साहित्यदर्पणम्/दशमः परिच्छेदः

विकिस्रोतः तः
Jump to navigation Jump to search
← नवमः परिच्छेदः साहित्यदर्पणम्
दशमः परिच्छेदः
विश्वनाथः

     अथावसरप्राप्तानलङ्कारानाह--

शब्दार्थयोरस्थिरा यो ध्रर्माः शोभातिशायिनः ।
रसादीनुपकुर्वन्तोऽलङ्कारास्तेऽङ्गदादिवत् ।। सूत्र १०.१ ।।

     यथा अङ्गदादयः शरीरशोभातिशायिनः शरीरिणमुपकुर्वन्ति, तथानुप्रासोपमादयः शब्दार्थशोभातिशायिनो रसादेरुपकारकाः ।
अलङ्कारा अस्थिरा इति नैषां गुणवदावश्यरकी स्थितिः । शब्दार्थयोः प्रथमं शब्दस्य बुद्धिविषयत्वाच्छब्दालङ्कारेषु वक्तव्येषु शब्दार्थालङ्कास्यापि पुनरुक्तवदाभासस्य चिरन्तनैः शब्दालङ्कारमध्ये लक्षितत्वात्प्रथमं तमेवाह--

आपाततो यदर्थस्य पौनरुक्त्येन भासनं ।
पुनरुक्तवदाभासः स भिन्नाकारशब्दगः ।। सूत्र १०.२ ।।

भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः ।
जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ।।

     अत्र भुजङ्गकुण्डल्यादिशब्दानामापातमात्रेण सर्पाद्यर्थतया पौनरुक्त्यप्रतिभासनं । पर्यवसाने तु भुजङ्गरूपं कुण्डलं विद्यते यस्येत्याद्यन्यार्थत्वं ।'पायादव्यात्' इत्यत्र क्रियागतोऽयमलङ्गारः, 'पायात्' इत्यास्य 'अपायात्' इत्यत्र पर्यवसानात् ।
'भुजङ्गकुण्डली' इति शब्दयोः प्रथमस्यैव परिवृत्तिसहत्वं ।
'हरः शिवः' इति द्वितीयस्यैव ।
'शशिसुभ्रांशु' इति द्वयोरपि ।
'भाति सदानत्यागः' इति न द्वयोरपि ।
इति शब्दपरिवृत्तिसहत्वासत्वाभ्यामस्योभयालङ्कारत्वं ।
अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत् ।
     स्वरमात्रसादृश्यं तु वैचित्र्याभावान्न गणितं । रसाद्यनुगतत्वेन प्रकर्षेण न्यासोऽनुप्रासः ।

छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा ।। सूत्र १०.३ ।।

     छेकश्छेकानुप्रासः । अनेकधेति स्वरूपतः क्रमतश्च । रसः सर इत्यादे क्रमभेदेन सादृश्यं नास्यालङ्कारस्य विषयः । उदाहरणं मम तातपादानाम्--

'आदाय बकुलगन्धानन्धीकुर्वन्पदे पदे भ्रमरान् ।
अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः ।।'

     अत्र गन्धनन्धीतिसंयुक्तयोः, कावेरीवारीत्यसंयुक्तयोः, पावनः पवन इति व्यञ्जनानां बहूनां सकृदावृत्तिः । छेको विदग्धस्तत्प्रयोज्यत्वादेष छेकानुप्रासः ।

अनेकस्यैकधा साम्यमसकृद्वाष्यनेकधा ।
एकस्य सकृदष्येण वृत्त्यनुप्रास उच्यते ।। सूत्र १०.४ ।।

     एकधा स्वरूपत एव, न तु क्रमतोऽपि । अनेकधा स्वरूपतः क्रमतश्च । सकृदपीत्यपि शब्दादसकृदपि । उदाहरणम्--

'उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-

क्रीडत्कोकिलकाकलीकलकलैरुद्रीर्णकर्णज्वराः ।
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण-

प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ।।'

     अत्र 'रसोल्लासैरमी' इति रसयोरेकधैव साम्यम्, न तु तेनैव क्रमेणापि । द्वितीये पादे, कलयोरसकृत्तेनैव क्रमेण च ।
प्रथमे एकस्य मकारस्य सकृत्, धकारस्य चासकृत् । रसविषयव्यापारवती वर्णरचनावृत्तिः, तदनुगतत्वेन प्रकर्षेण न्यसनाद्वृत्त्यनुप्रासः ।

उच्चार्यत्वाद्यदेकत्र स्थाने तालुरदादिके ।
सादृश्यं व्यञ्जनस्यैव श्रुत्यनुप्रास उच्यते ।। सूत्र १०.५ ।।

उदाहरणम्--

'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः ।।'

     अत्र 'जीवयन्ति' इति, 'याः' इति, 'जयिनीः' इत । अत्र जकारयकारयोरेकत्र स्थाने तालावुच्चार्यत्वात्सादृश्यं । एवं दन्त्यकण्ठ्यानामप्युदाहार्यं । एष च सहृदयानामतीव श्रुतिसुखावहत्वाच्छ्रत्यनुप्रासः ।

व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु ।
आवर्त्यतेऽन्त्ययोज्यत्वादन्त्यानुप्रास एव तत् ।। सूत्र १०.६ ।।

     यथावस्थमिति यथासम्भवमनुस्वारविसर्गस्वरयुक्ताक्षरविशिष्टं । एष च प्रायेण पादस्य पदस्य चान्ते प्रयोज्यः । पदान्तगो यथा मम--
     केशः काशस्तवकविकासः कायः प्रकटितकरभविलासः ।
     चक्षुर्दग्धवराटककल्पं त्यजति न चेतः काममनल्पं ।।
     पदान्तगो यथा---

'मन्दं हसन्तः पलकं वहन्तः' इत्यादि ।

शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्यमात्रतः ।
लाटानुप्रस इत्युक्तो--

उदाहरणम्---

स्मेरराजीवनयने नयने किं निमीलिते ।
पश्य निजिंतकन्दर्पं कन्दर्पवशगं प्रियं ।।

     अत्र विभक्त्यर्थस्य पौनरुक्त्येऽपि मुख्यतरस्य प्रातिपदिकांशद्योत्यधर्मिरूपस्य भिन्नार्थत्वाल्लाटानुप्रासत्वमेव ।

'नयने तस्यैव नयने च ।'

     अत्र द्वितीयनयनशब्दो भग्यत्त्वादिगुणविशिष्टत्वरूपतात्पर्यमात्रेण भिन्नार्थः । यथा वा---

'यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।
यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।।'

     अत्रानेकपदानां पौनरुक्त्यं । एष च प्रायेण लाटजनप्रियत्वाल्लाटानुप्रासः ।

--ऽनुप्रासः पञ्चधा ततः ।। सूत्र १०.७ ।।

     स्पष्टं ।

सत्यर्थे पृथागर्थायाः स्वरव्यञ्जनसंहतेः ।
क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ।। सूत्र १०.८ ।।

     अत्र द्वयोरपि पदयोः क्वचित्सार्थकत्वं, क्वचिन्निरर्थकत्वं । क्वचिदेकस्य सार्थकत्वमपरस्य निरर्थकत्वं । अत उक्तम्--'सत्यर्थे' इति ।
'तेनैव क्रमेण' इति दमो मोद इत्यादेर्विविक्तविषयत्वं सूचितं ।
एतच्च पादपादर्ध्दश्लोकावृत्तित्वेन पादाद्यावृत्तेश्चानेकविधतया प्रभूततमभेदं । दिङ्मात्रमुदाह्रियते--

'नवपलाश-पलाशवनं पुरः स्फुटपराग-परागत-पङ्कजं ।
मृदुल-तान्त-लतान्तमलोकयत्स सुरभि सुरिभिं सुमनोभरैः ।।'

     अत्र पदावृत्तिः 'पलाशपलाश' इति 'सुरभिं सुरभिं' इत्यत्र च द्वयोः सार्थकत्वं । 'लतान्तलतान्त' इत्यत्र प्रथमस्य निरर्थकत्वं ।
'परागपराग' इत्यत्र द्वितीयस्य । एवमन्यत्राप्युदाहार्यं ।

'यमकादौ भवेदैक्यं डलोर्बवोर्लरोस्तथा ।'

इत्युक्तनयात्'भुजलतां जडतामबलाजनः' इत्यत्र नं यमकत्वहानिः ।

अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद्यदि ।
अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ।। सूत्र १०.९ ।।

द्विधेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च ।
क्रमेणोदाहरणम्--

'के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषाश्रयः

किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः ।
वामा यूयमहो विडम्बरसिकः कदृक्स्मरो वर्तते

येनास्मासु विवेकशून्यमनसः पुंस्वेव योषिद्रभ्रमः ।।'

     अत्र विशेषपदस्य 'विः पक्षी' 'शेषो नागः' इत्यर्थद्वययोग्यत्वात्सभङ्गश्लेषः । अन्यत्र त्वभङ्गः ।

'काले कोकिलवाचाले सहकारमनोहरे ।
कृतागसः परित्यागात्तस्याश्चेतो न दूयते ।।'

     अत्र कयाचित्सख्या निषेधार्थे नियुक्तो नञ् अन्यथा काक्वा दूयत एवेति विध्यर्थे घटितः ।

शब्दैरेकविधैरेव भाषासु विविधास्वपि ।
वाक्यं यत्र भवेत्सोऽयं भाषासम इतीष्यते ।। सूत्र १०.१० ।।

     यथा मम--

'मञ्जुलमणिमञ्जीरे कलगम्भीरे विहारसरसीतीरे ।
विरसासि केलिकीरे किमीलि धीरे च गन्धसारसमीरे ।।'

     एष श्लोकः संस्कृत-प्राकृत-शौरसेनी-प्राच्यावन्तीनागरापभ्रंशेष्वेकविध एव ।

'सरसं कैणं कव्वम् ।'

     इत्यादौ तु 'सरसम्' इत्यत्र संस्कृतप्राकृतयोः साम्येऽपि वाक्यगतत्वाभावे वैचित्र्याभावान्नायमलङ्कारः ।

श्लिष्टैः पदैरनैकार्थाभिधाने श्लेष इष्यते ।

वणप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि ।। सूत्र १०.११ ।।

श्लेषाद्विभक्तिवचनभाषाणामष्टधा च सः ।

     क्रमेणोदाहरणम्--

'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
          अवलम्बनाय दिनभर्त्तुरभून्न पतिष्यतः करसहस्त्रमपि ।।'

अत्र 'विधौ' इति विधुविधिशब्दयोरुकारेकारयोरौकाररूपत्वाच्छ्लेषः ।

'किरणा हरिणाङ्कस्य दक्षिणश्च समीरणः ।
          कान्तोत्सङ्गजुषां नूनं सर्व एव सुधाकिरः ।।'

     अत्र 'सुधाकिरः' इति क्विप्-क-प्रत्ययोः । किं चात्र बहुवचनैकवचनयोरैकरूप्याद्वचनश्लेषोऽपि ।

'विकसन्नेत्रनीलाब्जे तथा तन्व्याः स्तनद्वयी ।
          तव दत्तां सदामोदं लसत्तरलहारिणी ।।'

     अत्र नपुंसकस्त्रीलिङ्गयोः श्लेषो वचनश्लेषोऽपि ।

'अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति ।
          सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः ।।'

     अत्र 'वक्ष्यति' इति वहि-वच्योः, 'सामर्थ्यकृत्' इति कृन्तति-करोत्योः प्रकृत्योः ।
     'पृथुकार्तस्वरपात्रम्-' इत्यादि । अत्र पदभङ्गे विभक्तिसमासयोरपि वैलक्षण्यात्पदश्लेषः, न तु प्रकृतिश्लेषः । एवञ्च--

'नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः ।
      सदृशे वनवृद्धानां कमलानां तदीक्षणे ।।'

     अत्र लुब्धशिलीमुखादिशब्दानां श्लिष्टत्वेऽपि विभक्तेकभेदात्प्रकृतिश्लेषः, अन्यथा सर्वत्र पदश्लेषप्रसङ्गः ।

'सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः ।
नयोपकारसांमुख्यमायासि तनुवर्तनम् ।।'

     अत्र 'हर' इति पक्षे शिवसम्बोधनमिति सुप् । पक्षे हृधातोस्तिङिति विभक्तेः । एवं 'भव' इत्यादौ । अस्य च भेदस्य प्रत्ययश्लेषेणापि गतार्थत्वे प्रत्ययान्तरासाध्यसुबन्ततिङन्तगतत्वेन विच्छित्तिविशेषाश्रयणात्पृथगुक्तिः ।

'महदे सुरसन्धं मे तमव समासङ्गमागमाहरणे ।
हर बहुसरणं तं चित्तमाहेमवसर उमे सहसा ।।'

अत्र संस्कृतमहाराष्ट्रयोः ।
संस्कृतपैशाच्योर्यथा--
(ख)'कमनेकतमादानं सुरतनरजतुच्छलं तदासीनं ।
अप्पतिमानं खमते सोऽगनिकानं नरं जेतुम् ।।'
कामे कृतामोदानां सुवर्णरजतोच्छलद्दासीनां ।
अप्रतिमानं क्षमते स गणिकानां न रञ्जयितुं ।।
इति पैशाचीच्छाया ।
संस्कृतशूरसेन्योर्यथा--
(ग)'तोदीसदिगगणमदोऽकलहं स सदा बलं विदन्तरिदं ।
आरदमेहावसरं सासदमारं गदा भारम् ।।'
ततो दृश्यते गगनमदः कलहंसशतावलम्बितान्तरितं ।
आरतमेद्यावसरं शाश्वतमारं गतासारम् ।।'
इति शूरसेनीच्छाया ।
संस्कृतापभ्रंशयोर्यथा--
(घ)'धीरागच्छदुमे हृतमुदुद्धर वारिसदः सु ।
अभ्रमदप्प्रसराहरणुरविकिरणातेजः सु ।।

पुनस्त्रिधा सभङ्गोऽथाभङ्गस्तदुभयात्मकः ।। सूत्र १०.१२ ।।

     एतद्भेदत्रयं चोक्तभेदाष्टके यथासम्भवं ज्ञेयं ।
     यथा वा--

'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो

यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामरा ।

पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ।।'

     अत्र 'येन-' इत्यादौ सभ्ङ्गश्लेषः । 'अन्धक-' इत्यादावभङ्गः । अनयोश्चैकत्र सम्भवात्सभङ्गाभङ्गात्मको ग्रन्थगौरवभयात्पृथङ्नोदाहृतः ।
     अत्र केचिदाहुः--'सभङ्गश्लेष एव शब्दश्लेषविषयः । यत्रोदात्तादिस्वरभेदाद्भिन्नप्रयत्नोच्चार्यत्वेन भिन्नयोः शब्दयोर्जतुकाष्ठन्यायेन श्लेषः । अभङ्गस्त्वर्थश्लेष एव । यत्र स्वराभेदादभिन्नप्रयत्नोच्चार्यतया शब्दाभेदादर्थयोरेकवृन्तगतफलद्वयन्यायेन श्लेषः । यो हि यदाश्रितः स तदलङ्कार एव । अलङ्कार्यालङ्कारणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तिः' इति । तदन्ये न क्षमन्ते ।
      तथाहि--अत्र ध्वनिगुणीभूतव्यङ्ग्यदोषगुणालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेरन्वयव्यतिरेकानुविधायित्वेन नियं इति । न च 'अन्धकक्षय' इत्यादौ शब्दाभेदः, 'अर्थभेदेन शब्दभेदः' इति दर्शनात् । किं चात्र शब्दस्यैव मुख्यतया वैचित्र्यबोधोपायत्वेन कविप्रतिभयोट्टङ्कनाच्छब्दालङ्कारत्वमेव । विसदृशशब्दद्वयस्य बन्धे चेवंविधस्य वैचित्र्याभावाद्वैचित्र्यस्यैव चालङ्कारत्वात् ।
अर्थमुखप्रेक्षितया चार्थालङ्कारत्वेऽनुप्रासादीनामपि रसादिपरत्वेनार्थमुखप्रेक्षितयार्थालङ्कारत्वप्रसङ्गः । शब्दस्याभिन्नप्रयत्नोच्चार्यत्वेनार्थालङ्कारत्वे 'प्रतिकूलतामुपगते हि विधौ' इत्यादौ शब्दभेदेऽप्यर्थालङ्कारत्वं तथापि प्रसज्यत इत्युभयत्रापि शब्दालङ्कारत्वमेव ।यत्र तु शब्दपरिवर्त्तनेऽपि न श्लेषत्वखण्डना, तत्र--

'स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिं ।
अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ।।'

     इत्यादावर्थश्लेषः । अस्य चालङ्कारान्तरविविक्तविषयताया असम्भवाद्विद्यमानेष्वलङ्कारान्तरेष्वपवादत्वेन तद्वाधकतया तत्प्रतिभोत्पत्तिहेतुत्वमिति केचित् ।
     इत्थमत्र विचार्यते--समासोक्त्यप्रस्तुतप्रशांसादौ द्वितीयार्थस्यानभिधेयतया नास्य गन्धोऽपि । 'विद्वन्मानसहंस--' इत्यादौ श्लेषगर्भे रूपकेऽपि मानसशब्दस्य चित्तसरोरूपोभयार्थत्वेऽपि रूपकेण श्लेषो बाध्यते । सरोरूपस्यैवार्थस्य विश्रान्तिधामतया प्राधान्यात्, श्लेषे ह्यर्थद्वयस्यापि समकक्षत्वं । 'सन्निहितबालान्धकारा भास्वन्मूर्तिश्च' इत्यादौ विरोधाभासेऽपि विरुद्धार्थस्य प्रतिभातमात्रस्य प्ररोहाभावान्न श्लेषः । एवं पुनरुक्तवदाभासेऽपि ।

     तेन 'येन ध्वस्त-' इत्यादौ प्राकरणिकयोः, 'नीतानाम्-' इत्यादावप्रकारणिकयोरेकधर्माभिसंबन्धात्तुल्ययोगितायाम्,
'स्वेच्छोपजातविषयोऽपि न याति वक्तुं

देहीति मार्गणशतैश्च ददाति दुः खं ।
मोहात्समुत्क्षिपति जीवनमप्यकाण्डे

कष्टं प्रसूनविशिखः प्रभुरल्पबुद्धिः ।।'

     इत्यादौ च प्राकरणिकाप्राकरणिकयोरेकधर्माभिसम्बन्धाद्दीपके । 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव ।'
इत्यादौ चोपमायां विद्यमानायामपि श्लेषस्यैतद्विषयपरिहारेणासंभवादेषां च शलेषविषयपरिहारेणापि स्थितेरेतद्विषये श्लेषस्य प्राधान्येन चमत्कारित्वप्रतीतेश्च श्लेषेणैव व्यपदेशो भवितुं युक्तः, अन्यथा तद्व्यापदेशस्य सर्वथा भावप्रसङ्गाच्चेति ।
     अत्रोच्यते--न तावत्परमार्थतः श्लेषस्यालङ्कारान्तराविविक्तविषयता 'येनध्वस्त-' इत्यादिना विविक्तविषयत्वात् । न चात्र तुल्ययोगिता, तस्याश्च द्वयोरप्यर्थयोर्वाच्यत्वनियमाभावात् । अत्र च माधवोमाधवयोरेकस्य वाच्यत्वनियमे परस्य व्यङ्ग्यत्वं स्यात् ।
     किञ्च--तुल्ययोगितायामप्येकस्यैव धर्मस्यानेकधर्मिसंबन्धितया प्रतीतिः । इह त्वनेकेषां धर्मिणां पृथक्पृथग्धर्मसंबन्धतया ।
'सकलकलम्--' इत्यादौ च नोपमाप्रतिभोत्पत्तिहेतुः श्लेषः । पूर्णोपमाया निर्विषयत्वापत्तेः 'कमलमिव मुखं मनोज्ञमेतत्' इत्याद्यस्ति पूर्णोपमाया विषय इति चेत्? न, यदि 'सकल-' इत्यादौ शब्दश्लेषतया नोपमा तत्किमपराद्धं 'मनोज्ञम्' इत्यादावर्थश्लेषेण ।

'स्फुटमर्थालङ्कारावेतावुपमासमुच्चयौ, किन्तु ।
आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः ।।'

      इति रुद्रटोक्तदिशा गुणक्रियासाम्यवच्छब्दसाम्यस्याप्युपमाप्रयोजकत्वात् । ननु गुणक्रियासाम्यस्यैवोपमाप्रयोजकता युक्ता, तत्र साधर्म्यस्य वास्तवत्वात् । शब्दसाम्यस्य तु न तथा, तत्र साधर्म्यस्यावास्तवत्वात् । ततश्च पूर्णोपमाया अन्यथानुपपत्त्या गुणक्रियासाम्यस्यैवार्थश्लेषविषयतयाः परित्यागे पूर्णोपमाविषयता युक्ता, न तु 'सकल-' इत्यादौ शब्दसाम्यस्यैवेति चेत्? न-'साधर्म्यमुपमा' इत्येवाविशिष्टस्योपमालक्षणस्य शब्दसाम्याद्व्यावृत्तेरभावात् । यदि च शब्दसाम्ये साधर्म्यमवास्तवत्वान्नोपमाप्रयोजकम्, तदा कथं 'विद्वन्मानस--' इत्यादावाधारभूते चित्तादौ सरोवराद्यारोपो राजादेहसाद्याहोपप्रयोजकः ।
     किञ्च । यदि वास्तवसाम्य एवोपमाङ्गीकार्या, तदा कथं त्वयापि 'सकलकलम्-' इत्यादौ बाध्यभूतोपमाङ्गीक्रियते ? किञ्च अत्र श्लेषस्यैव साम्यनिर्वाहकता, न तु साम्यस्य श्लेषनिर्वाहकता, श्लेषबन्धतः प्रथमं साम्यस्यासंभवात्, इत्युपमाया एवाङ्गित्वेन व्यपदेशो ज्यायान्'प्रधानेन हि ब्यपदेशा भवन्ति' इति न्यायात् ।
     ननु शब्दालङ्कारविषयेऽङ्गाङ्गिभावसङ्करो नाङ्गीक्रियते तत्कथमत्र श्लेषोपमयोरङ्गाङ्गभावः सङ्कर इति चेत्? न, अर्थानुसंधानविरहिण्यनुप्रासादावेव तथानङ्गीकारात् । एवं दीपकादावपि ज्ञेयं ।

'सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ।।'

     अत्र शरद्वर्णनया प्रकरणेन धार्तराष्ट्रादिशब्दानां हंसाद्यर्थाभिधाने नियमनाद्दुर्योधनादिरूपोर्ऽथः शब्दशक्तिमूलो वस्तुध्वनिः । इह च प्रकृतप्रबन्धाभिधेयस्य द्वितीयार्थस्य सूच्यतयैव विवक्षितत्वादुपमानोपमेयभावो न विवक्षित इति नोपमाध्वनिर्न वा श्लेष इति सर्वमवदातं ।

पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते ।

     आदिशब्दात्खङ्ग-मुरज-चक्र-गोमूत्रिकादयः । अस्य च तथाविधिलिपिसन्निवेशविशेषवशेन चमत्कारविधायिनामपि वर्णानां तथाविधश्रोत्राकाशसमवायवि शेषवशेन चमत्कारविधायिभिर्वर्णेरभेदेनोपचाराच्छब्दालङ्कारत्वं । तत्र पद्मबन्धो यथा मम--

'मारमा सुषमा चारु-रुचा मारवधूत्तमा ।
मात्तधूर्ततमावासा सा वामा मेऽस्तु मा रमा ।।'

     एषोऽष्टदलपद्मबन्धो दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टवर्णः, किन्तु विदिग्दलेष्वन्यथा, कर्णिकाक्षरं तु श्लिष्टमेव । एवं खड्गबन्धादिकमप्यूह्यं ।काव्यान्तर्गडुभूततया तु नेह प्रपञ्च्यते ।

रसस्य परिपन्थित्वान्नालङ्कारः प्रहेलिका ।। सूत्र १०.१३ ।।

उक्तिवैचित्र्यमात्रं सा च्युतदत्ताक्षरादिका ।
च्युताक्षरा दत्ताक्षरा च्युतदत्ताक्षरा च । उदाहरणम्--

'कूजन्ति कोकिलाः साले यौवने फुल्लमम्बुजं ।
किं करोतु कुरङ्गक्षी वदनेन निपीडिता ।।'

     तत्र 'रसाले' इति वक्तव्ये 'साले' इति 'र' च्युतः । 'वने' इत्यत्र 'यौवने' इति 'यौ' दत्तः । 'वदनेन' इत्यत्र 'मदनेन' इति 'म' च्युतः 'व' दत्तः । आदिशब्दात्क्रियाकारकगुप्त्यादयः । तत्र क्रियागुप्तिर्यथा--

'पाण्डवानां सभामध्ये दुर्योधन उपागतः ।
तस्मै गां च सुवर्णं च सर्वाण्याभरणानि च ।।'

     अत्र 'दुर्योधनः' इत्यत्र 'अदुर्योऽधनः' इति । 'अदुः' इति क्रियागुप्तिः । एवमन्यत्रापि ।
     अथावसरप्राप्तेष्वर्थालङ्कारेषु सादृश्यमूलेषु लक्षितव्येषु तेषामप्युपजीव्यत्वेन प्राधान्यात्प्रथममुपमामाह--

साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः ।। सूत्र १०.१४ ।।

      रुपकादिषु साम्यस्य व्यङ्ग्यत्वम्, व्यतिरेके च वैधर्म्यस्याप्युक्तिः, उपमेयोपमायां वाक्यद्वयम्, अनन्वये त्वेकस्यैव साम्योक्तिरित्यस्या भेदः ।

सा पूर्णा यदि सामान्यधर्म औपम्यवाचि च ।
उपमेयं चोपमानं भवेद्वाच्यम्--

     सा उपमा । साधारणधर्मो द्वयोः सादृश्यहेतू गुणक्रिये मनोज्ञत्वादि । औपम्यवाचकमिवादि । उपमेयं मुखादि । उपमानं चन्द्रादि ।

इयं पुनः ।। सूत्र १०.१५ ।।

श्रौती यथेववाशब्दा इवार्थो वा वतिर्यदि ।

आर्थो तुल्यसमानाद्यास्तुल्यार्थो तत्र वा वतिः ।। सूत्र १०.१६ ।।

     यथेववादयः शब्दा उपमानानन्तरप्रयुक्ततुल्यादिपदसाधारणा अपि श्रुतिमात्रेणोपमानोपमेयगतसादृश्यलक्षणसम्बन्धं बोधयन्तीति तत्सद्भावे श्रौत्युपमा । एवं 'तत्र तस्येव' इत्यनेनेवार्थो विहितस्य वतेरुपादाने । तुल्यादयस्तु-'कमलेन तुल्यं मुखम्' इत्यादावुपमेय एव । 'कमलं मुखस्य तुल्यम्' इत्यादावुपमान एव ।'कमलं मुखं च तुल्यम्' इत्यादावभयत्रापि विश्राम्यन्तीत्यर्थानुसन्धानादेव साम्यं प्रतिपादयन्तीति तत्सद्भावे आर्थो ।एवं 'तेन तुल्यम्--'इत्यादिना तुल्यार्थे विहितस्य वतेरुपादाने

द्वे तद्धिते समासेऽथ वाक्ये

     द्वेश्रौती आर्थो च । उदाहरणम्--

'सौरभम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ ।
हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले ।।'

     अत्र क्रमेण त्रिविधा श्रौती ।

'मधुरः सुधावदधरः पल्लवतुल्योऽतिलेपवः पाणिः ।

चकितमृगलोचनाभ्यां सदृशी चपले च लोचने तस्याः ।।'
अत्र क्रमेण त्रिविधा आर्थो ।

---पूर्णा षदेव तत् ।

     स्पष्टं ।

लुप्ता सामान्यधर्मादेरेकस्य यदि वा द्वयोः ।। सूत्र १०.१७ ।।
त्रयाणां वानुपादाने श्रौत्यार्थो सापि पूर्ववत् ।

     सा लुप्ता । तद्भेदमाह--

पूर्णावद्धर्मलोपे सा विना श्रौतीं तु तद्धिते ।। सूत्र १०.१८ ।।

     सा लुप्तोपमा धर्मस्य साधारणगुणक्रियारूपस्य लोपे पूर्णावदिति पूर्वोक्तरीत्या षट्प्रकारा, किं त्वत्र तद्धिते श्रौत्या असम्भवात्पञ्चप्रकारा । उदाहरणम्--

'मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये ।

वाचः सुधा इवोष्ठस्ते बिम्बतुल्यो मनोऽश्मवत् ।।'
आधरकर्मविहिते द्विविधे च क्यचि क्यङि ।

कर्मकर्त्रोर्णमुलि च स्यादेवं पञ्चधा पुनः ।। सूत्र १०.१९ ।।

     'धर्मलोपे लुप्ता' इत्यनुषज्यते । क्यच्क्यङ्-णमुलः कलापमते इन्-आयि णमः । क्रमेणोदाहरणम्--
अन्तः पुरीयसि रणेषु, सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः ।
दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र- सञ्चारमत्र भुवि सञ्चरसि क्षितीश ।।'
अत्र 'अन्तः पुरीयसि' इत्यत्र सुखविहारास्पदत्वस्य, 'सुतीयसि' इत्यत्र स्नेहनिर्भरत्वस्य च साधारणधर्मस्य लोपः ।
एवमन्यत्र ।
     इह च यथादिलुल्यादिविरहाच्छ्रौत्यादिविशेषचिन्ता नास्ति । इदं च केचिदौपम्यप्रतिपादकस्येवादेर्लोप उदाहरन्ति, तदयुक्तम्--क्यङादेरपि तदर्थविहितत्वेनौपम्यप्रतिपादकत्वात् । ननु क्यङादिषु सम्यगौपम्यप्रतीतिर्नास्ति प्रत्ययत्वेनास्वतन्त्रत्वादिवादिप्रयोगाभावाच्चेति न वाच्यम्, कल्पबादावपि तथाप्रसङ्गात् । न च कल्पबादीनामिवादितुल्यतयौपम्यस्य वाचकत्वम्, क्यङादीनां तु द्योतकत्वम्; इवादीनामपि वाचकत्वे निश्चयाभावात् । वाचकत्वे वा 'समुदितं पदं वाचकम्' 'प्रकृतिप्रत्ययौ स्वस्वार्थबोधकौ' इति च मतद्वयेऽपि वत्यादिक्यङाद्योः साम्यमेवेति । यच्च केचिदाहुः--'वत्यादय इवाद्यर्थेऽनुशिष्यन्ते, क्यङादयस्त्वाचाराद्यर्थे' इति, तदपि न ; न खलु क्यङादय आचारमात्रार्थाः अपि तु सादृश्याचारार्था इति । तदेवं धर्मलोपे दशप्रकारा लुप्ता ।

उपमानानुपादाने द्विधा वाक्यसमासयोः ।

     उदाहरणम्--

'तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यं ।

     अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः । अत्रैव च 'मुखेन सदृशम्' इत्यत्र 'मुखं यथेदं' नयनतुल्यम्' इत्यत्र 'दृगीव' इति पाठे श्रौत्यपि संभवतीति । अनयोर्भेदयोः प्रत्येकं श्रौत्यार्थोत्वभेदेन चतुविधत्वसंभवेऽपि प्राचीनानां रीत्या द्विप्रकारत्वमेवोक्तं ।

औपम्यवाचिनो लोपे समासे क्विपि च द्विधा ।। सूत्र १०.२० ।।

     क्रमेणोदाहरणम्--

'वदनं मृगशावाक्ष्याः सुधाकरमनोहरम् ।'
'गर्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः ।'

     अत्र 'गर्दभति' इत्यत्रौपम्यवाचिनः क्विपो लोपः । न चेहोपयमेयस्यापि लोपः, 'निनदन्' इत्यनेनैव निर्देशात् ।

द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः ।

     'तस्या मुखेन' इत्यादौ 'रम्यम्' इति स्थाने 'लोके' इति पाठेऽनयोरुदाहरणं ।

क्विप्समासगता द्वेधा धर्मेवादिविलोपने ।। सूत्र १०.२१ ।।

     उदाहरणम्--

     
'विधवति मुखाब्जमस्याः'

     अत्र 'विधवति' इति मनोहरत्व-क्विप्प्रत्यययोर्लोपः । 'मुखाब्जम्' इति च समासगा । केचित्त्वत्रायिप्रात्ययलोपमाहुः ।

उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि ।

     यथा--

'अरातिविक्रमालोकविकस्वरविलोचनः ।
कृपाणोदग्रदोर्दण्डः स सहस्त्रार्युधीयति ।।'

     अत्र 'सहस्त्रायुधमिवात्मानमाचरति' इति वाक्ये उपमेयस्यात्मनो लोपः । न चेहौपम्यवाचकलोपः, उक्तादेव न्यायात् । अत्र केचिदाहुः--'सहस्त्रायुधेन सह वर्तत इति ससहस्त्रायुवः स इवाचरतीति वाक्यात्ससहस्त्रायुधीयतीति पदसिद्धौ विशेष्यस्य शब्दानुपात्तत्वादिहोपमेयलोपः' इति, तन्न विचारसहं ; कर्तरि क्यचोऽनुशासनविरुद्धत्वात् ।
             धर्मोपमेयलोपेऽन्या--
     यथा--

'यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्वे ।'

     अत्र क्षीरोदमिवात्मानमाचरन्तीत्युपमेय आत्मा साधारणधर्म शुक्लता च लुप्तौ ।

--त्रिलोपे च समासगा ।। सूत्र १०.२२ ।।

     यथा--

राजते मृगलोचना ।

     अत्र मृगस्य लोचने इव चञ्चले लोचने यस्या इति समासे उपमाप्रतिपादकसाधारणधर्मोपमानानां लोपः ।

तेनोपमाया भेदाः स्युः सप्तविंशतिसंख्यकाः ।

     पूर्णाषड्विधा, लुप्ता चैकविशतिविधेत मिलित्वा सप्तविंशतिप्रकारोपमा । एषु चोपमाभेदेषु मध्येऽलुप्तसाधारणधर्मेषु भेदेषु विशेषः प्रतिपाद्यते--

एकरूपः क्वचित्क्वापि भिन्नः साधारणो गुणः ।। सूत्र १०.२३ ।।
भिन्ने बिम्बानुबिम्बत्वं शब्दमात्रेण वा भिदा ।

     तत्र एकरूपे यथा उदाहृतम्-'मधुरः सुधावदधरः--' इत्यादि ।
     विम्वप्रतिविम्बत्वे यथा--

'भल्लापवजितैस्तेषां शिरोभिः श्मश्रुलैर्महीं ।
तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ।।'

     अत्र 'श्मश्रुलैः' इत्यस्य 'सरघाव्याप्तैः' इति दृष्टान्तवत्प्रतिबिम्बनं । शब्दमात्रेण भिन्नत्वे यथा--

'स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा ।
कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम् ।।'

     अत्रैके एव स्मेरत्वविकसितत्वे प्रतिवस्तूपमावच्छब्देन निर्दिष्टे ।

एकदेशविवर्तिन्युपमा वाच्यत्वगम्यते ।। सूत्र १०.२४ ।।
भवेतां यत्र साम्यस्य--

     यथा--

'नैत्रैरिवोत्पलैः मद्मैर्मुखैरिव सरः श्रियः ।
पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ।।'

     अत्रोत्पलादीनां नेत्रादीनां सादृश्यं वाच्यं सरः श्रीणां चाङ्गनासाम्यं गम्यं ।

--कथिता रसनोपमा ।
यथोर्ध्वमुपमेयस्य यदि स्यादुपमानता ।। सूत्र १०.२५ ।।

     यथा--

'चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता ।
कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः ।।'

मालोपमा यदेकस्योपमानं बहु दृश्यते ।

     यथा--

'वारिजेनेव सरसी शशिनेव निशीथिनी ।
यौवनेनेव वनिता नयेन श्रीर्मनोहरा ।।'

     क्वचिदुपमानोपमेययोरपि प्रकृतत्वं यथा--

'हसश्चन्द्र इवाभाति जलं व्योमतलं यथा ।

विमलाः कुमुदानीव तारकाः शरदागमे ।।'
'अस्य राज्ञो गृहे भान्ति भूपानां ता विभूतयः ।

पुरन्दरस्य भवने कल्पवृक्षभवा इव ।।'

     अत्रोपमेयभूतविभूतिभैः 'कल्पवृक्षभवा इव ' इत्युपमानभूता विभूतय आक्षिप्यन्त इत्याक्षेपोपमा । अत्रैव 'गृहे' इत्यस्य 'भवने' इत्यनेन प्रतिनिर्देशात्प्रतिनिर्देस्योपमा इत्यादयश्च न लक्षिताः, एवंविधवैचित्र्यस्य सहस्त्रधा दर्शनात् ।

उपमानोपमेयत्वमेकस्यैव त्वनन्वयः ।। सूत्र १०.२६ ।।

     अर्थादेकवाक्ये ।
     यथा--

'राजीवमिव राजीवं जलं जलमिवाजनि ।
चन्द्रश्चन्द्र इवातन्द्रः शरत्समुदयोद्यमे ।।'

     अत्र राजीवादीनामनन्यसदृशत्वप्रतिपादनार्थमुपमानोपमेयभावो वैवक्षिकः । 'राजीवमिव पाथोजम्' इति चास्य लाटानुप्रासाद्विविक्तो विषयः । किन्त्वत्रोचितत्वादेकशब्दप्रयोग एव श्रेयान् । तदुक्तम्--

'अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकं ।

अस्मिंस्तु लाटानुप्रसे साक्षादेव प्रयोजकम् ।।' इति ।

पर्यायेण द्वयोरेतदुपमेयोपमा मता ।

     एतदुपमानोपमेयत्वं । अर्थाद्वाक्यद्वये ।
     यथा--

'कमलेव मतिर्मतिरिव कमला, तनुरिव विभा विभेव तनुः ।
धरणीव धृतिर्धृतिरिव धरणी, सततं विभाति बत यस्य ।।'

     अत्रास्य राज्ञः श्रीबुद्ध्यादिसदृशं नान्यदस्तीत्यभिप्रायः ।

सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते ।। सूत्र १०.२७ ।।

     यथा--

'अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलं ।
स्मरामि वदनं तस्याश्चारु चञ्चललोचनम् ।।'

     'मयि सकपटम्--'इत्यादौ च स्मृतेः सादृश्यानुभवं विनोत्थापितत्वान्नायमलङ्कारः ।
राघवानन्दमहापात्रास्तु
-वैसादृश्यात्स्मृतिमपि स्मरणालङ्कारमिच्छन्ति । तत्रोदाहरणं तेषामेव यथा--
'शिरीषमृद्वी गिरिषु प्रपेदे यदा यदा दुः खशतानि सीता ।
तदा तदास्याः सदनेषु सौख्यलक्षाणि दध्यौ गलदस्त्रु रामः ।।'

रूपकं रुपितारोपाद्वि (पो वि ) षये निरपह्नवे ।

     'रूपितऽ- इति परिणामाद्व्यवच्छेदः । एतच्च तत्प्रस्तावे विवेचयिष्यामः । 'निरपह्नवे' इत्यपह्नुतिव्यवच्छेदार्थं ।

तत्परम्परितं साङ्गं निरङ्गमिति च त्रिधा ।। सूत्र १०.२८ ।।

     तद्रूपकं ।
     तत्र--

यत्र कस्यचिदारोपः परारोपणकारणं ।

तत्परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनं ।। सूत्र १०.२९ ।।

प्रत्येकं केवलं मालारूपं चेति चतुर्विधं ।

     तत्र श्लिष्टशब्दनिबन्धनं केवलपरम्परितं यथा--

'आहवे जगदुद्दण्ड राजमण्डलाराहवे ।
श्रीनृसिंहमहीपाल स्वस्त्यस्तु तव बाहवे ।।'

     अत्र राजमण्डलं नृपसमूह एव चन्द्रबिम्बमित्यारोपो राजबाहौ हाहुत्वारोपे निमित्तं । मालारूपं यथा--

'पद्मोदयदिनाधीशः सदागतिसमीरणः ।
भूभृदावलिदम्भोलिरेक एव भवान्भुवि ।।'

     अत्र पद्माया उदय एव पद्मानामुदयः,सतामागतिरेव सदागमनम्, भूभृतो राजान एव पर्वता इत्याद्यारोपो राज्ञः सूर्यत्वाद्यारोपनिमित्तं ।
     अश्लिष्टशब्दनिबन्धनं केवलं यथा--

'पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः ।
त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ।।'

     अत्र त्रैलोक्यस्य मण्डपत्वारोपो हरिबाहूनां स्तम्भत्वारोपे निमित्तं ।
     मालारूपं यथा--

'मनोजराजस्य सितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः ।
विराजते व्योमसरः सरोजं कर्पूरपूरप्रभमिन्दुबिम्बम् ।।'

     अत्र मनोजादे राजत्वाद्यारोपश्चन्द्रबिम्बस्य सितातपत्रत्वाद्यारोपे निमित्तं । 'तत्र च राजभुजादीनां राहुत्वाद्यारोपो राजमण्डलादीनां चन्द्रमण्डलत्वाद्यारोपे निमित्तम्' इति केचित् ।

अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् ।। सूत्र १०.३० ।।
समस्तवस्तुविषयमेकदेशविवर्ति च ।

     तत्र--

आरोप्याणामशेषाणां शाब्दत्वे प्रथमं मतं ।। सूत्र १०.३१ ।।

     प्रथमं समस्तवस्तुविषयं । यथा--

'रावणावग्रहक्लान्तमिति वागमृतेन सः ।
अभिवृष्य मरुत्सस्यं कृष्णमेधस्तिरोदधे ।।'

     अत्र कृष्णस्य मेघत्वारोपे वागादीनाममृतत्वादिकमारोपितं ।

यत्र कस्यचिदार्थत्वमेकदेशविवर्ति तत् ।

     कस्यचिदारोप्यमाणस्य । यथा--

'लावण्यमधुभैः पूर्णमास्यमस्या विकस्वरं ।
लोकलोचनरोलम्बकदम्बैः कैर्न पीयते ।।'

     अत्र लावण्यादौ मधुत्वाद्यारोपः शाब्दः, मुखस्य पद्मत्वारोप आर्थः । न चेयमेकदेशविवर्तिन्युपमा विकस्वरत्वधर्मस्यारोप्यमाणे पद्मे मुख्यतया वर्तमानात्मुखे वोपचरितत्वात् ।

निरङ्गं केवलस्यैव रूपणं तदपि द्विधा ।। सूत्र १०.३२ ।।
मालाकेवलरूपत्वात्--

     तत्र मालारूपं निरङ्गं यथा--

'निर्माणकौशलं धातुश्चन्द्रिका लोकचक्षुषां ।
क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा ।।'

केवलं यथा--

'दासे कृतागसि भवत्युचितः प्रभूणां

पादप्रहार इति सुन्दरि नात्र दूये ।
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रै-

र्यद्भिद्यते मृदु पदं ननु सा व्यथा मे ।।'

--तेनाष्टौ रूपके भिदाः ।

     'चिरन्तनैरुक्ता' इति शेषः । क्वचित्परम्परितमप्येकदेशविवर्ति
यथा--
     'खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य ।।'
     अत्रार्थः क्ष्मायां महिषीत्वारोपः खड्गे सौविदल्लत्वारोपे निमित्तं ।
अस्य भेदस्य पूर्ववन्मालारोपत्वेऽप्युदाहरणं मृग्यं ।

दृश्यन्ते क्वचिदारोप्याः श्लिष्टाः साङ्गेऽपि रूपके ।। सूत्र १०.३३ ।।

     तत्रैकदेशविवर्ति श्लिष्टं यथा मम--
     ('करमुदयमहीधरस्तनाग्रे गलिततमः पटलांशुके निवेश्य ।
     विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः ।।')
     समस्तवस्तुविषयं यथा--अत्रैव 'विचुम्बति-' इत्यादौ 'चुचुम्बे हरिदबलामुखमिन्दुनायकेन' इति पाठे । न चात्र श्लिष्टपरम्परितं अत्र हि 'भूबृदावलिदम्भोलिः--' इत्यादौ राजादौ पर्वतत्वाद्यारोप विना वर्णनीयस्य राजादेर्दम्भोलितादिरूपणं सर्वथैव सादृश्याभावादसङ्गतं । तर्हि कथं 'पद्मोदयदिनाधीशः-' इत्यादौ परम्परितम्, राजादेः सूर्यादिना सादृश्यस्य तेजस्वितादिहेतुकस्य संभवादिति न वाच्यं । तथा हि--राजादेस्तेजस्तितादिहेतुकं सुव्यक्तं सादृश्यम्, न तु प्रकृते विवक्षितम्, पद्मोदयादेरेव द्वयोः साधारणधर्मतया विवक्षितत्वात् ।
इह तु महीधरादेः स्तनादिना सादृश्यं पीनोतुङ्गत्वादिना सुव्यक्तमेवेति न श्लिष्टपरम्परितं । क्वचित्समासाभावेऽपि रूपकं
दृश्यते--

'मुखं तव कुरङ्गाक्षि सरोजमिति नान्यथा ।।'

     क्वचिद्वैयधिकरण्येऽपि यथा--
'विदधे मधुपश्रेणीमिह भ्रूलतया विधिः ।'
     क्वचिद्वैधर्म्येऽपि यथा--

'सौजन्यम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण-

ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा ।
यैरेषापि दुराशया कलियुगे राजावली सेविता

तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ।।'

     इदं मम । अत्र च केषाञ्चिद्रूपकाणां शब्दश्लेषमूलत्वेऽपि रूपकविशेषत्वादर्थालङ्कारमव्ये गणनं । एवं वक्ष्यमाणालङ्कारेषु बोध्यं ।

अधिकारूढवैशिष्ट्यं रूपकं यत्तदेव तत् ।

     तदेवाधिकारूढवैशिष्ट्यसंज्ञकं । यथा मम--

'इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः

सुधाधाराधारश्चिरपरिणतं बिम्बमधरः ।
इमे नेत्रे रात्रिन्दिवमधिकशोभे कुवलये

तनुर्लावण्यानां जलधिरवगाहे सुखतरः ।।'

     अत्र कलङ्कराहित्यादिनाधिकं वैशिष्ट्यं ।

विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि ।। सूत्र १०.३४ ।।
परिणामो भवेत्तुल्यातुल्याधिकरणो द्विधा ।

     आरोप्यमाणस्यारोपविषयात्मतया परिणमनात्परिणामः ।
     यथा--

'स्मितेनोपायनं दूरादागतस्य कृतं मम ।
स्तनोपपीडमाश्लेषः कृ (त) तो द्यूते पणस्तया ।।'

     अन्यत्रोपायनपणो वसनाभरणादिभावेनोपयुज्येते । अत्र तु नायकसंभावनद्यूतयोः स्मिताश्लेषरूपतया । प्रथमार्द्धेवैयधिकरण्येन प्रयोगः, द्वितीये सामानाधिकरण्येन । रूपके 'मुखचन्द्रं पश्यामि' इत्यादावारोप्यमाणचन्द्रादेरुपरञ्जकतामात्रम्, न तु प्रकृते दर्शनादावुपयोगः ।
इह तूपायनोदेर्विषयेण तादात्म्यं प्रकृते च नायकसंभावनादावुपयोगः । अत एव रूपके आरोप्यस्यावच्छेदकत्वमात्रेणान्वयः, अत्र तु तादात्म्येन ।
'दासे कृतागसि-' इत्यादौ रूपकमेव, न तु परिणामः । आरोप्यमाणकण्टकस्य पादभेदनकार्यस्याप्रतुतत्वात् । न खलु तत्कस्यचिदपि प्रस्तुतकार्यस्य घटनार्थमनुसन्धीयते ।
     अयमपि रूपकवदधिकारूढवैशिष्ट्यो दृश्यते । यथा--

'वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ।।'

     अत्र प्रदीपानामौषध्यात्मतया प्रकृते सुरतोपयोगिन्यन्धकारनाशे उपयोगोऽतलपूरत्वेनाधिकारूढवैशिष्ट्यं ।

संदेहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः ।। सूत्र १०.३५ ।।
शुद्धो निश्चयगर्भोऽसौ निश्चयान्त इति त्रिधा ।

     यत्र संशय एव पर्यवसानं स शुद्धः । यथा--

'किं तारुण्यतरोरियं रसभहोद्भिन्ना नवा वल्लरी

वेलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः ।
उद्राढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः

किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ।।'

     यत्रादावन्ते च संशय एव मध्ये निश्चयः स निश्चयमध्यः ।
     यथा--

'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः

कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतं ।
कृतान्तः किं साक्षान्महिषवहनोऽसाविति पुनः

समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ।।'

      अत्र मध्ये मार्तण्डाद्यभावनिश्चयः, राजनिश्चये द्वितीयसंशयोत्थानासंभवात्यत्रादौ संशयोऽन्ते च निश्चयः स निश्चयान्तः । यथा--

'किं तावत्सरसि सरोजमेतदारा-

दाहोस्विन्मुखमवभासते तरुण्याः ।
संशय्य क्षणमिति निश्चिकाय कश्चि-

द्विब्बोकैर्वकसवासिनां परोक्षैः ।।'

     अप्रतिभोत्थापिते तु 'स्थाणुर्वा पुरुषो वा' इत्यादिसंशये नायमलङ्कारः ।

'मध्यं तव सरोजाक्षि पयोधरभरादितं ।
अस्ति नास्तीति संदेहः कस्य चित्ते न भासते ।।'

     अत्रातिशयोक्तिरेव, उपमेये उपमानसंशयस्यैवैतदलङ्कारविषयत्वात् ।

साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान्प्रतिभोत्थितः ।। सूत्र १०.३६ ।।

यथा--

'मुग्धा दुग्धधिया गवां विदधते कुम्भानघो वल्लवाः

कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि ।
कर्कन्धूफसमुच्चिनोति शबरी मुक्ताफलाशङ्कया

सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका ।।'

     अस्वरसोत्थापिता भ्रान्तिर्नायमलङ्कारः । यथा--'शुक्तिकायां रजतम्' इति । न चासादृश्यमूला । यथा--

'संगमविरहविकल्पे वरमिह न संगमस्तस्याः ।

सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ।।'
क्वचिद्भेदाद्ग्रहीतॄणां विषयाणां तथा क्वचित् ।

एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते ।। सूत्र १०.३७ ।।

      क्रमेणोदाहरणम्--

'प्रिय इति गोपवधूभिः शिशुरिति वृद्धैरधीश इति देवैः ।
नारायण इति भक्तैर्ब्रह्मेत्यग्राहि योगिभिर्देवः ।।'

     अत्रैकस्यापि भगवतस्तत्तद्गुणयोगादनेकधोल्लेखे गोपवधूप्रभृतीनां रुच्यादयो यथायोगं प्रयोजकाः ।
यदाहुः--

'यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधितः ।।'

     अत्र भगवतः प्रियत्वादीनां वास्तवत्वाद्ग्रहीतृभेदाच्च न मालारूपकम्, न च भ्रान्तिमान् । न चायमभेदे भेद इत्येवंरूपातिशयोक्तिः ।
तथाहि--'अन्यदेवाङ्गलावण्यम्-' इत्यादौ लावण्यादेर्विषयस्य पृथक्त्वेनाध्यवसानं । न चेह भगवति गोपवधूप्रभृतिभिः प्रियत्वाद्यध्यवसीयते प्रियत्वादेर्भगवति तत्काले तात्त्विकत्वात् । केचिदाहुः--'अयमलङ्कारो नियमेनालङ्कारान्तरविच्छित्तिमूलः । उक्तोदाहरणे च शिशुत्वादीनां नियमनाभिप्रायात्प्रियत्वादीनां भिन्नत्वाध्यवसाय इत्यतिशयोक्तिरस्ति, तत्सद्भावेऽपि ग्रहीतृभेदेन नानात्वप्रतीतिरूपोविच्छित्ति विशेष उल्लेखाख्यभिन्नालङ्कारप्रयोजकः । श्रीकण्ठजनपदवर्णने--'वज्रपञ्जरमिति शरणागतैः, अम्बरविवरमिति वातिकैः' इत्यादिश्चातिशयोक्तेर्विविक्तो विषयः । इह च रूपकालङ्कारयोगः ।' वस्तुतस्तु--'अम्बरविवरम्-' इत्यादौ भ्रान्तिमन्तमेवेच्छन्ति न रूपकम्, भेदप्रतीतिपुरः सरस्यैवारोपस्य गौणीमूलरूपकादिप्रयोजकत्वात् । यदाहुः शरीरकमीमांसाभाष्यव्याख्याने श्रीवाचस्पतिमिश्राः-'अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तते इति यत्र प्रयोक्तृप्रतिपत्रोः संप्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरः सरः' इति । इह तु वातिकानां श्रीकण्ठजनपदवर्णने भ्रान्तिकृत एवाम्बरविवराद्यारोप इति । अत्रैव च 'चपोवनमिति मुनिभिः कामायतनमिति वेश्याभिः' इत्यादौ परिणामालङ्कारयोगः ।

'गाम्भीर्येण समुद्रोऽसि सौरवेणासि पर्वतः ।'

     इत्यादौ चानेकधोल्लेखे गाम्भीर्यादिविषयभेदः प्रयोजकः । अत्र च रूपकयोगः । 'गुरुर्वचसि, पृथुरुरसि, अर्जुनो यशसि-' इत्यादिषु चास्य रूपकाद्विविक्तो विषय इति । अत्र हि श्लेषमूलातिशयोक्तियोगः ।

प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिः ।

     इयं द्विधा । क्वचिदपह्नपूर्वक आरोपः, क्वचिदारोपपूर्वकोऽपह्नव इति । क्रमेणोदाहरणम्--
     'नदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङ्गाः ।
     नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः ।।'

'एतद्विभाति चरमाचलचूडचुम्बि हि

ण्डीर-पिण्ड-रुचि-शीतमरीचिबिम्बं ।
उज्ज्वालितस्य रजनीं मदनानलस्य

धूमं दधत्प्रकटलाञ्छनकैतवेन ।।'

     इदं पद्यं मम ।
     एवम् 'विराजति व्योमवपुः पयोधिस्तारामयास्तत्र च फेनभङ्गाः' इत्याद्याकारेण च प्रकृतनिषेधो बोध्यः ।

गोपनीयं कलप्यर्थं द्योतयित्वा कथञ्चन ।। सूत्र १०.३८ ।।
यदि श्लेषेणान्यथा वान्यथयेत्साप्यह्नुतिः ।

     श्लेषेण यथा--
          'काले वारिधराणामपतितया नैव शक्यते स्थातुं ।
          उत्कण्ठितासि तरले नहि नहि सखि पिच्छिलः पन्थाः ।।'
     अत्र 'अपतितया' इत्यत्र पतिं विनेत्युक्त्वा पश्चात्पतनाभावेन इत्यन्यथा कृतं । अश्लेषेण यथा--

'इह पुरोऽनिलकम्पितविग्रहा

मिलति का न वनस्पतिना लता ।
स्मरसि किं सखि कान्तरतोत्सवं

नहि घनागमरीतिरुदाहृता ।।'

     वक्रोक्तौ परोक्तेरन्यथाकारः, इह तु स्वौक्तेरेवेति भेदः । गोपनकृता गोपनीयस्यापि प्रथममभिहितत्वाच्च व्याजोक्तेः ।

अन्यन्निषिध्य प्रकृतस्थापनं निश्चायः पुनः ।। सूत्र १०.३९ ।।

     निश्चयाख्योऽयमलङ्कारः । अन्यदित्यारोप्यमाणं ।
     यथा मम--

'वदनमिदं न सरोजं नयने नेन्दीवरे एते ।
इव सविधे मुग्धदृशो भ्रमर मुदा किं परिभ्रमसि ।।'

     यथा वा--

'हृदि विसलताहारो नायं भुजङ्गमनायकः

कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।
मलयजरजो नेदं भस्म प्रियारहिते मयि

प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ।।'

     न ह्ययं निश्चयान्तः संदेहः, तत्र संशयनिश्चययोरेकाश्रयत्वेनावस्थानात् । अत्र तु भ्रमरादेः संशयो नायकादेर्निश्चयः । किञ्च न भ्रमरादेरपि संशयः एककोट्यधिके ज्ञाने, तथा समीपागमनासंभावत् । तर्हि भ्रान्तिमानस्तु, अस्तु नाम भ्रमारादेर्भ्रान्तिः । न चेह तस्याश्चमत्कारविधायित्वम्, अपि तु तथाविधनायकाद्युक्तेरेवेति सहृदयसंवेद्यं । किञ्चाविवक्षितेऽपिं भ्रमरादेः पतनादौ भ्रान्तौ वा नायिकाचाट्वादिरूपेणैव संभवति तथाविधोक्तिः । न च रूपकध्वनिरयम्, मुखस्य कमलत्वेनानिर्धारणात् ।
न चापह्नुतिः, प्रस्तुतस्यानिषेधादितिपृथगेवायमलङ्कारश्चिरन्तनोक्तालङ्कारेभ्यः । शुक्तिकायां रजतधिया पतति पुरुषे शुक्तिकेयं न रजतमिति कस्याचिदुक्तिर्नायमलङ्कारो वैचित्र्याभावात् ।
भवेत्संभावनोत्प्रेक्षा प्रकृतस्य परात्मना ।
वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ।। सूत्र १०.४० ।।

वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः ।
जातिगुणः क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि ।। सूत्र १०.४१ ।।

तदष्टधापि प्रत्येकं भावाभावाभिमानतः ।
गुणक्रियास्वरूपत्वान्निमित्तस्य पुनश्च ताः ।। सूत्र १०.४२ ।।

द्वात्रिंशद्विधतां यान्ति--
     तत्र वाच्योत्प्रेक्षायामुदाहरणं दिङ्मात्रं यथा--
'ऊरुः कुरङ्गकदृशश्चञ्चलचेलाञ्चलो भाति ।
सपताकः कनकमयो विजयस्तम्भः स्मरस्येव ।।'
     अत्र विजयस्तम्भस्य बहुवाचकत्वाज्जात्युप्रेक्षा ।
'ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ।।'
     अत्र सप्रसवत्वं गुणः ।
'गङ्गाम्भसि सुरत्राण तव निः शाननिस्वनः ।
स्नातीवारिधूवर्गगर्भपातनपातकी ।।'
अत्र स्नातीति क्रिया ।
'मुखमेणीदृशो भाति पूर्णचन्द्र इवापरः ।'
अत्र चन्द्र इत्येकव्यक्तिवाचकत्वाद्द्रव्यशब्दः । एते भावाभिमाने ।
अभावाभिमाने यथा--
'कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
उपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ।।'
     अत्रापश्यन्ताविति क्रियाया अभावः । एवमन्यत् । निमित्तस्य गुणक्रियारूपत्वे यथा--'गङ्गम्भसि' इत्यादौ स्नातीवेत्युत्प्रेक्षानिमित्तं पातकित्वं गुणः । 'अपश्यन्तौ-' इत्यादौ क्षामतागमनरूपं निमित्तं क्रिया । एवमन्यत् । प्रतीयमानोत्प्रेक्षा यथा--

'तन्वङ्ग्याः स्तनयुग्मेन मुखं न प्रकटीकृतं ।
हाराय गुणिने स्थानं न दत्तमिति लज्जया ।।'

     अत्र लज्जयेवेति इवाद्यभावात्प्रतीयमानोत्प्रेक्षा । एवमन्यत् । ननु ध्वनिनिरूपणप्रस्तावेऽलङ्काराणां सर्वेषामपि व्यङ्ग्यात्वं भवतीत्युक्तं ।
सम्प्रति पुनविशिष्य कथमुत्प्रेक्षायाः प्रतीयमानत्वं ? उच्यतेव्यङ्ग्योत्प्रेक्षायाम्--'महिलासहस्स-' इत्यादावुत्प्रेक्षणं विनापि वाक्यविश्रान्तिः ।
इह तु स्तनयोर्लज्जाया असम्भवाल्लज्जयेवेत्युत्प्रेक्षयैवेति व्यङ्ग्यप्रतीयमानोत्प्रेक्षयोर्भेदः । अत्र वाच्योत्प्रेक्षायाः षोडशसु भेदेषु मध्ये विशेषमाह--

--तत्र वाच्याभिदाः पुनः ।
विना द्रव्यं त्रिधा सर्वाः स्वरूपफलहेतुगाः ।। सूत्र १०.४३ ।।

     यत्रोक्तेषु वाच्यप्रतीयमानोत्प्रेक्षयोर्भेदेषु मध्ये ये वाच्योत्प्रेक्षायाः षोडश भेदास्तेषु च जात्यादीनां त्रयाणां ये द्वादश भेदास्तेषां प्रत्येकं स्वरूपफलहेतुगतत्वेन द्वादशभेदतया षट्त्रिंशद्भेदाः । द्रव्यस्य स्वरूपोत्प्रेक्षणमेव सम्भवतीति चत्वार इति मिलित्वा चत्वालिंशद्भेदाः ।
अत्र स्वरूपोत्प्रेक्षा यथा पूर्वोदाहरणेषु 'स्मारस्य विजयस्तम्भः' इति । 'सप्रसवा इव' इत्यादयो जातिगुणस्वरूपगाः । फलोत्प्रेक्षा यथा--

'रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः ।
विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ।।'

     अत्राख्यातुमिति भूप्रवेशस्य फलं क्रियारूपमुत्प्रेक्षितं । हेतूत्प्रेक्षा यथा--
     'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्यां ।
     अदृश्यत त्वच्चरणारविन्दविश्लेषदुः खादिव बद्धमौनम् ।।'
     अत्र दुः खरूपो गुणो हेतुत्वेनोत्प्रेक्षितः । एवमन्यत् ।

उक्त्यनुक्तयोर्निमित्तस्य द्विधा तत्र स्वरूपगाः ।

     तेषु चत्वारिंशत्संख्याकेषु भेदेषु मध्ये ये स्वरूपगायाः षोडश भेदास्ते उत्प्रेक्षानिमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशद्भेदा इति मिलित्वा षट्पञ्चाशद्भेदा वाच्योत्प्रेक्षायाः । तत्र निमित्तस्योपादानं यथा पूर्वोदाहृते 'स्नातीव' इत्युत्प्रेक्षायं निमित्तं पातकित्वमुपात्तं । अनुपादाने यथा--'चन्द्र इवापरः' इत्यत्र तथाविधसौन्दर्याद्यतिशयो नोपात्तः । हेतुफलयोस्तु नियमेन निमित्तस्योपादानमेव, तथाहि--'विश्लेषदुः खादिव' इत्यत्र यन्निमित्तं बद्धमौनत्वं 'आख्यातुमिव' इत्यत्र च भूप्रवेशस्तयोरनुपादानेऽसङ्गतमेव वाक्यं स्यात् । प्रतीयमानायाः षोडशसु भेदेषु विशेषमाह--

प्रतीयमानाभेदाश्च प्रत्येकं फलहेतुगाः ।। सूत्र १०.४४ ।।

     यथैदाहृते 'नन्वङ्ग्याः स्तनयुग्मेन' इत्यत्र लज्जयेवेति हेतुरुत्प्रेक्षितः । अस्यामपि निमित्तस्यानुपादानं न सम्भवति । इवाद्यनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य प्रमातुर्निश्चेतुमशक्यत्वात् । स्वरूपोत्प्रेक्षाप्यत्र न भवति, धर्मान्तरतादात्मयनिबन्धनायामस्यामिवाद्यप्रयोगे विशेषणयोगे सत्यतिशयोक्तेरभ्युपगमात् । यथा--'अयं राजापरः पाकशासनः' इति । (विशेषणाभावे च रूपकस्य, यथा--'राजा पाकशासनः' इति । ) तदेवं द्वात्रिंशत्प्रकारा प्रतीयमानोत्प्रेक्षा ।

उक्त्यनुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा ।

     ता उत्प्रेक्षाः । उक्तौ यथा--'उरुः कुरङ्गकदृशः-' इति । अनुक्तौ यथा मम प्रभावत्याम--'प्रद्युम्नः--इव हि सम्प्रति दिगन्तरमाच्छादयता तिमिरपटलेन--

घटितमिवाञ्जनपुञ्जैः पूरितमिव मृगमदक्षोदैः ।
ततमिव तमालतरूभिर्वृतमिव नीलांशुकैर्भुवनम् ।।'

     अत्राञ्जनेन घटितत्वादेरुत्प्रेक्षणीयस्य विषयव्याप्तत्वं नोपात्तं ।
     यथा वा--

'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।'

     अत्र तमसो लेपनस्य व्यापनरूपो विषयो नोपात्तः । अञ्जनवर्षणस्य तमः सम्पातः । अनयोरुत्प्रेक्षानिमित्तं च तमसोऽतिबहुलत्वं धारारूपेणाधः संयोगश्च यथासंख्यं । केचित्तु--'अलपनकर्तृभऊतमपि तमो लेपनकर्तृत्वेनोत्प्रेक्षितं व्यापनं च निमित्तम्, एवं नभोऽपि वर्षणाक्रियाकर्तृत्वेन' इत्याहुः ।

अलङ्कारान्तरोत्था सा वैचित्र्यमधिकं भजेत् ।। सूत्र १०.४५ ।।

     तत्र सापह्नवोत्प्रेक्षा यथा मम--

'अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः ।
अप्राप्य मानमङ्गे विगलति लावण्यवारिपूर इव ।।'

     श्लेषहेतुगा यथा--
     'मुक्तोत्करः सङ्कटशुक्तिमध्यद्विनिर्गतः सारसलोचनायाः ।
     जानीमहेऽस्याः कमनीयकम्बुग्रीवाधिवासाद्गुणवत्त्वमाप ।।'
     अत्र गुणवत्त्वे श्लेषः कम्बुग्रीवाधिवासादिवेति हेतूत्प्रेक्षाया हेतुः ।
अत्र 'जानीमहे' इत्युत्प्रेक्षावाचकं । एवम् मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः ।
     क्वचिदुपमोपक्रमोत्प्रेक्षा यथा--

'पारेजलं नीरनिधेरपस्यन्मुरारिरानीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्त्रप्रतिक्षणोत्कूलितशैवलाभाः ।।'

     इत्यत्राभाशब्दस्योपमावाचकत्वादुपक्रमे उपमा । पर्यवसाने तु जलधितीरे शैवालस्थितेः सम्भावनानुपपत्तौ सम्भावनोत्थापनमित्युत्प्रेक्षा ।
एवं विरहवर्णने--'केयूरायितमङ्गदैः--' इत्यत्र 'विकासिनीलोत्पलतिस्म कर्णे मृगायताक्ष्याः कुटिलः कटाक्षः' इत्यादौ च ज्ञेयं । भ्रान्तिमदलङ्कारे 'मुग्घा दुग्धधिया--' इत्यादौ भ्रान्तानां बल्लवादीनां विषयस्य चन्द्रिकादेर्ज्ञानमेव नास्ति, तदुपनिबन्धनस्य कविनैव कृतत्वात् ।
इह तु संभावनाकर्तुविषयस्यापि ज्ञानमिति द्वयोर्भेदः । संदेहे तु समकक्षतया कोटिद्वयस्य प्रतीतिः, इह तूत्कटा संभाव्यभूतैककोटिः ।
अतिशयोक्तौ विषयिणः प्रतीतस्य पर्ववासनेऽसत्यता प्रतीयते, इह तु प्रतीतिकाल एवेति भेदः ।
     'रञ्जिता नु विविधास्तरुशला नामितं नु गगनं स्थगितं नु ।
     पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ।।'
     इत्यत्र यत्तर्वादौ तिमिराक्रान्तता रञ्जनादिरूपेण संदिह्यत इति संदेहालङ्कार इति केचिदाहुः, तन्न-एकविषये मानबलतयानेककोटिस्फुरणस्यैव संदेहत्वात् । इह तु तर्वादिव्याप्तेः प्रतिसंबन्धिभेदो व्यापनादेर्निगरणेन रञ्जनादेः स्फुरणं च । अन्ये तु--'अनेकत्वनिर्धारणरूपविच्छित्त्याश्रयत्वेनैककोट्यधिकेऽपि भिन्नोऽयं संदेहप्रकारः' इति वदन्ति स्म; तदप्ययुक्तम्--निगीर्णस्वरूपस्यान्यतादात्म्यप्रतीतिहि संभावना, तस्याश्चात्र स्फुटतया सद्भावात्नुशब्देन चेवशब्दवत्तस्याद्योतनादुत्प्रेक्षैवेयं भवितुं युक्ता, अलमदृष्टसंदहप्रकारकल्पनया ।

'यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते

तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।
अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी-

कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम् ।।'

     इत्यत्र 'भन्ये' शब्दप्रयोगेऽप्युक्तरूपायाः सम्भावनाया अप्रतीतेवितर्कमात्रं नासावपह्नवोत्प्रेक्षा ।

सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते ।

     विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । अस्य चोत्प्रेक्षायां विषयिणोऽनिश्चितत्वेन निर्देशात्साध्यत्वम्, इह तु निश्चितत्वेनैव प्रतीतिरिति सिद्धत्वं ।
विषयनिगरणं चोत्प्रेक्षायां विषयस्याधः करणमात्रेण, इहापि मुखं द्वितीयश्चन्द्र इत्यादौ ।
यदाहुः--

'विषयस्यानुपादानेऽप्युपादानेऽपि सूरयः ।
अधः करणमात्रेण निगीर्णत्वं प्रचक्षते ।।' इति ।

          भेदेऽप्यभेदः सम्बन्धेऽसम्बन्धस्तद्विपर्ययौ ।। सूत्र १०.४६ ।।
          पौर्वापर्यात्ययः कार्यहेत्वोः सा पञ्चधा ततः ।
     तद्विपर्ययौ अभेदे भेदः, असम्बन्धे सम्बन्धः । सा अतिशयोक्तिः । अत्र भेदेऽभेदो यथा मम--

'कथमुपरि कलापिनः कलापो

विलसति तस्य तलेऽष्टमीन्दुखण्डं ।
कुवलययुगलं ततो विलोलं

तिलकुसुमं तदधः प्रवालमस्मात् ।।'

     अत्र कान्ताकेशपाशादेर्मयूरकलापादिभिरभेदेनाध्यवसायः । यथा वा--'विश्लेषदुः खादिव बद्धमौनम् ।' अत्र चेतनगतमौनित्वमन्यत्, अचेतनगतं चान्यदिति द्वयोर्भेदेऽप्यभेदः । एवम्--

'सहाधरदलेनास्य यौवने रागभाक्प्रियः ।'

     अत्राधरस्य रागो लौहित्यम्, प्रियस्य रागः प्रेम, द्वयोरभेदः ।
     अभेदे भेदो यथा--

'अन्यदेवाङ्गलावण्यमन्याः सौरभसम्पदः ।
तस्याः पद्मपलाशाक्ष्याः सरसत्वमलौकिकम् ।।'

     सम्बन्धेऽसम्बन्धो यथा--
          'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः ।
               शृङ्गारैकरसः स्वय नु मदनो मासो नु पुष्पाकरः ।
          वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
               निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।।'
     अत्र पुराणप्रजापतिनिर्माणसम्बन्धेऽप्यसम्बन्धः ।
     असम्बन्धे सम्बन्धो यथा--

'यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरद्वयं ।
तदोपमीयते तस्या वदनं चारुलोचनम् ।।'

     अत्र यद्यर्थबलादाहृतेन सम्बन्धेन सम्भावनया सम्बन्धः । कार्यकारणयोः पौर्वापर्यविपर्ययश्च द्विधा भवति । कारणात्प्रथमं कार्यस्य भावे द्वयोः समकालत्वेच । क्रमेण यथा--

'प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाकुलं ।

पश्चादुद्भिन्नबकुलरसालमुकुलश्रियः ।।'
'सममेव समाक्रान्तं द्वयं द्विरदगामिना ।

तेन सिंहासनं पित्र्यं मण्डलं च कहीक्षिताम् ।।'

     इह केचिदाहुः--केशपाशादिगतो लौकिकोऽतिशयोऽलौकिकत्वेनाध्यवसीयते । केशपाशादीनां कलापादिभिरध्यवसाये 'अन्यदेवाङ्गलावण्यम्' इत्यादिप्रकारेष्वव्याप्तिर्लक्षणस्य' इति । तन्न,--तत्रापि ह्यन्यदङ्गलावण्यमन्यत्वेनाध्यवसीयते । तथाहि 'अन्यदेव' इति स्थाने 'अन्यदिव' इति पाठेऽध्यवसायस्यासाध्यत्वमेवेत्युत्प्रेक्षाङ्गीक्रियते । 'प्रगेव हरिणाक्षीणाम्--' इत्यत्र बकुलादीश्रीणां प्रथमभावितापि पश्चाद्भावित्वेनाध्यवसिता, अत एवात्रापीवशब्दयोगे उत्प्रेक्षा एवमन्यत्र ।

पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् ।। सूत्र १०.४७ ।।
एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ।

     अन्येषामप्रस्तुतानां धर्मो गुणक्रियारूपः । उदाहरणम्--

'अनुलेपनानि कुसुमान्यबलाः

कृतमन्यवः पतिषु दीपदशाः ।
समयेन तेन सुचिरं शयित-

प्रतिबोधितस्मरमबोधिषत ।।'

     अत्र सन्ध्यावर्णनस्य प्रस्तुतत्वात्प्रस्तुतानामनुलेपनादीनामेकबोधनक्रियाभिसम्बन्धः ।
          'तदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते ।
          मालतीशशभृल्लेखाकदलीनां कठोरता ।।'
     इत्यत्र मालत्यादीनामप्रस्तुतानां कठोरतारूपैकगुणसम्बन्धः ।
     एवम्--
          'दानं वित्तादृतं वाचः कीर्त्तिधर्मौ तथायुषः ।
          परोपकारणं कायादसारात्सारमाहरेत् ।।'
     अत्र दानादीनां कर्मभूतानां सारतारूपैकगुणसम्बन्ध एकाहरणक्रियासम्बन्धः ।

अप्रस्तुतप्रस्तुतयोर्देपकं तु निगद्यते ।। सूत्र १०.४८ ।।
अथ कारकमेकं स्यादनेकासु क्रियासु चेत् ।

     क्रमेणोदाहरणम्--

'बलावलेपादधुनापि पूर्वव-

त्प्रबाध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्प्रकृतिः सुनिश्चला

पुमांसमभ्येति भवान्तरेष्वपि ।।'

     अत्र प्रस्तुतायाः सुनिश्चलायाः प्रकृतेरप्रस्तुतायाश्च योषित एकानुगमनक्रियासम्बन्धः ।

'दूरं समागतवति त्वयि जीवनाथे

भिन्ना मनोभवशरेण तपस्विनी सा ।
उत्तिष्ठति स्वपिति वासगृह त्वदीय-

मायाति याति हसति श्वसिति क्षणेन ।।'

     इदं मम । अत्रैकस्या नायिकाया उत्थानाद्यनेकक्रियासम्बन्धः । अत्र च गुणक्रिययोरादिमध्यावसानसद्भावेन त्रैविध्यं न लक्षितम्, तथाविधवैचित्र्यस्य सर्वत्रापि सहस्त्रधासम्भवात् ।
          प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः ।। सूत्र १०.४९ ।।
          एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ।
     यथा--
     'धन्यासि वैदभि गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि ।
     इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ।।'
     अत्र समाकर्षणमुत्तरलीकरणं च क्रियैकैव पौनरुक्त्यनिरासाय भिन्नवाचकतया निदिष्ट । इयञ्च मालयापि दृश्यते यथा--

'विमल एव रविर्विशदः

शशी प्रकृतिशोभन एव हि दर्ण्णः ।
शिवगिरिः शिवहाससहोदरः

सहजसुन्दर एव हि सज्जनः ।।'

     अत्र विमलविशदादिरर्थत एव । वैधर्म्येण यथा--
        'चकोर्य एव चतुराश्चन्द्रिकापानकर्मणि ।
        विनावन्तीर्न निपुणाः सुदृशो रतनर्मणि ।।'

दृष्टन्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनं ।। सूत्र १०.५० ।।

     सधर्मस्येति प्रतिवस्तूपमाव्यवच्छेदः अयमपि साधर्म्यवैधर्म्याभ्यां द्विधा । क्रमेणोदाहरणम्--
     'अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधारां ।
     अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ।।'

'त्वयि दृष्टे कुरङ्गाक्ष्याः स्त्रंसते मदनव्यथा ।
दृष्टानुदयभाजीन्दौ ग्लानिः कुमुदसंहतेः ।।'

     'वसन्तलेखैकनिबद्धभावं परासु कान्तासु मनः कुतो नः ।
     प्रफुल्लमल्लीमधुलम्पटः किं मधुव्रतः काङ्क्षति वल्लिमन्याम् ।।'
     इदं पद्यं मम । अत्र 'मनः कुतो नः' इत्यस्य 'काङ्क्षति वल्लिमन्याम्' इत्यस्य चैकरूपतयैव वर्यवसानात्प्रतिवस्तूपमैव ।
इह तु कर्णे मधुधारावमनस्य नेत्रहरणस्य च साम्यमेव, न त्वैकरूप्यं ।
अत्र समर्थ्यसमर्थकवाक्ययोः सामान्यविशेषभावोर्ऽथन्तरन्यासः, प्रतिवस्तूपमादृष्टान्तयोस्तु न तथेति भेदः ।

सम्भवन्वस्तुसम्बन्धोऽसम्भवन्वापि कुत्रचित् ।
यत्र बिम्बानुबिम्बत्वं बोधयेत्सा निदर्शना ।। सूत्र १०.५१ ।।

     तत्र सम्भवद्वस्तुसम्बन्धनिदर्शना यथा--
          'कोऽत्र भूमिवलये जनान्मुधा तापयन्सुचिरमेति सम्पदं ।
          वेदयन्निति दिनेन भानुमानाससाद चरमाचलं ततः ।।'
     अत्र रवेरीदृशार्थवेदनक्रियायां वक्तृत्वेनान्वयः सम्भवत्येव । ईदृशार्थज्ञापनसमर्थचरमाचलप्राप्तिरूपधर्मवत्वात् । स च रवेरस्ताचलगमनस्य परितापिनां विपत्प्राप्तेश्च बिम्बप्रतिबिम्बभावं बोधयति । असम्भवद्वस्तुनिदर्शना त्वेकवाक्यानेकवाक्यगतत्वेन द्विविधा ।
तत्रैकवाक्यगा यथा--
          'कलयति कुवलयमालाललितं कुटिलः कटाक्षविक्षेपः ।
          अधरः किसलयलीलामाननमस्याः कलानिधेविलासम् ।।'
      अत्रान्यस्य धर्मं कथमन्यो वहत्विति कटाक्षविक्षेपादीनां कुवलयमालादिगतललितादीनां कलनमसम्भवात्तल्ललितादिसदृशं ललितादिकमवगमयत्कटाक्षविक्षेपादेः कुवलयमालादेश्च बिम्बप्रतिबिम्बभावं बोधयति । यथा वा--

'प्रयाणे तव राजेन्द्र मुक्ता वैरिमृगीदृशां ।
राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः ।।'

     अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्थागोऽनुपपन्न इति तयोस्तत्सम्बन्धः कल्प्यते, स चासम्भवन्राजहंसगतिमिव गतिं बोधयति ।
अनेकवाक्यगा यथा--
     'इदं किलाव्याजमनोहरं वपुस्तपः क्लपं साधयितुं य इच्छति ।
     ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति ।।'
     अत्र चच्छब्दनिर्दिष्टवाक्यार्थयोरभेदेनान्वयोऽनुपपद्यमानस्तादृशवपुषस्तपः क्लमत्वसाधनेच्छा नीलोत्पलपत्नधारया शमीलताछेदनेच्छेवेति बिम्बप्रतिबिम्बभावे पर्यवस्यति ।
     यथा--
          'जन्मेदं वन्ध्यतां नीतं भवभोगोपलिप्सया ।
          काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया ।।'
     अत्र भवभोगलोभेन जन्मनो व्यर्थतानयनं काचमूल्येन चिन्तामणिविक्रय इवेति पर्यवसानं । एवम्--

'क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ।।'

     अत्र मन्मत्या सूर्यवंशवर्णनमुडुपेन सागरतरणमिवेति पर्यवसानं ।
     इयं च क्वचिदुपमेयवृत्तस्योपमानेऽसम्भवेऽपि भवति । यथा--
          'योऽनुभूतः कुरङ्गाक्ष्यास्तस्या मधुरिमाधरे ।
          समास्वादि स मृद्वीकारसे रसविशारदैः ।।'
     अत्र प्रकृतस्याधरस्य मधुरिमधर्मस्य द्राक्षारसेऽसम्भवात्पूर्ववत्साम्ये पर्यवसानं । मालारूपापि यथा मम--

'क्षिपसि शुकं वृषदंशकवदने मृगमर्पयसि मृगादनरदने ।
वितरसि तुरगं महिषविषाणे निदधच्चेतो भोगविताने ।।'

     इह विम्बप्रतिबम्बताक्षेपं विना वाक्यार्थापर्यवसानं । दृष्टान्ते तु पर्यवसितेन वाक्यार्थेन सामर्थ्याद्विम्बप्रतिविम्बताप्रत्यायनं । नापीयमर्थापत्तिः, तत्र 'हारोऽयं हरिणाक्षीणाम्--' इत्यादौ सादृश्यपर्यवसानाभावात् ।
          आदिक्यमुपमेयस्योपमानान्न्यूनताथवा ।
          व्यतिरेकः--

     स च--

--एक उक्तेऽनुक्ते हेतौ पुनस्त्रिधा ।। सूत्र १०.५२ ।।

चतुर्विधोऽपि साम्यस्य बोधनाच्छब्दतोर्ऽथतः ।
आक्षेपाच्च द्वादशधा श्लेषेऽपीति त्रिरष्टधा ।। सूत्र १०.५३ ।।

प्रत्येकं स्यान्मिलित्वाष्टचत्वारिंशद्विधः पुनः ।

     उपमेयस्योपमानादाधिक्ये हेतुरुपमेयगतमुत्कर्षकारणमुपमानगतं निकर्षकारणं च । तयोर्द्वयोरप्युक्तावेकः, प्रत्येकं समुदायेन वानुक्तौ त्रिविध इति चतुविधेऽप्यस्मिन्नुपमानोपमेयत्वस्य निवेदनं शब्देन अर्थेन आक्षेपेण चेति द्वादशप्रकारोऽपि श्लेषे, 'अपि' शब्दादश्लेषेऽपीति चतुर्विंशतिप्रकारः । उपमानान्न्यूनतायामप्यनयैव भङ्ग्या चतुर्विंशतिप्रकारतेति मिलित्वा अष्टचत्वारिंशत्प्रकारो व्यतिरेकः ।
उदाहरणम्--

'अकलङ्कं मुखं तस्या न कलङ्की विधुर्यथा ।'

     अत्रोपमेयगतमकलङ्कत्वमुपमानगतं च कलङ्कित्वं हेतुद्वयमप्युक्तम्, यथाशब्दप्रतिपादनाच्च शाब्दमौपम्यं । अत्रैव 'न कलङ्किविधूपमम्' इति पाठे आर्थं । 'जयतीन्दुं कलङ्किनम्' इति पाठे त्विववत्तुल्यादिपदविरहादाक्षिप्तं । अत्रैवाकलङ्कपदत्यागे उपमेयतोत्कर्षकारणानुक्तिः ।
कलङ्किपदत्यागे चोपमानगतनिकर्षकारणानुक्तिः । द्वयोरनुक्तौ द्वयोरनुक्तिः । श्लेषे यथा--

'अतिगाढगुणायाश्च नाब्जवद्भङ्गुरा गुणाः ।'

     अत्रेवार्थे वतिरिति शाब्दमौपम्यं । उत्कर्षनिकर्षकारणयोर्द्वयोरप्युक्तिः । गुणशब्दः श्लिष्टः । अन्ये भेदाः पूर्ववदूह्याः ।
एतानि चोपमेयस्योपमानादाधिक्य उदारणानि । न्यूनत्वे दिङ्मात्रं यथा--

'क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यं ।
विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ।।'

     अत्रोपमेयभूतयोवनास्थैर्यस्याधिक्यं । तेनात्र 'उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः' इति केषांचिल्लक्षणे 'विपर्यये वेतिपदमनर्थकम्' इति यत्केचिदाहुः । तन्न विचारसहं । तथाहि-अत्राधिकन्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते । अत्र च चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटमेव । अस्तु वात्रोदाहरणे यथाकथंचिद्रतिः ।

'हनूमदाद्यैर्यशसा मया पुनद्विषां हसैर्दूतपथः सितीकृतः ।'

इत्यादिषु का गतिरिति सुष्ठूक्तं 'न्यूनताथवा' इति ।
सहार्थस्य बलादेकं यत्र स्याद्वाचकं द्वयोः ।। सूत्र १०.५४ ।।

सा सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत् ।

     अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला कार्यकारणपौर्वापर्यविपर्ययरूपा च । अभेदाध्यवसायमूलापि श्लेषभित्तिकान्यथा च ।
क्रमेणोदाहरम्--

'सहाधरदलेनास्या यौवने रागभाक्प्रियः ।'

     अत्र रागपदे श्लेषः ।

'सह कुमुदकदम्बैः कालमुल्लासयन्तः

सह घनतिमिरौघैर्धैर्यमुत्सारयन्तः ।
सह सरसिजषण्डैः स्वान्तमामीलयन्तः

प्रतिदिशममृतांशोरंशवः सञ्चरन्ति ।।'

     इदं मम । अत्रोल्लासादीनां संबन्धिभेदादेव भेदः, न तु श्लिष्टतया ।

'सममेव नराधिपेन सा गुरुसंमोहविलुप्तचेतना ।
अगमत्सह तैलबिन्दुना ननु दीपार्चिरिव क्षितेस्तलम् ।।'

     इयं च मालयापि संभवति । यथोदाहृते 'सह कुमुदकदम्बैः--' इत्यादौ ।

'लक्ष्मणेन समं रामः काननं गहनं ययौ ।'

इत्यादौ चातिशयोक्तिमूलाभावान्नायमलङ्कारः ।

विनोक्तिर्यद्विनान्येन नासाध्वन्यदसाधु वा ।। सूत्र १०.५५ ।।

     नासाधु अशोभनं न भवति । एवं च यद्यपि शोभनत्व एव पर्यवसानं तथाप्यशोभनत्वाभावमुखेन शोभनवचनस्यायमभिप्रायो यत्कस्यचिद्वर्णनीयस्याशोभनत्वं तत्परसन्निधेरेव दोषः । तस्या पुनः स्वभावतः शोभनत्वमेवेति ।
     यथा--

'विना जलदकालेन चन्द्रो निस्तन्द्रतां गतः ।
विना ग्रीष्मोष्मणा मञ्जुर्वनराजिरजायत ।।'

     'असाध्वशोभनं यथा--
          'अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतं ।
          का दिनश्रीर्विनार्केण का निशा शशिना विना ।।'
     'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बं ।
     उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन ।।'
     अत्र परस्पराविनोक्तिभङ्ग्या चकत्कारातिशयः ।
     विनाशब्दप्रयोगाभावेऽपि विनार्थविवक्षायं विनोक्तिरेवेयं ।
     एवं सहोक्तिरपि सहशब्दप्रयोगाभावेऽपि सहार्थविवक्षायां भवतीति बोध्यं ।

समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः ।
व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः ।। सूत्र १०.५६ ।।

     अत्र समेन कार्येण प्रस्तुतेऽप्रस्तुतव्यवहारसमारोपः । यथा--

'व्याधूय यद्वसनमम्बुजलोचनाया

वक्षोजयोः कनककुम्भविलासभाजोः ।
आलिङ्गसि प्रसभमङ्गमशेषमस्या

धन्यस्त्वमेव मलयाचलगन्धवाह ।।'

     अत्र गन्धवाहे हठकामुकव्यवहारसमारोपः ।
     लिङ्गसाम्येन यथा--

'असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
अनाक्रम्य जगत्कृत्स्नं नो सन्ध्यां भजते रविः ।।'

     अत्र पुंस्त्रीलिङ्गमात्रेण रविसन्ध्ययोर्नायकनायिकाव्यवहारः । विशेषणसाम्यं तु श्लिष्टतया, साधारण्येन, औपम्यगर्भत्वेन च त्रिधा ।
श्लिष्टतया यथा मम--

'विकसितमुखीं रागासङ्गाद्रलत्तिमिरावृतिं

दिनकरकरस्पृष्टामैन्द्रीं निरीक्ष्य दिशं पुरः ।
जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः

श्रयति हरितं हन्त प्राचेतसीं तुहिनद्युतिः ।।'

     अत्र मुखरागादिशब्दानां श्लिष्टता । अत्रैव हि 'तिमिरावृतिम्' इत्यत्र 'तिमिराशुकम्' इति पाठे एतदेशस्य रूपणेऽपि समासोक्तिरेव, न त्वेकदेशविवर्ति रूपकम्, तत्र हि तिमिरांशुकयो रूप्यरूपकभावो द्वयोरावरकत्वेन स्फुटसादृश्यतया परसाचिव्यमनपेक्ष्यापि स्वमात्रविश्रान्त इति न समासोक्तिबुद्धिं व्याहन्तुमीशः । यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटं तत्रैकदेशान्तररूपणं विना तदसङ्गतं स्यादित्यशाब्दमप्येकदेशान्तररूपणमार्थमपेक्षत एवेति तत्रैकदेशविवर्तिरूपकमेव । यथा--

'जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलां ।
रगसंमुही वि सहसा परम्मुही होइ रिउसेणा ।।'

     अत्र रणान्तः पुरयोः सादृश्यमस्फुटमेव । क्वचिच्च यत्र स्फुटसादृश्यानामपि बहूनां रूपणं शाब्दमेकदेशस्य चार्थं तत्रैकदेशविवर्ति रूपकमेव । रूपकप्रतीतेर्व्यापितया समासोक्तिप्रतीतितिरोधायकत्वात् । नन्वस्ति रणान्तः पुरयोरपि सुखसंचारतया स्फुटं सादृश्यमिति चेत्? सत्यमुक्तं ; अस्त्येव किंतु वाक्यार्थपर्यालोचनसापेक्षम्, न खलु निरपेक्षम्, मुखचन्द्रादेर्मनोहरत्वादिवद्रणान्तः- पुरयोः स्वतः सुखसञ्चारत्वाभावात् । साधरण्येन यथा--

'निसर्गसौरभोद्भ्रान्तभृङ्गसंगीतशालिनी ।
उदिते वासराधीशे स्मेराजनि सरोजिनी ।।'

     अत्र निसर्गेत्यादिविशेषणसाम्यात्सरोजिन्यां नायिकाव्यवहारप्रतीतौ स्त्रीमात्रगामिनः स्मेरत्वधर्मस्य समारोपः कारणं । तेन विना विशेषणसाम्यमात्रेण नायिकाव्यवहारप्रतीतेरसम्भवात् । औपम्यगर्भत्वं पुनस्त्रिधा सम्भवति, उपमारूपसङ्करगर्भत्वात् । तत्रोपमागर्भत्वे यथा--

'अदन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी ।
केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ।।'

     अत्र सुवेषत्ववशात्प्रथमं दन्तप्रभाः पुष्पाणीवेत्युपमागर्भत्वेन समासः । अनन्तरं च दन्तप्रभासदृशैः पुष्पैश्चितेत्यादिसमासान्तराश्रयेण समानविशेषणमहात्म्याद्धरिणेक्षणायां लताव्यवहारप्रतीतिः । रूपकगर्भत्वे यथा--'लावण्यमधुभिः पूर्णम्-' इत्यादि । सङ्करगर्भत्वे यथा-'दन्तप्रभापुष्प-' इत्यादि । 'सुवेषा' इत्यत्र 'परीता' इति पाठे ह्युपमारूपकसाधकाभावात्सङ्करसमाश्रयणं । समासान्तरं पूर्ववत् । समासान्तरमहिम्ना लताप्रतीतिः । एषु च यषां मते उपमासङ्करयोरेकदेशविवर्तिता नास्ति तन्मते आद्यतृतीययोः समासोक्तिः ।
द्वितीयस्तु प्रकार एकदेशविर्विंतरूपकविषय एव । पर्यालोचने त्वाद्ये प्रकारे एवदेशविवर्तिन्युपमैवाङ्गीकर्तुमुचिता । अन्यथा--

'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभं ।
प्रमोदयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ।।'

     इत्यत्र कथं शरदि नायिकाव्यवहारप्रतीतिः, नायिकापयोधरेणार्द्रनखक्षताभशक्रचापधारणासम्भवात् । ननु 'आर्द्रनखक्षताभम्' इत्यत्र स्थितमप्युपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि सञ्चारणीयं । यथा--'दध्ना जुहोति' इत्यादौ हवनस्यान्यथासिद्धेर्दध्नि सञ्चार्यते विधिः ।
एवञ्चेन्द्रचापाभमार्द्रनखक्षतं दधानेति प्रतीतिर्भविष्यतीति चेत्? न, एवंविधनिर्वाहे कष्टसृष्टिकल्पनादेकदेशविवर्त्युपमाङ्गीकारस्यैव ज्यायस्त्वात् ।
अस्तु वात्र यथाकथञ्चित्समासोक्तिः । 'नेत्रैरिवोत्पलैः पद्मैः-' इत्यादौ चान्यगत्यसम्भवात् । किं चोपमायां व्यवहारप्रतीतेरभावात्कथं तदुपजीविकायाः समासोक्तेः प्रवेशः । यदाहुः--

'व्यवहारोऽथवा तत्त्वमौपम्ये यत्प्रतीयते ।
तन्नौपम्यं समासोक्तिरेकदेशोपमा स्फुटा ।।'

     एवञ्चोपमारूपकयोरेकदेशविवर्तिताङ्गीकारे तन्मूलसङ्करेऽपि समासोक्तेरप्रवेशो न्यायसिद्ध एव, तेनौपम्यगर्भविशेषणोत्थापितत्वं नास्या विषय इति विशेषणसाम्ये श्लिष्टवेशेषणोत्थापिता साधारणविशेषणोत्थापिता चेति द्विधा । कार्यलिङ्गयोस्तुल्यत्वे च द्विविधेति चतुः प्रकारा समासोक्तिः । सर्वत्रैवात्र व्यवहारसमारोपः कारणं । स च क्वचिल्लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः, शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः, शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा ।
तत्र लौकिकवस्त्वपि रसादिभेदादनेकविधं । शास्त्रीयमपि तर्कायुर्वेदज्योतिः शास्त्रप्रसिद्धतयोति बहुप्रकारा समासोक्तिः । दिङ्मात्रं यथा--'व्याधूय यद्वसनम्-' इत्यादौ लौकिके वस्तुनि लौकिकस्य हठकामुकव्यवहारादेः समारोपः ।

'यैरेकरूपमखिलास्वपि वृत्तिषु त्वां

पश्यद्भिरव्ययमसंख्यतया प्रवृत्तं ।
लोपः कृतः किल परत्वजुषो विभक्ते-

स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ।।'

     अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुव्यवहारसमारोपः । एवमन्यत्र । रूपकेऽप्रकृतमात्मस्वरूपसन्निवेशेन प्रकृतस्य रूपमवच्छादयति । इह तु स्वावस्थासमारोपेणावच्छादितस्वरूपमेव तं पूर्वावस्थातो विशेषयति । अत एवात्र व्यवहारसमारोपो न तु स्वरूपसमारोप इत्याहुः । उपमाध्वनौ श्लेषे च विशेष्यस्यापि साम्यम्, इह तु विशेषणमात्रस्य । अप्रस्तुतप्रशंसायां प्रस्तुतस्य गम्यत्वम्, इह त्वप्रस्तुतस्येति भेदः ।

उक्तैर्विशेषणैः साभिप्रायैः परिकरो मतः ।

यथा--
     'अङ्गराज सेनापते द्रोणोपहासिन् कर्ण , रक्षैनं भीमाद्दुः शानं '
          शब्दैः स्वभावादेकार्थैः श्लेषोऽनेकार्थवाचनं ।। सूत्र १०.५७ ।।
     'स्वभावादेकार्थैः' इति शब्दश्लेषाद्व्यवच्छेदः । 'वाचनम्' इति च ध्वनेः । उदाहरणम्--

'प्रवर्तयन्क्रियाः साध्वीर्मालिन्यं हरिता हरन् ।
महसा भूयसा दीप्तो विराजति विभाकरः ।।'

     अत्र प्रकरणादिनियमाभावाद्द्वावपि राजसूर्यौ वाच्यौ ।

क्वचिद्विशेषः सामान्यात्सामान्यं वा विशेषतः ।

कार्यान्निमित्तं कार्यं च हेतोरथ समात्समं ।। सूत्र १०.५८ ।।
अप्रस्तुतात्प्रस्तुतं चेद्गम्यते पञ्चधा ततः ।

अप्रस्तुतप्रशंसा स्याद्--

     क्रमेणोदाहरणम्---

'पादाहतं यदुत्थाय मूर्धानमधिरोहति ।
स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ।।'

     अत्रास्मदपेक्षया रजोऽपि वरमिति विशेषे प्रस्तुते सामान्यमभिहितं ।
     'स्त्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति मां ।
     विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ।।'
     अत्रेश्वरेच्छया क्वचिदहितकारिणोऽपि हितकारित्वं हितकारिणोऽप्यहितकारित्वमिति सामान्ये प्रस्तुते विशेषोऽभिहितः ।
एवञ्चात्राप्रस्तुतप्रशंसामूलोर्ऽथान्तरन्यासः । दृष्टान्ते प्रख्यातमेव वस्तु प्रतिबिम्बत्वेनोपादीयते, इह तु विषामृतयोरमृतविषीभावस्याप्रसिद्धेर्न तस्य सद्भावः ।

'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव,

प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा ।
कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं

सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सहर्हा इव ।।'

     अत्र सम्भाव्यमानेभ्य इन्द्रादिगताञ्जनलिप्तत्वादिभ्यः कार्येभ्यो वदनादिगतसौन्दर्यविशेषरूपं प्रस्तुतं कारणं प्रतीयते ।

'गच्छामीति यथोक्तया मृगदृशा निः श्वासमुद्रेकिणं

त्यक्त्वा तिर्यगवेक्ष्य बाष्पकलुषेनैकेन मां चक्षुषा ।
अद्य प्रेम मदर्पितं प्रियसखीवृन्दे त्वया बध्यता-

मित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रासमाभाषितः ।।'

     अत्र कस्यचिदगमनरूपे कार्ये कारणमभिहितं । तुल्ये प्रस्तुते तुल्याभिधाने च द्विधा श्लेषमूला सादृश्यमात्रमूला च ।
श्लेषमूलापि समासोक्तिवद्विशेषणमात्रस्य श्लेषे श्लेषवद्विशेष्यस्यापि श्लेषे भवतीति द्विधा । क्रमेण यथा--

'सहकारः सदामोदो वसन्तश्रीसमन्वितः ।
समुज्ज्वलरुचिः श्रीमान्प्रभूतोत्कलिकाकुलः ।।'

     अत्र विशेषणमात्रश्लेषवशादप्रस्तुतात्सहकारात्कस्यचित्प्रस्तुतस्य नायकस्य प्रतीतिः ।

'पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि

यायाद्यदि प्रणयने न महानपि स्यात ।
भ्युद्धरेत्तदपि विश्वमितीदृशीयं

केनापि दिक्प्रकटिता पुरुषोत्तमेन ।।'

     अत्र पुरुषोत्तमपदेन विशेष्येणापि श्लिष्टेन प्रचुरप्रसिद्ध्या प्रथमं विष्णुरेव बोध्यते । तेन वर्णनीयः कश्चित्पुरुषः प्रतीयते ।
     सादृश्यमात्रमूला यथा--

'एकः कपोतपोतः शतशः श्येनाः क्षुधाभिधावन्ति ।
अम्बरमावृतिशून्यं हरहर शरणं विधेः करुणा ।।'

     अत्र कपोतादप्रतुस्तात्कश्चित्प्रस्तुतः प्रतीयते । इयं च क्वचिद्वैधर्म्येणापि भवति ।

'धन्याः खलु वने वाताः कह्लारस्पर्शशीतलाः ।
राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ।।'

     अत्र वाता धन्या अहमधन्य इति वैधर्म्येण प्रस्तुतः प्रतीयते । वाच्यस्य सम्भवासम्भवोभयरूपतया त्रिप्रकारेयं । तत्र सम्भवे उक्तोदाहरणान्येव ।
     असम्भवे यथा--

'कोकिलोऽहं भवान्काकः समानः कालिमावयोः ।
अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः ।।'

     अत्र काककोकिलयोर्वाकोवाक्यं प्रस्तुतस्याध्यारोपणं विनासम्भवि ।
     उभयरूपत्वे यथा--

'अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।
कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ।।'

     अत्र प्रस्तुतस्य कस्यचिदध्यारोपणं विना कमलनालान्तश्छिद्राणां गुणभङ्गुरीकरणे हेतुत्वमसम्भवि । अन्येषां तु सम्भवीत्युभयरूपत्वं ।
अस्याश्च समासोक्तिवद्व्यवहारसमारोपप्राणत्वाच्छब्दशक्तिमूलाद्वस्तुध्वनेर्भेदः । उपमाध्वनावप्रस्तुतस्य व्यङ्ग्यत्वं । एवं समासोक्तावपि ।
श्लेषे तु द्वयोरपि वाच्यत्वं ।

उक्ता व्याजस्तुतिः पुनः ।। सूत्र १०.५९ ।।
निन्दास्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुतिनिन्दयोः ।

     निन्दया स्तुतेर्गम्यत्वे व्याजेन स्तुतिरिति व्युत्पत्त्या व्याजस्तुतिः । स्तुत्या निन्दाया गम्यत्वे व्याजरूपा स्तुतिः ।
क्रमेण यथा--

'स्तनयुगमुक्ताभरणाः कण्टककलिताङ्गयष्टयो देव ।
त्वयि कुपितेऽपि प्रागिव विश्वस्ता द्विट्स्त्रियो जाताः ।।'

इदं मम ।।

'व्याजस्तुतिस्तव पयोद मयोदितेयं

यज्जीवनाय जगतस्तव जीवनानि ।
स्तोत्रं तु ते महदिदं घन धर्मराज-
साहय्यमर्जयसि यत्पथिकान्निहत्य ।।'

पर्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते ।। सूत्र १०.६० ।।

     उदाहरणम्--

'स्पृष्टास्ता नन्दने शच्याः केशसम्भोगलालिताः ।
सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ।।'

     अत्र हयग्रीवेण स्वर्गो विजित इति प्रस्तुतमेव गम्यं कारणं वैचित्र्यविशेषप्रतिपत्तये सैन्यस्य पारिजातमञ्जरीसावज्ञस्पर्शनरूपकार्यद्वारेणाभिहितं । न चेदं कार्यात्कारणप्रतीतिरूपाप्रस्तुतप्रशंसा, तत्र कार्यस्याप्रस्तुतत्वात्; इह तु वर्णनीयस्य प्रभावातिशयबोधकत्वेन कार्यमिति कारणवत्प्रस्तुतं । एवञ्--
     'अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु ।
     प्रत्यापताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः ।।'
   अत्र वर्णनीयस्य राज्ञो गम्यभूतशत्रुमारणरूपकारणवत्कार्यभूतं तथाविधशत्रुस्त्रीक्रन्दनजलमपि प्रभावातिशयबोधकत्वेन वर्णनार्हमिति पर्यायोक्तमेव ।
     'राजन्राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः
          कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते ।
     इत्थं राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा-
          च्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ।।'
     अत्र प्रस्थानेद्यतं भवन्तं श्रुत्वा सहसैवारयः पलायिता इति कारणं प्रस्तुतं । 'कार्यमपि वर्णनार्हत्वेन प्रस्तुतम्' इति केचित् ।
     अन्ये तु--'राजशुकवृत्तान्तेन कोऽपि प्रस्तुतप्रभावो बोध्यत इत्यप्रस्तुतप्रशंसैव' इत्याहः,
          सामान्यं वा विशेषण विशेषस्तेन वा यदि ।
          कार्यं च कारणेनेदं कार्येण च समर्थ्यते ।। सूत्र १०.६१ ।।

          साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः ।
     क्रमेणोदाहरणम्--
          'बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
          सम्भूयाम्भोधिमभ्येति महानद्या नगापगा ।।'
     अत्र द्वितीयार्धगतेन विशेषरूपेणार्थेन प्रथमार्धगतः सामान्योर्ऽथः सोपपत्तिकः क्रियते ।

'यावदर्थपदां वाचमेवमादाय माधवः ।

विरराम महीयांसः प्रकृत्या मितभाषिणः ।।'
'पृथ्वि स्थिरा भव भुजङ्गं धारयैनां
त्वं कूर्मराज तदिदं द्वितयं दधीथाः ।
दिक्कुञ्जराः कुरुत तत्नितये दिधीर्षां

आर्यः करोति हरकार्मुकमाततज्यम् ।।'

     अत्र कारणभूतं हरकार्मुकाततज्यीकरणं पृथिवीस्थैर्यादेः कार्यस्य समर्थकं ।
     'सहसा विदधीत न क्रियाम्' इत्यादौ सम्पद्वरणं कार्यं सहसा विधानाभावस्य विमृश्यकारित्वरूपस्य कारणस्य समर्थकं ।
एतानि साधर्म्य उदाहरणानि । वैधर्म्ये यथा--

'इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयं ।
शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ।।'

     अत्र सामान्यं विशेषस्य समर्थकं । 'सहसा विदधीत-' इत्यत्र सहसा विधानाभावस्यापत्प्रदत्वं विरुद्धं कार्यं समर्थकं । एवमन्यत् ।

हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते ।। सूत्र १०.६२ ।।

     तत्र वाक्यार्थता यथा--

'यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं

मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ।
येऽपि त्वद्रमनानुकारिगतयस्ते राजहंसा गता-

स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ।।'

     अत्र चतुर्थपादे पादत्रयवाक्यानि हेतवः । पदार्थता यथा मम--

('त्वद्वजिराजिनिर्धूतधूलीपटलपङ्किलां ।
न धत्ते शिरसा गङ्गां भूरिभारभिया हरः ।।')

     अत्र द्वितीयार्धे प्रथमार्धमेकपदं हेतुः । अनेकपदं यथा मम--

(पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीं ।
देव त्रिपथगात्मानं गोपयत्युग्रमूर्धनि ।।)

     इह केचिद्वाक्यार्थगतेन काव्यलिङ्गेनैव गतार्थतया कार्यकारणभावेर्ऽथान्तरन्यासं नाद्रियन्ते । तदयुक्तम्, तथा ह्यत्र हेतुस्त्रिधा भवति--ज्ञापको निष्पादकः समर्थकश्चेति । तत्र ज्ञापकोऽनुमानस्य विषयः, निष्पादकः काव्यलिङ्गस्य, समर्थकोर्ऽथान्तरन्यासस्य, इति पृथगेव कार्यकारणभावेर्ऽथान्तरन्यासः काव्यलिङ्गीत् । तथाहि--'यत्त्वन्नेत्र-' इत्यादौ चतुर्थपादवाक्यम्, अन्यथा साकाङ्क्षतयासमञ्जसमेव स्यातिति पादत्रयगतवाक्यं निष्पादकत्वेनापेक्षते । 'सहसा विदधीत-' इत्यादौ तु--

'परापकारनिरतैदुर्जनैः सह सङ्गतिः ।
वदामि भवतस्तत्त्वं न विधेया कदाचन ।।'

     इत्यादिवदुपदेशमात्रेणापि निराकाङ्क्षतया स्वतोऽपि गतार्थं सहसा विधानाभावं सम्पद्वरणं सोपपत्तिकमेव करोतीति पृथगेव कार्यकारणभावेर्ऽथान्तरन्यासः काव्यलिङ्गात् ।

'न धत्ते शिरसा गङ्गां भूरिभारभिया हरः ।
त्वद्वाजिराजिनिर्धूतधूलिभिः पङ्किला हि सा ।।'

     इत्यत्र हिशब्दोपादानेन पङ्किलत्वादितिवद्धेतुत्वस्य स्फुटतया नायमलङ्कारः, वैचित्र्यस्यैवालङ्कारत्वात् ।

अनुमानं तु विच्छित्त्या ज्ञानं साध्यस्य साधनात् ।

     यथा--
     'जानीमहेऽस्या हृदि सारसाक्ष्या विराजतेऽन्तः प्रियवक्त्रचन्द्रः ।
     तत्कान्तिजालैः प्रसृतैस्तदङ्गेष्वापाण्डुता कुड्मलताक्षिपद्मे ।।'
     अत्र रूपकवशाद्विच्छित्तिः ।
     यथा वा--
          'यत्र पतत्यबलानां दृष्टिर्निशिताः पतन्ति तत्र शराः ।
          तच्चापरोपितशरो धावत्यासां पुरः स्मरो मन्ये ।।'
     अत्र कविप्रौढोक्तिवशाद्विच्छित्तिः । उत्प्रेक्षायामनश्चिततया प्रतीतिः, इह तु निश्चिततयेत्युभयोर्भेदः ।

अभेदेनाभिधा हेतुर्हेतोर्हेतुमता सह ।। सूत्र १०.६३ ।।

     यथा मम--'तारुण्यस्य विलासः--' इत्यत्र वशीकरणहेतुर्नायिकावशीकरणत्वेनोक्ता, विलासहासयोस्त्वध्यवसायमूलोऽयमङ्कारः ।

अनुकूलं प्रातिकूल्यमनुकूलानुबन्धि चेत् ।

     यथा--

'कुपितासि यदा तन्वि निधाय करजक्षतं ।
बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा ।।'

     अस्य च विच्छित्तिविशेषस्य सर्वालङ्कारविलक्षणत्वेन स्फुरणात्पृथगलङ्कारत्वमेव न्याय्यं ।

वस्तुनो वक्तुमिष्टस्य विशेषप्रतिपत्तये ।। सूत्र १०.६४ ।।
निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा ।

      तत्र वक्ष्यमाणविषये क्वचित्सर्वस्यापि सामान्यतः सूचितस्य निषेधः क्वचिदंशोक्तावंशान्तरे निषध इति द्वौ भेदौ । उक्तविषये च क्वचिद्वस्तुस्वरूपस्य निषेधः, क्वचिद्वस्तुकथनस्येति द्वौ, इत्याक्षेपस्य चत्वारो भेदाः ।
क्रमेण यथा--
          'स्मरशरशतविधुराया भणामि संख्याः कृते किमपि ।
          क्षणमिह विश्रम्य सखे निर्दयहृदयस्य किं वदाम्यथवा ।।'
     अत्र सख्या विरहस्य सामान्यतः सूचितस्य वक्ष्यमाणविषये निषेधः ।
          'तव विरहे हरिणाक्षी निरीक्ष्य नवमालिकां दलितां ।
          हन्त नितान्तमिदानीं आः किं हतजल्पितैरथवा ।।'
     अत्र मरिष्यतीत्यंशो नोक्तः ।
          'बाला णाहं दूती तुअ पिओसि त्ति ण मह वावारो ।
          सा मरै तुज्भ्क्त आसो एत्नं धम्मक्खरं भणिमो ।।'
     अत्र दूतीत्वस्य वस्तुनो निषेधः ।
          'विरहे तव तन्वङ्गी कथं क्षपयतु क्षपां ।
          दारुणव्यवसायस्य पुरस्ते भणितेन किं ।।'
     अत्र कथनस्योक्तस्यैव निषेधः । प्रथमोदाहरणे संख्या अवश्यम्भाविमरणमिति विशेषः प्रतीयते । द्वितीयेऽशक्यवक्तव्यत्वादि, तृतीये दूतीत्वे यथार्थवादित्वम्, चतुर्थे दुः खस्यातिशयः । न चायं विहितनिषेधः, अत्र निषेधस्याभासत्वात् ।

अनिष्टस्य तथार्थस्य विध्याभासः परो मतः ।। सूत्र १०.६५ ।।

     तथेति पूर्ववद्विशेषप्रतिपत्तये । यथा--
          'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः ।
          ममापि. जन्म तत्रैव भूयाद्यत्र गतो भवान् ।।'
     अत्रानिष्टत्वाद्रमनस्य विधिः प्रस्खलद्रूपो निषेधे पर्यवस्यति ।
विशेषश्च गमनस्यात्यन्तपरिहार्यत्वरूपः प्रतीयते ।

विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते ।
उक्तानुक्तनिमित्तत्वाद्द्विधा सा परिकीर्तिता ।। सूत्र १०.६६ ।।

     विना कारणमुपनिबध्यमानोऽपि कार्योदयः किञ्चिदन्यत्कारणमपेक्ष्यैव भवितुं युक्तः । तच्च कारणान्तरं क्वचिदुक्तं क्वचिदनुक्तमिति द्विधा ।
यथा--

'अनायासकृशं मध्यमशङ्कतरले दृशौ ।
अभूषणमनोहारि वपुर्वयसि सुभ्रुवः ।।'

     अत्र वयोरूपनिमित्तमुक्तं । अत्रैव 'वपुर्भाति मृगीदृशः' इति पाठेऽनुक्तम्

सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा ।

     तथेत्युक्तानुक्तनिमित्तत्वात् । तत्रोक्तनिमित्ता यथा--

'धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः ।
प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः ।।'

     अत्र महामहिमशालित्वं निमित्तमुक्तं । अत्रैव चतुर्थपादे 'कियन्तः सन्ति भूतले' इति पाठे त्वनुक्तं । अचिन्त्यनिमित्तत्वं चानुक्तनिमित्तस्यैव भेद इति पृथङ्नोक्तं । यथा--

'स एकस्त्री४णि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न हृतं बलम् ।।'

     अत्र तनुहरणेनापि बलाहरणे निमित्तमचिन्त्यं । इह च कार्याभावः कार्यविरुद्धसद्भावमुखेनापि निबद्ध्यते । विभावनायामपि कारणाभावः कारणविरुद्धसद्भावमुखेन । एवञ्च 'यः कौमारहरः' इत्यादेरुकण्ठाकारणविरुद्धस्य निबन्धनाद्विभावना । 'यः कौमार-' इत्यादेः कारणस्य च कार्यविरुद्धाया उत्कण्ठाया निबन्धनाद्विशेषोक्तिः, एवं चात्र विभावनाविशेषोक्त्योः सङ्करः । शुद्धोदाहरणं तु मृग्यं ।
     जातिश्चतुर्भिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः ।। सूत्र १०.६७ ।।
     क्रिया क्रियाद्रव्याभ्यां यद्द्रव्यं द्रव्येण वा मिथः ।
     विरुद्धमिव भासेत विरोधोऽसौ दशाकृतिः ।। सूत्र १०.६८ ।।

     क्रमेण यथा--
    'तव विरहे मलयमरुद्दवानलः शशिरुचोऽपि सोष्माणः ।
     हृदयमलिरुतमपि भिन्ते नलिनीदलमपि निदाघरविरस्याः ।।'
     'सन्ततमुसलासङ्गाद्वहुतरगृहकर्मघटनया नृपते ।
     द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः ।।'

'अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।

स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव ।।'
'वल्लभोत्सङ्गसङ्गेन विना हरिणचक्षुषः ।

राकाविभावरीजानिर्विषज्वालाकुलोऽभवत् ।।'

(नयनयुगासेचनकं मानसवृत्तयापि दुष्प्रापं ।
रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ।।)

     'त्वद्वाजि' इत्यादि । 'वल्लभोत्सङ्गऽ--इत्यादिश्लोके चतुर्थपादे 'मध्यन्दिनदिनाधिपः' इति पाठे द्रव्ययोर्विरोधः । अत्र 'तव विरह-' इत्यादौ पवनादीनां बहुव्यक्तिवाचकत्वाज्जातिशब्दानां दवानलोष्महृदयभेदनसूर्यैर्जातिगुणक्रियाद्रव्यरूपैरन्योन्यं विरोधो मुखत आभासते, विरहहेतुकत्वात्समाधानं । 'अजस्य-' इत्यादावजत्वादिगुणस्य जन्मप्रहणादिक्रियया विरोधः, भगवतः प्रभावस्यातिशायित्वात्तु समाधानं ।
'त्वद्वाजि-' इत्यादौ 'हरोऽपि शिरसा गङ्गां न धत्ते' इति विरोधः, 'त्वद्वाजि-' इत्यादिकविप्रौढोक्त्या तु समाधानं ।
स्पष्टमन्यत् । विभावनायां कारणाभावेनोपनिबध्यमानत्वात्कार्यमेव बाध्यत्वेन प्रतीयते, विशोषोक्तौ च कार्याभावेन कारणमेव; इह त्वन्योन्यं द्वयोरपि बाध्यत्वमिति भेदः ।

कार्यकारणयोर्भिन्नदेशतायामसङ्गतिः ।

     यथा--

'सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः

सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयं ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं

दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ।।'

     अस्याश्चापवादकत्वादेकदेशस्थयोर्विरोधे विरोधालङ्कारः ।
     गुणौ क्रिये वा चेत्स्यातां विरुद्धे हेतुकार्ययोः ।। सूत्र १०.६९ ।।
     यद्वरब्धस्य वैफल्यनर्थस्य च सम्भवः ।
     विरूपयोः संघटना या च तद्विषमं मतं ।। सूत्र १०.७० ।।

क्रमेण यथा--

'सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभारणं प्रसूते ।।'

     अत्र कारणरूपासिलतायाः 'कारणगुणा हि कार्यगुणमारभन्ते' इति स्थतेर्विरुद्धा शुक्लयशस उत्पत्तिः ।
         'आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वं ।
         विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ।।'
     अत्रानन्दजनकस्त्रीरूपकारणात्तापजनकविरहोत्पत्तिः ।
         'अयं रत्नाकरोऽम्भोधिरित्यसेवि धनाशया ।
         धनं दूरेऽस्तु वदनमपूरि क्षारवारिभैः ।।'
     अत्र केवलं काङ्क्षितधनलाभो नाभूत्, प्रत्यत क्षारवारिभिर्वदनपूरणं ।

'क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता ।
नियतं प्रतिकूलवतिनो बत धातुश्चरितं सुदुः सहम् ।।'

     अत्र वनराज्यश्रियोर्विरूपयोः संघटना । इदं मम ।
     यथा वा--

'विपुलेन सागरशयस्य कुक्षिणा

भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः

स पुरस्त्रियैकतमयैकया दृशा ।।'

समं स्यादानुरूप्येण श्लाघा योग्यस्य वस्तुनः ।

यथा--

'शशिनमुपगतेयं कौमुदी मेघमुक्तं

जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।
इति समगुणयोगप्रीतयस्तत्र पौराः

श्रवणकटु नृपाणामेकवाक्यं विबव्रुः ।।'

विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् ।। सूत्र १०.७१ ।।

     यथा--
          'प्रणमत्युन्नतिहेतोर्जोवितहेतोर्विमुञ्चति प्राणान् ।
          दुः खीयति सुखहेतोः को मूढः सेवकादन्यः ।।'
          आश्रयाश्रयिणोरेकस्याधिक्येऽधिकमुच्यते ।
    आश्रयाधिक्ये यथा--

'किमधिकमस्य ब्रूमो महिमानं वारिघेर्हरिर्यत्र ।
अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि ।।'

    आश्रिताधिक्ये यथा--

'युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ।।'

अन्योन्यमुभयोरेकक्रियायाः कारणं मिथः ।। सूत्र १०.७२ ।।

'त्वया सा शोभते तन्वी तया त्वमपि शोभसे ।

रजन्या शोभते चन्द्रश्चन्द्रेणापि निशीथिनी ।।'
यदाधेयमनाधारमेकं चानेकगोचरं ।
किञ्चित्प्रकुर्वतः कार्यमशक्यस्येतरस्य वा ।। सूत्र १०.७३ ।।

कार्यस्य करणं दैवाद्विशेषस्त्रिविधस्ततः ।

क्रमेण यथा--

'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषां ।

रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ।।'
'कानने सरिदुद्देशे गिरीणामपि कन्दरे ।

पश्यन्त्यन्तकसङ्काशं त्वामेकं रिपवः पुरः ।।'

     'गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ।।'

व्याघातः स तु केनापि वस्तु येन यथाकृतं ।। सूत्र १०.७४ ।।
तेनैव चेदुपायेन कुरुतेऽन्यस्तदन्यथा ।

     यथा--'दृशा दग्धं मनसिजम्-' इत्यादि ।

सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि ।। सूत्र १०.७५ ।।

     व्याघात इत्येव ।

'इहैव त्वं तिष्ठ द्रुतमहमहोभिः कतिपयैः

समागन्ता कान्ते मृदुरसि न चायाससहना ।
मृदुत्वं मे हेतुः सुभग भवता गन्तुमधिकं

न मृद्वी सोढा यद्विरहकृतमायासमसमम् ।।'

     अत्र नायकेन नायिकाया मृदुत्वं सहगमनाभावहेतुत्वेनोक्तं । नायिकया च प्रत्युत सहगमने ततोऽपि सौकर्येण हेतुतयोपन्यस्तं ।

परं परं प्रति यदा पूर्वपूर्वस्य हेतुता ।
तदा कारणमाला स्यात्--

     यथा--

'श्रुतं कृतधियां सङ्गाज्जायते विनयः श्रुतात् ।

लोकानुरागो विनयान्न किं लोकानुरागतः ।।'
--तन्मालादीपकं पुनः ।। सूत्र १०.७६ ।।

धर्मिणामेकधर्मेण सम्बन्धो यद्यथोत्तरं ।

     यथा--

'त्वयि सङ्गरसम्प्राप्ते धनुषासादिताः शराः ।
शरैररिशिरस्तेन भूस्तया त्वं त्वया यशः ।।'

     अत्रासादनक्रिया धर्मः ।

पूर्वं पूर्वं प्रति विशेषणत्वेन परं परं ।। सूत्र १०.७७ ।।
स्थाप्यतेऽपोह्यते वा चेत्स्यात्तदैकावली द्विधा ।

     क्रमेणोदाहरणम्--

'सरो विकसिताम्भोजमम्भोजं भृङ्गसङ्गतं ।
भृङ्गा यत्र ससङ्गीताः सङ्गीतं सस्मरोदयम् ।।'

     'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदं ।।
     न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः ।।'
     कचिद्विशेष्यमपि यथोत्तरं विशेषणतया स्थापितमपोहितं च दृश्यते । यथा--

'वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वापीषु ।
कमलेषु पतन्त्यलयः करोति सङ्गीतमलिषु पदम् ।।'

     एवमपोहनेऽपि ।

उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते ।। सूत्र १०.७८ ।।

यथा--

'राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधं ।

सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ।।'

यथासंख्यमूद्देश उद्दिष्टानां क्रमेण यत् ।

     यथा--

'उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु

क्रीडाकाननमाविशन्ति वलयक्वाणैः समुत्नासय ।
इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठेषु साङ्केतिक-
व्याहाराः सुभग त्वदीयविरहे तस्याः सखीनां मिथः ।।'
क्वचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात् ।। सूत्र १०.७९ ।।

भवति क्रियते वा चेत्तदा पर्याय इष्यते ।

     क्रमेण यथा--

'स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।

वलीषु तस्याः स्खलिताः प्रपेदिरे क्रमेण नाभिं प्रथमोदबिन्धवः ।।'
'विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः ।
वृककाकशिवास्तत्र धावन्त्यरिपुरे तव ।।'
'विसृष्टरागादधारान्निवर्तितः स्तनाङ्गरागादरुणाच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ।।'
'ययोरारोपितस्तारो हारस्तेऽरिवधूजनैः ।।'

निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुविन्दवः ।।'

     एषु च क्वचिदाधारः संहतरूपोऽसंहतरूपश्च । क्वाचिदाधेयमपि । यथा-- 'स्थिताः क्षणम्-' इत्यत्रोदबिन्दवः पक्ष्मादावसंहतरूप आधारे क्रमेणाभवन् । 'विचरन्ति-' इत्यत्राधेयभूता वृकादयः संहतरूपारिपुरे क्रमेणाभवन् । एवमन्यत् । अत्र चैकस्यानेकत्र क्रमेणैव वृत्तेविशेषालङ्काराद्भेदः । विनिमयाभावात्परिवृत्तेः ।

परिवृत्तिविंनिमयः समन्यूनाधिकैर्भवेत् ।। सूत्र १०.८० ।।

     क्रमेणोदाहरणम्--

'दत्त्वा कटाक्षमेणाक्षी जग्रह हृदयं मम ।
मया तु हृदयं दत्त्वा गृहीतो मदनज्वरः ।।'

     अत्र प्रथमेर्ऽधे समेन, द्वितीयेर्ऽधे न्यूनेन ।

'तस्य च प्रवयसो जटायुषः

स्वर्गिणः किमिव शोच्यतेऽधुना ।
येन जर्जरकलेवरव्यया-

त्क्रीतमिन्दुकिरणोज्ज्वलं यशः ।।'

     अत्रादिक्येन ।
          प्रश्नादप्रश्नतो वापि कथिताद्वस्तुनो भवेत् ।
          तादृगन्यव्यपोहश्चेच्छाब्द आर्थोऽथवा तदा ।। सूत्र १०.८१ ।।

          परिसंख्या--
     क्रमेणोदाहरणम्--

'किं भूषणं सुदृढमत्र यशो न रत्नं

किं कार्यमार्यचरितं सुकृतं न दोषः ।
किं चक्षुरप्रतिहतं धिषणा न नेत्रं

जानाति कस्त्वदपरः सदसद्विवेकम् ।।'

     अत्र व्यवच्छेद्यं रत्नादि शाब्दं ।
          'किमाराध्यं सदा पुण्यं कश्च सेव्यः सदागमः ।
          को ध्येयो भगवान्विष्णुः किं काम्यं परमं पदम् ।।'
     अत्र व्यवच्छेद्यं पापाद्यार्थं । अनयोः प्रश्नपूर्वकत्वं ।
     अप्रश्नपूर्वकत्वे यथा--
          'भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे ।
          चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ।।'
          'बलमार्तभयोपशान्तये विदुषां संमतये बहु श्रुतं ।
          वसु तस्य न केवलं विभोर्गुणवत्तापि परप्रयोजनम् ।।'
श्लेषमूलत्वे चास्य वैचित्र्यविशेषो यथा--
     'यस्मिंश्च राजनि 'जितजगति पालयति महीं चित्रकर्मसु वर्णसङ्करश्चापेषु गुणच्छेदः-' इत्यादि ।

--उत्तरं प्रश्नस्योत्तरादुन्नयो यदि ।
यच्चासकृदसंभाव्यं सत्यपि प्रश्न उत्तरं ।। सूत्र १०.८२ ।।

     यथा मम--
          'वीभितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः ।
          अहमेकाकिनी बाला तवेह वसतिः कुतः ।।'
     अनेन पथिकस्य वसतियाचनं प्रतीयते ।
          'का विसमा देव्यगई किं लद्धव्वं जणो गुणग्गाही ।
          कि सोक्खं सुकलत्तं किं दुग्गोज्भ्क्तं खलो लू ।।'
     अत्रान्यव्यपोहे तात्पर्याभावात्परिसंख्यातो भेदः । न चेदमनुमानम्, साध्यसाधनयोर्द्वयोनिर्देश एव तस्याङ्गीकारात् । न च काव्यलिङ्गम्, उत्तरस्य प्रश्नं प्रत्यजनकत्वात् ।

दण्डापूपिकयान्यार्थागमोर्ऽथापत्तिरष्यते ।

     'मूषिकेण दण्डो भक्षित' इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं भवतीति नियतसमानन्यायादर्थान्तरमापततीत्येष न्यायो दण्डापूपिका । अत्र च क्वचित्प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतनं क्वचिदप्राकरणिकार्थत्प्राकरणिकार्थस्येति द्वौ भेदौ । क्रमेणोदाहरणम्--

'हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले ।

मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः ।।'
'विललाप स बाष्पगद्रदं सहजामप्यपहाय धीरतां ।

अतितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिणाम् ।।'

     अत्र च समानन्यायस्य श्लेषमूलत्वे वैचित्र्यविशेषो यथोदाहृते-'हारोऽयम्-' इत्यादौ न चेदमनुमानम्, समानन्यायस्य सम्बन्धरूपत्वाभावात् ।

विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयु(य) तः ।। सूत्र १०.८३ ।।

     यथा--'नमयन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियन्तामाज्ञा मौर्व्यो वा ।'
     अत्र शिरसां धनुषां च नमनयोः सन्धिविग्रहोपलक्षणत्वात्सन्धिविग्रहयोश्चैकदा कर्तुमशक्यत्वाद्विरोधः, स चैकपक्षाश्रयणपर्यवसानः ।
तुल्यबलत्वं चात्र धनुः शिरोनमनयोर्दूयोरपि स्पर्धया सम्भाव्यमानत्वात् । चातुर्यं चात्रौपम्यगर्भत्वेन । एवं 'कर्णपूरीक्रियन्ताम्' इत्यत्रापि एवं--
'युष्माकं कुरुतां भवातिशमनं नेत्रे तनुर्वा हरेः ।' अत्र श्लेषावष्टम्भेन चारुत्वं ।

'दीयतामजितं वित्तं देवाय ब्राह्मणाय वा ।'

     इत्यत्र चातुर्याभावान्नायमलङ्कारः ।

समुच्चयोऽयमेकस्मिन्सति कार्यस्य साधके ।

खलेकपोतिकान्यायात्तत्करः स्यात्परोऽपि चेत् ।। सूत्र १०.८४ ।।

गुणौ क्रिये वा युगपत्स्यातां यद्वा गुणक्रिये ।

     यथा मम--

'हंहो धीरसमिर हन्त जननं ते चन्दनक्ष्माभृतो

दाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः ।
प्रत्यङ्गं दहसीति मे त्वमपि चेदुद्दामदावाग्निव-

न्मत्तोयं मलिनात्मको वनचरः किं वक्ष्यते कोकिलः ।।'

     अत्र दाहे एकस्मिंश्चन्दनक्ष्माभृज्जन्मरूपे कारणे सत्यपि दाक्षिण्यादीनां हेत्वन्तराणामुपादानं । अत्र सर्वेषामपि हेतूनां शोभनत्वात्सद्योगः ।
अत्रैव चतुर्थपादे मत्तादीनामशोभनानां योगादसद्योगः ।
     सदसद्योगो यथा--

'शशी दिवसधूसरो गलितयौवना कामिनी

सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभूर्धनपरायणः सततदुर्गतः सज्जनो

नृपाङ्गनगतः खलो मनसि सप्त शल्यानि मे ।।'

     इह केचिदाहुः--'शशिप्रभृतीनां शोभनत्वं खलस्याशोभनत्वं चेति सदसद्योगः' इति अन्ये तु--'शशिप्रभृतीनां स्वतः शोभनत्वं धूसरत्वादीनां त्वशोभनत्वमिति सदसद्योगः ।' अत्र हि शशिप्रभृतिषु धूसरत्वादेरत्यन्तचितत्वमिति विच्छित्तिविशेषस्यैव चमत्कारविधायित्वं ।
'मनसि सप्तशल्यानि मे' इति सप्तानामपि शल्यत्वेनोपसंहारश्च । 'नृपाङ्गनगतः खल' इति तु क्रमभेदाद्दुष्टत्वमावहति सर्वत्र विशेष्यस्यैव शोभनत्वेन प्रक्रमादिति । इह च खलेकपोतवत्सर्वेषां कारणानां साहित्येनावतारः । समाध्यलङ्कारे त्वेककार्यं प्रति साधके समग्रेऽप्यन्यस्य काकतालीयन्यायेनापतनमिति भेदः ।
          'अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखं ।
          मुखमानतं च सखि ते ज्वलितश्चास्यान्तरे स्मरज्वलनः ।।'
     अत्राद्येर्ऽथे गुणयोर्यौगपद्यम्, द्वितीये क्रिययोः । उभयोर्यौगपद्ये यथा--
     'कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चश्रुः ।
     पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ।।'

'धुनोति चासिं तनुते च कीर्तिम् ।'

     इत्यादावेकाधिकरणेऽप्येष दृश्यते । न चात्र दीपकम्, एते हि गुणक्रियायौगपद्ये समुच्चयप्रकारा नियमेन कार्यकारणकालनियमविपर्ययरूपातिशयोक्तिमूलाः, दीपकस्य चातिशयोक्तिमूलत्वाभावः ।

समाधिः सुकरे कार्ये दैवाद्वस्त्वन्तरागमात् ।। सूत्र १०.८५ ।।

     यथा--
          'मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः ।
          उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम् ।।'
          प्रत्यनीकमशक्तेन प्रतीकारे रिपोर्यदि ।
          तदीयस्य तिरस्कारस्तस्यैवोत्कर्षसाधकः ।। सूत्र १०.८६ ।।

     तस्यैवेति रिपोरेव । यथा मम--
          'मध्येन तनुमध्या मे मध्यं जितवतीत्ययं ।
          इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभो हरिः ।।'
          प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनं ।
          निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ।। सूत्र १०.८७ ।।

     क्रमेण यथा--
     'यत्त्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरम् ।' इत्यादि ।

'तद्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद्द्युतिः

 तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत्स्मितं का सुधा ।

धिक्कन्दर्पधनुर्भ्रुवौ यदि च ते किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः ।।'

अत्र वक्त्रादिभिरेव चन्द्रादीनां शोभातिवहनात्तेषां निष्फलत्वं ।

उक्त्वा चात्यन्तमुत्कर्षमत्युत्कृष्टस्य वस्तुनः ।
कल्पितेऽप्युपमानत्वे प्रतीपं केचिदूचिरे ।। सूत्र १०.८८ ।।

     यथा--

'अहमेव गुरुः सुदारुणाना-

मिति हालाहल तात मा स्म दृप्यः ।
ननु सन्ति भवादृशानि भूयो

भुवनेऽस्मिन्वचनानि दुर्जनानाम् ।।'

     अत्र प्रथमपादेनोत्कर्षातिशय उक्तः । तदनुक्तौ तु नायमलङ्कारः ।
यथा-- 'ब्रह्मेव ब्राह्मणो वदति' इत्यादि ।

मीलितं वस्तुनो गुप्तिः केनचित्तुल्यलक्ष्मणा ।

     अत्र समानलक्षणं वस्तु क्वचिदागन्तुकं ।
    क्रमेण यथा--

'लक्ष्मीवक्षोजकस्तूरीलक्ष्म वक्षः स्थले हरेः ।
ग्रस्तं नालक्षि भारत्या भासा नीलोत्पलाभया ।।'

     अत्र भगवतः श्यामा कान्तिः सहजा ।
          'सदैव शोणोपलकुण्डलस्य यस्यां मयूखैररुणीकृतानि ।
          कोपोपरक्तान्यपि कामिनीनां मुखानि शङ्कां विदधुर्न यूनाम् ।।'
     अत्र माणिक्यकुण्डलस्यारुणिमा मेखे आगन्तुकः ।

सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः ।। सूत्र १०.८९ ।।

     यथा--
          'मल्लिकाचितधम्मिल्लाश्चारुचन्दनचचिताः ।
          अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः ।।'
     मीलिते उत्कृष्टगुणेन निकृश्टगुणस्य तिरोधानम्, इह तूभयोस्तुल्यगुणतया भेदाग्रहः ।
         तद्गुणः स्वगुणत्यगादत्युत्कृष्टगुणग्रहः ।
     यथा--
             'जगाद वदनच्छद्मपद्मपर्यन्तपातिनः ।
             नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ।।'
     मीलिते प्रकृतस्य वस्तुनो वस्त्वन्तरेणाच्छादनम्, इह तु वस्त्वन्तरगुणेनाक्रान्तता प्रतीयत इति भेदः ।

तद्रूपाननुहारस्तु हेतौ सत्यष्यतद्गुणः ।। सूत्र १०.९० ।।

     यथा--
        'हन्त सान्द्रेण रागेण भृतेऽपि हृदये मम ।
        गुणगौर निषण्णोऽपि कथं नाम न रज्यसि ।।'
     यथा वा--
         'गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।
          राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ।।'
     पूर्वत्रातिरक्तहृदयसंपर्कात्प्राप्तवदपि गुणगौरशब्दवाच्यस्य नायकस्य रक्तत्वं न निष्पिन्नम्, उत्तरत्राप्रस्तुतप्रशंसायां विद्यमानायामपि गङ्गायमुनापेक्षया प्रकृतस्य हंसस्य गङ्गायमुनयोः संपर्केऽपि न तद्रूपता । अत्र च गुणाग्रहणरूपविच्छित्तिविशेषाश्रयाद्विशेषोक्तेर्भेदः,
     वर्णान्तरोत्पत्त्यभावाच्च विषमात् ।
        संलक्षितस्तु सूक्ष्मोर्ऽथ आकारेणेङ्गितेन वा ।
        कयापि सूच्यते भह्ग्या यत्र सूक्ष्मं तदुच्यते ।। सूत्र १०.९१ ।।

     सूक्ष्मः स्थूलमतिभिरसंलक्ष्यः । अत्राकारेण यथा--
     'वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे ।
     पुंस्त्वं तन्व्या व्यञ्जन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख ।।'
     अत्र कयाचित्कुङ्कुमभेदेन संलक्षितं कस्याश्चित्पुरुषायितं पाणौ पुरुषचिह्नखड्गलेखालिखनेन सूचितं । इङ्गितेन यथा--

(सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रापिताकूतं लीलापद्मं निमीलितं ।।)

     अत्र विटस्य भ्रूविक्षेपादिना लक्षितः सङ्केतकालाभिप्रायो रजनीकालभाविना पद्मनिमीलनेन प्रकाशितः ।

व्याजोक्तिर्गोपनं व्याजादुद्भिन्नस्यापि वस्तुनः ।

     यथा--

'शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस-

द्रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः ।
आः शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं

शैलान्तः पुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः ।।'

     नेयं प्रथमापह्नतिः, आपह्नवकारिणो विषयस्यानभिधानात् । द्वितीयापह्नुतेर्भेदश्च तत्प्रस्तावे दशितः ।

स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनं ।। सूत्र १०.९२ ।।

     दुरूहयोः कविमात्रवेद्ययोः अर्थस्य डिम्भादेः स्वयोस्तदेकाश्रययोश्चेष्टास्वरूपयोः । यथा मम--

'लाङ्गूलेनाभिहत्य क्षितितलमसकृद्दारयन्नग्रपद्भ्या-

मात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन्विक्रमेण ।
स्फूर्जद्धुङ्कारधोषः प्रतिदिशमखिलान्द्रावयन्नेष जन्तून
कोपाविष्टः प्रविष्टः प्रतिवनमरुणोच्छूनचक्षूस्तरक्षुः ।।'

अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः ।
यत्प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतं ।। सूत्र १०.९३ ।।

     यथा--
       'मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः ।
       येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ।।'
     यथा वा--
       'आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
       भाविभूषणसम्भारां साक्षात्कुर्वे तवाकृतिम् ।।'
     न चायं प्रसादाख्यो गुणः, भूतभाविनोः प्रत्यक्षायमाणत्वे तस्याहेतुत्वात् । न चाद्भुतो रसः, विस्मयं प्रत्यस्य हेतुत्वात् ।
न चातिशयोक्तिरलङ्कारः, अध्यवसायाभावात् । न च भ्रान्तिमान्, भूतभाविनोर्भूतभावितयैव प्रकाशनात् । न च स्वभावोक्तिः, तस्य लौकिकवस्तुगतसूक्ष्मधर्मस्वभावस्यैव यथावद्वर्णनं स्वरूपम्; अस्य तु वस्तुनः प्रत्यक्षायमाणस्वरूपो विच्छित्तिविशेषोऽस्तीति ।
यदि पुनर्वस्तुनः क्वचित्स्वभावोक्तावप्यस्या विच्छित्तेः सम्भवस्तदोभयोः सङ्करः ।

'अनातपत्त्रोऽप्ययमत्र लक्ष्यते

सितातपत्त्रैरिव सर्वतो वतः ।
अचामरोऽप्येष सदैव वीज्यते

विलासबालव्यजनेन कोऽप्ययम् ।।'

     अत्र प्रत्यक्षायमाणस्यैव वर्णनान्नायमलङ्कारः, वर्णनावशेन प्रत्यक्षायमाणत्वस्यैव स्वरूपत्वात् । यत्पुनरप्रत्यक्षायमाणस्यापि वर्णने प्रत्यक्षायमाणत्वं तत्रायमलङ्कारो भवितुं युक्तः, यथोदाहृते 'आसीदञ्जनम्ऽ--इत्यादौ ।
          लोकातिशयसंपत्तिवर्णनोदात्तमुच्यते ।
          यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् ।। सूत्र १०.९४ ।।

     क्रमेणोदाहरणम्--
     'अधः कृताम्भोधरमण्डलानां यस्यां शशाङ्कोपलकुट्टीमानां ।
     ज्योत्स्नानिपातात्क्षरक्षतां पयोभिः केलीवनं वृद्धिमुरीकरोति ।।'
    'नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ।
    अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशते ।।'
         रसभावौ तदाभासौ भावस्य प्रशमस्तथा ।
         गुणीभूतत्वमायान्ति यदालङ्कृतयस्तदा ।। सूत्र १०.९५ ।।

         रसवत्प्रेय ऊर्जस्वि समाहितमिति क्रमात् ।
      तदाभासौ रसाभासो भावाभासश्च । तत्र रसयोगाद्रसवदलङ्कारो यथा-- 'अयं स रसनोत्कर्षो-' इत्यादि । अत्र शृङ्गारः करुणस्याङ्गं ।
एवमन्यत्रापि । प्रकृष्टप्रियत्वात्प्रेयः । यथा मम--

'आमीलितालसविवतिततारकाक्षीं

मत्कण्ठबन्धनदरश्लथबाहुवल्लीं ।
प्रस्वेदवारिकणिकाचितघण्डबिम्बां

संस्मृत्य तामनिशमेति न शान्तिमन्तः ।।'

     अत्र संभोगशृङ्गारः स्मरणाख्यभावस्याङ्गं । स च विप्रलम्भस्य ।
ऊर्जो बलम्, अनौचित्यप्रवृत्तौ तदत्रास्तीत्यूर्जस्वि ।
यथा--

'वनेऽखिलकलासक्ताः परिहृत्य निजस्त्रियः ।
त्वद्वैरिवनितावृन्दे पुलिन्दाः कुर्वते रतिम् ।।'

     अत्र शृङ्गाराभासो राजविषयकरतिभावस्याङ्गं । एवं भावाभासोऽपि । समाहितं परिहारः । यथा--

'अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः ।
ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ।।'

     अत्र मदाख्यभावस्य प्रशमो राजविषयरतिभावस्याङ्गं ।

भावस्य चोदये संधौ मिश्रत्वे त तदाख्यकाः ।। सूत्र १०.९६ ।।

     तदाख्यका भावोदयभावसंधिभावशबलनामानोऽलङ्काराः ।
क्रमेणोदाहरणम्-

'मधुपानप्रवृत्तास्ते सुहृद्भिः सह वैरिणः ।
श्रुत्वा कुतोऽपि त्वन्नम लेभिरे विषमां दशाम् ।।'

     अत्र त्रासोदयो राजविषयरतिभावस्याङ्गं ।
          'जन्मान्तरीणरमणस्याङ्गसङ्गसमुत्सुका ।
          सलज्जा चान्तिके सख्याः पातु नः पार्वती सदा ।।'
     अत्रौत्सुक्यलज्जयोश्च संधिर्देवताविषयरतिभावस्याङ्गं ।

'पश्येत्कश्चिच्चल चपल रे का त्वारहं कुमारी

हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि ।
इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तेः

कन्या कञ्चित्फलकिसलयान्याददानाभिधत्ते ।।'

     अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता राजविषयरतिभावस्याङ्गं । इह केचिदाहुः--'वाच्यवाचकरूपालङ्करणमुखेन रसाद्युपकारका एवालङ्काराः, रसादयस्तु वाच्यवाचकाभ्यामुपकार्या एवेति न तेषामङ्कारता भवितुं युक्ता' इति । अन्ये तु --'रसाद्युपकारमात्रेणेहालङ्कृतिव्युपदेशो भाक्तश्चिरन्तनप्रसिद्ध्याङ्गीकार्य एव' इति । अपरे च--'रसाद्युपकारमात्रेणालङ्कारत्वं मुख्यतो रूपकादौ तु वाच्याद्युपधानम्, अजगलस्तनन्यानेन' इति । अभियुक्तास्तु--'स्वव्यञ्जकवाच्यवाचकाद्युपकृतैरङ्गभूतैः रसादिभिरङ्गिनो रसादेर्वाच्यवाचकोपस्कारद्वारेणोपकुर्वद्भिरलङ्कृतिव्यपदेशो लभ्यते । समासोक्तौ तु नायिकादिव्यवहारमात्रस्यैवालङ्कृतिता, न त्वास्वादस्य, तस्योक्तरीतिविरहात्' इति मन्यन्ते । अत एव ध्वनिकारेणोक्तम्--

'प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ।।'

    यदि च रसाद्युपकारमात्रेणालङ्कृतित्वं तदा वाचकदिष्वपि तथा प्रसज्येत । एवं च यच्च कैश्चिदुक्तम्--'रसादीनामङ्गित्वे रसवदाद्यलङ्कारः, अङ्गत्वे तु द्वितीयोदात्तालङ्कारः' इति तदपि परास्तं ।
         यद्येत एवालङ्काराः परस्परविमिश्रिताः ।
         तदा पृथगलङ्कारौ संसृष्टिः सङ्करस्तथा ।। सूत्र १०.९७ ।।

    यथा लौकिकालङ्काराणामपि परस्परमिश्रणे पृथक्चारुत्वेन पृथगलङ्कारत्वं तथोक्तरूपाणां काव्यालङ्काराणामपि परस्परमिश्रत्वे संसृष्टिसङ्काराख्यौ पृथगलङ्कारौ । तत्र--
         'मिथोऽनपेक्षमेतेषां स्थितिः संसृष्टिरुच्यते ।
    एतेषां शब्दार्थालङ्काराणां । यथा--

'देवः पायादपायान्नः स्मेरेन्दीवरलोचनः ।
संसारध्वान्तविध्वंसहंसः कंसनिसूदनः ।।'

     अत्र पायादपायादिति यमकम्, संसारेत्यादौ चानुप्रास इति शब्दालङ्कारयोः संसृष्टिः । द्वितीये पादे उपमा, द्वितीयार्धे च रूपकमित्यर्थालङ्कारयोः संसृष्टिः । एवमुभयोः स्थितत्वाच्छब्दार्थालङ्कारसंसृष्टिः ।

अङ्गाङ्गित्वेऽलङ्कृतीनां तद्वदेकाश्रयस्थितौ ।
संदिग्धत्वे च भवति सङ्करस्त्रिविधः पुनः ।। सूत्र १०.९८ ।।

     अङ्गाङ्गिभावो यथा--

'आकृष्टिवेगविगलद्भुजगेन्द्रभोग-

निर्मोकपट्टपरिवेष्टनायाम्बुराशेः ।
मन्थव्यथाव्युपशमार्थमिवाशु यस्य

मन्दाकिनी चिरमवेष्टत पादमूले ।।'

     अत्र निर्मोकपट्टापह्नवेन मन्दाकिन्या आरोप इत्यपह्नुतिः । सा च मन्दा किन्या वस्तुवृत्तेन यत्पादमूलवेष्टनं तच्चरणमूलवेष्टनमिति श्लेषमुत्थापयतीति तस्याङ्गं । श्लेषञ्च पादमूलवेष्टनमेव चरणमूलवेष्टदमित्यतिशयोक्तरेङ्गम्, अतिशयोक्तिश्च 'मन्थव्यथाव्युपशमार्थमिव' इत्युत्प्रेक्षाया अङ्गं । उत्प्रेक्षा चाम्बुराशिमन्दाकिन्योर्नायकनायिकाव्यवहारं गमयतीति समासोक्तेरङ्गं ।
     यथा वा--

'अनुरागवती संध्यां दिवसस्तत्पुरः सरः ।
अहो दैवगतिश्चित्रा तथापि न समागमः ।।'

     अत्र समासोक्तिविशेषोक्तेरङ्गं । संदेहसङ्करो यथा--

'इदमाभाति गगने भिन्दानं सन्ततं तमः ।
अमन्दनयनान्दकरं मण्डलमैन्दवम् ।।'

     अत्र किं मुखस्य चन्द्रतयाध्वसानादतिशयोक्तिः, उत इदमिति मुखं निर्दिश्य चन्द्रत्वारोपाद्रूपकम्, अथवा इदमिति मुखस्य चन्द्रमण्डलस्य च द्वयोरपि प्रकृतयोरेकधर्माभिसंबन्धात्तुल्ययोगिता, आहोस्विच्चन्द्रस्याप्रकृतत्वाद्दीपकम्, किं वा विशेषणसाम्यादप्रस्तुतस्य मुखस्य गम्यत्वात्समासोक्तिः, यद्वाप्रस्तुतचन्द्रवर्णनया प्रस्तुतस्य मुखस्यावगतिरित्यप्रस्तुतप्रशंसा, यद्वा मन्मथोद्दीपनः कालः स्वकार्यभूतचन्द्रवर्णनामुखेन वणित इति पर्यायोक्तिरिति बहूनामलङ्कराणां संदेहात्संदेहसङ्करः ।
     यथा वा--'मुखचन्द्रं पश्यामि' इत्यत्र किं मुखं चन्द्र इव इत्युपमा उत चन्द्र एवेति रूपकमिति संदेहः । साधकबाधकयोर्द्वयोरेकतरस्य सद्भावे न पुनः संदेहः । यथा-- 'मुखचन्द्रं चुम्बति' इत्यत्र चुम्बनं मुखस्यानुकूलमित्युपमायाः साधकं । चन्द्रस्य तु प्रतिकूलमिति रूपकस्य बाधकं । 'मुखचन्द्रः प्रकाशते' इत्यत्र प्रकाशाख्यो धर्मो रूपकस्य साधको मुखे उपचरितत्वेन संभवतीति नोपमाबाधकः ।

'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम् ।'

      अत्र योषित आलिङ्गनं नायकस्य सादृश्ये नोचितमिति लक्ष्म्यालिङ्गनस्य राजन्यासंभवादुपमाबाधकम्, नारायणे संभवाद्रूपकं । एवम्--

'वदनाम्बुजमेणाक्ष्या भाति चञ्चललोचनम् ।'

     अत्र वदने लोचनस्य सम्भवादुपमायाः साधकता, अम्बुजे चासंभवाद्रूपकस्य बाधकता । एवं--'सुन्दरं वदनाम्बुजम्' इत्यादौ साधारणधर्मप्रयोगे 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति वचनादुपमासमासो न संभवतीत्युपमाया बाधकः । एवं चात्र मयूरव्यंसकादित्वाद्रूपकसमास एव । एकाश्रयानुप्रवेशो यथा मम--

'कटाक्षेणापीषत्क्षणमपि निरीक्षेत यदि सा

तदानन्दः सान्द्रः स्फुरति पिहिताशेषविषयः ।
सरोमाञ्चोदञ्चत्कुचकलशनिभिन्नवसयः ।

परीरम्भारम्भः क इव भविताम्भोरुहदृशः ।।'

     अत्र कटाक्षेणापीषत्क्षणमपीत्यत्रच्छेकानुप्रासस्य निरीक्षेतेत्यत्र क्षकारमादाय वृत्त्यनुप्रासस्यचैकाश्रयेऽनुप्रवेशः । एवं चात्रैवानुप्रसार्थापत्त्यलङ्कारयोः । यथा वा-- 'संसारध्वान्तविध्वंस--' इत्यत्र रूपकानुप्रासयोः । यथा वा--'कुरबकारवकारणतां ययुः' इत्यत्र रबका रवका इत्येकं बकारवकार इत्येकमिति यमकयोः ।
     यथा वा--

'अहिणापओअरसिएसु पहिअसामाहएसु दिअहेसु ।
रहसपसारिअगीआणं णच्चिजं मोरविन्दाणम् ।।'

     अत्र 'पहिअसामाइएसु' इत्येकाश्रये पथिकशयामायितेत्युपमा, पथिकसामाजिकेष्वितिरूपकं प्रविष्टमिति ।

श्रीचन्द्रशेखरमहाकविचन्द्रसूनु- श्रीविश्वनाथकविराजकृतं प्रबन्धं ।

साहित्यदर्पणममुं सुधियो विलोक्य साहित्यतत्त्वमखिलं सुखमेव वित्त ।। सूत्र १०.९९ ।।
यावत्प्रसन्नेन्दुनिभानना श्रीर्नारायणस्याङ्गमलङ्करोति ।

तावन्मनः संमदयन्कवीनामेष प्रबन्धः प्रथितोऽस्तु लोके ।। सूत्र १०.१०० ।।
इत्यालङ्कारिकचक्रवर्तिसान्धिविग्रहिकमहापात्रश्रीविश्वनाथकविराजकृते साहित्यदर्पणे दशमः परिच्छेदः ।