सुभाषितरत्नकोशः/३ मञ्जुघोषव्रज्या

विकिस्रोतः तः
← २ लोकेश्वरव्रज्या सुभाषितरत्नकोशः
३ मञ्जुघोषव्रज्या
विद्याकरः
४ महेश्वरव्रज्या →

ततो मञ्जुघोषव्रज्या ॥ ३

अङ्गामोदसमोच्छ्वलद्घृणिपतद्भृङ्गावलीमालितः स्फूर्जत्काञ्छनसूत्रगुम्फितमिलन्नीलोत्पलश्रीर् इव /
निर्यत्पादनखोन्मुखांशुविसरस्रग्दन्तुरः स्मर्यतां मञ्जुश्रीः सुरमुक्तमञ्जरिशिखावर्षैर् इवाभ्यर्चितः ३.१ (२५)

मालितः स्फूर्जत्काञ्छन
मालितस्फूर्जल्लाञ्छन

शस्त्रोद्यद्बाहुदेहस्फुरदनलमिलद्धूमकल्पान्तपुञ्जः शृङ्गान्तानन्तविश्वार्पितमहिषमहिषशिरोमक्षिकालीविकल्पः /
त्रासत्यक्तस्वपर्णास्तृतसुरघृणयेवालसत्पादवृन्दस् तारौघप्लुष्टभानुर् जगद् अवतु नटन् भैरवात्मा कुमारः ३.२ (२६)
वल्लणस्यैतौ

खड्गी सशब्दम् अथ पुस्तकवान् सचिन्तं बालः सखेलम् अभिरामतमः सकामम् /
नानाविधं सुरवधूभिर् इतीक्षितो वः पायाच् चिरं सुगतवंशधरः कुमारः ३.३ (२७)
पुरुषोत्तमस्य

मुग्धाङ्गुलीकिशलयाङ्घ्रिसुवर्णकुम्भ- वान्तेन कान्तिपयसा धुसृणारुणेन /
यो वन्दमानम् अभिषिञ्चति धर्मराज्ये जागर्तु वो हितसुखाय स मञ्जुवज्रः ३.४ (२८)
जितारिपादानाम्

अमीषां मञ्जुश्रीरुचिरवदनश्रीकृतरुचां श्रुतं नो नामापि क्व नु खलु हिंआशुप्रभृतयः /
ममाभ्यर्णे धार्ष्ट्याच् चरति पुनर् इन्दीवरम् इति क्रुधेवेदं प्रान्तारुणम् अवतु वो लोचनयुग्मम् ३.५ (२९)

हिमांशुप्रकृतयः इन् ब्

शान्ताकरगुप्तस्य

इति मञ्जुघोषव्रज्या