साहित्यदर्पणम्/चतुर्थः परिच्छेदः

विकिस्रोतः तः
Jump to navigation Jump to search
← तृतीयः परिच्छेदः साहित्यदर्पणम्
चतुर्थः परिच्छेदः
विश्वनाथः
पञ्चमः परिच्छेदः →

     अथ काव्यभेदमाह--

काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यं चेति द्विधा मतं ।

     तत्र---

वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमं ।। सूत्र ४.१ ।।

     वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यतेऽस्मिन्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यं ।

भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ ।
अविवक्षितवाच्योऽन्यो विवक्षितान्यपरवाच्यश्च ।। सूत्र ४.२ ।।

     तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः । लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं बाधितस्वरूपं । विवक्षितान्यपरवाच्यस्त्वभिधामूलः, अत एवात्र वाच्यं विवक्षितं । अन्यपरं व्यङ्ग्यनिष्ठं ।
     अत्र हि वाच्योर्ऽथः स्वरूपं प्रकाशयन्नेव व्यङ्ग्यार्थस्य प्रकाशकः । यथा---प्रदीपो घटस्य । अभिधामूलस्य बहुविषयतया पश्चान्निर्देशः ।
     अविवक्षितवाच्यस्य भेदावाह--

अर्थन्तरं संक्रमिते वाच्येऽत्यन्तं तिरस्कृते ।
अविवक्षितवाच्योऽपि ध्वनिर्द्वैविध्यमृच्छति ।। सूत्र ४.३ ।।

     अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः । यत्र स्वयमनुपयुज्यमानो मुख्योर्ऽथः स्वविशेषरूपेर्ऽथान्तरे परिणमति, तत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसंक्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वं ।
     यथा---
     'कदली कदली, करभः करभः, करिराजकरः करिराजकरः ।
     भुवत्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः ।।'
     अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादिगुणविशिष्टकदल्यादिरूपमर्थं बोधयन्ति ।
जाड्याद्यतिशयश्च व्यङ्ग्यः ।
     यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वं ।
     यथा---

निऋश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।

     अत्रान्धशब्दो मुख्यार्थे बाधितेऽप्रकाशरूपमर्थं बोधयति, अप्रकाशातिशयश्च व्यङ्ग्यः । अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावाभावान्नार्थान्तरसंक्रमितवाच्यत्वं ।
     यथा---
     भम धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण ।
     गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ।।
     अत्र 'भ्रम धार्मिक--' इत्यतो भ्रमणस्य विधिः प्रकृतेऽनुपयुज्यमानतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्कान कार्या । यत्र खलु विधिनिषैधावुत्पत्स्यमानावेव निषधविध्योः पर्यवस्यतस्तत्रैव तदवसरः । यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव ।
     तदुक्तं ---

'क्वचिद्वाध्यतया ख्यातिः क्वचित्ख्यातस्य बाधनं ।
पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु ।।'

     अत्राद्ये मुखायार्थस्यार्थान्तरे संक्रमणं प्रवेशः, न तु तिरोभावः । अत एवात्राजहत्स्वार्था लक्षणा । द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था ।

विवक्षिताभिधेयोऽपि द्विभेदः प्रथमं मतः ।
असंलक्ष्यक्रमो यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा ।। सूत्र ४.४ ।।

     विवक्षितान्यपरवाच्योऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः ।

तत्राद्यो रसभावादिरेक एवात्र गण्यते ।
एकोऽपि भेदोऽनन्तत्वात्संख्येयस्तस्य नैव यत् ।। सूत्र ४.५ ।।

     उक्तस्वरूपो भावादिरसंलक्ष्यक्रमव्यङ्ग्यः । अत्र व्यङ्ग्यप्रतीतेर्विभावादिप्रतितिकारणत्वात्क्रमोऽवश्यमस्ति किन्तूत्पलपत्र्रशतव्यतिभेदवल्लाघवान्न संलक्ष्यते । एषु रसादिषु च एकस्यापि भेस्यानन्तत्वात्संख्यातुमशक्यत्वादसंलक्ष्यक्रमव्यङ्ग्यध्वनिर्नाम काव्यमेकभेदमेवोक्तं । तथाहि---एकस्यैव 'शृङ्गारस्यैकोऽपि संभोगरूपो भेदः परस्परालिङ्गनाधरपानचुम्बनादिभेदात्प्रत्येकं च निभावादिवैचित्र्यात्संखायतुमश्क्यः, का गणना सर्वेषां ।

शब्दार्थोभयशक्त्युत्थे व्यङ्क्येऽनुस्वानसन्निभे ।
ध्वनिर्लक्ष्यक्रमव्यङ्ग्यस्त्रिविधः कथितो बुधैः ।। सूत्र ४.६ ।।

     क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्ग्यस्तस्य शब्दशक्त्युद्भवत्वेन, अर्थशक्त्युद्भवत्वेन शब्दार्थशक्त्युद्भवत्वेन च त्रैविध्यात्संलक्ष्यक्रमव्यङ्ग्यनाम्नोध्वनेः काव्यस्यापि त्रैविध्यं ।
     तत्र---

वस्त्वलङ्काररूपत्वाच्छब्दशक्त्युद्भवोद्विधा ।

     अलङ्कारशब्दस्य पृथगुपादानादनलङ्कारं वस्तुमात्रं गृह्यते । तत्र वस्तुरूपः शब्दशक्त्युद्भवो व्यङ्ग्यो यथा---

पन्थिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे ।
उण्णा पओहरं पेक्खिअ ऊण जै वसति ता वससु ।।

     अत्र सत्थरादिशब्दशक्त्या यद्युपभोगक्षमोऽसि तदास्स्वेति वस्तु व्यज्यते ।
अलङ्काररूपो यथा--'दुर्गालङ्घितविग्रहः' इत्यादौ (५९ पृदृ)।
     अत्र प्राकरणिकस्य उमानाममहादेवी-वल्लभ-भानुदेवनाम-नृपतेर्वर्णने द्वितीयार्थसूचितमप्रारणिकस्य पार्वतीवल्लभस्य वर्णनमसम्बनद्धं मा प्रसङ्क्षीदिति ईश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते तदत्र उमावल्लभ उमावल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः ।
यथा वा---

'अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद ! प्रभो ! ।
अहितः सहितः साधु यशोभिरसतामसि ।।'

     अत्रामित इत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्ग्यः । व्यङ्ग्यस्यालङ्कार्यत्वेऽपि ब्राह्मणश्रमणन्यायादलङ्कारत्वमुपचर्यते ।

वस्तु वालङ्कृतिर्वापि द्विधार्थः सम्भवी स्वतः ।। सूत्र ४.७ ।।

कवेः प्रौठोक्तिसिद्धो वा तन्निबद्धस्य वेति षट् ।
षड्भिस्तैर्व्यज्यमानस्तु वस्त्वलङ्काररूपकः ।। सूत्र ४.८ ।।

अर्थशतयुद्भवो व्यङ्ग्यो याति द्वादशभेदतां ।

     स्वतः सम्भवी औचित्याद्बहिरपि सम्भाव्यमानः । प्रौढोक्त्या सिद्धः, न त्वौचित्येन ।
     तत्र क्रमेण यथा--

 
दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि

प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि सत्वरमितः स्त्रोतस्तमालाकुलं

नीरन्ध्राः तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ।।

     अत्र स्वतः सम्भविना वस्तुना तत्प्रतिपादिकाया भावपरपुषोपयोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यते ।

दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ।।

     अत्र स्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापोऽधिक इति व्यतिरेकालङ्कारो व्यज्यते ।

आपतन्तममुं दूरादूरीकृतपराक्रमः ।
बलोऽवलोकयामास मातङ्गमिव केसरी ।।

      अत्रोपमालङ्कारेण स्वतः सम्भविना व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिणः क्षयं करिष्यतीति वस्तु व्यज्यते ।

गाढकान्तदशनक्षतव्यथा सङ्कटादरिबधूजनस्य यः ।
ओष्ठविद्रुमदलान्यमोचयन्निदर्शन्युधि रुषा निजाधरं ।।

     अत्र स्वतः सम्भविना विरोधालङ्कारेणाधरो निर्दष्टः शत्रवो व्यापादिताश्चेति समुच्चयालङ्कारो व्यङ्ग्यः ।

'सजेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खमुहे ।
अहिणवसहऽरमुहे णवपत्तले अणङ्गस्स सरे ।।'

     अत्र वसन्तः शरकारः, कामो धन्वी, युबतयो लक्ष्यम्, पुष्पाणि शरा इति कविप्रौढोक्तिसिद्धं वस्तु प्रकाशीभवन्मदनविजृम्भणरूपं वस्तु व्यनक्ति ।

'इजनीषु विमलभानोः करजालेन प्रकाशितं वीर ।
धवलयति भुवनमण्डलमखिलं तव कीतिसंततिः सतम् ।।'

     अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीतिसन्ततेश्चन्द्रकरजालादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्क्यः ।
'दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः ।।'

     अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यते ।

'धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं

हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः ।
एकोऽपि त्रिकलिङ्गभूमितिलक ! त्वत्कीर्तिराशिर्ययौ ।

नानामण्डनतां पुरन्दपुरीवामभ्रुवां विग्रहे ।।'

     अत्र कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठोऽपि स्वर्गस्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते ।

'शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।
सुमुखै येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ।।'

     अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते ।

'सुभगे ! कोटिसंख्यत्वमुपेत्य मदनाशुगैः ।
वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम् ।।'

     अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशराणां कोटिसंख्यत्वप्राप्त्यो निखिलवियोगिमरणोन वस्तुना शराणां पञ्चता शरान्विमुच्य वियोगिनः श्रितेवे त्युत्प्रेक्षालङ्कारो व्यज्यते ।

'मल्लिकामुकुले चणिड ! भाति गुञ्जन्मधुव्रतः ।
प्रयाणो पञ्जबाणस्य शङ्वमापूरयन्निव ।।'

     अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेनोत्प्रेक्षालङ्कारेण कामस्यायमुन्मादकः कालः प्राप्तस्तत्कथं मानिनि मानं न मुञ्चसीति वस्तु व्यज्यते ।

'महिलासहस्सभरिए तुह हिअए सुहा सा अमाअन्ती ।
अणुदिणमणण्णकम्मा अङ्ग तणुत्त्रं पि तणुएइ ।।'

     अत्रामाअन्तीति कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण तनोस्तनूकरणोऽपि तव हृदये न वर्तत इति विशेषोक्त्यलङ्कारो व्यज्यते ।
     न खलु कवेः कविनिबद्धस्येव रागाद्याविष्टता अतः कविनिबद्धवक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयवमत्कारकारिणीति पृथक्प्रतिपादिता । एषु चालङ्कृतिव्यञ्जनस्थले रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य प्राधान्यं सहृदयसंवेद्यम्, न तु रूप्यादीनामित्यलङ्कृतेरेव मुख्यत्वं ।

एकः शब्दार्थशक्त्युत्थे

     उभयशक्त्युद्भवे व्यङ्ग्ये एको ध्वनेर्भेदः ।
     यथा---

'हिममुक्तचन्द्ररुचिरः सपद्मको

मदयन्द्विजाञ्जनितमीनकेतनः ।
अभवत्प्रसादितसुरो महोत्सवः

प्रमदाजनस्य स चिराय माधवः ।।'

     अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारो व्यङ्ग्यः । एवं च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानां भेदः ।

तदष्टादशधा ध्वनिः ।। सूत्र ४.९ ।।

     अविवक्षितवाच्योर्ऽथान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः । विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्ग्यत्वेनैकः ।
संलक्ष्यक्रमव्यङ्ग्यत्वेन च शब्दार्थोभयशक्तिमूलतया पञ्चदशेत्यष्टादशभेदो ध्वनिः । एषु च--

वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः ।

     तत्रार्थान्तरसंक्रमितवाच्यो ध्वनिः पदगतो यथा---

'धन्यः स एव तरुणो नयने तस्यैव नयने च ।
युवजनमोहनविद्य भवितेयं यस्य संमुखे सुमुखई ।।'

     अत्र द्वितीयनयनशब्दो भग्यवत्तादिगुणविशिष्टनयनपरः ।
     वाक्यगतो यथा---

'त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति ।
आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत् ।।'

     अत्र प्रतिपाद्यस्य संमुखीनत्वादेव लब्धे प्रतिपाद्यत्वे त्वामिति पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थं तक्षयति । एवं वच्मीत्यनेनैव कर्तरि लब्धेऽस्मीति पुनर्वचनं । तथा विदुषां समवाय इत्यनेनैव वक्तुः प्रतिपादने सिद्धे पुनर्वच्मीति वचनमुपदिशामीति वचनविशेषरूपमर्थं लक्षयति ।
एतानि च स्वातिशयं व्यञ्जयन्ति । एतेन मम वचनं तवात्यन्तं हितं तदवश्यमेव कर्तव्यमित्यभिप्रायः । तदेवमयं वाक्यगतोऽपर्थान्तरसंक्रमितवाच्यो ध्वनिः ।
     अत्यन्ततिरस्कृतवाच्यः पदगतो यथा---'निःश्वासान्ध-' इत्यादि । वाक्यवतो यथा-'उपकृतं बहु तत्र-' इत्यादि । अन्येषां वाक्यागतत्वे उदाहृतं ।
     पदगतत्वं यथा--

'लावण्यं तदसौ कान्तिस्तद्रूपं स वचः क्रमः ।
तदा सुधास्पदमभूदधुना तु ज्वरो महान् ।।'

     अत्र लावण्यादीनां तादृगनुभवैकगौचरताव्यञ्जकानां तदादिशब्दानामेव प्राधान्यम्, अन्येषां तु तदुपकारित्वमेवेति तन्मूलक एव ध्वनिव्यपदेशः ।
     तदुक्तं ध्वनिकृता---

'एकावयवसंस्थेन भूषणोनेव कामिनी ।
पदद्योत्येन सुकवेर्ध्वनिना भाति भारती ।।'

     एवं भावादिष्वप्यूह्यं ।

'भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः ।
कस्य नानन्दनिस्यन्दं विदधाति सदागमः ।।'

     अत्र सदागमशब्दः सन्नहितमुपनायकं प्रति सच्छास्त्रार्थमभिधाय सतः पुरुषस्यागम इति वस्तु व्यनक्ति । ननु सदागमः सदागम इवेति न कथमुपमाध्वनिः ? सदागमशब्दयोरुपमानोपमेयभावाविवक्षणात् । रहस्यस्य सङ्गोपनार्थमेव हि द्व्यर्थपदप्रतिपादनं । प्रकरणादिपर्यालोचनेन च सच्छास्त्राभिधानस्यासम्बन्धत्वात् ।

'अनन्यसाधारणधीर्धृताखिलवसुन्धरः ।
राजते कोऽपि जगति स राजा पुरुषोत्तमः ।।'

     अत्र पुरुषोत्तमः पुरुषोत्तम इवेत्युपमाध्वनिः । अनयोः शब्दशक्तिमूलौ संलक्ष्यक्रमभेदौ ।

'सायं स्नानमुपासितं मलयजेनाङ्ग समालेपितं

यातोऽस्ताचलमौलिमम्बरमणिविस्त्रब्धमत्रागतिः ।
आश्चर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना

नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति ते नासितुम् ।।'

     अत्र स्वतः संभविना वस्तुना कृतपरपुरुषपरिचया क्लान्तासीति वस्तु व्यज्यते । तच्चाधुना क्लान्तासि, न तु पूर्वं कदाचिदपि तवैवंविधः क्लमो दृष्ट इति बोधयतोऽधुना पदस्यैवेतरपदार्थोत्कर्षादस्यैव पदान्तरापेक्षया वैशिष्ट्यं ।

'तदप्राप्तिमहादुःखविलीनाशेषपातका ।

तच्चिन्ताविपुलाङ्लादक्षीणपुण्यचया तथा ।।
चिन्तयन्ती जगत्सूतिं परं ब्रह्मस्वरूपिणं ।

निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ।।' (युग्मकम्)

     अत्राशेषचयपदप्रभावादनेकजन्मसहस्त्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यवसितातया भगवद्विरहदुःखचिन्ताह्लादयोः प्रत्यायनमित्यतिशयोक्तिद्वयप्रतीतिरशेषचयपदद्वयद्योत्या । अत्र च व्यञ्जकस्य कविप्रौढोक्तिमन्तरेणापि संभवात्स्वतः संभविता ।

'पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीं ।
देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि ।।'

     इदं मम । अत्र पश्यन्तीति कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न केऽप्यन्ये दातारस्तव सदृशा इति व्यतिरेकालङ्कारोऽसंख्यपदद्योत्यः । एवमन्येष्वप्यर्थशक्तिपूलसंलक्ष्यक्रमभेदेषूदाहार्यं ।
     तदेवं ध्वनेः पूर्वोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थो व्यङ्ग्यो वाक्यमात्रे भवन्नेकः । अन्ये पुनः सप्तदश वाक्ये पदे चेति चतुस्त्रिंशदिति पञ्चत्रिंशद्भेदाः ।

प्रबन्धेऽपि मतो धीरैरर्थशक्त्युद्भ्वो ध्वनिः ।। सूत्र ४.१० ।।

प्रबन्धे महावाक्ये । अनन्तरोक्तद्वादशभेदोर्ऽथशक्त्युत्थः ।
यथा महाभारते गृध्रगोमायुसंवादे---

'अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले ।

कङ्कालबहते घोरे सर्वप्राणिभयङ्करे ।।
न चेह जीवितःकश्चित्कालधर्ममुपागतः ।

प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशई ।।'

     इति दिवा प्रभवतो गृध्रस्य श्मशाने मृतं बालमुपादाय तिष्ठतां तं परित्यज्य गमनमिष्टं ।

'आदित्योऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतं ।

बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ।।
अमुं कनकवर्णाभं बालमप्राप्तयौवनं ।

गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः ।।'

     इति निशि समर्थस्य गोमायोर्दिवसे परित्यागोऽनभिलषित इति वाक्यसमहेन द्योत्यते । अत्र स्वतः संभवी व्यञ्जकः ।
एवमन्येष्वेकादशभेदेषूदाहार्यं । एवं वाच्यार्थव्यञ्जकत्वे उदाहृतं ।
     लक्ष्यार्थस्य यथा---'निःशेषच्युतचन्दनम्--' इत्यादि (पृदृ ६२) । व्यङ्ग्यार्थस्ययथा--'उअ णिच्चल-' इत्यादि (पृदृ ६३) ।
अनयोः स्वतः संभविनोर्लक्ष्यव्यङ्ग्यार्थौ यञ्जकौ । एवमन्येष्वेकादशभेदेषूदाहार्यं ।

पदांशवर्णरचनाप्रबन्धेष्वस्फुटक्रमः ।

     असंलक्ष्यक्रमव्यङ्ग्यो ध्वनिस्तत्र पदांशप्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः ।। यथा---

'चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं

रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं

वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती ।।'

     अत्र 'हताः' इति न पुनः 'दुःखं प्राप्तवन्तः' इति हन्प्रकृतेः । 'मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामं ।
     मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ।।'
     अत्र 'तु' इति निपातस्यानुतापव्यञ्जकत्वं ।
     'न्यक्कारो ह्ययमेव मे यदरः--' इत्यादौ (८ पृ.) 'अरयः' इति बहुवचनस्य, 'तापसः' इत्येकवचनस्य, 'अत्रैव' इति सर्वनाम्नः, 'निहन्ति' इति 'जीवति इति च तिङः, 'अहो' इत्यव्ययस्य, 'ग्रामटिका' इति करूपतद्धितस्य, 'विलुण्ठन' इति व्युपसर्गस्य, 'भुजैः' इति बहुवचनस्य व्यञ्जकत्वं ।

'आहारे विरतिः, समस्तविषयग्रामे निवृत्तिः परा,

नासाग्रे नयनं तदेतदपरं यच्चैकतानं मनः ।
मौनं चेदमिदं च शून्यमधुना यद्विश्वमाभाति ते,

तद्ब्रूयाः सखि ! योगिनी किमसि, भोः !किं वा वियोगिन्यसि ।।'

     अत्र तु 'आहारे इति विषयसप्तम्याः, 'समस्त' इति 'परा' इति च विशेषणद्वयस्य, 'मौनं चेदम्' इति प्रत्यक्षपरामर्शिनः सर्वनाम्नः, आभाति' इत्युपसर्गस्य 'सखि' इति प्रणयस्मारणस्य 'असि भोः' इति सोत्प्रासस्य 'किं वा' इत्युत्तरक्षदार्ढ्यसूचकस्य वाशब्दस्य, 'असि' इति वर्त्तमानोपदेशस्य च तत्तद्विषयव्यञ्जकत्वं सहृदयसवेद्यं ।
     वर्णरचनयोरुदाहरिष्यते । प्रबन्धे यथा--महाभारते शान्तः । रामायणो करुणः । मालतीमाधवरत्नावल्यादौ शृङ्गारः । एवमन्यत्र ।

तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्मताः ।। सूत्र ४.११ ।।

सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया ।

वेदखाग्निशराः (५३०४) शुद्धैरिषुबाणाग्निसायकाः (५३५५) ।। सूत्र ४.१२ ।।

     शुद्धैः शुद्धभेदैरेकपञ्चाशता योजनेनेत्यर्थः ।
     दिङ्मात्रं दूदाह्रियते---

'अत्युन्नतस्तयुगा तरलायताक्षी

द्वारि स्थिता तदुपयानमहोत्सवाय ।
सा पूर्णकुम्भनवनीरजतोरणस्त्र-

क्संभारमङ्गलमयत्नकृतं विधत्ते ।।'

     अत्र स्तनावेव पूर्णकुम्भौ, दृष्टय एव नवनीरजस्त्रज इति रूपकध्वनिरसध्वन्योरेकाश्रयानुप्रवेशः सङ्करः ।
'धिन्वन्त्यमूनि मदमूर्च्छदलिध्वनीनि
धूताध्वनीनहृदयानि मधोर्दिनानि ।
निस्तन्द्रचन्द्रवदनावदनारविन्द-
सौरभ्यसौहृदसगर्वसमीरणानि ।।'
     अत्र निस्तन्द्रेत्यादिलक्षणामूलध्वनीनां संसृष्टिः ।
     अथ गुणीभूतव्यङ्ग्यम्---
     अपरं तु गुणीभूतव्यङ्ग्यं वाच्यादनुत्तमे व्यङ्ग्ये ।
     अपरं काव्यं ।
     अनुत्तमत्वं न्यूनतया साम्येन च संभवति ।
     तत्र स्यादितराङ्गकाक्वाक्षिप्तं च वाच्यसिद्ध्य्ङ्गं ।। सूत्र ४.१३ ।।

     संदिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगूढं ।
     व्यङ्ग्यमसुन्दरमेवं भेदास्तस्योदिता अष्टौ ।। सूत्र ४.१४ ।।

     इतरस्य रसादेरङ्गरसादिव्यङ्ग्यं ।
     यथा--

'अयं सरसनोत्कर्षो पीनस्तनविमर्दनः ।
नाभ्यूजघनस्पर्शो नीवीविस्त्रंसनः करः ।।'

     अत्र शृङ्गारः करुणस्याङ्गं ।

'मानोन्नतां प्रणयिनीमनुनेतुकाम-

स्त्वसैन्यसागररवोद्रतकर्णतापः ।
हा !हा! कथं नु भवतो रिपुराजधानी-

प्रासादसंततिषु तिष्ठति कामिलोकः ।।

     अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य राजविषयरतावङ्गभावः ।

'जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया

वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितं ।
कृतालङ्काभर्तुर्वदनपरिपाटीषुघटना

मायाप्तं रामत्वं कुशलवसुता न त्वधिगता ।।'

     अत्र रामत्वं प्राप्तमित्यवचनेऽपि शब्दशक्तेरेव रामत्वमवगम्यते । वचनेन तु सादृश्यहेतुकतादात्म्यारोपणमाविष्कुर्वता तद्रोपनमपाकृतं ।
तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाङ्कतां नीतं ।
     काक्वाक्षिप्तं यथा---

'मथ्नामि कौरवशतं समरे न कोपा-

द्दुःशासनस्य रुधिरं न पिबाम्युतरस्तः ।
संचूर्णयामि गदया न सुयोधनोरूं

सन्धि करोतु भवतां नृपतिः पणेन ।।'

     अत्र मथ्नाम्येवेत्यादिव्यङ्ग्यं वाच्यस्य निषेधस्य सहभावेनैव स्थितं ।

'दीपयन्रोदसीरन्ध्रमेष ज्वलति सर्वतः ।
प्रतापस्तव राजेन्द्र ! वैरिवंशदवानलः ।।'

     अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्ग्यः प्रतापस्य दावानलत्वारोपसिद्ध्यङ्गं ।
     'हरस्तु किंचित्परिवृत्तधैर्यः--' इत्यादौ ((२२.पृ दृ) विलोचनव्यपारलाषयोः प्राधान्ये संदेहः ।

'ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्नयश्च वो मित्त्रमन्यथा दुर्मनायते ।।'

     अत्र परशुरामो रक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समंप्राधान्यं ।

'सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः ।
अल्लावदीननृपतौ न सन्धिर्न च विग्रहः ।।'

     अत्राल्लावदीनाख्ये नृपतौ दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानामपि भ्क्तटित्यस्फुटं ।

'अनेन लोकगुरुणा सतां धर्मोपदेशिना ।
अहं व्रतवती स्वैरमुक्तेन किमतः परम् ।।'

     अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्यग्योषिति बालात्कारोपभोगः स्फुटतया वाच्यायमान इत्यगूढं ।

'वाणीरकुडङ्गुड्डीणसौणिकोलाहणं सुणन्तीए ।
घरकम्मवावडाए बहुए सीअन्ति आङ्गाइं ।।'

     अत्र दत्तसंकेतः जश्चिल्लतागृहं प्रविष्ट इति व्यङ्ग्यात्'सीदन्त्यङ्गनि' इति वाच्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरं ।
     किञ्च । यो दीपकतुल्ययोगितादिषूपमाद्यलङ्कारो व्यङ्ग्यः स गुणीभूतव्यङ्ग्य एव । काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात् ।
तदुक्तं ध्वनिकृता--

'अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः ।।'

     यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्यासः ।
     यथा---

'दृष्ट्या केशव गोपरागहृतया किंचिन्न दृष्टं मया

तेनात्र स्खलितास्मि नाथ पतितां किं नाम नालम्बसे ।
एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिर्-

गोप्येवं गदितः सलेशमवताद्रोष्ठे हरिर्वश्चिरम् ।।'

     अत्र गोपरागादिशब्दानां गोपे राग इत्यादिव्यङ्ग्यार्थानां सलेशमिति पदेन स्फुटतयावभासः । सलेशमिति पदस्य परित्यागे ध्वनिरेव ।
     किञ्च । यत्र वस्त्वलङ्कारसादिरूपव्यङ्ग्यानां रसाभ्यन्तरे गुणीभावस्तत्र प्रधानकृत एव काव्यव्यवहारः ।
     तदुक्तं तेनैव---

'प्रकारोऽयं गुणीभूतव्यह्ग्योऽपि ध्वनिरूपतां ।
धत्ते रसादितात्पर्यपर्यालोचनया पुनः ।।' इति ।

     यत्र तु---
     'यत्रोन्मदानां प्रमदाजनानामभ्रंलिहः शोणमणीमयखः ।
     संध्याभ्रमं प्राप्नुताकाण्डेऽप्यनङ्गने पथ्यविधिं विधत्ते ।।'
     इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेङ्गत्वम्, तत्र तेषामतात्पर्यविषयत्वेऽपि तैरेव गुणीभूतैः काव्यव्यवहारः ।
तदुक्तमस्मद्गोत्रकविपणिडतमुख्यश्रीचण्डीदासपादैः-वाक्या (काव्यार्)थस्याखण्डबुद्धिवेद्यतया तन्मयीभावेनास्वाददशायं गुणप्रधानभावावभासस्तावन्नानुभूयते, कालान्तरे तु प्रकरणादिपर्यालोचनया भवन्नप्यसौ न काव्यव्यवदेशंव्याहन्तुमीशः, तस्यास्वादमात्रयत्तत्वात्' इति ।
     केचिच्चित्राख्यं तृतीयं काव्यभेदमिच्छन्ति । तदाहुः---

'शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्' ।

इति । तन्न, यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस्तदा तस्य काव्यत्वमपि नास्तीति प्रागेवाक्तं । ईषद्व्यङ्ग्यत्वमिति चेत्, किं नामेषद्व्यङ्ग्यत्वं ? आस्वाद्यव्यङ्ग्यत्वम्, अनास्वाद्यव्यङ्ग्यत्वं वा ? आद्ये प्राचीनभेदयोरेवान्तः पातः । द्वितीये त्वकाव्यत्वं । यदि चास्वाद्यत्वं तदाक्षुद्रत्वमेव क्षुद्रतायामनास्वाद्यत्वात् ।
     तदुक्तं ध्वनिकृता---

'प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।
उभे काव्ये ततोऽन्यद्यत्तच्चित्रमभिधीयते ।।' इति ।

ति साहित्यदर्पणे ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदनिरूपणो नाम
चतुर्थः परिच्छेदः ।