सामग्री पर जाएँ

सामवेदः/कौथुमीया/सामविधानब्राह्मणम्/प्रथमः प्रपाठकः

विकिस्रोतः तः

अथ सामविधानब्राह्मणम्
 प्रथमः प्रपाठकः
 ब्रह्म ह वा इदमग्र आसीत ॥१॥ तस्य तेजो रसोऽत्यरिच्यत । स ब्रह्मा समभवत् ॥२॥ स तूष्णीं मनसाऽध्यायत् । तस्य यन्मन आसीत् स प्रजापतिरभवत् ॥३॥ तस्मात् प्राजापत्यां मनसा जुह्वति । मनो हि प्रजापतिः ॥४॥ तस्य द्यौः शिर आसीदुरोऽन्तरिक्षं मध्यꣳ समुद्रः पृथिवी पादौ ॥५॥ स वा इदं विश्वं भूतमसृजत । तस्य सामोपजीवनं प्रायच्छत् ॥६॥ उपजीवनीयो भवति य एवं वेद ॥७॥ तद्योऽसौ क्रुष्टतम इव साम्नः स्वरस्तं देवा उपजीवन्ति योऽवरेषां प्रथमस्तं मनुष्या यो द्वितीयस्तं गन्धर्वाप्सरसो यस्तृतीयस्तं पशवो यश्चतुर्थस्तं पितरो ये चाण्डेषु शेरते यः पञ्चमस्तमसुररक्षाꣳसि योऽन्त्यस्तमोषधयो वनस्पतयो यच्चान्यज्जगत्तस्मादाहुः सामैवान्नमिति । साम ह्येषामुपजीवनं प्रायच्छत् ॥८॥ उपजीवनीयो भवति य एवं वेद ॥९॥ तस्य ह वा एतस्य साम्न ऋगेवास्थीनि स्वरो माꣳसानि स्तोभा लोमानि ॥१०॥ यो ह वै साम्नः स्वं यः सुवर्णं वेद स्वं च ह वै साम्नः सुवर्णं च भवति स्वरो वाव साम्नः स्वं तदेव सुवर्णम् ॥११॥ यो ह वै साम्नः प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिꣳश्च लोकेऽमुष्मिꣳश्च वाग्वाव साम्नः प्रतिष्ठा यद्वेतद्वागित्यृगेव सा। ऋचि साम प्रतिष्ठितम् ॥१२॥ स यदा गायत्रं बृहत्यां गायति बार्हतं जगत्यां जागतं त्रिष्टुभिस्समतां चापद्यते तस्मादेतत्सामेत्याह समा उ ह वा अस्मिꣳश्छन्दांसि साम्यादिति तत्साम्नः सामत्वम् ॥१३॥
क्रुष्टः प्राजापत्यो ब्राह्मो वा वैश्वदेवो वाऽऽदित्यानां प्रथमः साध्यानां द्वितीयोऽग्नेस्तृतीयो वायोश्चतुर्थः सौमो मन्द्रो मित्रावरुणयोरतिस्वार्यः॥१४॥ ते देवाः प्रजापतिमुपाधावन् तेऽब्रुवन् कथं नु वयꣳ स्वर्गंल्लोकमियाम इति तेभ्य एतान् यज्ञक्रतून् प्रायच्छदेतैः स्वर्ग्गंल्लोकमेष्यथ इति तैः स्वर्ग्गंल्लोकमायन् ॥१५॥ स्वर्गंुपल्लोकमेति य एवं वेद ॥१६॥ तेषामहीयन्ताजाः पृश्नयो वैखानसावसुरोचिषो ये चापूता ये च कामेप्सवस्तेऽब्रुवन् कथं नु वयं स्वर्ग्गंल्लोकमियाम इति तेभ्य एतत्स्वाध्यायाध्ययनं प्रायच्छत्, तपश्चैताभ्याꣳ स्वर्गंल्लोकमेष्यथेति ताभ्याँ स्वर्ग्गंल्लोकमायन् ॥१७॥ स्वर्ग्गंल्लोकमेति य एवं वेद य एवं वेद ॥१८॥ इति प्रथमः खण्डः॥१/१॥

1.2 अथातस्त्रीन् कृच्छ्रान् व्याख्यास्यामः ॥१॥ हविष्यान् प्रातराशान् भुक्त्वा तिस्रो रात्रीर्न्नाश्नीयात् ॥२॥ अथापरं त्र्यहं नक्तं भुञ्जीत ॥३॥ अथापरं त्र्यहं न कञ्चन याचेत ॥४॥ अथापरं त्र्यहमुपवसेत् ॥५॥ तिष्ठेदहनि रात्रावासीत क्षिप्रकामः ॥६॥ सत्यं वदेदनार्य्यैर्न सम्भाषेत रौरवयौधाजये नित्यं प्रयुञ्जीत। अनुसवनमुदकोपस्पर्शनमापोहिष्ठीयाभिः। अथोदकतर्पणम्। नमोऽहमाय मोहमाय मꣳहमाय धून्वते तापसाय पुनर्वसवे नमो नमो मौञ्यापणयौर्म्याय सौम्याय शम्याय शिवाय नमो नमः पाराय सुपाराय महापाराय पारदाय पारविन्दाय नमो नमः पुरुषाय सुपुरुषाय महापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमो नम इत्येतदेवादित्योपस्थानम् एता एवाज्याहुतयः । द्वादशरात्रस्यान्ते
स्थालीपाकꣳ श्रपयित्वैताभ्यो देवताभ्यो जुहुयात् अग्ग्नये स्वाहा सोमाय स्वाहा अग्ग्नीषोमाभ्यामिन्द्राग्ग्निभ्यामिन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतयेऽग्ग्नये स्विष्टकृत इति अथो ब्राह्मणतर्पणम् ॥७॥ एतेनैवातिकृच्छ्रो व्याख्यातः॥८॥ यावत्सकृदाददीत तावदश्नीयात ॥९॥ अब्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः ॥१०॥ प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति द्वितीयं चरित्वा यत्किञ्चिदन्यन्महापातकेभ्यः पापं कुरुते तस्मात् प्रमुच्यते तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते ॥११॥ अथैताꣳस्त्रीन् कृच्छाꣳश्चरित्वा सर्वेषु वेदेषु स्नातो भवति सर्वेषु देवेषु ज्ञातो भवति यश्चैवं वेद यश्चैवं वेद ॥१२॥ इति द्वितीयः खण्डः॥१/२॥

1.3 अथातः स्वाध्यायाध्ययनस्य ॥१॥ काममुक्त्वोपक्रामेदन्ते वा त्रीन् कृच्छ्राꣳश्चरित्वा पूतो भवति अग्ग्निं प्रतिष्ठाप्याग्न्यभावे तूदकमादित्यं वोपसमाधाय दर्भानुपस्तीर्य्य दर्भेष्वासीनः प्राक्कूलेषूदक्कुलेषु वा दक्षिणेन पाणिना दर्भमुष्टिं गृहीत्वा ॥२॥ प्रथमं त्रिवर्ग्गं नवकृत्वो नवकृत्वो गायेत् ॥३॥ एवं सदा प्रयुञ्जानोऽग्न्याधेयमवाप्नोति ॥४॥ इन्द्राय पवते मद इति पवमान हवीꣳष्येतेन कल्पेन ॥५॥ सुवर्महाः सुवर्मया इत्येताभ्यां दर्शपूर्णमासावेतेनैव कल्पेन ॥६॥ भृत्यातिथिशेषभोजी काले दारानुपेयात् यथाशक्ति चातिथिभ्यो दद्यादप्युदकमन्ततः एवंव्रतो यदिन्द्राहं यथा त्वम् इत्येते सदा प्रयुञ्जीत सुवर्महाः सुवर्मया इत्येते च पर्व्वणि तथा हास्याग्ग्निहोत्रमविलुप्तꣳ सदा हुतं स दर्शपूर्णमासं भवति ॥७॥ कर्म्मान्तेऽग्ग्निं प्रतिष्ठाप्य व्रीहियवाँꣳस्तण्डुलाꣳस्त्रिः प्रक्षाल्य जुहुयात् अग्ग्नये स्वाहा सोमाय पवित्रवते वरुणाय धन्वन्तरये मनसा प्राजापत्यां ब्रह्मणे अग्ग्नये स्विष्टकृत इति पश्चात् ॥८॥ अथातः पाञ्चरात्रिकाणाम्। व्रीहियवौ भोजनमसौहित्यमन्ते त्वग्न्यादिरुक्तः कल्पः काम्यानां चाविप्रतिषेधस्तमिन्द्रं वाजयामसीति चतुर्वर्गेण चातुर्मास्यान्यवाप्नोति, अस्य प्रेषेति पाशुकानि ॥९॥ त्रातारमिन्द्रं यजामह इत्येताभ्यां पशुबन्धम् ॥१०॥ पयोव्रत एतेन कल्पेन बृहदिन्द्राय गायतेति चतुर्वर्गेण सौत्रामण्यौ सौत्रामण्यौ ॥११॥ इति तृतीयःखण्डः॥१/३॥

1.4 अथातः साप्तरात्रिकाणां भैक्षं पयो वा व्रतमेके भैक्षार्थायैव ग्रामं प्रविशेन्नान्यत्र स्वाध्यायाद्वाचमुत्सृजेदधः शयीत नापोऽभ्यवेयादन्ते त्वग्न्यादिरुक्तः कल्पः। काम्यानां चाप्रतिषेधः ॥१॥ ईङ्खयन्तीरिति दशतꣳ रथन्तरं च वामदेव्यं चैतान्यनुसवनं प्रयुञ्जानोऽग्निष्टोममवाप्नोति ॥२॥ यज्ञायज्ञा वो अग्ग्नय इति चतुर्वर्गेणात्यग्निष्टोमं नमस्ते अग्ग्न ओजस इति दशतोक्थ्यम् पुनानः सोम धारयेति वर्गेण षोडशिनं परीतो षिञ्चता सुतमिति वर्गेणातिरात्रम् ॥३॥ पयोव्रत एतेन कल्पेन तिस्रो वाच उदीरत इति वर्गेण वाजपेयम् ॥४॥ मासमेतेन कल्पेनाव इन्द्रं कृविं यथेति दशताप्तोर्य्यामाणम् ॥५॥ मासं चतुर्थे काले भुञ्जान आजुहोता हविषा मर्जयध्वमिति दशता द्वादशाहम् ॥६॥ सँवत्सरमेतेन कल्पेनाबोध्यग्ग्निरिति दशतं रथन्तरं च वामदेव्यं च बृहच्च वैरूपञ्च वैराजं च महानाम्न्यश्च रेवत्यश्चैतान्यनुसवनं प्रयुञ्जानो गवामयनमवाप्नोति ॥७॥ राजनरौहिणाभ्यां तापश्चिते ॥८॥ पयोव्रत एतेन कल्पेन सोमः पवते जनिता मतीनामिति चतुर्व्वर्गेण चातुर्मास्यानि सौमिकान्यवाप्नोति ॥९॥ संवत्सरमष्टमे काले भुञ्जानो ग्राम्यमन्नं प्र तु द्रवेति दशतमावर्तयन् नैमिशीयं द्वादश सँवत्सरमवाप्नोति ॥१०॥ आग्नेयमैन्द्रं पावमानमित्येतेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानः शतसँवत्सरमवाप्नोति ॥११॥ सर्वं प्रयुञ्जानः सहस्रसँवत्सरमवाप्नोत्यनश्नन् सँहिता सहस्रेण वा पृष्ठोपतापशतसहस्रेण वा ॥१२॥ प्रथमस्त्रिवर्गः सावित्र्यां गायत्रं महानाम्न्यश्चैषामृता नाम सँहितैतया वै देवा अमृतत्वमायन् ॥१३॥ अमृतत्वमेति य एवं वेद ॥१४॥ इदꣳ ह्यन्वोजसेति प्रथमोत्तमे त्वामिदा ह्यो नरः स पूव्यो महोनां पुरां भिन्दुर्युवा कविरुपप्रक्षे मधुमति क्षियन्तः पवस्व सोम मधुमाँ ऋतावा सुरूपकृद्राहसं माधुच्छन्दसमेषा माधुच्छन्दसी नाम सँहितैतया वै देवाः स्वर्ग्गंल्लोकमायन् ॥१५॥ स्वर्ग्गंल्लोकमेति य एवं वेद ॥१६॥ आ वो राजा तद्वोवर्ग्ग आज्य दोहानि देवव्रतानि चैषा रौद्री नाम सँहितैतां प्रयुञ्जन् रुद्रं प्रीणाति ॥१७॥ इदं विष्णुः प्रक्षस्य वृष्णः प्रकाव्यमुशनेव ब्रुवाण इति वाराहमन्त्यं पुरुषव्रते चैषा वैष्णवी नाम सँहितैतां प्रयुञ्जन् विष्णुं प्रीणाति ॥१८॥ अदर्दः सुष्वाणास आ तू न इति वर्ग्गा मृज्यमानः सुहस्त्या इति प्रथमषष्ठे चैषा वैनायकी नाम संहितैतां प्रयुञ्जन् विनायकं प्रीणाति ॥१९॥ आ मन्द्रैरिन्द्र हरिभिरा नो विश्वासु हव्यं प्र सेनानीरिति वर्ग्गाः पवित्रन्त इति द्वे एषा स्कन्दस्य सँहितैतां प्रयुञ्जन् स्कन्दं प्रीणाति ॥२०॥ यद्वा उ विश्पतिः सनादग्ग्नेऽक्षन्नमीमदन्त ह्यभित्रिपृष्ठमक्रान्त्समुद्रः कनिक्रन्तीति द्वे एषा पित्र्या नाम सँहितैतां प्रयुञ्जन् पितॄन् प्रीणाति ॥२१॥ आस्यदघ्न उदके तिष्ठन्नक्ये नाकी इत्येतत् त्रिःसप्तकृत्वो गायेदेतत सर्व्ववाचोगतसंमितमेतेन सर्वान् कामानवाप्नोति ॥२२॥
यश्चैवँ वेद यश्चैवँ वेद ॥२३॥ इति चतुर्थः खण्डः॥१/४॥

1.5 अथातः प्रायश्चित्तानाम् ॥१॥ अनादेशे मन्त्रा बलवन्तस्तपोऽन्विताः पावना भवन्ति ॥२॥ आपन्नः प्रायश्चित्तं चरेत ॥३॥ अभ्यासः साम्नाꣳ शतं दशावरम् ॥४॥ काहलमुक्त्वा दधिक्राव्णो अकारिषमित्येतद्गायेत् ॥५॥ परुषमुक्त्वेदं विष्णुर्विचक्रम इति ॥६॥ ब्राह्मणमुक्त्वा त्रिः ॥७॥ भ्रातरं मातुलं पितृव्यमिति गुरुजातीयान् प्रसाद्य पक्षिणीꣳ रात्रिमुपोष्य तवाहँ सोम रारणेति प्रथममेकविꣳशतिकृत्वः ॥८॥ उपाध्यायं मातरं पितरमित्येतेषु त्रिरात्रमुपवसन्नेतस्यैवान्त्यम् ॥९॥ अनध्याप्यमध्याप्य सप्तरात्रमुपवसन् सदा गावः शुचयो विश्व धायस इत्येतद्गायेत्॥१०॥ अयाज्ययाजने दक्षिणास्त्यक्त्वा मासं चतुर्थे काले भुञ्जानः कानी इत्येतद्गायेत् ॥११॥ अमेध्यदर्शने ये ते पन्था अधो दिव इति तथामेध्यघ्राणे ॥१२॥ अभोज्यभोजने ऽमेध्यप्राशने वा निष्पुरीषी भावस्त्रिरात्रावरं तूपवसन्नेतोन्विन्द्रꣳ स्तवाम शुद्धमिति पूर्वं सदा सहस्रकृत्व आवर्तयन् ॥१३॥ बहून्यप्युपपतनीयानि कृत्वा त्रिभिरनश्नत्पारायणैः पूतो भवति ॥१४॥ सुरां पीत्वा संवत्सरमष्टमे काले भुञ्जानो यत्पाण्योः
सम्भवेदवाङ्नाभ्यूर्ध्वं जानु बर्हितस्त्रिरह्न उपस्पृशꣳस्तथा रात्रौ स्थानासनाभ्यां तिष्ठेदहनि रात्रावासीत पवित्रन्त इत्युत्तरेणाहोरात्राणि जपन् ग्रामद्वारे स्थानासन भोजनानि यत्र लभेत्तत्र वसेन्न प्रवसेत् । स्वकर्मणाभिभाषेत। चतुर्णां ब्राह्मणानामग्रतः प्राश्नीयात् ग्रामद्वारस्यैवाग्रत आवश्यकायामभिक्रामेदतोऽन्यथा शङक्यम्। पूर्णे संवत्सरे तैलँ लवणं क्षुरमग्ग्निं गां बीजानीत्यालब्धवन्तं ब्राह्मणा ब्रूयुश्चरितं तवेत्यों भो इति ब्रूयात् सप्तावरान् सप्तपरान् हन्त्यनृतं चरितं तव सुचरितं तवेत्यों भो इति ब्रूयादत ऊर्ध्वं केशश्मश्रु लोमनखानि वापयित्वाहतँ वसनं परिधाय ब्राह्मणान् स्वस्ति वाचयित्वा पूतो भवति ॥१५॥ एतेन कल्पेन भ्रूणहा पूर्वमेतेन ब्रह्महा शुद्धाशुद्धीयमुत्तरमेतेन सुवर्णस्तेनोऽभित्रिपृष्ठमित्यभित्रि पृष्ठमिति ॥१६॥ इति पञ्चमः खण्डः ॥१/५॥

1.6 ब्राह्मणस्वꣳ हृत्वा मासमुदके वासश्चतुर्थे काले भोजनं दिवा बहिरास्याद् व्रतान्ते शुक्रं ते अन्यद्यजतं ते अन्यदित्येतद्गायेत् ॥१॥ अन्यस्य हृत्वा कृच्छ्रं चरन्नयꣳ सहस्रमानव इति द्वितीयम् ॥२॥ गुरुदारान् गत्वा सुरापकल्पेन अक्रानित्येतद्गायेत् ॥३॥ ब्राह्मणदारान् गत्वा त्रीन् कृच्छ्राꣳश्चरन् ब्रह्मजज्ञानमिति पूर्वम् ॥४॥ अन्यस्य गत्वा कृच्छ्रश्चरनरण्योरित्येतत् ॥५॥ शूद्रां गत्वा त्रिरात्रमुपवसन्निडामग्ग्न इत्येतत् ॥६॥ अकाले दारानुपेत्य त्रीन् प्राणायामानायम्य कयानाया द्वितीयमावर्त्तयेत् ॥७॥ ब्राह्मणाद्वार्धुषिꣳ हृत्वा त्रीन् कृच्छ्राꣳश्चरन् ब्रह्मजज्ञानमित्युत्तरम् ॥८॥ अन्यस्य हृत्वा कृच्छ्रंश्चरन्ननु हित्वा सुतꣳ सोमेत्यनु हि त्वा सुतꣳ सोमेति ॥३॥
इति षष्ठः खण्डः॥१/६॥

1.7 राज्ञः प्रतिगृह्य मासमुदके वसन् दिवा भुञ्जानो महत्तत्सोमो महिषश्चकारेत्येतद्गायेत् ॥१॥ अन्यस्याप्रतिग्राह्यस्य कृच्छ्रंश्चरꣳस्त्रिकद्रुकेष्वित्येतत् ॥२॥ अदत्तादान एकरात्रमुपवसन्नग्ग्निस्तिग्मेनेति द्वितीयम् ॥३॥ ब्राह्मणायावगूर्य्य प्राणं गायेन्निहत्यापानँ शोणिते क्षरति प्र सोम देववीतय इति द्वितीयम् ॥४॥ राजन्यवैश्यौ सवनगतौ हत्वा ब्राह्मणस्वकल्पेन शुद्धाशुद्धीयमुत्तरम् ॥५॥ शूद्रꣳ हत्वा द्वादश रात्रमुपवास उदके च वासोऽयं त इन्द्र सोम इति द्वितीयम् ॥६॥ गाꣳ हत्वा द्वादशरात्रमुपवास उदके च वासो वयं घ त्वा सुतावन्त इति द्वितीयम् ॥७॥ अन्यत्प्राणिहत्वैकरात्रमुपवसन् अग्ग्निस्तिग्मेनेति द्वितीयम् ॥८॥ अवकीर्णी त्रीन् कृच्छ्राꣳश्चरन् परीतो षिञ्चता सुतमिति चतुर्थमावर्त्तयेत् ॥९॥ एतेन कल्पेन परिवेत्ता परिविन्दश्च सोमꣳ राजानं वरुणमित्येतत् ॥१०॥ अयोनौ रेतः सिक्त्वाग्निर्मूर्द्धा घृतवती द्वितीयं यदितस्तन्वो ममेति च ॥११॥ शूद्रजीविकायां सेवित्वोपरम्य त्रीन कृच्छाꣳश्चरꣳश्चक्रमित्येतद्गायेत् ॥१२॥ वैश्यजीविकायाँ वयः सुपर्णा इत्येतत् राजन्यजीविकायां पवस्व सोम मधुमाँ ऋतावेत्येतदभित्यं मेषमिति वा ॥१३॥सदा प्रयोगः ॥१४॥ ब्राह्मणमनृतमभिशस्य तत्पापं प्रतिपद्यते गुह्यं प्रकाशयन्नर्धभाग्भवति ॥१५॥ अग्ग्निस्तिग्मेन इति वर्गं प्रयुञ्जानस्तेन तत्तरति तेन तत्तरति ॥१६॥ इति सप्तमः खण्डः ॥१/७॥


1.8 रसान्विक्रीय कृच्छ्रंश्चरन् घृतवती द्वितीयम् ॥१॥ उभयतोदन्तान् विक्रीय कृच्छ्रंश्चरन् को अद्य युङ्क्त इत्येतत् ॥२॥ तान् प्रतिगृह्यैतेनैव कल्पेन शं पदमि त्येतत् ॥३॥ अदत्तां कन्यां प्रकृत्य कृच्छ्रंश्चरन्नभ्रातृव्यो अनात्वमित्येतद्गायेत् ॥४॥ तां प्रतिगृह्यैतेनैव कल्पेन शं पदमित्येतत् ॥५॥ अभ्युदितो भद्रो नो अग्ग्निराहुत इत्येतद्गायेदभ्यस्तमितो न तस्य मायया च नेति ॥६॥ दुःस्वप्नेष्वद्या नो देव सवितरिति द्वितीयम् ॥७॥ अन्यस्मिꣳस्त्वनाज्ञाते कयानाया द्वितीयमावर्त्तयेत् ॥८॥ अग्निदग्धे घृताक्तान् यवाञ्जुहुयाज्जातः परेण धर्मणे त्येतेनाग्ग्नये स्वाहेति च ॥९॥ मूषिकजग्धे तिलाञ्जुहुयान्नकि देवा इनीमसीतीन्द्राय स्वाहेति च ॥१०॥ कूर्च्चनाश एकरात्रमुपवसन्नग्निस्तिग्मेनेति द्वितीयम् ॥११॥ अन्यस्मिꣳस्त्वनाज्ञाते यँ वृत्रेष्विति द्वितीयम् ॥१२॥ मनुष्येष्वभि वातेषु घृताक्तानाँ यवानामाढकं जुहुयादग्ग्ने त्वन्नो अन्तम इति चतुर्वर्गेण सामान्तेषु स्वाहाकारैरग्ग्नये स्वाहा वायवे स्वाहा सूर्याय स्वाहा चन्द्राय स्वाहेति च स्नेहवदमाꣳसमन्नं ब्राह्मणान भोजयित्वा स्वस्ति वाचयित्वा स्वस्ति हैषां भवति ॥१३॥ गोष्वभिवातासु घृताक्तानां यवानामाढकं जुहुयादा वो राजानमित्येतेन रुद्राय स्वाहेति च यावतीर्धूमः स्पृशति स्वस्ति हासां भवति ॥१४॥ अश्वेष्वभिवातेषु घृताक्तानाँ यवानामाढकं जुहुयादश्वी रथी द्वितीयेनाश्विभ्याꣳ स्वाहेति च यावतीर्धूमः स्पृशति स्वस्ति हैषां भवति स्वस्ति हैषां भवति ॥१५॥ इत्यष्टमः खण्डः॥१/८॥
इति प्रथमः प्रपाठकः