक् तिक्ता दुर्जरा तस्य वातक्रिमिकफापहा १४९
स्वादु शीतं गुरु स्निग्धं मांसं मारुतपित्तजित्
मेध्यं शूलानिलच्छर्दिकफारोचकनाशनम् १५०
दीपनं लघु संग्राहि गुल्मार्शोघ्नं तु केसरम्
शूलाजीर्णविबन्धेषु मन्देऽग्नौ कफमारुते १५१
अरुचौ च विशेषेण रसस्तस्योपदिश्यते
पित्तानिलकरं बालं पित्तलं बद्धकेसरम् १५२
हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम्
कषायानुरसं स्वादु वातघ्नं बृंहणं गुरु १५३
पित्ताविरोधि संपक्वमाम्रं शुक्रविवर्धनम्
बृंहणं मधुरं बल्यं गुरु विष्टभ्य जीर्यति १५४
आम्रातकफलं वृष्यं सस्नेहं श्लेष्मवर्धनम्
त्रिदोषविष्टम्भकरं लकुचं शुक्रनाशनम् १५५
अम्लं तृषापहं रुच्यं पित्तकृत् करमर्दकम्
वातपित्तहरं वृष्यं प्रियालं गुरु शीतलम् १५६
हृद्यं स्वादु कषायाम्लं भव्यमास्यविशोधनम्
पित्तश्लेष्महरं ग्राहि गुरु विष्टम्भि शीतलम् १५७
पारावतं समधुरं रुच्यमत्यग्निवातनुत्
गरदोषहरं नीपं प्राचीनामलकं तथा १५८
वातापहं तिन्तिडीकमामं पित्तबलासकृत्
ग्राह्युष्णं दीपनं रुच्यं संपक्वं कफवातनुत् १५९
तस्मादल्पान्तरगुणं कोशाम्रफलमुच्यते
अम्लीकायाः फलं पक्वं तद्वद्भेदि तु केवलम् १६०
अम्लं समधुरं हृद्यं विशदं भक्तरोचनम्
वातघ्नं दुर्जरं प्रोक्तं नारङ्गस्य फलं गुरु १६१
तृष्णाशूलकफोत्क्लेशच्छर्दिश्वासनिवारणम्
वातश्लेष्मविबन्धघ्नं जम्बीरं गुरु पित्तकृत्
एरावतं दन्तशठमम्लं शोणितपित्तकृत् १६२
क्षीरवृक्षफलजाम्बवराजादनतोदनशीतफलतिन्दुकबकुलधन्वनाश्मन्तका श्वकर्णफल्गुपरूषकगाङ्गेरुकीपुष्करवर्तिबिल्वबिम्बीप्रभृतीनि १६३
फलान्येतानि शीतानि कफपित्तहराणि च
स्रंगाहकाणि रूक्षाणि कषायमधुराणि च १६४
क्षीरवृक्षफलं तेषां गुरु विष्टम्भि शीतलम्
कषायं मधुरं साम्लं नातिमारुतकोपनम् १६५
अत्यर्थं वातलं ग्राहि जाम्बवं कफपित्तजित्
स्निग्धं स्वादु कषायं च राजादनफलं गुरु १६६
कषायं मधुरं रूक्षं तोदनं कफवातजित्
अम्लोष्णं लघु संग्राहि स्निग्धं पित्ताग्निवर्धनम् १६७
आमं कषायं संग्राहि तिन्दुकं वातकोपनम्
विपाके गुरु संपक्वं मधुरं कफपित्तजित् १६८
मधुरं च कषायं च स्निग्धं संग्राहि बाकुलम्
स्थिरीकरं च दन्तानां विशदं फलमुच्यते १६९
सकषायं हिमं स्वादु धान्वनं कफवातजित्
तद्वद्गाङ्गेरुकं विद्यादश्मन्तकफलानि च १७०
विष्टम्भि मधुरं स्निग्धं फल्गुजं तर्पणं गुरु
अत्यम्लमीषन्मधुरं कषायानुरसं लघु १७१
वातघ्नं पित्तजनमामं विद्यात् परुषकम्
तदेव पक्वं मधुरं वातपित्तनिबर्हणम् १७२
विपाके मधुरं शीतं रक्तपित्तप्रसादनम्
पौष्करं स्वादु विष्टम्भि बल्यं कफकरं फलम् १७३
कफानिलहरं तीक्ष्णं स्निग्धं संग्राहि दीपनम्
कटुतिक्तकषायोष्णं बालं बिल्वमुदाहृतम् १७४
विद्यात्तदेव संपक्वं मधुरानुरसं गुरु
विदाहि विष्टम्भकरं दोषकृत् पूतिमारुतम् १७५
बिम्बीफलं साश्वकर्णं स्तन्यकृत् कफपित्तजित्
तृड्दाहज्वरपित्तासृक्कासश्वासक्षयापहम् १७६
तालनालिकेरपनसमोचप्रभृतीनि १७७
स्वादुपाकरसान्याहुर्वातपित्तहाणि च
बलप्रदानि स्निग्धानि बृंहणानि हिमानि च १७८
फलं स्वादुरसं तेषां तालजं गुरु पित्तजित्
तद्बीजं स्वादुपाकं तु मूत्रलं वातपित्तजित् १७९
नालिकेरं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम्
बलमांसप्रदं हृद्यं बृंहणं बस्तिशोधनम् १८०
पनसं सकषायं तु स्निग्धं स्वादुरसं गुरु
मौचं स्वादुरसं प्रोक्तं कषायं नातिशीतलम्
रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु १८१
द्रा क्षाकाश्मर्यमधूकपुष्पखर्जूरप्रभृतीनि १८२
रक्तपित्तहराण्याहुर्गुरूणि मधुराणि च
तेषां द्रा क्षा सरा स्वर्या मधुरा स्निग्धशीतला १८३
रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा
हृद्यं मूत्रविबन्धघ्नं पित्तासृग्वातनाशनम् १८४
केश्यं रसायनं मेध्यं काश्मर्यं फलमुच्यते
क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु १८५
रसे पाके च मधुरं खार्जूरं रक्तपित्तनुत्
बृंहणीयमहृद्यं च मधूककुसुमं गुरु
वातपित्तोपशमनं फलं तस्योपदिश्यते १८६
वातामाक्षोडाभिषुकनिचुलपिचुनिकोचकोरुमाणप्रभृतीनि १८७
पित्तश्लेष्महराण्याहुः स्निग्धोष्णानि गुरूणि च
बृंहणान्यनिलघ्नानि बल्यानि मधुराणि च १८८
कषायं कफपित्तघ्नं किंचित्तिक्तं रुचिप्रदम्
हृद्यं सुगन्धि विशदं लवलीफलमुच्यते १८९
वसिरं शीतपाक्यं च सारुष्करनिबन्धनम्
विष्टम्भि दुर्जरं रूक्षं शीतलं वातकोपनम् १९०
विपाके मधुरं चापि रक्तपित्तप्रसादनन्
एरावतं दन्तशठमम्लं शोणितपित्तकृत् १९१
शीतं कषायं मधुरं टङ्कं मारुतकृद्गुरु
स्निग्धोष्णं तिक्तमधुरं वातश्लेष्मघ्नमैङ्गुदम् १९२
शमीफलं गुरु स्वादु रूक्षोष्णं केशनाशनम्
गुरु श्लेष्मातकफलं कफकृन्मधुरं हिमम् १९३
करीराक्षिकपीलूनि तृणशून्यफलानि च
स्वादुतिक्तकटूष्णानि कफवातहराणि च १९४
तिक्तं पित्तकरं तेषां सरं कटुविपाकि च
तीक्ष्णोष्णं कटुकं पीलु सस्नेहं कफवातजित् १९५
आरुष्करं तौवरकं कषायं कटुपाकि च
उष्णं कृमिज्वरानाहमेहोदावर्तनाशनम्
कुष्ठगुल्मोदरार्शोघ्नं कटुपाकि तथैव च १९६
करञ्जकिंशुकारिष्टफलं जन्तुप्रमेहनुत्
अङ्कोलस्य फलं विस्रं गुरु श्लेष्महरं हिमम् १९७
रूक्षोष्णं कटुकं पाके लघु वातकफापहम्
तिक्तमीषद्विषहितं विडङ्गं कृमिनाशनम् १९८
व्रण्यमुष्णं सरं मेध्यं दोषघ्नं शोफकुष्ठनुत्
कषायं दीपनं चाम्लं चक्षुष्यं चाभयाफलम् १९९
भेदनं लघु रूक्षोष्णं वैस्वर्यक्रिमिनाशनम्
चक्षुष्यं स्वादुपाक्याक्षं कषायं कफपित्तजित् २००
कफपित्तहरं रूक्षं वक्त्रक्लेदमलापहम्
कषायमीषन्मधुरं किंचित् पूगफलं सरम् २०१
जातीकोशोऽथ कर्पूरं जातीकटुकयोः फलम्
कक्कोलकं लवङ्गं च तिक्तं कटु कफापहम् २०२
लघु तृष्णापहं वक्त्रक्लेददौर्गन्ध्यनाशनम्
सतिक्तः सुरभिः शीतः कर्पूरो लघु लेखनः २०३
तृष्णायां मुखशोषे च वैरस्ये चापि पूजितः
लताकस्तूरिका तद्वच्छीता बस्तिविशोधनी २०४
प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः
बैभीतको मदकरः कफमारुतनाशनः २०५
कषायमधुरो मज्जा कोलानां पित्तनाशनः
तृष्णाच्छर्द्यनिलघ्नश्च तद्वदामलकस्य च २०६
बीजपूरकशम्याकमज्जा कोशाम्रसंभवः
स्वादुपाकोऽग्निबलदः स्निग्धः पित्तानिलापहः २०७
यस्य यस्य फलस्येह वीर्यं भवति यादृशम्
तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् २०८
फलेषु परिपक्वं यद्गुणवत्तदुदाहृतम्
बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणोत्तरम्
ग्राह्युष्णं दीपनं तद्धि कषायकटुतिक्तकम् २०९
व्याधितं कृमिजुष्टं च पाकातीतमकालजम्
वर्जनीयं फलं सर्वमपर्यागतमेव च २१०
इति फलवर्गः
अथ शाकवर्गः
शाकान्यत ऊर्ध्वं वक्ष्यामः
तत्र पुष्पफलालाबुकालिन्दकप्रभृतीनि २११
पित्तघ्नान्यनिलं कुर्युस्तथा मन्दकफानि च
सृष्टमूत्रपुरीषाणि स्वादुपाकरसानि च २१२
पित्तघ्नं तेषु कूष्माण्डं बालं मध्यं कफावहम्
शुक्लं लघूष्णं सक्षारं दीपनं बस्तिशोधनम् २१३
सर्वदोषहरं हृद्यं पथ्यं चेतोविकारिणाम्
दृष्टिशुक्रक्षयकरं कालिन्दं कफवातकृत् २१४
अलाबुर्भिन्नविट्का तु रूक्षा गुर्व्यतिशीतला
तिक्तालाबुरहृद्या तु वामिनी वातपित्तजित् २१५
त्रपुसैर्वारुकर्कारुकशीर्णवृन्तप्रभृतीनि २१६
स्वादुतिक्तरसान्याहुः कफवातकराणि च
सृष्टमूत्रपुरीषाणि रक्तपित्तहराणि च २१७
बालं सनीलं त्रपुसं तेषां पित्तहरं स्मृतम्
तत्पाण्डु कफकृज्जीर्णमम्लं वातकफापहम् २१८
एर्वारुकं सकर्कारु संपक्वं कफवातकृत्
सक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम् २१९
सक्षारं मधुरं चैव शीर्णवृन्तं कफापहम्
भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु २२०
पिप्पलीमरिचशृङ्गवेरार्द्र कहिङ्गुजीरककुस्तुम्बुरुजम्बीरसुमुखसुरसार्जकभू-स्तृणसुगन्धककासमर्दककालमालकुठेरकक्षवकखरपुष्पशिग्रुमधुशिग्रुफ-णिज्झकसर्षपराजिकाकुलाहलावगुत्थगण्डीरतिलपर्णिकावर्षाभूचित्रकमूलकलशुनकलायपलाण्डुप्रभृतीनि २२१
कटून्युष्णानि रुच्यानि वातश्लेष्महराणि च
कृतान्नेषूपयुज्यन्ते संस्कारार्थमनेकधा २२२
तेषां गुर्वी स्वादुशीता पिप्पल्याद्रा र्! कफावहा
शुष्का कफानिलघ्नी सा वृष्या पित्ताविरोधिनी २२३
स्वादुपाक्यार्द्र मरिचं गुरु श्लेष्मप्रसेकि च
कटूष्णं लघु तच्छुष्कमवृष्यं कफवातजित् २२४
नात्युष्णं नातिशीतं च वीर्यतो मरिचं सितम्
गुणवन्मरिचेभ्यश्च चक्षुष्यं च विशेषतः २२५
नागरं कफवातघ्नं विपाके मधुरं कटु
वृष्योष्णं रोचनं हृद्यं सस्नेहं लघु दीपनम् २२६
कफानिलहरं स्वर्यं विबन्धानाहशूलनुत्
कटूष्णं रोचनं हृद्यं वृष्यं चैवार्द्र कं स्मृतम् २२७
लघूष्णं पाचनं हिङ्गु दीपनं कफवातजित्
कटु स्निग्धं सरं तीक्ष्णं शूलाजीर्णविबन्धनुत् २२८
तीक्ष्णोष्णं कटुकं पाके रुच्यं पित्ताग्निवर्धनम्
कटु श्लेष्मानिलहरं गन्धाढ्यं जीरकद्वयम् २२९
कारवी करवी तद्वद्विज्ञेया सोपकुञ्चिका
भक्ष्यव्यञ्जनभोज्येषु विविधेष्ववचारिता २३०
आद्रा र्! कुस्तुम्बरी कुर्यात् स्वादुसौगन्ध्यहृद्यताम्
सा शुष्का मधुरा पाके स्निग्धा तृड्दाहनाशनी २३१
दोषघ्नी कटुका किंचित् तिक्ता स्रोतोविशोधनी
जम्बीरः पाचनस्तीक्ष्णः कृमिवातकफापहः २३२
सुरभिर्दीपनो रुच्यो मुखवैशद्यकारकः
कफानिलविषश्वासकासदौर्गन्ध्यनाशनः २३३
पित्तकृत् पार्श्वशूलघ्नः सुरसः समुदाहृतः
तद्वत्तु सुमुखो ज्ञेयो विशेषाद्गरनाशनः २३४
कफघ्ना लघवो रूक्षास्तीक्ष्णोष्णाः पित्तवर्धनाः
कटुपाकरसाश्चैव सुरसार्जकभूस्तृणाः २३५
मधुरः कफवातघ्नः पाचनः कण्ठशोधनः
विशेषतः पित्तहरः सतिक्तः कासमर्दकः २३६
कटुः सक्षारमधुरः शिग्रुस्तिक्तोऽथ पिच्छिलः
मधुशिग्रुः सरस्तिक्तः शोफघ्नो दीपनः कटुः २३७
विदाहि बद्धविण्मूत्रं रूक्षं तीक्ष्णोष्णमेव च
त्रिदोषं सार्षपं शाकं गाण्डीरं वेगनाम च २३८
चित्रकस्तिलपर्णी च कफशोफहरे लघू
वर्षाभूः कफवातघ्नी हिता शोफोदरार्शसाम् २३९
कटुतिक्तरसा हृद्या रोचनी वह्निदीपनी
सर्वदोषहरा लघ्वी कण्ठ्या मूलकपोतिका २४०
महत्तद्गुरु विष्टम्भि तीक्ष्णमामं त्रिदोषकृत्
तदेव स्नेहसिद्धं तु पित्तनुत् कफवातजित् २४१
त्रिदोषशमनं शुष्कं विषदोषहरं लघु
विष्टम्भि वातलं शाकं शुष्कमन्यत्र मूलकात् २४२
पुष्पं च पत्रं च फलं तथैव यथोत्तरं ते गुरवः प्रदिष्टाः
तेषां तु पुष्पं कफपित्तहन्तृ फलं निहन्यात् कफमारुतौ तु २४३
स्निग्धोष्णतीक्ष्णः कटुपिच्छिलश्च गुरुः सरः स्वादुरसश्च बल्यः
वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरो रसोनः २४४
हृद्रो गजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान्
दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति २४५
नात्युष्णवीर्योऽनिलहा कटुश्च तीक्ष्णो गुरुर्नातिकफावहश्च
बलावहः पित्तकरोऽथ किंचित् पलाण्डुरग्निं च विवर्धयेत्तु २४६
स्निग्धो रुचिष्यः स्थिरधातुकारी बल्योऽथ मेधाकफपुष्टिदश्च
स्वादुर्गुरुः शोणितपित्तशस्तः सपिच्छिलः क्षीरपलाण्डुरुक्तः २४७
कलायशाकं पितघ्नं कफघ्नं वातलं गुरु
कषायानुरसं चैव विपाके मधुरं च तत् २४८
चुच्चूयूथिकातरुणीजीवन्तीबिम्बीतिकानदीन्दिई!भिल्ला
तकच्छगलान्त्रीवृक्षादनीफञ्जीशाल्मलीशेलुवनस्पतिप्र
सवशणकर्बुदारकोविदारप्रभृतीनि ४४९
कषायस्वादुतिक्तानि रक्तपित्तहराणि च
कफघ्नान्यनिलं कुर्युः स्रंगाहीणि लघूनि च २५०
लघुः पाके च जन्तुघ्नः पिच्छिलो व्रणिनां हितः
कषायमधुरो ग्राही चुच्चूस्तेषां त्रिदोषहा २५१
चक्षुष्या सर्वदोषघ्नी जीवन्ती समुदाहृता
वृक्षादनी वातहरा फञ्जी त्वल्पबला मता २५२
क्षीरवृक्षोत्पलादीनां कषायाः पल्लवाः स्मृताः
शीताः संग्राहिणः शस्ता रक्तपित्तातिसारिणाम् २५३
पुनर्नवावरुणतर्कार्युरुबूकवत्सादनीबिल्वशाकप्रभृतीनि २५४
उष्णानि स्वादुतिक्तानि वातप्रशमनानि च
तेषु पौनर्नवं शाकं विशेषाच्छोफनाशनम् २५५
तण्डुलीयकोपोदकाऽश्वबलाचिल्लीपालङ्क्यावास्तूकप्रभृतीनि २५६
सृष्टमूत्रपुरीषाणि सक्षारमधुराणि च
मन्दवातकफान्याहू रक्तपित्तहराणि च २५७
मधुरो रसपाकाभ्यां रक्तपित्तमदापहः
तेषां शीततमो रूक्षस्तण्डुलीयो विषापहः २५८
स्वादुपाकरसा वृष्या वातपित्तमदापहा
उपोदका सरा स्निग्धा बल्या श्लेष्मकरी हिमा २५९
कटुर्विपाके कृमिहा मेधाग्निबलवर्धनः
सक्षारः सर्वदोषघ्नो वास्तूको रोचनः सरः २६०
चिल्ली वास्तूकवज्ज्ञेया पालङ्क्या तण्डुलीयवत्
वातकृद्बद्धविण्मूत्रा रूक्षा पित्तकफे हिता
शाकमाश्वबलं रूक्षं बद्धविण्मूत्रमारुतम् २६१
मण्डूकपर्णीसप्तलासुनिषण्णकसुवर्चलापिप्पलीगुडूचीगोजिह्वा काकमाची-पपुन्नाडावल्गुजसतीनबृहतीकण्टकारिका फलपटोलवार्ताककारवेल्लक-कटुकिकाकेबुकोरुबूकपर्पटककिराततिक्तकर्कोटकारिष्टकोशातकीवेत्रकरी-राटरूषकार्कपुष्पीप्रभृतीनि २६२
रक्तपित्तहराण्याहुर्हृद्यानि सुलघूनि च
कुष्ठमेहज्वरश्वासकासारुचिहराणि च २६३
कषाया तु हिता पित्ते स्वादुपाकरसा हिमा
लघ्वी मण्डूकपर्णी तु तद्वद्गोजिह्विका मता २६४
अविदाही त्रिदोषघ्नः संग्राही सुनिषण्णकः
अवल्गुजः कटुः पाके तिक्तः पित्तकफापहः २६५
ईषत्तिक्तं त्रिदोषघ्नं शाकं कटु सतीनजम्
नात्युष्णशीतं कुष्ठघ्नं काकमाच्यास्तु तद्विधम् २६६
कण्डूकुष्ठकृमिघ्नानि कफवातहराणि च
फलानि बृहतीनां तु कटुतिक्तलघूनि च २६७
कफपित्तहरं व्रण्यमुष्णं तिक्तमवातलम्
पटोलं कटुकं पाके वृष्यं रोचनदीपनम् २६८
कफवातहरं तिक्तं रोचनं कटुकं लघु
वार्ताकं दीपनं प्रोक्तं जीर्णं सक्षारपित्तलम्
तद्वत् कर्कोटकं विद्यात् कारवेल्लकमेव च २६९
आटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः
किराततिक्तसहितास्तिक्ताः पित्तकफापहाः २७०
कफापहं शाकमुक्तं वरुणप्रपुनाडयोः
रूक्षं लघु च शीतं च वातपित्तप्रकोपणम् २७१
दीपनं कालशाकं तु गरदोषहरं कटु
कौसुम्भं मधुरं रूक्षमुष्णं श्लेष्महरं लघु २७२
वातलं नालिकाशाकं पित्तघ्नं मधुरं च तत्
ग्रहण्यर्शोविकारघ्नी साम्ला वातकफे हिता
उष्णा कषायमधुरा चाङ्गेरी चाग्निदीपनी २७३
लोणिकाजातुकत्रिपर्णिकापत्तूरजीवकसुवर्चलाडुडुरककु
तुम्बककुठिञ्जरकुन्तलिकाकुरण्टिकाप्रभृतयः २७४
स्वादुपाकरसाः शीताः कफघ्ना नातिपित्तलाः
लवणानुरसा रूक्षाः सक्षारा वातलाः सराः २७५
स्वादुतिक्ता कुन्तलिका कषाया सकुरण्टिका
संग्राहि शीतलं चापि लघु दोषापहं तथा
राजक्षवकशाकं तु शटीशाकं च तद्विधम् २७६
स्वादुपाकरसं शाकं दुर्जरं हरिमन्थजम्
भेदनं मधुरं रूक्षं कालायमतिवातलम् २७७
स्रंसनं कटुकं पाके लघु वातकफापहम्
शोफघ्नमुष्णवीर्यं च पत्रं पूतिकरञ्जजम् २७८
ताम्बूलपत्रं तीक्ष्णोष्णं कटु पित्तप्रकोपणम्
सुगन्धि विशदं तिक्तं स्वर्यं वातकफापहम् २७९
स्रंसनं कटुकं पाके कषायं वह्निदीपनम्
वक्त्रकण्डूमलक्लेददौर्गन्ध्यादिविशोधनम् २८०
अथ पुष्पवर्गः
कोविदारशणशाल्मलीपुष्पाणि मधुराणि मधुर विपाकानि रक्तपित्तहराणि च
वृषागस्त्ययोः पुष्पाणि तिक्तानि कटुविपाकानि क्षयकासापहानि च २८१
आगस्त्यं नातिशीतोष्णं नक्तान्धानां प्रशस्यते २८२
करीरकुसुमानि कटुविपाकानि वातहराणि सृष्टमूत्रपुरीषाणि च २८३
रक्तवृक्षस्य निम्बस्य मुष्ककार्कासनस्य च
कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य च २८४
सतिक्तं मधुरं शीतं पद्मं पित्तकफापहम्
मधुरं पिच्छिलं स्निग्धं कुमुदं ह्लादि शीतलम्
तस्मादल्पान्तरगुणे विद्यात् कुवलयोत्पले २८५
सिन्धुवारं विजानीयाद्धिमं पित्तविनाशनम्
मालतीमल्लिके तिक्ते सौरभ्यात् पित्तनाशने २८६
सुगन्धि विशदं हृद्यं बाकुलं पाटलानि च
श्लेष्मपित्तविषघ्नं तु नागं तद्वच्च कुङ्कुमम् २८७
चम्पकं रक्तपित्तघ्नं शीतोष्णं कफनाशनम्
किंशुकं कफपित्तघ्नं तद्वदेव कुरण्टकम् २८८
यथावृक्षं विजानीयात् पुष्पं वृक्षोचितं तथा
मधुशिग्रुकरीराणि कटूनि श्लेष्महराणि च २८९
क्षवककुलेवरवंशकरीरप्रभृतीनि कफकराणि सृष्टमूत्रपुरीषाणि च २९०
क्षवकं कृमिलं तेषु स्वादुपाकं सपिच्छलम्
विस्यन्दि वातलं नातिपित्तश्लेष्मकरं च तत् २९१
वेणोः करीराः कफला मधुरा रसपाकतः
विदाहिनो वातकराः सकषाया विरूक्षणाः २९२
उद्भिदानि पलालेक्षुकरीषवेणुक्षितिजानि तत्र पलालजातं मधुरं मधुरवि-पाकं रूक्षं दोषप्रशमनं च इक्षुजं मधुरं कषायानुरसं कटुपाकं शीतलं च त-द्वदेवोष्णं कारीषं कषायं वातकोपनं च वेणुजातं कषायं वातकोपनं च भूमिजं गुरु नातिवातलं भूमितश्चास्यानुरसः २९३
पिण्याकतिलकल्कस्थूणिकाशुष्कशाकानि सर्वदोषप्रकोपणानि २९४
विष्टम्भिनः स्मृताः सर्वे वटका वातकोपनाः
सिण्डाकी वातला साद्रा र्! रुचिष्याऽनलदीपनी २९५
विड्भेदि गुरु रूक्षं च प्रायो विष्टम्भि दुर्जरम्
सकषायं च सर्वं हि स्वादु शाकमुदाहृतम्
पुष्पं पत्रं फलं नालं कन्दाश्च गुरवः क्रमात् २९६
कर्कशं परिजीर्णं च कृमिजुष्टमदेशजम्
वर्जयेत् पत्रशाकं तद्यदकालविरोहि च २९७
अथ कन्दवर्गः
कन्दानत ऊर्ध्वं वक्ष्यामःविदारीकन्द शतावरीबिसमृणाल शृङ्गाटक कशे-रुकपिण्डालुकमध्वालुकहस्त्यालुककाष्ठालु कशङ्खा लुकरक्तालुकेन्दीवरोत्पलकन्दप्रभृतीनि २९८
रक्तपित्तहराण्याहुः शीतानि मधुराणि च
गुरूणि बहुशुक्राणि स्तन्यवृद्धिकराणि च २९९
मधुरो बृंहणो वृष्यः शीतः स्वर्योऽतिमूत्रलः
विदारीकन्दो बल्यश्च पित्तवातहरश्च सः ३००
वातपित्तहरी वृष्या स्वादुतिक्ता शतावरी
महती चैव हृद्या च मेधाग्निबलवर्धिनी ३०१
ग्रहण्यर्शोविकारघ्नी वृष्या शीता रसायनी
कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः ३०२
अविदाहि बिसं प्रोक्तं रक्तपित्तप्रसादनम्
विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ३०३
गुरू विष्टम्भिशीतौ च शृङ्गाटककशेरुकौ
पिण्डालुकं कफकरं गुरु वातप्रकोपणम् ३०४
सुरेन्द्र कन्दः श्लेष्मघ्नो विपाके कटु पित्तकृत्
वेणोः करीरा गुरवः कफमारुतकोपनाः ३०५
स्थूलसूरणमाणकप्रभृतयः कन्दा ईषत्कषायाः कटुका रूक्षा
विष्टम्भिनो गुरवः कफवातलाः पित्तहराश्च ३०६
मानणिकिं स्वादु शीतं च गुरु चापि प्रकीर्तितम्
स्थूलकन्दस्तु नात्युष्णः सूरणो गुदकीलहा ३०७
कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः
कषायाः पित्तशमना विपाके मधुरा हिमाः ३०८
वराहकन्दः श्लेष्मघ्नः कटुको रसपाकतः
मेहकुष्ठकृमिहरो बल्यो वृष्यो रसायनः ३०९
तालनारिकेलखर्जूरप्रभृतीनां मस्तकमज्जानः ३१०
स्वादुपाकरसानाहू रक्तपित्तहरांस्तथा
शुक्रलाननिलघ्नांश्च कफवृद्धिकरानपि ३११
बालं ह्यनार्तवं जीर्णं व्याधितं क्रिमिभक्षितम्
कन्दं विवर्जयेत् सर्वं यो वा सम्यङ्न रोहति ३१२
अथ लवणवर्गः
अथ लवणानिसैन्धवसामुद्र विडसौवर्चलरोमकौद्भिदप्रभृतीनि यथोत्तरमु-ष्णानि वातहराणि कफपित्तकराणिकटुपाकीनि यथापूर्वं स्निग्धानि स्वादूनि
सृष्टमूत्रपुरीषाणि चेति ३१३
चक्षुष्यं सैन्धवं हृद्यं रुच्यं लघ्वग्निदीपनम्
स्निग्धं समधुरं वृष्यं शीतं दोषघ्नमुत्तमम् ३१४
सामुद्रं मधुरं पाके नात्युष्णमविदाहि च
भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ३१५
सक्षारं दीपनं सूक्ष्मं शूलहृद्रो गनाशनम्
रोचनं तीक्ष्णमुष्णं च विडं वातानुलोमनम् ३१६
लघु सौवर्चलं पाके वीर्योष्णं विशदं कटु
गुल्मशूलविबन्धघ्नं हृद्यं सुरभि रोचनम् ३१७
रोमकं तीक्ष्णमत्युष्णं व्यवायि कटुपाकि च
वातघ्नं लघुविस्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् ३१८
लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वातानुलोमनम्
सतिक्तं कटु सक्षारं विद्याल्लवणमौद्भिदम् ३१९
कफवातक्रिमिघ्नं च लेखनं पित्तकोपनम्
दीपनं पाचनं भेदि लवणं गुटिकाह्वयम् ३२०
ऊषसूतं वालुकैलं शैलमूलाकरोद्भवम्
लवणं कटुकं छेदि विहितं कटु चोच्यते ३२१
यवक्षारस्वर्जिकाक्षारोषक्षारपाकिमटङ्कणक्षारप्रभृतयः
गुल्मार्शोग्रहणीदोषशर्कराश्मरिनाशनाः
क्षारास्तु पाचनाः सर्वे रक्तपित्तकराः सराः ३२२
ज्ञेयौ वह्निसमौ क्षारौ स्वर्जिकायावशूकजौ
शुक्रश्लेष्मविबन्धार्शोगुल्मप्लीहविनाशनौ ३२३
उष्णोऽनिलघ्नः प्रक्लेदी चोषक्षारो बलापहः
मेदोघ्नः पाकिमः क्षारस्तेषां बस्तिविशोधनः ३२४
विरूक्षणोऽनिलकरः श्लेष्मघ्नः पित्तदूषणः
अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते ३२५
सुवर्णं स्वादु हृद्यं च बृंहणीयं रसायनम्
दोषत्रयापहं शीतं चक्षुष्यं विषसूदनम् ३२६
रूप्यमम्लं सरं शीतं सस्नेहं पित्तवातनुत्
ताम्रं कषायं मधुरं लेखनं शीतलं सरम् ३२७
सतिक्तं लेखनं कांस्यं चक्षुष्यं कफवातजित्
वातकृच्छीतलं लोहं तृष्णापित्तकफापहम् ३२८
कटु क्रिमिघ्नं लवणं त्रपु सीसं च लेखनम्
मुक्ताविद्रुमवज्रेन्द्र वैदूर्यस्फटिकादयः ३२९
चक्षुष्या मणयः शीता लेखना विषसूदनाः
पवित्रा धारणीयाश्च पाप्मालक्ष्मीमलापहाः ३३०
इति लवणादिवर्गः
धान्येषु मांसेषु फलेषु चैव शाकेषु चानुक्तमिहाप्रमेयात्
आस्वादतो भूतगुणैश्च मत्वा तदादिशेद्द्र व्यमनल्पबुद्धिः ३३१
षष्टिका यवगोधूमा लोहिता ये च शालयः
मुद्गाढकीमसूराश्च धान्येषु प्रवराः स्मृताः ३३२
लावतित्तिरिसारङ्गकुरङ्गैणकपिञ्जलाः
मयूरवर्मिकूर्माश्च श्रेष्ठा मांसगणेष्विह ३३३
दाडिमामलकं द्रा क्षा खर्जूरं सपरूषकम्
राजादनं मातुलुङ्गं फलवर्गे प्रशस्यते ३३४
सतीनो वास्तुकश्चुच्चूचिल्लीमूलकपोतिकाः
मण्डूकपर्णी जीवन्ती शाकवर्गे प्रशस्यते ३३५
गव्यं क्षीरं घृतं श्रेष्ठं सैन्धवं लवणेषु च
धात्रीदाडिममम्लेषु पिप्पली नागरं कटौ ३३६
तिक्ते पटोलवार्ताकं मधुरे घृतमुच्यते
क्षौद्रं पूगफलं श्रेष्ठं कषाये सपरूषकम् ३३७
शर्करेक्षुविकारेषु पाने मध्वासवौ तथा
परिसंवत्सरं धान्यं मांसं वयसि मध्यमे ३३८
अपर्युषितमन्नं तु संस्कृतं मात्रया शुभम्
फलं पर्यागतं शाकमशुष्कं तरुणं नवम् ३३९
अथ कृतान्नवर्गः
अतः परं प्रवक्ष्यामि कृतान्नगुणविस्तरम्
लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः ३४०
वातानुलोमनो हृद्यः पिप्पलीनागरायुतः
स्वेदाग्निजननी लघ्वी दीपनी बस्तिशोधनी ३४१
क्षुत्तृट्श्रमग्लानिहरी पेया वातानुलोमनी
विलेपी तर्पणी हृद्या ग्राहिणी बलवर्धनी ३४२
पथ्या स्वादुरसा लघ्वी दीपनी क्षुत्तृषापहा
हृद्या संतर्पणी वृष्या बृंहणी बलवर्धनी ३४३
शाकमांसफलैर्युक्ता विलेप्यम्ला च दुर्जरा
सिक्थैर्विरहितो मण्डः पेया सिक्थसमन्विता ३४४
विलेपी बहुसिक्था स्याद्यवागूर्विरलद्र वा
विष्टम्भी पायसो बल्यो मेदःकफकरो गुरुः ३४५
कफपित्तकरी बल्या कृशराऽनिलनाशना
धौतस्तु विमलः शुद्धो मनोज्ञः सुरभिः समः ३४६
स्विन्नः सुप्रस्रुतस्तूष्णो विशदस्त्वोदनो लघुः
अधौतोऽप्रस्रुतोऽस्विन्नः शीतश्चाप्योदनो गुरुः ३४७
लघुः सुगन्धिः कफहा विज्ञेयो भृष्टतण्डुलः
स्नेहैर्मांसैः फलैः कन्दैर्विदलाम्लैश्च संयुताः ३४८
गुरवो बृंहणा बल्या ये च क्षीरोपसाधिताः
सुस्विन्नो निस्तुषो भृष्ट ईषत् सूपो लघुर्हितः ३४९
स्विन्नं निष्पीडितं शाकं हितं स्यात् स्नेहसंस्कृतम्
अस्विन्नं स्नेहरहितमपीडितमतोऽन्यथा ३५०
मांसं स्वभावतो वृष्यं स्नेहनं बलवर्धनम्
स्नेहगोरसधान्याम्लफलाम्लकटुकैः सह ३५१
सिद्धं मांसं हितं बल्यं रोचनं बृंहणं गुरु
तदेव गोरसादानं सुरभिद्र व्यसंस्कृतम् ३५२
विद्यात्पित्तकफोद्रे की बलमांसाग्निवर्धनम्
परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु ३५३
रोचनं बलमेधाग्निमांसौजःशुक्रवर्धनम्
तदेवोल्लुप्तपिष्टत्वादुल्लुप्तमिति पाचकाः ३५४
परिशुष्कगुणैर्युक्तं वह्नौ पक्वमतो लघु
तदेव शूलिकाप्रोतमङ्गारपरिपाचितम् ३५५
ज्ञेयं गुरुतरं किंचित् प्रदिग्धं गुरुपाकतः
उल्लुप्तं भर्जितं पिष्टं प्रतप्तं कन्दुपाचितम् ३५६
परिशुष्कं प्रदिग्धं च शूल्यं यच्चान्यदीदृशम्
मांसं यत्तैलसिद्धं तद्वीर्योष्णं पित्तकृद्गुरु ३५७
लघ्वग्निदीपनं हृद्यं रुच्यं दृष्टिप्रसादनम्
अनुष्णवीर्यं पित्तघ्नं मनोज्ञं घृतसाधितम् ३५८
प्रीणनः प्राणजननः श्वासकासक्षयापहः
वातपित्तश्रमहरो हृद्यो मांसरसः स्मृतः ३५९
स्मृत्योजःस्वरहीनानां ज्वरक्षीणक्षतोरसाम्
भग्नविश्लिष्टसन्धीनां कृशानामल्परेतसाम् ३६०
आप्यायनः संहननः शुक्रदो बलवर्धनः
स दाडिमयुतो वृष्यः संस्कृतो दोषनाशनः ३६१
प्रीणनः सर्वभूतानां विशेषान्मुखशोषिणाम्
क्षुत्तृष्णापहरः श्रेष्ठः सौरावः स्वादुशीतलः ३६२
यन्मांसमुद्धृतरसं न तत् पुष्टिबलावहम्
विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ३६३
दीप्ताग्नीनां सदा पथ्यः खानिष्कस्तु परं गुरुः
मांसं निरस्थि सुस्विन्नं पुनर्दृषदि पेषितम् ३६४
पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम्
एकध्यं पाचयेत् सम्यग्वेसवार इति स्मृतः ३६५
वेसवारो गुरुः स्निग्धो बल्यो वातरुजापहः
कफघ्नो दीपनो हृद्यः शुद्धानां व्रणिनामपि ३६६
ज्ञेयः पथ्यतमश्चैव मुद्गयूषः कृताकृतः
स तु दाडिममृद्वीकायुक्तः स्याद्रा गषाडवः ३६७
रुचिष्यो लघुपाकश्च दोषाणां चाविरोधकृत्
मसूरमुद्गगोधूमकुलत्थलवणैः कृतः ३६८
कफपित्ताविरोधी स्याद्वातव्याधौ च शस्यते
मृद्वीकादाडिमैर्युक्तः स चाप्युक्तोऽनिलार्दिते ३६९
रोचनो दीपनो हृद्यो लघुपाक्युपदिश्यते
पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ ३७०
पित्तघ्नौ दीपनौ हृद्यौ कृमिकुष्ठज्वरापहौ
श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ३७१
हन्ति मूलकयूषस्तु कफमेदोगलग्रहान्
कुलत्थयूषोऽनिलहा श्वासपीनसनाशनः ३७२
तूणीप्रतूणीकासाश्मगुल्ममेदः कफापहः
दाडिमामलकैर्यूषो हृद्यः संशमनो लघुः ३७३
प्राणाग्निजननो मूर्च्छामेदोघ्नो वातपित्तजित्
मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः ३७४
यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः
सर्वधान्यकृतस्तद्वद्बृहणः प्राणवर्धनः ३७५
खडकाम्बलिकौ हृद्यौ तथा वातकफे हितौ
बल्यः कफानिलौ हन्ति दाडिमाम्लोऽग्निदीपनः ३७६
दध्यम्लः कफकृद्बल्यः स्निग्धो वातहरो गुरुः
तक्राम्लः पित्तकृत् प्रोक्तो विषरक्तप्रदूषणः ३७७
खडाः खडयवाग्वश्च षाखिडिवाः पानकानि च
एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः ३७८
अस्नेहलवणं सर्वमकृतं कटुकैर्विना
विज्ञेयं लवणस्नेहकटुकैः संयुतं कृतम् ३७९
अथ गोरसधान्याम्लफलाम्लैरम्लितं च यत्
यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसम् ३८०
दधिमस्त्वम्लसिद्धस्तु यूषः काम्बलिकः स्मृतः
तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् ३८१
सिण्डाकी च गुरूणि स्युः कफपित्तकराणि च
तद्वच्च वटकान्याहुर्विदाहीनि गुरूणि च ३८२
लघवो बृंहणा वृष्या हृद्या रोचनदीपनाः
तृष्णामूर्च्छाभ्रमच्छर्दिश्रमघ्ना रागषाडवाः ३८३
रसाला बृंहणी बल्या स्निग्धा वृष्या च रोचनी
स्नेहनं गुडसंयुक्तं हृद्यं दध्यनिलापहम् ३८४
सक्तवः सर्पिषाऽभ्यक्ताः शीतवारिपरिप्लुताः
नातिद्र वा नातिसान्द्रा मन्थ इत्युपदिश्यते ३८५
मन्थः सद्योबलकरः पिपासाश्रमनाशनः
साम्लस्नेहगुडो मूत्रकृच्छ्रोदावर्तनाशनः ३८६
शर्करेक्षुरसद्रा क्षायुक्तः पित्तविकारनुत्
द्रा क्षामधूदकयुतः कफरोगनिबर्हणः ३८७
वर्गत्रयेणोपहितो मलदोषानुलोमनः
गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् ३८८
तदेव खण्डमृद्वीकाशर्करासहितं पुनः
साम्लं सतीक्ष्णं सहिमं पानकं स्यान्निरत्ययम् ३८९
मार्द्वीकं तु श्रमहरं मूर्च्छादाहतृषापहम्
परूषकाणां कोलानां हृद्यं विष्टम्भि पानकम् ३९०
द्र व्यसंयोगसंस्कारं ज्ञात्वा मात्रां च सर्वतः
पानकानां यथायोगं गुरुलाघवमादिशेत् ३९१
इति कृतान्नवर्गः
अथ भक्ष्यवर्गः
वक्ष्याम्यतः परं भक्ष्यान् रसवीर्यविपाकतः
भक्ष्याः क्षीरकृता बल्या वृष्णा हृद्याः सुगन्धिनः ३९२
अदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः
तेषां प्राणकरा हृद्या घृतपूराः कफावहाः ३९३
वातपित्तहरा वृष्या गुरवो रक्तमांसलाः
बृंहणा गौडिका भक्ष्या गुरवोऽनिलनाशनाः ३९४
अदाहिनः पित्तहराः शुक्रलाः कफवर्धनाः
मधुशीर्षकसंयावाः पूपा ये ते विशेषतः ३९५
गुरवो बृंहणाश्चैव मोदकास्तु सुदुर्जराः
रोचनो दीपनः स्वर्यः पित्तघ्नः पवनापहः ३९६
गुरुर्मृष्टतरश्चैव सट्टकः प्राणवर्धनः
हृद्यः सुगन्धिर्मधुरः स्निग्धः कफकरो गुरुः ३९७
वातापहस्तृप्तिकरो बल्यो विष्यन्द उच्यते
बृंहणा वातपित्तघ्ना भक्ष्या बल्यास्तु सामिताः ३९८
हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः
मुद्गादिवेसवाराणां पूर्णा विष्टम्भिनो मताः ३९९
वेसवारैः सपिशितैः संपूर्णा गुरुबृंहणाः
पाललाः श्लेष्मजननाः शष्कुल्यः कफपित्तलाः ४००
वीर्योष्णाः पैष्टिका भक्ष्याः कफपित्तप्रकोपणाः
विदाहिनो नातिबला गुरवश्च विशेषतः ४०१
वैदला लघवो भक्ष्याः कषायाः सृष्टमारुताः
विष्टम्भिनः पित्तसमाः श्लेष्मघ्ना भिन्नवर्चसः ४०२
बल्या वृष्यास्तु गुरवो विज्ञेया माषसाधिताः
कूर्चिकाविकृता भक्ष्या गुरवो नातिपित्तलाः ४०३
विरूढककृता भक्ष्या गुरवोऽनिलपित्तलाः
विदाहोत्क्लेशजनना रूक्षा दृष्टिप्रदूषणाः ४०४
हृद्याः सुगन्धिनो भक्ष्या लघवो घृतपाचिताः
वातपित्तहरा बल्या वर्णदृष्टिप्रसादनाः ४०५
विदाहिनस्तैलकृता गुरवः कटुपाकिनः
उष्णा मारुतदृष्टिघ्नाः पित्तलास्त्वक्प्रदूषणाः ४०६
फलमांसेक्षुविकृतितिलमाषोपसंस्कृताः
भक्ष्या बल्याश्च गुरवो बृंहणा हृदयप्रियाः ४०७
कपालाङ्गारपक्वास्तु लघवो वातकोपनाः
सुपक्वास्तनवश्चैव भूयिष्ठं लघवो मताः ४०८
सकिलाटादयो भक्ष्या गुरवः कफवर्धनाः
कुल्माषा वातला रूक्षा गुरवो भिन्नवर्चसः ४०९
उदावर्तहरो वाट्यः कासपीनसमेहनुत्
धानोलुम्बास्तु लघवः कफमेदोविशोषणाः ४१०
शक्तवो बृंहणा वृष्यास्तृष्णापित्तकफापहाः
पीताः सद्योबलकरा भेदिनः पवनापहाः ४११
गुर्वी पिण्डी खराऽत्यर्थं लघ्वी सैव विपर्ययात्
शक्तूनामाशु जीर्येत मृदुत्वादवलेहिका ४१२
लाजाश्छर्द्यतिसारघ्ना दीपनाः कफनाशनाः
बल्याः कषायमधुरा लघवस्तृण्मलापहाः ४१३
तृट्छर्दिदाहघर्मार्तिनुदस्तत्सक्तवो मताः
रक्तपित्तहराश्चैव दाहज्वरविनाशनाः ४१४
पृथुका गुरवः स्निग्धा बृंहणाः कफवर्धनाः
बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्चसः ४१५
संधानकृत् पिष्टमामं ताण्डुलं कृमिमेहनुत्
सुदुर्जरः स्वादुरसो बृंहणस्तण्डुलो नवः ४१६
सन्धानकृन्मेहहरः पुराणस्तण्डुलः स्मृतः
द्र व्यसंयोगसंस्कारविकारान् समवेक्ष्य च ४१७
यथाकारणमासाद्य भोक्तॄणां छन्दतोऽपि वा
अनेकद्र व्ययोनित्वाच्छास्त्रतस्तान् विनिर्दिशेत् ४१८
इति भक्ष्यवर्गः
अतः सर्वानुपानान्युपदेक्ष्यामः
अम्लेन केचिद्विहता मनुष्या माधुर्ययोगे प्रणयीभवन्ति
तथाऽम्लयोगे मधुरेण तृप्तास्तेषां यथेष्टं प्रवदन्ति पथ्यम् ४१९
शीतोष्णतोयासवमद्ययूषफलाम्लधान्याम्लपयोरसानाम्
यस्यानुपानं तु हितं भवेद्यत्तस्मै प्रदेयं त्विह मात्रता तत् ४२०
व्याधिं च कालं च विभाव्य धीरैर्द्र व्याणि भोज्यानि च तानि तानि
सर्वानुपानेषु वरं वदन्ति मैघ्यं यदम्भः शुचिभाजनस्थम् ४२१
लोकस्य जन्मप्रभृति प्रशस्तं तोयात्मकाः सर्वरसाश्च दृष्टाः
सङ्क्षेप एषोऽभिहितोऽनुपानेष्वतः परं विस्तरतोऽभिधास्ये ४२२
उष्णोदकानुपानं तु स्नेहानामथ शस्यते
ऋते भल्लातकस्नेहात् स्नेहात्तौवरकात्तथा ४२३
अनुपानं वदन्त्येके तैले यूषाम्लकाञ्जिकम्
शीतोदकं माक्षिकस्य पिष्टान्नस्य च सर्वशः ४२४
दधिपायसमद्यार्तिविषजुष्टे तथैव च
केचित् पिष्टमयस्याहुरनुपानं सुखोदकम् ४२५
पयो मांसरसो वाऽपि शालिमुद्गादिभोजिनाम्
युद्धाध्वातपसंतापविषमद्यरुजासु च ४२६
माषादेरनुपानं तु धान्याम्लं दधिमस्तु वा
मद्यं मद्योचितानां तु सर्वमांसेषु पूजितम् ४२७
अमद्यपानामुदकं फलाम्लं वा प्रशस्यते
क्षीरं घर्माध्वभाष्यस्त्रीक्लान्तानाममृतोपमम् ४२८
सुरा कृशानां स्थूलानामनुपानं मधूदकम्
निरामयानां चित्रं तु भुक्तमध्ये प्रकीर्तितम् ४२९
स्निग्धोष्णं मारुते पथ्यं कफे रूक्षोष्णमिष्यते
अनुपानं हितं चापि पित्ते मधुरशीतलम् ४३०
हितं शोणितपित्तिभ्यः क्षीरमिक्षुरसस्तथा
अर्कशेलुशिरीषाणामासवास्तु विषार्तिषु ४३१
अतः परं तु वर्गाणामनुपानं पृथक् पृथक्
प्रवक्ष्याम्यनुपूर्वेण सर्वेषामेव मे शृणु ४३२
तत्र पूर्वशस्यजातानां बदराम्लं वैदलानां धान्याम्लं जङ्घालानां धन्वजानां च पिप्पल्यासवः विष्किराणां कोलबदरासवः प्रतुदानां क्षीरवृक्षासवः गुहा-शयानां खर्जूरनालिकेरासवः प्रसहानामश्वगन्धासवः पर्णमृगाणां कृष्णग-न्धासवः बिलेशयानां फलासवः एकशफानां त्रिफलासवः अनेकशफानां खदिरासवः कूलचराणां शङ्गाटककशेरुकासवः कोशवासिनां पादिनां च स एव प्लवानामिक्षुरसासवः नादेयानां मत्स्यानां मृणालासवः सामुद्रा णां मातुलुङ्गासवः अम्लानां फलानां पद्मोत्पलकन्दासवः कषायाणां दाडिमवे-त्रासवः मधुराणां त्रिकटुकयुक्तः खण्डासवः तालफलादीनां धान्याम्लं क-टुकानां दूर्वानलवेत्रासवः पिप्पल्यादीनां श्वदंष्ट्रावसुकासवः कूष्माण्डादीनां दार्वीकरीरासवः चुच्चप्रुभृतीनां लोध्रासवः जीवन्त्यादीनां त्रिफलासवः कु-सुम्भशाकस्य स एव मण्डूकपर्ण्यादीनां महापञ्चमूलासवः तालमस्तकादीनामम्लफलासवः सैन्धवादीनां सुरासव आरनालं च तोयं च सर्वत्रेति ४३३
भवन्ति चात्र
सर्वेषामनुपानानां माहेन्द्रं तोयमुत्तमम्
सात्म्यं वा यस्य यत्तोयं तत्तस्मै हितमुच्यते ४३४
उष्णं वाते कफे तोयं पित्ते रक्ते च शीतलम्
दोषवद्गुरु वा भुक्तमतिमात्रमथापि वा ४३५
यथोक्तेनानुपानेन सुखमन्नं प्रजीर्यति
रोचनं बृंहणं वृष्यं दोषसंघातभेदनम् ४३६
तर्पणं मार्दवकरं श्रमक्लमहरं सुखम्
दीपनं दोषशमनं पिपासाच्छेदनं परम् ४३७
बल्यं वर्णकरं सम्यगनुपानं सदोच्यते
तदादौ कर्शयेत्पीतं स्थापयेन्मध्यसेवितम् ४३८
पश्चात्पीतं बृंहयति तस्माद्वीक्ष्य प्रयोजयेत्
स्थिरतां गतमक्लिन्नमन्नमद्र वपायिनाम् ४३९
भवत्याबाधजननमनुपानमतः पिबेत्
न पिबेच्छ्वासकासार्तो रोगे चाप्यूर्ध्वजत्रुगे ४४०
क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः
पीत्वाऽध्वभाष्याध्ययनगेयस्वप्नान्न शीलयेत् ४४१
प्रदूष्यामाशयं तद्धि तस्य कण्ठोरसि स्थितम्
स्यन्दाग्निसादच्छर्द्यादीनामयाञ्जनयेद्बहून् ४४२
गुरुलाघवचिन्तेयं स्वभावं नातिवर्तते
तथा संस्कारमात्रान्नकालांश्चाप्युत्तरोत्तरम् ४४३
मन्दकर्मानलारोग्याः सुकुमाराः सुखोचिताः
जन्तवो ये तु तेषां हि चिन्तेयं परिकीर्त्यते ४४४
बलिनः खरभक्ष्या ये ये च दीप्ताग्नयो नराः
कर्मनित्याश्च ये तेषां नावश्यं परिकीर्त्यते ४४५
इत्यनुपानवर्गः
अथाहारविधिं वत्स विस्तरेणाखिलं शृणु
आप्तास्थितमसंकीर्णं शुचि कार्यं महानसम् ४४६
तत्राप्तैर्गुणसंपन्नं भक्ष्यमन्नं सुसंस्कृतम्
शुचौ देशे सुसंगुप्तं समुपस्थापयेद्भिषक् ४४७
विषघ्नैरगदैः स्पृष्टं प्रोक्षितं व्यजनोदकैः
सिद्धैर्मन्त्रैर्हतविषं सिद्धमन्नं निवेदयेत् ४४८
वक्ष्याम्यतः परं कृत्स्नामाहारस्योपकल्पनाम्
घृतं कार्ष्णायसे देयं पेया देया तु राजते ४४९
फलानि सर्वभक्ष्यांश्च प्रदद्याद्वै दलेषु तु
परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ४५०
प्रद्र वाणि रसांश्चैव राजतेषूपहारयेत्
कट्वराणि खडांश्चैव सर्वाञ्छैलेषु दापयेत् ४५१
दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः
पानीयं पानकं मद्यं मृन्मयेषु प्रदापयेत् ४५२
काचस्फटिकपात्रेषु शीतलेषु शुभेषु च
दद्याद्वैदूर्यचित्रेषु रागषाडवसट्टकान् ४५३
पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे
सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ४५४
फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च
तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ४५५
प्रद्र वाणि रसांश्चैव पानीयं पानकं पयः
खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ४५६
सर्वान् गुडविकारांश्च रागषाडवसट्टकान्
पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ४५७
एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम्
भोक्तारं विजने रम्ये निःसंपाते शुभे शुचौ ४५८
सुगन्धपुष्परचिते समे देशे च भोजयेत्
विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टै रसादिभिः ४५९
मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम्
पूर्वं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ ५६०
पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत्
आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् ५६१
ततः पेयांस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततः परम्
घनं पूर्वं समश्नीयात् केचिदाहुर्विपर्ययम् ५६२
आदावन्ते च मध्ये च भोजनस्य तु शस्यते
निरत्ययं दोषहरं फलेष्वामलकं नृणाम् ५६३
मृणालबिसशालूककन्देक्षुप्रभृतीनि च
पूर्वं योज्यानि भिषजा न तु भुक्ते कदाचन ४६४
सुखमुच्चैः समासीनः समदेहोऽन्नतत्परः
काले सात्म्यं लघु स्निग्धमुष्णं क्षिप्रं द्र वोत्तरम् ४६५
बुभुक्षितोऽन्नमश्नीयान्मात्रावद्विदितागमः
काले प्रीणयते भुक्तं सात्म्यमन्नं न बाधते ४६६
लघु शीघ्रं व्रजेत् पाकं स्निग्धोष्णं बलवह्निदम्
क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्र वोत्तरम् ४६७
सुखं जीर्यति मात्रावद्धातुसाम्यं करोति च
अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः ४६८
तेषु तत्प्रत्यनीकाढ्यं भुज्जीत प्रातरेव तु
येषु चापि भवेयुश्च दिवसा भृशमायताः ४६९
तेषु तत्कालविहितमपराह्णे प्रशस्यते
रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः ४७०
कृत्वा सममहोरात्रं तेषु भुञ्जीत भोजनम्
नाप्राप्तातीतकालं वा हीनाधिकमथापि वा ४७१
अप्राप्तकालं भुञ्जानः शरीरे ह्यलघौ नरः
तांस्तान् व्याधीनवाप्नोति मरणं वा नियच्छति ४७२
अतीतकालं भुञ्जानो वायुनोपहतेऽनले
कृच्छ्राद्विपच्यते भुक्तं द्वितीयं च न काङ्क्षति ४७३
हीनमात्रमसंतोषं करोति च बलक्षयम्
आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकम् ४७४
तस्मात् सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्जितम्
यथोक्तगुणसंपन्नमुपसेवेत भोजनम् ४७५
विभज्य दोषकालादीन् कालयोरुभयोरपि
अचोक्षं दुष्टमुत्सृष्टं पाषाणतृणलोष्टवत् ४७६
द्विष्टं व्युषितमस्वादु पूति चान्नं विवर्जयेत्
चिरसिद्धं स्थिरं शीतमन्नमुष्णीकृतं पुनः ४७७
अशान्तमुपदग्धं च तथा स्वादु न लक्ष्यते
यद्यत् स्वादुरतं तत्तद्विदध्यादुत्तरोत्तरम् ४७८
प्रक्षालयेदद्भिरास्यं भुञ्जानस्य मुहुर्मुहुः
विशुद्धे रसने तस्य रोचतेऽन्नमपूर्ववत् ४७९
स्वादुना तस्य रसनं प्रथमेनातितर्पितम्
न तथा स्वादयेदन्यत्तस्मात् प्रक्षाल्यमन्तरा ४८०
सौमनस्यं बलं पुष्टिमुत्साहं हर्षणं सुखम्
स्वादु संजनयत्यन्नमस्वादु च विपर्ययम् ४८१
भुक्त्वाऽपि यत् प्रार्थयते भूयस्तत् स्वादु भोजनम्
अशितश्चोदकं युक्त्या भुञ्जानश्चान्तरा पिबेत् ४८२
दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः
कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम् ४८३
जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेव तु
भुक्तमात्रे कफश्चापि तस्माद्भुक्तेरितं कफम् ४८४
धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः
पूगकङ्कोलकर्पूरलवङ्गसुमनःफलैः ४८५
फलैः कटुकषायैर्वा मुखवैशद्यकारकैः
ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ४८६
भुक्त्वा राजवदासीत यावदन्नक्लमो गतः
ततः पादशतं गत्वा वामपार्श्वेन संविशेत् ४८७
शब्दान्रूपान्रसान् गन्धान् स्पर्शांश्च मनसः प्रियान्
भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति ४८८
शब्दरूपरसा गन्धाः स्पर्शाश्चापि जुगुप्सिताः
अशुच्यन्नं तथा भुक्तमतिहास्यं च वामयेत् ४८९
शयनं चासनं वाऽपि नेच्छेद्वाऽपि द्र वोत्तरम्
नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् ४९०
न चैकरससेवायां प्रसज्येत कदाचन
शाकावरान्नभूयिष्ठमम्लं च न समाचरेत् ४९१
एकैकशः समस्तान् वा नाध्यश्नीयाद्र सान् सदा
प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत् ४९२
पूर्वभुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम्
मात्रागुरुं परिहरेदाहारं द्र व्यतश्च यः ४९३
पिष्टान्नं नैव भुज्जीत मात्रया वा बुभुक्षितः
द्विगुणं च पिबेत्तोयं सुखं सम्यक् प्रजीर्यति
पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् ४९४
गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते
द्र वोत्तरो द्र वश्चापि न मात्रागुरुरिष्यते ४९५
द्र वाढ्यमपि शुष्कं तु सम्यगेवोपपद्यते
विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ४९६
पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति
स्रोतस्यन्नवहे पित्तं पक्तौ वा यस्य तिष्ठति ४९७
विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते
शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत् ४९८
आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ४९९
अत्यम्बुपानाद्विषमाशनाद्वा संधारणात् स्वप्नविपर्ययाच्च
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ५००
ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन शुग्दैन्यनिपीडितेन
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ५०१
माधुर्यमन्नं गतमामसंज्ञं विदग्धसंज्ञं गतमम्लभावम्
किंचिद्विपक्वं भृशतोदशूलं विष्टब्धमानद्धविरुद्धवातम् ५०२
उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य
रसावशेषेण तु सप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम् ५०३
मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः
उपद्र वा भवन्त्येते मरणं चाप्यजीर्णतः ५०४
तत्रामे लङ्घनं कार्यं विदग्धे वमनं हितम्
विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च ५०५
वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना
कार्यं वाऽनशनं तावद्यावन्न प्रकृतिं भजेत् ५०६
लघुकायमतश्चैनं लङ्घनैः समुपाचरेत्
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ५०७
हिताहितोपसंयुक्तमन्नं समशनं स्मृतम्
बहु स्तोकमकाले वा तज्ज्ञेयं विषमाशनम् ५०८
अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते
त्रयमेतन्निहन्त्याशु बहून्व्याधीन्करोति वा ५०९
अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति
तद्ध्य्स्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात् ५१०
विदह्यते यस्य तु भुक्तमात्रे दह्येत हृत्कोष्ठगलं च यस्य
द्रा क्षाभयां माक्षिकसंप्रयुक्तां लीढ्वाऽभयां वा स सुखं लभेत ५११
भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले
प्रातः सशुण्ठीमभयामशङ्को भुञ्जीत संप्राश्य हितं हितार्थी ५१२
स्वल्पं यदा दोषविबद्धमामं लीनं न तेजःपथमावृणोति
भवत्यजीर्णेऽपि तदा बुभुक्षा या मन्दबुद्धिं विषवन्निहन्ति ५१३
अत ऊर्ध्वं प्रवक्ष्यामि गुणानां कर्मविस्तरम्
कर्मभिस्त्वनुमीयन्ते नानाद्र व्याश्रया गुणाः ५१४
ह्लादनः स्तम्भनः शीतो मूर्च्छातृट्स्वेददाहजित्
उष्णस्तद्विपरीतः स्यात्पाचनश्च विशेषतः ५१५
स्नेहमार्दवकृत् स्निग्धो बलवर्णकरस्तथा
रूक्षस्तद्विपरीतः स्याद्विशेषात् स्तम्भनः खरः ५१६
पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः
विशदो विपरीतोऽस्मात् क्लेदाचूषणरोपणः ५१७
दाहपाककरस्तीक्ष्णः स्रावणो मृदुरन्यथा
सादोपलेपबलकृद्गुरुस्तर्पणबृंहणः ५१८
लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा
दशाद्याः कर्मतः प्रोक्तास्तेषां कर्मविशेषणैः ५१९
दशैवान्यान् प्रवक्ष्यामि द्र वादींस्तान्निबोध मे
द्र वः प्रक्लेदनः सान्द्र ः! स्थूलः स्याद्बन्धकारकः ५२०
श्लक्ष्णः पिच्छिलवज्ज्ञेयः कर्कशो विशदो यथा
सुखानुबन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः ५२१
दुर्गन्धो विपरीतोऽस्माद्धृल्लासारुचिकारकः
सरोऽनुलोमनः प्रोक्तो मन्दो यात्राकरः स्मृतः ५२२
व्यवायी चाखिलं देहं व्याप्य पाकाय कल्पते
विकासी विकसन्नेवं धातुबन्धान् विमोक्षयेत् ५२३
आशुकारी तथाऽशुत्वाद्धावत्यम्भसि तैलवत्
सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषु स्रोतःस्वनुसरः स्मृतः ५२४
गुणा विंशतिरित्येवं यथावत्परिकीर्तिताः
संप्रवक्ष्याम्यतश्चोर्ध्वमाहारगतिनिश्चयम् ५२५
पञ्चभूतात्मके देहे ह्याहारः पाञ्चभौतिकः
विपक्वः पञ्चधा सम्यग्गुणान् स्वानभिवर्धयेत् ५२६
अविदग्धः कफं पित्तं विदग्धः पवनं पुनः
सम्यग्विपक्वो निःसार आहारः परिबृंहयेत् ५२७
विण्मूत्रमाहारमलः सारः प्रागीरितो रसः
स तु व्यानेन विक्षिप्तः सर्वान् धातून् प्रतर्पयेत् ५२८
कफः पित्तं मलः खेषु स्वेदः स्यान्नखरोम च
नेत्रविट् त्वक्षु च स्नेहो धातूनां क्रमशो मलाः ५२९
दिवा विबुद्धे हृदये जाग्रतः पुण्डरीकवत्
अन्नमक्लिन्नधातुत्वादजीर्णेऽपि हितं निशि ५३०
हृदि संमीलिते रात्रौ प्रसुप्तस्य विशेषतः
क्लिन्नविस्रस्तधातुत्वादजीर्णे न हितं दिवा ५३१
इमं विधिं योऽनुमतं महामुनेर्नृपर्षिमुख्यस्य पठेद्धि यत्नतः
स भूमिपालाय विधातुमौषधं महात्मनां चार्हति सूरिसत्तमः ५३२
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां सूत्रस्थाने षट्चत्वारिंशत्तमोऽध्यायः
समाप्तं चेदं सूत्रस्थानम्