सुकविहृदयानन्दिनी/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १ सुकविहृदयानन्दिनी
अध्यायः २
अध्यायः ३ →

द्वितियोऽध्यायः मात्रावृत्ताध्यायः[सम्पाद्यताम्]


मात्रावृत्ताध्यायो द्वितीयः प्रारभ्यते ।
मात्रावृत्तानुपूर्वकमित्युक्तत्वात्‌ ।
लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ।
षष्ठोऽयं च नलघु वा प्रथमेऽर्धे नियतमार्यायाः ॥ १
षष्ठे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः ।
चरमेऽर्धे पंचमके तस्मादिह भवति षष्ठो लः ॥ २

आर्याया एतल्लक्ष्म लक्षणम्‌ । सप्त चतुष्कला गणा गुरुणा उपेता युक्ता भवन्ति । सामान्येनाभिधाय विशेषमाह । भवति नेह विषमे जः इति । इह आर्यालक्षणे विषमे स्थाने प्रथमतृतीयादौ जो जगणो न भवति । षष्ठश्चायं जगणो भवति । नलघु वा । नगणयुक्तो लघु वा भवति । नियतं निश्चितमार्यायाः । प्रथमेऽर्धे आद्ये दले इति । चरमेऽर्धे द्वितीयेऽर्धे षष्ठो लघुरेवेति नियमः । एवमुभयोरप्यर्धयोर्लक्षणमभिधाय पदनियममाह । षष्ठे द्वितीयलादिति । षष्ठे गणे सर्वलघौ द्वितीयाल्लघ्वक्षरादारभ्य पदं भवति । सप्तमश्चेत्सर्वलघुगणो भवति तदा प्रथमाक्षरादारभ्य पदं चरमेऽर्धे पंचमके द्वितीयेऽर्धे पंचमे सर्वलघौ गणे तस्मात्पूर्वोक्तात्‌ । प्रथमाक्षराल्लघ्वक्षरादारभ्य पदनियमो भवति । इति । अत्रार्धग्रहणात्पादव्यवस्था नास्तीति एतच्च प्रथमाध्याय एव पदादाविति सूत्रे प्रपंचितमस्ति ।
क्रमेणोदाहरणं यथा ।
वंदारुदेववृन्दैरहमहमिकया सदैव या वंद्या ।
स्वर्गापवर्गदात्रीं तामार्यां संततं नौमि ॥
इत्युदाहरणं यथा ।
यस्यांगनामुवेद्या कोकिलनादश्च मलयगिरिपवनः ।
एकैकमस्त्रकृत्यं करोति स जयति मनोजन्मा ॥ १-२


त्रिष्वंशकेषु पादो दलयोराद्येषु दृश्यते यस्याः ।
पथ्येति नाम तस्याश्छन्दोविद्भिः समाख्यातम्‌ ॥ ३

यस्या आर्याया आद्येषु त्रिषु गणेषु पादो विरामो भवति । सा पथ्या नाम । यथा ।
उज्झितनेपथ्यालकमुज्झिततिलकांजनं यदेणाक्ष्याः ।
तस्याः स्मरामि विरहप्रारम्भे वदनमपि रम्यम्‌ ॥ ३

संलंघ्य गणत्रयमादिमं सकलयोर्द्वयोर्भवति पादः ।
यस्यास्तं पिंगलनागो विपुलामिति समाख्याति ॥ ४

यस्या आर्याया आद्यगणत्रयमभिलंघ्य द्वयोरप्यर्धयोः पादो विरामो यतिर्भवति । सा विपुला नाम यथा ।
मम खलु न याति नयनयुगमचलनिर्मेषपिश्यतस्तृप्तिम्‌ ।
त्रस्तमृगशिशुदृशस्तन्वंग्या जघनस्थलीं विपुलाम्‌ ॥

सामान्येन विधानमेतदाद्यंतोभयभेदपूर्वकत्वात्त्रिधा भवति ।
तत्रादिविपुला यथा ।
प्रमदानां जयति कटाक्षोऽयं निशि स्फुरत्स्मरशराभः ।
हृदयस्थितानुरागप्रकटनपटुतां दधात्स्वैरं ॥
अन्त्यविपुला यथा ।
प्रीतिं कस्य न जनयति प्रकुर्वती केशबंधनं नारी ।
दर्शितभुजमूलालंकारसुभूतार्द्रनखपंक्तिः ॥
उभयविपुलोदाहरणं पूर्वमेवोदाहृतमिति । ४

उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ यस्याः ।
चपलेति नाम तस्याः प्रकीर्तिता नागराजेन ॥ ५

यस्या आर्याया उभयोरर्धयोर्द्वितीयतुर्यौ द्वितीयचतुर्थौ गुर्वोर्मध्यगौ गमध्यगौ गमध्यगाविति । वदता सूत्रकृता गणनियम उक्तः । तथा हि प्रथमो गणोऽन्तगुरुरेव तृतीयो गणो द्विगुरुरेव पंचमश्चादिगुरुरेवेति निश्चयः । शेषं यथा प्रोक्तम्‌ । सा आर्या चपला नाम यथा ।
चपलाक्षि मौनमुद्रां त्यजेति संभाषिता मया सुतनुः ।
संजातरोमहर्षा बभूवात्युत्सुका तन्वी ॥ ५

आद्यं दलं समस्तं भजेल्लक्ष्म चपलागतं यस्याः ।
शेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ ६

यस्या आर्याया आद्यं दलमर्धं समस्तमपि चपलाया लक्षणं भजेत्‌ । शेषे उत्तरार्धे पूर्वोक्तलक्षणा सा मुखचपला नाम । यथा ।

यस्यात्सिराचितांगी (?) लघुस्तनी पिंगलाक्षियुगला च ।
मुखचपला पुरुषाकृतिरतिदीर्घकृशा परित्याज्या ॥ ६

प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे तु चपलायाः ।
लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥ ७

या आर्या प्रथमेऽर्धे प्राक्प्रतिपादितं पूर्वमुक्तं लक्षणमाश्रयेत्‌ प्रथमेतरे तु उत्तरार्धे तु चपलाया लक्षणं सा जघनचपला उक्ता विशुद्धधीभिर्निर्मलबुद्धिभिः । यथा । कुंचितलोचनयुगलं समदनमदमोदसुंदरालम्‌ ।
सुरतं स्मरामि तस्या मृगीदृशोः जघनचपलायाः ॥ ७

॥ आर्याप्रकरणम्‌ ॥[सम्पाद्यताम्]


आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः कृतयतिशोभां तां गीतिं गीतिवान्भुजङ्गेशः ॥ ८

आर्यायाः प्रथमेऽर्धे यदुक्तं लक्षणं तद्यदि द्वयोरप्यर्धयोर्भवति तां गीतिमिति गीतवान्‌ उक्तवान्‌ भुजंगेशः पिंगलनागः । यथा ।
रोमांचं जनयंती सुखयंती नेत्रयोर्युगं यूनाम्‌ ।
सद्यो मनांसि मदयति गीतिः स्त्रीणां मदेन मत्तानाम्‌ ॥ ८


आर्याद्वितीयकेंऽशे यद्गदितं लक्षणं तत्स्यात्‌ ।
यद्युभयोरपि दलयोरुपगीतिं तां मुनिर्ब्रूते ॥ ९

आर्याद्वितीयेऽर्धे यल्लक्षणमुक्तं तद्यदि द्वयोरप्यर्धयोर्भवति तामुपगीतिमिति पिंगलनागो मुनिर्ब्रूते । यथा ।
शारदचंद्रोद्योते पायंपायं मधु स्वैरम्‌ ।
पौरस्त्रीभिरभीष्टा क्रियते सोत्कण्ठमुपगीतिः ॥ ९

आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः ।
सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता ॥ १०

यस्या आर्याया उत्तरार्धलक्षणं पूर्वार्धे भवति पूर्वार्धलक्षणमुत्तरार्धे सा उद्गीतिः ।
यथा ।
मण्डपनगरवधूनामुद्गीतिं वत्समल्लारम्‌ ।
आकर्णयति स नूनं दूरादाभ्येति चन्द्रहरिणोऽपि ॥ १०

आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम्‌ ।
इतरत्तद्वन्निखिलं दलं यदीयमुदितैवमार्यागीतिः॥ ११

यद्यार्यायाः पूर्वार्धमुत्तरार्धं च निधनेऽवसाने एकेन गुरुणाधिकेन युक्तं भवति तदाऽऽर्यागीतिर्यथा ।
स्त्रीणां हर्षवतीनां सशिरःकम्पस्तुवन्ति (?) विगतविकल्पाः ।
अप्यार्यागीतिमिमामनेकलयसुन्दरामाकर्ण्य ॥
स्कन्धकमित्यिके । ११

॥ गीतिप्रकरणम्‌ ॥[सम्पाद्यताम्]

षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ।
न समाऽत्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥ १२

सिंहावलोकितन्यायेन ‘तृतीययुग्दक्षिणान्तिके’त्यादिसूत्रपठितः पादशब्दोऽत्र दृष्टव्यः । पैंगलीयसूत्रपादशब्दोपादानात्‌ । यथा ‘वैतालीयं द्विःस्वराऽयुक्पादेषु सर्वोऽन्तला’ इति । यत्र विषमे पादे प्रथमे तृतीये षट्कला मात्रा भवन्ति समे पादे द्वितीये चतुर्थे अष्टौ कला भवन्ति । अन्तेऽवसाने रगणलघू गुरुः च भवतस्तद्वृत्तं वैतालीयं नाम । उत्सर्गेण यथा । क्वचित्प्राये गुरुलघुभावेऽपवादमाह । न समाऽत्र पराश्रिता कलेति । समा द्वितीयचतुर्थादिका पराश्रिता तृतीयपंचमाद्याश्रिता न भवति । समे पादे द्वितीये चतुर्थे निर्गतमंतरं व्यवधानं यासां ता निरन्तरा अंतररहिता लघवो न भवेयुरित्यर्थः । यथा ।
प्रविशत्यनिशं निरर्गला सुपरित्यक्तविभूषणांशुका ।
विरहे तव सा वरांगना वैतालीयमुवाह विभ्रमम्‌ ॥ १२

पर्यन्ते र्यौ तथैव शेषं औपच्छंदसिकं सुधीभिरुक्तम्‌ । १३

षण्णामष्टानां च कलानां पर्यन्तेऽवसाने र्यौ रगणयगणौ भवतः । शेषं पूर्ववत्तदा वैतालीयमेव औपच्छंदसिकं नाम । यथा ।
बहुविप्रियकारकं परोक्षे प्रत्यक्षे प्रियचाटुकारदक्षम्‌ ।
शठवृत्तमिमं द्रुतं वयस्ये औपच्छंदसिकं विमुञ्च कान्तम्‌ ॥ १३

आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत्‌ । १४

‘यदा षड्विषमेऽष्टौ समे कला’ इत्यादि सर्वं पूर्ववद्भवति । विशेषोक्तौ भगणात्परौ गौ गुरू भवतः तदा वैतालीयमेवापातलिका नाम । यथा ।
नरनाथ भवंतमरीणां नाशकरं प्रसमीक्ष्य पुरस्तात्‌ ।
रिपवो जहति स्म भयार्ता आपातलिकां संगरभूमिम्‌ ॥
आपातलिकां अस्थिरामित्यर्थः ।
उक्तं च पिंगलवृत्तौ भट्टश्रीहलायुधेन । यथा ।
पिंगलकेशा कपिलाक्षी वाचाटा विकटोन्नतदन्ती ।
आपातलिका पुनरेषा नृपतिकुलेऽपि न भाग्यमुपैति ॥ १४

तृतीययुग्दक्षिणांतिका समस्तपादेषु द्वितीयलः । १५

वैतालीयमेव सर्वेष्वपि पादेषु द्वितीयो लघु तृतीयेन सह युक्तो भवति ‘न समाऽत्र पराश्रिता कले’ति बाधित्वा तदा दक्षिणान्तिका नाम । यथा ।
ववौ मरुद्दक्षिणान्तिको वियोगिनीनां प्राणहारकः ।
प्रकंपिताशोकचम्पके वसन्त एषोऽनंगबोधकः ॥ १५

उदीच्यवृत्तिर्द्वितीयलः सक्तोऽग्र्येण भवेदयुग्मयोः । १६

अयुग्मयोः प्रथमतृतीययोः पादयोः द्वितीयो लघुरग्रिमेन तृतीयेन लघुना सह युज्यते तदा वैतालीयमेवोदीच्यवृत्तिर्नाम यथा ।
गिरं मनोज्ञां पिकांगना मुदिताश्चिक्यत्स्वयमुद्गिरत्यसौ ।
उदीच्यवृत्तौ दिवाकरे सहकारोऽपि तनोति मञ्जरी ॥ १६

पूर्वेण युतोऽथ पंचमः प्राच्यवृत्तिरुदितेति युग्मयोः । १७

लघुरित्यनुवर्तते । समपादयोर्द्वितीयचतुर्थयोः पंचमो लघुः पूर्वेण चतुर्थेन लघुना सह युक्तो यदा स्यात्तदा प्राच्यवृत्तिर्नाम वैतालीयं भवति । यथा ।
स्वगुणैरनुरंजितप्रजः प्राच्यवृत्तपरिपालने रतः ।
रणभूमिषु भीमविक्रमो विंध्यवर्मनृपतिर्जयत्यसौ ॥ १७

यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम्‌ । १८

पूर्वोक्तयोरुदीच्यप्राच्यवृत्त्योः समौ सदृशौ ओजयुग्मकौ विषमसमौ पादौ यदा भवतः तदा वैतालीयमेव प्रवृत्तकं स्यात्‌ । यथा ।
प्रवृत्तकान्ते दुःरश्मिभिर्व्याप्तमंबरमिदं विलोक्यताम्‌ ।
गृहाण ताम्बूलमुत्तमं कोपमाशु विजहीहि कोपने ॥ १८

अस्य युग्मरचिताऽपरान्तिका । १९

अस्य प्रवृत्तकस्य समपादकृता समपादलक्षणयुक्तैश्चतुर्भिः पादै रचिता अपरान्तिका नाम । यथा ।
तुंगपीवरघनस्तनालसा चारुकुण्डलवती मृगेक्षणा ।
पूर्वचन्द्रवदनाऽपरान्तिका चित्तमुन्मदयतीयमंगना ॥ १९

अयुग्भवा चारुहासिनी । २०

प्रवृत्तकस्यैव विषमपादलक्षणयुक्तैश्चतुर्भिः पादैः रचिता चारुहासिनी नाम यथा ।
न कस्य चेतः समन्मथं करोति सा सुंदराकृतिः ।
विचित्रवाक्योक्तिपण्डिता विलासिनी चारुहासिनी ॥ २०

॥ वैतालीयप्रकरणम्‌ ॥[सम्पाद्यताम्]

वक्त्रं नाद्यान्नसौ स्यातामब्धेर्यो अनुष्टुभि ख्यातम्‌ । २१

‘पाद’ इत्यनुवर्तते । अनुष्टुभ्यष्टाक्षरायां जातौ पादस्य चतुर्थादक्षराद्यो यगणो यदा भवति तदा वक्त्रं नाम वृत्तं ख्यातं कथितम्‌ । अब्धेरिति निर्विशेषणत्वेनाद्यादक्षरान्नगणसगणौ न भवतः । यथा ।
अपाण्डुगण्डमाकर्णविशालनयनं सुभ्रु ।
विरहे चारुसर्वांग्यास्तस्याः स्मराम्यहं वक्त्रम् ॥ २१

युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम्‌ । २२

युजोः समपादयोर्चतुर्थादक्षराज्जेन जगणेन परेण वक्त्रमेव पथ्येति कीर्तितम् । यथा ।
त्वद्दन्तिदन्तलग्नोरुशाखाः पथ्यायताः द्रुमाः ।
कथयन्तीव भग्नानां दिग्जयं तव भूपते ॥ २२

ओजयोर्जेन वारिधेस्तदेव विपरीतादि । २३

विपरितपथ्येत्यर्थः । युक्पादे यगण एव कर्तव्यः । यथा ।
विपरीतान्यपि प्रियः कुर्वाणो मुदमाधत्ते ।
अनुकूलस्त्वसौ सदा तेन प्राणाधिको नूनम्‌ ॥ २३

चपलावक्त्रमयुजोर्नकारश्चेत्पयोराशेः । २४

यद्ययुजोर्विषमयोः पादयोश्चतुर्थादक्षरान्नगणो भवेत्‌ तदा वक्त्रमेव चपला भवति । युक्पादयोर्यगण एव । यथा ।
चपलापांगनयने पक्वबिम्बोष्ठि चन्द्रास्ये ।
स्वाधीनत्वं भज दयितं तारुण्यमस्थिरं यस्मात्‌ ॥ २४

यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता । २५

युक्पादे द्वितीयचतुर्थे लघुः सप्तमो यस्याः सा युग्मविपुला नाम । ननु पथ्यालक्षणसाम्यात्पुनरुक्तमेतत्‌ । नैवम्‌ । विपुलाधिकारस्येदानीमारभ्यमानत्वात्‌ विनाऽनुत्पत्तिः पथ्यालक्षणं त्वयुक्पादे अवश्यमेव यगणेन भवितव्यम्‌ । अत्र तु न नियमः । यथा ।
अहो कस्यापि धन्यस्य महाकुलप्रसूतया ।
प्रीतिः स्वकान्तया सार्धं विपुला जायते गृहे ॥ २५

सैतवस्याखिलेष्वपि । २६

सैतवस्याचार्यस्य मतेन चतुर्ष्वपि पादेषु सप्तमो लघुः कर्तव्यः । यथा ।
अहो धन्यस्य कस्यचित्सुकवेर्जायते मतिः ।
नूनं ययाधिक्रियते सैतवं काव्यमुत्तमम्‌ ॥ २६

भेनाब्धितो भाद्विपुला । २७

सैतवस्येति निवृत्तम्‌ । ‘चपलावक्त्रमयुजोर्नकारश्चेत्पयोराशे’रित्यनुवर्तते । ‘यस्यां लः सप्तमो युग्मे सा युग्मविपुला मते’ति सर्वमनुवर्तनीयम्‌ । अयुक्पादयोः प्रथमतृतीययोश्चतुर्थ्यादक्षरात्परयो यगणं बाधित्वा भगणश्चेद्भवति तदा भेनोपलक्षिता विपुला स्यात्‌ भविपुलेत्यर्थः । यथा ।
विशालाक्षी कामगजकुम्भाम्भविपुलस्तनी ।
मध्यक्षामा हंसगतिः कस्य न स्याद्गतिप्रदा ॥

अयुजोरिति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम्‌ व्यक्तिपक्षे पुनरेकस्य । एकपक्षे पुनः प्रथमस्य तृतीयस्य वा तथा चाहुर्महाकवयः ।
‘वटे वटे वैश्रवणश्चत्वरे चत्वरे शिव’ इति ।
‘यस्य प्रभाद्भुवनं शाश्वते पथि तिष्ठती’ति ।
‘उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता’ इति महाकविप्रयोगाः । २७

इत्थमन्या रश्चतुर्थात्‌ । २८

इत्थं पूर्वोक्तप्रकारेणायुक्पादयोश्चतुर्थादक्षरात्परतो रगणो भवति तदा रविपुला स्यात्‌ । यथा ।
तथा जितः शत्रुवर्गो राजन्‌ बाहुबलेन ते ।
सहान्तःपुरो यथाऽसौ ततार विपुला नदी ॥
व्यक्तिपक्षे प्रथमपादे यथा ।
[महाकविकालिदासवस्वाग्देवतागुरुम्‌ ।
यज्ञाने विषयाभ्यान्ति दर्पणे प्रतिबिम्बवत्‌ ।]
तृतीयपादे यथा ।
कामिनीभिः सह प्रीतिः कस्य नाम न रोचते ।
यदि न स्याद्वारिवीचिचंचलं हत जीवितम्‌ ॥ इति । २८

नोऽम्बुधेश्चेन्नविपुला । २९

अयुक्पादयोश्चतुर्थादक्षराच्चेन्नगणो भवतीति तदा नविपुला स्यात्‌ ।
लीलया येन विपुला दंष्ट्राग्रेणोद्धृता मही ।
बिभ्रता सौकरमपि वपुर्वन्दामि तं हरिम्‌ ॥
अत्रैव भारविकविर्यथा ।
युयुत्सुनेव कवचं किमामुक्तमिदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ॥
व्यक्तिपक्षे प्रथमपादे यथा ।
तव मंत्रकृतो मंत्रैर्दूरात्संशमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ इत्यादि ॥ २९

तोऽम्बुधेस्तत्पूर्वा भवेत्‌ । ३०

अयुक्पादयोः चतुर्थादक्षराच्चेत्तगणो भवति तदा तत्पूर्वं तविपुलेत्यर्थः । यथा ।
तृष्णेयं रे तात श्रियं संचितां विपुलां हरे –
द्विहाय तस्मात्तां भव सुखी वैराग्यसम्पदा ॥
व्यक्तिपक्षे प्रथमपादे यथा ।
लोकवत्प्रतिपत्तव्यो लौकिकोऽर्थः परीक्षकैः ।
लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥

अन्येति ग्रहणात्‌ मगणसगणविपुलाऽपि बोद्धव्या । यथा ममैव छन्दसि ।
‘अम्बुधौ नतभरमसा ओजे तद्युतविपुला भवेत्‌’ । यथा ।
सर्वातिरिक्तं सौभाग्यं बिभ्रती चारुलोचना ।
स्त्रीलोकसृष्टिः सौम्येव निः साम्यमस्य वेधसा ॥ (?)
व्यक्तिपक्षे प्रथमपादे यथा ।
मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम्‌ ॥ इति ।
तृतीयपादे यथा ।
अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यदिति ॥
सविपुला यथा ।
क्षणविध्वंसिनि काये का चिन्ता मरणे रणे । इति ।
सर्वेषां विपुलाभेदानां चतुर्थो वर्णः प्रायेण गुरुर्भवति । इत्याम्नायः ॥ ३०

॥ इति वक्त्रप्रकरणम्‌ ॥[सम्पाद्यताम्]


द्विकगुणितवसुलघुरचलधृतिरिति । ३१

द्वाभ्यां गुणिता वसवो अष्टौ लघव इत्यर्थः । षोडशभिर्लघुभिरचलधृतिर्नाम । यथा ।
इतरजनहितमितरमृतरमतिमनवरतमवनितिलकमिव सपदि ।
स्वयमपि जलनिधिजननिरतिलषति पुरुषवरमचलधृतिविभविनमिह ॥
गीत्यार्येति पिंगलः । ३१

मात्रासमकं नवमो ल्गन्तं । ३२

‘द्विकगुणितवसुलघु’रित्यनुवर्तते । यदा अचलधृतिरेव गुर्वन्तो भवति नवमोश्च लघुरेव तदा मात्रासमकं नाम ।
प्राक्सूत्राल्लघुरित्यनुवर्तमानेऽपि ‘नवमो लि’ति वदता सूत्रकारेणान्येषां लघु वोऽनुज्ञातस्तस्मा’न्न समाऽत्र पराश्रिता कले’त्यप्यनुवर्तनीयम्‌ । अत्रैव सूत्रे लक्ष्यलक्षणत्वात्‌ । यथा ।
धूलीधूसंस्कृततनशोभः प्रकटितनूतनवदनद्वंद्वः ।
प्रमुदितवदनो जटिलशिरस्कः खेलति मात्रासमकं बालः ॥ ३२

जो न्लावथाम्बुधेर्विश्लोकः । ३३

अम्बुधेर्लघुचतुष्टयात्परयोर्जगणो न्लौ नगणलघू यदा भवतस्तदा मात्रासमकमेव विश्लोको नाम । यथा ।
मुञ्चति तृणमिव गतविकल्पः पुत्रं प्रियमविश्लोकं यतः ।
संग्रामभुवि विजितारिसमूहः क्षोणीमिमां स साक्षदव्यात्‌ (?) ॥ ३३

तद्युगलाद्वानवासिका स्यात्‌ । ३४

तद्युगलादम्बुधियुगलाल्लघ्वष्टकात्परयो जगणो नगणलघू यदा भवतस्तदा वानवासिका भवेत्‌ । यथा ।
कुंकुमपंकानुलिप्तगात्रा मध्यक्षामा विपुलनितम्बा ।
अस्माकं वानवासिका स्त्री चेतःप्रीतिं सपदि विधत्ते ॥ ३४


बाणाष्टनवसु यदि लश्चित्रा । ३५

पंचमोऽष्टमो नवमो यदि चेल्लघुर्भवति तदा चित्रा नाम यथा ।
दृष्ट्वा तव रिपुनगरे शून्ये चित्रानि धवलगृहभित्तीनाम्‌ ।
यान्ति द्रुततरमिभयूथातित्रासम्‌ नरवरजनता बुद्ध्या ॥ ३५

अष्टाभ्योऽथ गलावुपचित्रा । ३६

लघ्वष्टकाद्यदा गुरुलघू भवतस्तदा उपचित्रा नाम । यथा ।
मानं मानिनि मुञ्च भज त्वं कान्तं यावदितीरितमाल्या ।
तावद्व्योम बभूव पुरस्तान्नक्षत्रैरुपचित्रितमेतत्‌ ॥ ३६

यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमकादिपादैः कलितम्‌ ।
अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु पादाकुलकम्‌ ॥ ३७

अतीतं प्रागुक्तं कृतं लक्ष्म लक्षणं येन तेन युतैः सहितैः मात्रासमकविश्लोकवानवासिकाचित्रोपचित्राणां पादैश्चरणैः कलितं युक्तं अनियतवृत्तपरिमाणसहितं अनियतममर्यादं वृत्तानां परिमाणं तेन सहितम्‌ । कोऽर्थः । मात्रासमकादीनां पञ्चानामपि पादैर्यैः कैश्चिदपि चतुर्भिः पादाकुलकमिति कथितम्‌ ।
अत्र मात्रासमकविश्लोकवानवासिकाचित्रोपचित्राणामुदाहरणम्‌ । यथा ।
दक्षिणमारुतचलिताशोके कोकिलकलरवमुदितालोके ।
मुग्धे मन्मथसुहृदवसन्ते पादाकुलकं याति पतिस्ते ॥
तथा विश्लोकोपचित्रादिपादैर्यथा ।
वाताहतदलपङ्कजनेत्रे असितदुकूलाच्छादितगात्रे ।
कथय सखि त्वं क्व नु मे व्यक्तं पादाकुलकं गच्छसि नक्तम्‌ ॥
एवमन्येऽपि महाकविप्रयोगा यथा ।
चत्वरमण्डपतरुमूलानि संचितसलिलान्यवकूलानि ।
क्वचिदपि न भवति भिक्षाहानिः तत्किं क्रियते मानम्लानिः ॥
अन्ते यमक इत्याम्नायः । ३७


अधुना गुरुलघुप्रमाणमाह ।
वृत्तस्य लो विना वर्णैर्गा वर्णा गुरुभिस्तथा ।
गुरवो लैर्दले नित्यं प्रमाणमिति निश्चितम्‌ ॥ ३८


यस्य कस्यचिद्वृत्तस्य लः कला मात्रा वर्णैरक्षरैर्विना गुरवो भवन्ति । वर्णा गुरुभिस्तथा ताः कला गुरुभिर्विना वर्णा न भवन्ति । गुरवो र्लैर्दलै नित्यं ता एव कला लैर्लघुभिर्विना दलेऽर्धे कृते सति गुरवो भवन्ति । यथा । अस्मिन्नेव वृत्ते एकपंचाशत्कलावर्णैः द्वात्रिंशद्भिर्विना एकोनविंशतिगुरवोः भवन्ति । पुनस्ता एव मात्रा एकोनविंशत्या गुरुभिर्विना द्वात्रिंशद्भवन्ति । पुनस्ता कला एकपंचाशत्त्रयोदशभिर्लघुभिर्विना अष्टत्रिंशद्भवन्ति । ततो दलेऽर्धे कृते सति एकोनविंशतिर्गुरवो भवन्तीति प्रमाणं नियतं वृत्तस्येति । ३८

शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम्‌ ।
सगुरुशकलयुगलकमपि सुपरिघटितललितपदनिचिति भवति शिखा ॥ ३९

शिखिभिस्त्रिभिर्गुणितैर्दशभिर्लघुभी रचितं कृतं तच्च तदपगतलघुयुगलं च तथोक्तं अष्टाविंशल्लघुकमित्यर्थः । अपरं द्वितीयमिदमर्धमखिलं संपूर्णं त्रिंशल्लघुकमित्यर्थः । शकलयुगलकमपि अर्धद्वयममपि सगुरु सह गुरुणा वर्ततेति सगुरु यदा भवति तदा शिखा नाम भवति । सुपरिघटितानि ललितपदानि तेषां निचिती रचनाविशेषा यत्र क्रियाविशेषणे तत्तथोक्तम्‌ । यथा ।
मलयपवनचलितसुविकचविचिकलमलिरधिवसति मुदितमनाः ।
शुभितसमयमुदितपिकयुवतिरपि परिमलबहुलबकुलतरुशिखा ॥
चूलिकेति वक्तव्ये । छंदोभंगभयाच्छिखेत्युक्तमेकार्थत्वान्न दोषः । ३९

विनिमयविहितशकलयुगललघुललितपदविततिरचितगणनिचया ।
श्रुतिसुखकृदियमपि जगति जशिर उपगतवति ञि सति भवति खजा ॥ ४०

सैव शिखा विनिमयेन व्यत्यासेन विहितं शकलयुगलमर्धद्वयं ललितपदवितत्या रचितगणनिचया यदा भवति तदा खजा नाम । क्व सति । ञि सति । ञि चवर्गीयपंचमस्य चवर्गीयतृतीयस्य शिर उर्ध्वविभागस्तस्मिन्नुपगतवति । कोऽर्थः । खञ्जेत्यर्थः । यथा ।
ससलिलसलिलधरवसुमुदितशिखिकुलविरचितकलकलनिकरे ।
सुपरिहृतनिजयुवतिगृहनभसि हत पथिक कथमसि गमा ॥
एकगुरूणि छंदसि खञ्जाशब्दस्य प्रवेशयितुमशक्यत्वान्नाम नोक्तम्‌ । ४१

अष्टावर्धे गा द्व्यभ्यस्ता यस्याः साऽनङ्गक्रीडोक्ता ।
दलमपपरमपि वसुगुणितसलिलनिधिलघुकविरचितपदवितति भवति । ४१

द्वाभ्यां गुणिताऽष्टौ गुरवो यस्याः सा षोडशगुरुः प्रथमेऽर्धे त्वपरमप्यर्धं वसुभिरष्टभिर्गुणिताः सलिलनिधिलघव इति द्वात्रिंशत्संख्या लैः रचितपदविततिः अनंगक्रीडा नाम ।
त्यक्तानङ्गक्रीडां मुक्तव्रीडां शत्रुक्षौणीपालाः ।
सुविषमवनभुवि विदधति भयमिव नरवरतिलकसुविजितरिपुनिवहाऽसौ ॥
सौम्येत्येके । ४१

त्रिगुणनवलघुरवसितिगुरुरिति दलयुगलकृततनुरतिरुचिरा । ४२

त्रिभिर्गुणितार्नव लघवो यस्यां सा तथोक्ता सप्ताविंशल्लघुरित्यर्थः । अवसितिरवसानं तस्मिन्‌ गुरुर्यस्याः सा तथोक्ता इति पूर्वोक्तप्रकारेण सप्तविंशल्लघवोऽन्ते गुरुः एवं दलयुगलकृततनुः विरचितशरीरा अतिरुचिरा नाम । यथा ।
समदगजगतिरुरुकुचयुगकृतनततनुरमलवदनकमला ।
अनवरतमपहरति मम हृदयमिह हि युवतिरियमतिरुचिरा ॥ ४२

॥ इति मात्रासमकप्रकरणम्‌ ॥[सम्पाद्यताम्]

इति सुल्हणविरचितायां सुकविहदयानन्दिन्याभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ मात्रावृत्ताध्यायो द्वितीयः समाप्तः ॥