सिद्धिप्रियस्तोत्रम् (देवनन्दिप्रणीतम्)

विकिस्रोतः तः
सिद्धिप्रियस्तोत्रम्
देवनन्दी
१९२६

श्रीदेवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रम् । सिद्धिप्रियैः प्रतिदिनं प्रतिभासमानै- र्जन्मप्रबन्धमथनैः प्रतिभासमानैः । श्रीनाभिराजतनुभूपदवीक्षणेन प्रापे जनैर्वितनुभूपदवी क्षणेन ॥१॥ येन स्मरास्त्रनिकरैरपराजितेन सिद्धिर्वधूर्ध्रुवमबोधि पराजितेन । १. जन्माभिषेके. २. स्तोत्रस्यास्य त्रिचतुराणि मूलपुस्तकान्येवोपलब्धानि, टीका तुन प्राता. एकस्मिन्मूलपुस्तके टिप्पणं वर्तते तदेवात्रोद्धृतम्, ३. देदीप्यमानैः. ४. प्रतिभया- जुपमैः, ५. नाभिराजतनुभूर्वृषभनाथखामी तवरणविलोकानेन. ६. वितनवो मुक्तास्तेषां भूर्मोक्षभूमिस्तस्याः पदवी मार्गो रत्नत्रयात्मकः, ७. परा उत्कृष्टा, अजितेन एतन्नात्रा जिनेन. सिद्धिप्रियस्तोत्रम् । संवृद्धधर्मसुधिया कविराजमानः (१) क्षिप्रं करोतु यशसा स विराजमानः ॥ २ ॥ श्रुत्वा वचांसि तव संभव कोमलानि नो तृप्यति प्रवरसंभव कोऽमलानि । देवप्रमुक्तसुमनोभवनाशनानि स्वार्थस्य संमृतिमनोभवनाशनानि ॥ ३ ॥ यस्मिन्विभाति कलहंसरवैरशोक- शिछन्धात्स मिन्नभवमत्सरवैरशोकः । देवोऽभिनन्दनजिनो गुरु मेऽधजालं शम्पेव पर्वततटं गुरुमेघजालम् ॥ ४ ॥ येन स्तुतोऽसि गतकुन्तल तापहार चक्रासिचापशरकुन्तलतापहार । भव्य प्रभो सुमतिनाथ बरानतेन कामाश्रिता सुमतिनाथ वरा न तेन ॥ ५ ॥ मोहप्रमादमदकोपरतापनाशः पञ्चेन्द्रियाश्वदमकोऽपरतापनाशः । पद्मप्रभुर्दिशतु मे कमलां वराणां मुक्तात्मनां विगतशोकमलाम्बराणाम् ॥ ६॥ ये त्वां नमन्ति विनयेन महीनभोगाः श्रीमत्सुपार्श्व विनयेनमहीनभोगाः । ते भक्तभव्यसुरलोक विमानमाया ईशा भवन्ति सुरलोकविमानमायाः ॥ ७ ॥ आकर्ण्य तावकवचोऽवनिनायकोऽपि शान्ति मनः समधियावनिनाय कोपि । १. संभवेति जिननाम. २. हे देव, प्रमुक्तसुमनोभवन, अश(स)नानि प्रेरकाणि स्वार्थस्य, ३. हे वर, आनतेन, ४. लक्ष्मीः. ५. विनयस्येनं प्रभुम् , अहीनभोगा. ६. देवलोकव्योमयानश्रिया. ७. कोपयुक्तं मनः शान्तिमबनिनाय. ३२ काव्यमाला। चन्द्रप्रभ प्रभजति स रमा विना शं दोर्दण्डमण्डितरतिस्परमाविनाशम् ॥ ८ ॥ श्रीपुष्पदन्त जिनजन्मनि काममाशा यामि प्रिये वितनुतां च निकाममाशाः । इत्थं रतिं निगदतातनुना सुराणां स्थानं व्यधायि हृदये तनुना सुराणाम् ॥ ९॥ श्रीशीतलाधिप तवाधिसभं जनानां भव्यात्मनां प्रसृतसंसृतिभञ्जनानाम् । प्रीतिं करोति विततां सुरसारमुक्ति- मुक्तात्मनां जिन यथा सुरसार भुक्तिः ॥ १० ॥ पादद्वये मुदितमानसमानतानां श्रेयान्मुने विगतमान समानतानाम् । शोभां करोति तव कांचन मा सुराणां देवाधिदेव मणिकाश्चनभासुराणाम् ॥ ११ ॥ घोरान्धकारनरकक्षतवारणानि श्रीवासुपूज्यजिन दक्ष तारणानि । मुक्त्यै भवन्ति भवसागरतारणानि वाक्यानि चित्तभवसागरतारणानि ॥ १२ ॥ भव्यप्रजाकुमुदिनीविधुरञ्जनानां हन्ता विभासि दलयन्विधुरं जनानाम् । इत्यं स्वरूपमखिलं तव ये विदन्ति राज्यं भजन्ति विमलेश्वर तेऽविदन्ति ॥ १३ ॥ १. द्वितीयाबहुवचनम्. २. सुखम्, ३. दोर्दण्डमण्डितरसेः स्मरस्य माया लक्ष्म्याश्च बिनाशो यस्मिन्सुखे, मोक्षमुखमिति भावः. ४. सूक्ष्मेण. ५. सुशब्दां रतिम्. ६. मु- रसा-अरं-उक्तिः. ७. हे सुरश्रेष्ठ. ८. मानत्वेन सहवर्तमानानाम्. १. अरणानि युद्धनि- षेधकानि. १०.चित्तभवमाया कामलक्ष्म्या गरता विषत्वं तां रणन्ति कथयन्ति तानि. ११. कल्मषाणाम् १२. विगता दन्तिनो यस्मात्तद्विदन्ति, न विदन्ति अविदन्ति. हस्तियुकं राज्यमित्यर्थः. १२ सिद्धिप्रियस्तोत्रम् । स्वर्गापवर्गसुखपात्र जिनातिमात्रं यस्त्वां स्मरन्भुवनमित्र जिनाति मात्रम् । श्रीमन्ननन्त वर निर्वृतिकान्त कान्तां भव्यः स याति पदवीं व्रतिकान्तकान्ताम् ॥ १४ ॥ जन्माभिषेकमकरोत्सुरराजनामा यस्याश्रितो गुणगणैः सुरराज नामा । धर्मः करोत्वनलसं प्रति बोधनानि सिद्ध्यै मनः सपदि संप्रति वो धनानि ॥ १५॥ नास्तानि यानि महसा विधुनामितानि चेतस्तमांसि तपसा विधुनामि तानि । इत्याचरन्वरतपो गतकामिनीति शान्तिः पदं दिशतु मेऽगतकामिनीति ॥ १६ ॥ कुन्थुः क्षितौ क्षितिपतिर्गतमानसेनः पूर्वं पुनर्मुनिरभूद्धतमानसेनः । योऽसौ करोतु मम जन्तुदयानिधीनां संवर्धनानि विविधर्द्ध्युदयानि धीनाम् ॥ १७ ।। या ते शृणोति नितरामुदितानि दानं यच्छत्यमीप्सति न वा मुदिता निदानम् । सा नो करोति जनता जनकोपितापि चित्तं जिनार गुणभाजन कोपि तापि ॥ १८॥ मल्लेर्वचांस्यनिकृतीनि संभावनानि धर्मोपदेशमकृतीनि संभावनानि । १. जीर्यते वृद्धो भवति. २. मां मोक्षलक्ष्मीं त्रायते मात्रस्तम्, ३. मुक्तिप्रभो. ४. हे व्रतिक बतदानदक्ष, अन्तकान्तां यमस्य विनाशकां पदवीम्, ५. ना पुरुषो गुणगणैः अमा सह सुछु रराज. ६. गता कामिना नीतियस्मात्तपसः. ७, अगतान प्राप्ता कामिन्य ईतयच यत्र तादृशं पदम्. ८. अप्रमाणा सेना यस्य. ९. आगामिवाञ्छाम्. १०. हे जिन, हे अर. ११. कोपयुक्तं तापयुक्तं च चित्तं नो करोति. १२. भावनग्रा सहितानि. १३. सभाया अवनानि. काव्यमाला। कुर्वन्तु भव्यनिवहस्य नभोगतानां मङ्क्षु श्रियं कृतमुदं जनभोगतानाम् ॥ १९ ॥ संस्तूयसे शुभवता मुनिना यकेन नीतो जिनाशु भवता मुनिनायकेन नाथेन नाथ मुनिसुव्रत मुक्तमानां मुक्तिं चरन्स मुनिसुव्रतमुक्तमानाम् ॥ २० ॥ चित्तेन मेरुगिरिधीर दयालुनासि सर्वोपकारकृतधीरदया लुनासि । इत्थं स्तुतो नमिमुनिर्मम तापसानां लक्ष्मीं करोतु मम निर्ममतापसानाम् ॥ २१ ॥ येनोद्धशृङ्गगिरनारगिराविनापि नेमिः स्तुतोऽपि पशुनापि गिरा विनापि । कंदर्पदर्पदलनः क्षतमोहतान- स्तस्य श्रियो दिशतु दक्षतमोऽहता नः ॥ २२ ॥ गन्धर्वयक्षनरकिंनरदृश्यमानः प्रीतिं करिष्यति न किं नरदृश्यमानः । भानुप्रभापविकसत्कमलोपमायां पार्श्वः प्रसूतजनताकमलोऽपमायाम् ॥ २३ ॥ श्रीवर्धमानवचसा परमाकतेण रत्नत्रयोत्तमनिधेः परमाकरेण । कुर्वन्ति यानि मुनयोऽजनता हि तानि वृत्तानि सन्तु सततं जनताहितानि ॥ २४ ॥ १. देवानां जनभोगस्य तानो विस्तारो यस्यां तां श्रियं भव्यनिवहस्य कुर्वन्तु. २. यकेन येन. ३. कथितप्रमाणाम् ४. निःशेषेण मतामपस्यन्तीति निर्ममताप- सास्तेषाम्. ५, उद्धशब्दः प्रशंसावचनः प्रशस्तशिखरे गिरिनारि पर्वते..६.इना कामे नापि. ७. मनुष्यमानदृष्टौ.' ८. प्रसूता प्रकटीकृता जनतार्थ कमला लक्ष्मीर्येन. ९. श्रीम- हावीरखामिवाक्येन. १०. परमेणाकरेण खनिरूपेण. ११. परलक्ष्मीकरण. १२. जन- तातो बहिर्भूताः अलौकिका इत्यर्थः. 34 सूक्तिमुक्तावली । वृत्तात्समुल्लसितचित्तवचःप्रसूतेः श्रीदेवनन्दिमुनिचित्तवचः प्रसूतेः । यः पाठकोऽल्पतरजल्पकृतेस्त्रिसंध्यं लोकत्रयं समनुरञ्जयति त्रिसंध्यम् (१) ॥ २५ ॥ तुष्टिं देशनया जनस्य मनसो येन स्थितं दित्सता सर्वं वस्तु विजानता शमवता येन क्षता कृच्छ्रता । भव्यानन्दकरेण येन महतां तत्त्वप्रणीतिः कृता तापं हन्तु जिनः स मे शुभधियां तातः सतामीशिता ॥ २६ ॥ इति श्रीदेवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रम् ।