सुभाषितरत्नकोशः/२ लोकेश्वरव्रज्या
← १ सुगतव्रज्या | सुभाषितरत्नकोशः २ लोकेश्वरव्रज्या विद्याकरः |
३ मञ्जुघोषव्रज्या → |
ततो लोकेश्वरव्रज्या ॥ २
द्युतिस्वच्छज्योत्स्नापटपटलवृष्ट्या न कमलं न चन्द्रः सान्द्रश्रीपरिमलगरिम्णास्यम् अमलम् /
मधूद्राणां निद्राभिदुरम् अपमुद्राद्भुतमुदश् चकोरान् बिभ्राणं सरसिरुहपाणेर् अवतु वः २.१ (१७)
बुद्धाकरगुप्तस्य
वरदकरसरोजस्यन्दमानामृतौघ- व्युपशमितसमस्तप्रेतसंघाततर्षः /
जयति सितगभस्तिस्तोमशुभ्राननश्रीः सहजगुरुदयार्द्रालोकनो लोकनाथः २.२ (१८)
रत्नकीर्तेः
अत्युद्गाढरयस्थिराकृतिघनध्वानभ्रमन्मन्दर- क्षुब्धक्षीरधिवीचिसंचयगतप्रालेयपादोपमः /
श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते सान्द्रस्वांशुचयश्रिया वलयितो लोकेश्वरः पातु वः २.३ (१९)
ज्ञानश्रीमित्रस्य
कृपावृष्टिस्फूतात् तव हृदयपीयूषसरसः प्रवाहो निर्गत्य क्रमतनिमरम्यः करुणया /
तृषार्तानाम् ईषद्विततम् अधरान्तः प्रति गति- प्रणालीभिः पञ्चाभवद् इति किम् अन्यद् भुजकरात् २.४ (२०)
- द्विततमधरान्तः प्रति गति
- द्विततिमधुरान्तःप्रतिगति
त्रिलोचनस्य
रविम् इव धृतामिताभं कविम् इव सुरसार्थविरचितस्तोत्रम् /
मधुम् इव सम्भृतकरुणं विधुम् इव नाथं खसर्पणं वन्दे २.५ (२१)
पुरुषोत्तमस्य
उदरस्येदम् अणुत्वं सहजगुरुत्वं यदि नेदं हृदयस्य /
स्वार्थे कथम् अलसत्वं कथम् अनुसत्वं हितकरणे मतिर् अस्य २.६ (२२)
ज्ञानश्रीमित्रस्य
वक्त्रं नैष कलानिधिर् धवलिमा नैषोज्ज्वला कौमुदी नेत्रे नीररुची न लाञ्छनयुगं चन्द्रे ऽस्त्य् अमन्दच्छवि /
इत्य् उन्नीय विधोर् अभीतिविहसद् यत् संनिधिं साध्वगान् नूनं नीरजम् अस्तु वः शिवदिवे तल् लोकनाथाननम् २.७ (२३)
जटाजूटाभ्यन्तर्नवरविर् इव श्यामजलभृद्- वृतः शोणाशोकस्तबकम् अमिताभः प्रमिनुते /
महर्षेर् यस्येन्दुद्युतिघटितमूर्तेर् इव स वः क्लमं भिन्द्याद् दद्यात् प्रशमसुखपीयूषलहरीम् २.८ (२४)
बुद्धाकरस्यैतै
- इति लोकेश्वरव्रज्या|| २