सुभाषितानि

विकिस्रोतः तः
Jump to navigation Jump to search

[१]सुभाषितानि

द्राक्षा म्लानमुखी जाता शर्करा न च पण्डिता |
सुभाशित रसं दृष्ट्वा सुधा भीता दिवंगता||

सर्वतीर्थमयी माता सर्वदेवमय: पिता
मातरं पितरं तस्‍मात्‌ सर्वयत्‍नेन पूजयेत्‌. १

माता शत्रुः पिता वैरी येन बालो न पाठित:
न शोभते सभामध्‍ये हंसमध्‍ये बको यथा. २

नास्‍ति लोभसमो व्‍याधि: नास्‍ति क्रोधसमो रिपु:
नास्‍ति दारिद्रयवद्‌ दु:खं नास्‍ति ज्ञानात्‍परं सुखम्‌. ३

भोजनांते च किं पेयम्‌।
जयंत: कस्‍य वै सुत:।
कथं विष्‍णुपदं प्रोक्‍तम्‌।
तक्रं शक्रस्‍य दुर्लभम्‌। ४

कस्‍तुरी जायते कस्‍मात्‌।
को हन्‍ति करीणां शतम्‌।
किं कुर्यात्‌ कातरो युद्धे।
मृगात्‌ सिंह: पलायते। ५

केशवं पतितं दृष्‍ट्वा‌ द्रोणो हर्षं उपागत:।
कौरवा: रूदन्‍ति हा हा केशव केशव। ६

द्वन्‍द्वोहम् द्विगुरपिचाहम्‌।
मद्गेहे नित्‍य अव्‍ययीभाव:।
तत्‍पुरुष कर्मधारय।
येनाहम्‌ स्‍याम् बहुव्रीही। ७

पुरा कविनां गणनाप्रसंगे कनिष्‍ठिकाधिष्‍ठितकालिदास: ।
अद्यापि तत्‍तुल्‍यकवेरभावात्‌ अनामिका सार्थवती बभूव । ९

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियं ।
प्रियं च नानृतं ब्रूयात् एष धर्मस्सनातनः ॥ १०

दानेन पाणिर्नतु कंकणेन ।
स्नानेन शुध्दिर्नतु चन्दनेन ।
मानेन तृप्तिर्नतु भोजनेन ।
ज्ञानेन युक्तिर्नतु मुंडनेन ॥ ११

संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे‌ ।
सुभाषितरसास्वाद: संगति: सुजनै: सह‌ ॥ १२

गगनम् गगनाकारं सागरः सागरोपमः।
रामरावणयोर्युद्धमं रामरावणयोरिव॥ १३

निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः॥ १४
— भर्तृहरेः नीतिशतकम्

अपि स्वर्णमयी लंका न मे लक्ष्मण रोचते।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी॥ १५

सत्यं माता पिता ज्ञानं धर्मॊ भ्राता दया सखा ।
शांति: पत्नी क्षमा पुत्र षडॆतॆ मम बांधवा:॥ १६

कस्तूरी जायते कस्मात्? कॊ हंति करिणां कुलम्? ।
किम् कुर्यात् कातरॊ युध्दे? म्रुगात् सिंहः पलायते ॥ १७

पिपीलिकार्जितं धान्यम् मक्षिका संचितं मधु।
लुब्धॆन संचितम् द्रव्यम् समूलं हि विनश्यति॥ १८

अन्नदानं परं दानं विद्यादनमतः परम्|
अन्नॅन क्षणिका तृप्तिः यावज्जीवंच विद्यया||१९||

गच्॰त्पिपीलिका यांति यॉजनानां शतान्यपि|
अगच्॰न् वैनतॅयॉपि पदमॅकं न गच॰ति||२०||

चिता प्रज्वलितां द्रष्ट्वा वैद्यो विस्मयागतः|
नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम्||२१||

काकतालीयवत् प्राप्तं दृष्ट्वापि निधिमग्रतः।
न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते।।२२।।

मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी। स्नेहोधिकः सभ्रमदर्शनञ्च सदानुरक्तस्य जनस्य लक्ष्म।।२३।।

यथा धेनुसहस्रेषु वत्सो गच्छति मातरम्। तथा गुरुगता विद्या शुश्रूषयाधिगच्छति।।२४।।

ददतु ददतु गालीं गालिवन्तो भवन्तः, वयमिह तदभावाद् गालिदानेऽप्यशक्ताः। जगति विदितमेतद् दीयते विद्यमानं नहि शशकविषाणं कोऽपि कस्मै ददाति।।२५।।

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्। स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते।।२६।।

अयम् निजः परॊ वॆति गणना लघुचॆतसाम्। उदारचरितानाम् तु वसुधैव कुटुम्बकम्॥

उध्यनमैनॆव सिध्यन्ति कर्याणि न मनोरथै:। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखॆ मृगाः॥

न कश्चिदपि जानाति किं कस्य श्वो भविष्यति। अतः श्वः करणीयानि कुर्यादध्यैव बुद्धिमान्॥

सदयं हृदयं यस्य भाषितं सत्यभूषितम्। कायः परहितॆ यस्य कलिस्तस्य करोति किम्॥

अचार्यात् पादमादत्तॆ पादं शिष्यः स्वमॆधया। पादं सब्रह्मचारिभ्यः पादं कालक्रमॆणच॥

अमंत्रमक्षरं नास्ति नास्ति मूलमनौषधम् । अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभ:||

असमयकथितं परमेश्वरस्यनीतिवाक्यमपि वृथाभवते| कालानुसृत्यं मूर्खस्य संभाषनमपि सम्मान प्राप्यते||

आकाशात् पतितं तॊयं यथा गच्छति सागरम् । सर्वदॆवनमस्कारः कॆशवं प्रतिगच्छति ॥

विद्या ददाति विनयं विनयाद्याति पात्रताम् । पात्रत्वाद्धनमाप्नॊति धनात् धर्मं ततस्सुखम् ॥

प्रियवाक्यप्रदानॆन सर्वॆ तुष्यन्ति जन्तवः । तस्मात्तदॆव वक्तव्यं वचनॆ का दरिद्रता ॥

स्वगृहॆ पूज्यतॆ मूर्खः स्वग्रामॆ पूज्यतॆ प्रभुः । स्वराष्ट्रॆ पूज्यतॆ राजा विद्वान् सर्वत्र पूज्यतॆ ॥

विदॆशॆषु धनं विद्या व्यसनॆषु धनं मतिः । परलॊकॆ धनं धर्मः शीलं सर्वत्र वै धनम् ॥

नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः । नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥

क्षणशः कणशश्चैव विद्यामर्थं च साधयॆत् । क्षणत्यागॆ कुतॊ विद्या ? कणत्यागॆ कुतॊ धनम् ॥

ज्ञानॆन पाणिर्नतु कङ्कणॆन स्नानॆन शुद्धिर्नतु चन्दनॆन । मानॆन तृप्तिर्नतु भॊजनॆन ज्ञानॆन मुक्तिर्नतु मुण्डनॆन ॥

आकाशात् पतितं तॊयं यथा गच्छति सागरम् । सर्वदॆवनमस्कारः कॆशवं प्रतिगच्छति ॥

विद्या ददाति विनयं विनयाद्याति पात्रताम् । पात्रत्वाद्धनमाप्नॊति धनात् धर्मं ततस्सुखम् ॥

प्रियवाक्यप्रदानॆन सर्वॆ तुष्यन्ति जन्तवः । तस्मात्तदॆव वक्तव्यं वचनॆ का दरिद्रता ॥

स्वगृहॆ पूज्यतॆ मूर्खः स्वग्रामॆ पूज्यतॆ प्रभुः । स्वराष्ट्रॆ पूज्यतॆ राजा विद्वान् सर्वत्र पूज्यतॆ ॥

विदॆशॆषु धनं विद्या व्यसनॆषु धनं मतिः । परलॊकॆ धनं धर्मः शीलं सर्वत्र वै धनम् ॥

नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः । नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥

क्षणशः कणशश्चैव विद्यामर्थं च साधयॆत् । क्षणत्यागॆ कुतॊ विद्या ? कणत्यागॆ कुतॊ धनम् ॥

ज्ञानॆन पाणिर्नतु कङ्कणॆन स्नानॆन शुद्धिर्नतु चन्दनॆन । मानॆन तृप्तिर्नतु भॊजनॆन ज्ञानॆन मुक्तिर्नतु मुण्डनॆन ॥


वैद्यराज नमस्तुभ्यं यमराज सहोदर:। यम: हरति प्राणं वैद्य: प्राणं धनं च॥

चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयागत। नाहं गत: नमे भ्राता कस्यैद हस्तालाघवं॥

गते शोको न कर्तव्यो भविष्यं नैव चिंतयेत्। वर्तमानेन कालेन वर्तयंति विचक्षणाः॥

कर्ता कारयिता चैव। प्रेरकश्चानुमोदकः।। सुकृते दुःश्कृते चैव। चत्वारः समभागिनः।।

यावदस्ति त्रयीलोके चतुर्मख मुखोद्भवा। यावद्वा रामचरितं वाल्मीकिकविचित्रितम्।।

क्षरन्त्यमृतधारा वा यावद् व्यासस्य सूक्तयः। वाग्देव्या वरपुत्रस्य कालिदासस्य वागिरः।।

तावदेषा देवभाषा देवी स्थास्यसि भूतले। यावच्च वंशोस्त्यार्याणां तावदेषा ध्रुवं ध्रुवा।।

क्रोधो हर्षस्च दर्पस्च ह्रीस्तंभो मान्यमानिता:। यमर्थान्नापकर्षंति स वै पण्डित उच्यते॥

नाना शास्त्रं पठेन्लोके नाना दैवत्पुजिनम्। आत्मज्ञान विना पार्थ सर्व कर्म निरर्थकम्॥

परात्मानमेकं जगत्बीजमाध्यं निरीहं निराकारमोँकारवेद्यं। यतो जायते पाल्यते येन विश्वं नमीशं भजे लीयते यत्र विश्वं॥

न भुमिर्न चापो न वाहिणीर्न वायु: न चाकाशमास्ते न निन्द्रा न तन्द्रा:। न शीतं नचोष्णं न देशो न भेषो: न यस्यास्ति मुर्ति: त्रिमुर्तिं तमीडे॥

नमस्ते नमस्ते विभोविश्वमुर्ते नमस्ते नमस्ते सच्चिदानंदकीर्ते। नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतीज्ञानवंद्य॥

यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः | तत् तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ||६५||

आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च | येषामेते षड् गुणा न प्रवृत्ताः कोऽर्थस् तेषां पार्थिवोपाश्रयेण ||६६||

व्यालं बालमृणालतन्तुभिरसौ रोध्दुं समुज्जृम्भतॆ भेत्तुं वज्रमणीञ् शिरीषकुसुमप्रान्तेन संनह्यतॆ | माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति यः सतां पथि खलान् सूक्तैः सुधास्यन्दिभिः ||६७||

स्वयत्तमेकान्तहितं विधात्रा विनिर्मितं छादमनज्ञतायाः | विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ||६८||

उद्भासिताखिलखलस्य विशृङ्खलस्य प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः | दैवादवाप्तविभवस्य गुणद्विषोऽस्य् नीचस्य गोचरगतैः सुखमास्यतॆ कैः ||६९||

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः | विद्या बन्धुजनो विदेशगमने विद्या प्रं देवता विद्या राजासु पूज्यते न हि धनं विद्याविहीनः पशुः ||७०||

दाक्षिण्यं स्वजने दया परजने शाठ्यं जने दुर्जने प्रीतिः साधुजने स्मयः खलजने विद्वज्जने आर्जवम् | शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता ये चैवं पुरुषाः कलासु कुशलास् तेष्वेव लोकस्थितिः ||७१||

भर्तुहरिसुभाषितसंग्रहः[सम्पाद्यताम्]

[श्लोकाः १ - १० ] चूडॊत्तंसित्चारुचन्द्रकलिकाचञ्चच्छिखाभास्वरॊ लीलादग्धविलॊलकामशलभः श्रॆयॊदशाग्रॆ स्फुरन् | अन्तःस्फूर्जद्पारमॊहतिमिरप्राग्मारमुच्छॆदयंश् चॆतः सद्मनि यॊगिनां विजयतॆ ज्नाप्रदीपॊ हरः ||१||

कृशः काणः खञ्जः श्रवणरहितः पुक्छविकलॊ व्र्णी पूयक्लिन्नः कृमिकुलशतैरावृततनुः | क्षुधाक्षामॊ जीर्णः पिठरककपालार्पितगलः शुनीमन्वॆति श्वा हतमपि च हन्त्यॆव मदनः ||२||

प्राणाधातान् निवृत्तिः परधनहरणॆ संयमः स्त्यवाक्यं कालॆ शक्त्या प्रदानं युवतिजनकथमूकभावः परॆषाम् | तृष्णस्रॊतॊविभंगॊ गुरुषु च विनयः स्रर्वभूतानुकम्पा सामान्यः स्रर्वशास्त्रॆष्वनुपहतविधिः श्रॆयसामॆष पन्थाः ||३||

बॊद्वारॊ मत्सरग्रस्ताः प्रभवः स्मयदूषिताः | अबॊधॊपहताश् चान्यॆ जीर्णमङ्गॆ सुभाषितम||४||

यदा किंचिज्नॊहं गज इव मदान्धः समभवं तदा सर्वग्नॊस्मीत्यभवदवलिप्तं मम मनः | यदा किंचित् किंचिद् बुधजनसकाशादवगतं तदा मूर्खॊस्मीति ज्वर इव मदॊ मॆ व्यपगतः||५||

यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा द्ष्टं नारीमयमिदमशॆषं जगदपि | इदानीमस्माकं पटुतरविवॆकाञ्जनजुषां सभीभूता द्ष्टिस् त्रिभुवनमपि ब्रह्म तनुतॆ ||६||

शुभ्रं सद्म सविभ्रमा युवतयः श्वॆतातपत्रॊज्ज्वला लक्ष्मीरित्यनुभूयतॆ स्थिरमिव स्फीतॆ शुभॆ कर्मणि | विच्छिन्नॆ नितरामनङ्गकलहत्रीटत्तन्तुकं मुत्ताजालमिव प्रयाति झटिति भ्रश्यद्शॊ द्श्य्ताम् ||७||

अज्ञः सुखमाराध्यः सुखतरमाराध्यतॆ विशॆषज्ञः | ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ||८||

प्रसह्य मणिमुद्वरॆन् मकरवक्रदंष्ट्राङ्कुरात् समुद्रमपि संतरॆत् प्रचलदूर्मिमालाकुलम्| भुजंगमपि कॊपितं शिरसि पुष्पवद धारयॆन् न तु प्रतिनिविष्टमूर्खजनचितमाराधयॆत् ||९||

शशी दिवसधूसरॊ गलितयौवना कामिनी सरॊ विगतवारिजंं मुखमनक्षरं स्वाक्ऱुतॆः | प्रभुर्धनपरायणः सततदुर्गतः सज्ज्नॊ न्ऱुपाङ्गणगतः खलॊ मनसि सप्त शल्यानि मॆ ||१०||

राजन् दुधुक्षसि यदि क्षितिधॆनुमॆनां तॆनाद्य वत्समिव् लॊकमिमं पुषाण् | तस्मिंश् च् सम्यगनिशं परिपॊष्यमाणॆ नानाफलैः फलति कल्प्लतॆव भूमिः ||५८||

स्त्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या | नित्यव्यया प्रचुरनित्यधनागमा च वाराङ्ग्नॆव नृपनीतिरनॆकरुपा ||५९||

न कश्चिच् चण्डकॊपानामात्मीयॊ नाम भूभुजाम| हॊतारमपि जुह्वन्तं स्पृष्टॊ दहति पावकः ||६०||

अकरुणत्वम्कार्ण्विग्रहः परधनापहृतिः परयॊषितः स्वजनबन्धुजनॆष्वसहिष्णुता प्रकृतिसिद्व्मिदं हि दुरात्मनाम् ||६१||

आरम्भगुर्वी क्षयिणी क्र्मॆण् लध्वी पुरा वृद्विमती च पश्चात् | दिनस्य् पूर्वार्धपरार्धभिन्ना छायॆव मैत्री खलसज्जनानाम् ||६२||

भवन्ति नम्रास् तरवः फलॊद्गमैर्नवाम्बुभिर्भूरिविलम्बिनॊ धनाः | अनुद्वताः सत्पुरुषाः समृद्धिभिः स्वभाव् एवैष परॊपकारिणाम् ||६३||

पद्माकरं दिनकरॊ विकचं करॊति चन्द्रॊ विकाशयति कैरवचक्रवालम् | नाभ्यर्थितॊ जलधरॊऽपि जलं ददाति सन्तः स्वयं पराहितॆषु कृताभियॊगाः ||६४||

बाह्यसम्पर्कतन्तुः[सम्पाद्यताम्]

  1. give the tree
"https://sa.wikisource.org/w/index.php?title=सुभाषितानि&oldid=37518" इत्यस्माद् पुनः प्राप्तिः