सामवेदः/कौथुमीया/सामविधानब्राह्मणम्/द्वितीयः प्रपाठकः

विकिस्रोतः तः
Jump to navigation Jump to search


2.1 अथ द्वितीयः प्रपाठकः
अथातः काम्यानाम् ॥१॥ अनादेशे त्रिरात्रमुपवासः पुष्येणारम्भः ॥२॥ आयुष्याण्येव प्रथमम् ॥३॥ अबोध्यग्निर्म्महित्रीणामिति द्वे त्वावत इन्द्रꣳ नरो ग्रामे गेयमायुरिति चास्य निधनं कुर्य्यात्, त्यमूषु द्वे त्रातारमिन्द्रꣳ हविरित्येतस्य स्थाने स्वस्ति न इति सोमः पुनान्त्यꣳ ससुप्रथमं विश्वतो दावन्निति पूर्वं रहस्य उदुत्तमं वरुण पाशमित्येषोऽरिष्टवर्ग एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः शतँ वर्षाणि जीवति । जरयैव विस्रꣳसते ॥४॥ भ्राजाभ्राजे शुक्रचन्द्रे राजनरौहिणके शुक्रियाद्ये हाउ स्वरतादीनि चत्वारि सेतुषाम चैषः पवित्रवर्ग एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः पूतो भवति ॥५॥ बहुप्रतिगृह्य याजयित्वा वासन्नमात्मानं मन्यमानो गौषूक्ताश्वसूक्ते शुद्धाशुद्धीये तरत्समन्दीत्येतानि प्रयुञ्जानः पूतो भवति ॥६॥ तवश्यावीयं प्रयुञ्जानः शुचिः पूतो ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्त्तते॥७॥ उदुत्तमँ वरुणपाशमित्येतत् सदा प्रयुञ्जानः सम्बाधं न निगच्छति निगतश्च प्रमुच्यते ॥८॥ गौरसर्षपाꣳ स्तुचे तुनाय तत्सु न इत्येतेन प्राश्नीयाद्दीर्घायुर्भवति॥९॥ त्रीन्वोदकाञ्जलीन् सदाचामेत् पिबा सोममिन्द्र मन्दतु त्वेत्येताभ्यां दीर्घायुर्भवति दीर्घायुर्भवति ॥५॥ इति प्रथमः खण्डः॥२/१॥

2.2 अथ यस्या जातानि प्रमीयेरन् न्यग्रोधशुङ्गाꣳ शरमूलं चोत्थाप्य तदहस्त्रिवृतं कारयेन्मणिमग्ग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधायाबोध्यग्ग्निरित्येतेनाभिजुहुयात् । सहस्रकृत्वः शतावरं तृतीये गर्भमासि निदध्यादाज्यशेषं मेखलायां मणिं धारयेत् पुमाꣳसꣳ ह जनयति जातस्य कण्ठेऽवसजेत् कुमारमाज्यशेषं प्राशयेत् सर्वाणि स्रोताꣳसि तर्पयेदभ्यञ्जीताहरहस्तत ऊर्ध्वमुपयुक्ते पुनः प्रयोगः। शतँ वर्षाणि जीवति जरयैव विसँसते ॥१॥ अथ यो रक्षसा गृहीतः स्यादशनिहतस्य वृक्षस्येध्मः, शुक्लाया गोः सरूपवत्साया अन्यस्या वाज्यं, बैल्वं मणिमुत्थाप्य तदहस्त्रिवृतं कारयेन्मणिमग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधायेन्द्र त्रिधातु शरणमित्येतेनाभिजुहुयात् सहस्रकृत्वः शतावरं तं मणिं कण्ठेन शिरसा वा धारयन् मुच्यते रक्षसा यद्वा उ विश्पतिरिति चैतत्सदा प्रयुञ्जीत स्वस्ति हास्य भवति ॥२॥ आमयावी कौम्भ्यं घृतं विश्वाः पृतना अभिभूतरं नर इत्येतेनाभिजुहुयात् सहस्रकृत्वः शतावरं जीवेति चास्य निधनं कुर्यादेतेनैव सदा प्राश्नीयान्मुच्यते आमयाव्यानो मित्रा वरुणेति चैतत्सदा प्रयुञ्जीत स्वस्ति हास्य भवति स्वस्ति हास्य भवति ॥३॥ इति द्वितीयः खण्डः ॥२/२॥

2.3 अथ यदस्य रुजेच्छन्नो देवी रहस्येन घृतमभिगीयाभ्यञ्ज्याच्छाम्यति ह ॥१॥ द्विकाद्येन वोदकं पाययेच्छीताभिरद्भिरभिषेचयेत्सोमꣳ राजानꣳ सनादग्ग्नेऽग्ग्निꣳ होतारमित्येतानि चैनमभिश्रावयेच्छाम्यति ह ॥२॥ शङ्खपुष्पीꣳ सर्पसुगन्धां चोत्थाप्य तदहस्त्रिवृतं कारयेन्मणिमग्ग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधाय चर्षणीधृतमिति वर्गेणाभिजुहुयात् सहस्रकृत्वः शतावरं तं मणिं कण्ठेन शिरसा वा धारयतो न सर्पभयं भवति कयानायां च सर्पसाम सदा प्रयुञ्जीत स्वस्ति हास्य भवति ॥३॥ श्वेतपुष्पां बृहतीमुत्थाप्य तदहस्त्रिवृतं कारयेन्मणिमग्ग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधाय मोषु त्वा वाघतश्च न इत्येतेनाभिजुहुयात् सहस्रकृत्वः शतावरं तं मणिं कण्ठेन शिरसा वा धारयतो न शस्त्रभयं भवति यत इन्द्र भयामह इति चैतत्सदा प्रयुञ्जीत स्वस्ति हास्य भवति ॥४॥ श्वेतपुष्पमर्क्कमुत्थाप्य तदहस्त्रिवृतं कारयेन्मणिमग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधाय स्वाशिरामर्क्केणाभिजुहुयात् सहस्रकृत्वः शतावरं तं मणिं कण्ठेन शिरसा वा धारयन बह्वन्नो भवति ॥५॥ दीर्घतमसोऽर्कोऽर्क्कशिरोऽर्कग्रीवा इति चैतानि प्रयुञ्जानः सर्वत्रान्नं लभते ॥६॥ समन्यायन्ती निधनं प्रयुञ्जानो न पिपासया म्रियते ॥७॥ इष्टाहोत्रीयं प्रयुञ्जानो नाप्सु म्रियते ॥८॥ अचोदस इति तृतीयं प्रयुञ्जीत नैनं यक्ष्मा गृह्णाति ॥९॥ त्वमिमा ओषधीरित्येतत्सदा प्रयुञ्जानो न गरेण म्रियते ॥१०॥ सं ते पयाँसीति पूर्वेण प्रथमं ग्रासं ग्रसेदुत्तरेण निगिरेद्विषमप्यस्यान्नं भवति । नैनꣳ हिꣳसति नैनꣳ हिꣳसति ॥७॥ इति तृतीयः खण्डः ॥२/३॥

2.4 करवीरदण्डमुत्थाप्य देवव्रतैरभिजुहुयादनुगानशस्तेन हस्तगतेन यत्र क्व च गच्छति सर्वत्र हास्य स्वस्ति भवति ॥१॥ तेन नगरं वा निगमँ वा ग्रामँ वा गोष्ठं वाऽऽगारं वा मनसा ध्यायन्परिलिखेन्नात्रानिष्ठाः प्रविशन्ति ॥२॥ प्रतिभयेऽध्वनि देवव्रतमाद्यं गीत्वा मध्यममावर्त्तयेत् गतेऽध्वन्युत्तमꣳ समापयित्वा विरमेत् ॥३॥ उद्यतशस्त्रान् शत्रून् दृष्ट्वा देवव्रतानि ध्यायन्नैनꣳ हिꣳसन्ति ॥४॥ अमानुषे भये कयानायास्तृतीयमावर्त्तयेन्नैनꣳ हिꣳसन्ति ॥५॥ अध्वानमभ्युत्थित आमन्द्रैरिति वर्गं गीत्वाऽनपेक्षमाणो व्रजेत् स्वस्त्यर्थचरितः पुनरैति नाध्वनि च प्रमीयते ॥६॥ अन्यो वैनमनुगायेत् कदाचनस्तरीरसीत्येतेन चैनमभिश्रावयेदर्धसाम्नि प्रदक्षिणमावर्त्तयेत् समाप्यानपेक्षमाणः परो व्रजेत स्वस्त्यर्थचरितः पुनरैति नाध्वनि च प्रमीयते ॥७॥ एषो उषा अपूर्व्येति सँविशन् सदा प्रयुञ्जीताकालꣳ स्वस्त्ययनमुदिते यदद्य कच्च वृत्रहन्नित्याकालꣳ स्वस्त्ययनम् ॥८॥ मूलफलैरुपवसथं कृत्वा मासमुपवसेदरण्ये निस्तान्तवो मुनिर्य्या रौहिणी वा पौषी वा पौर्णमासी स्यात्तदहरुद्यन्तमादित्यमुपतिष्ठेतोद्वयं तमसस्परीत्येतेन तत ऊर्ध्वं तद्व्रतस्तद्भक्षश्चत्वारि वर्षाणि प्रयुञ्जानो जरामृत्यू जहाति जरामृत्यू जहाति ॥९॥ इति चतुर्थः खण्डः ॥२/४॥

2.5 अथैकमनुष्याणामावर्त्तनँ स्त्रिया वा पुँसो वा ॥१॥ श्रवणेन व्रतमुपेत्य पूर्वैः प्रोष्ठपदैः ॥२॥ पाꣳसुभिः प्रतिकृतिं कृत्वा प्राक्शिरसं पूर्वाह्णे दक्षिणशिरसं मध्याह्ने प्रत्यक्शिरसमपराह्णेऽर्धरात्र उदक्शिरसं तस्या हृदयदेशमधिष्ठाया यन्त इन्द्र सोम इति ब्राह्मणस्येदन्त एकमिति क्षत्रियस्यैष प्रकोश इति वैश्यस्य विभोष्ट इन्द्र राधस इति शूद्रस्योद्वयन्तमसस्परीति वा सर्वेषाꣳ सौवर्णी प्रतिकृतिं कुर्य्याद् ब्राह्मणस्य राजतीं क्षत्रियस्यौदुम्बरीं वैश्यस्यायसीꣳ शूद्रस्यौदुम्बरीं वा सर्वेषामयमसाविति प्राक्शिरसमग्ग्नौ प्रतिष्ठाप्यौदुम्बरेण स्रुवेणाज्येनाभिजुहुयाच्छाव इतीनिधनेन गुणी हास्य भवति ॥३॥ कृष्णव्रीहीणां नखनिर्भिन्नानां पिष्टमयीं प्रतिकृतिं कृत्वा पिष्टस्वेदꣳ स्वेदयित्वा सर्षपतैलेनाभ्यज्य तस्याः क्षुरेणाङ्गान्यवदायाग्नौ जुहुयात् प्र मन्दिन इत्येतेन शेषꣳ स्वयं प्राश्नीयादितरथाभावे म्रियेत ॥४॥ अथ यः कामयेता वर्त्तयेयमित्येकरात्रं क्षुरसँयुक्तस्तिष्ठेत् सुतासो मधुमत्तमा इति वर्गमेतेषामेकमनेकँ वा सर्वाणि वा प्रयुञ्जान एकरात्रेण कुटुम्बिनमावर्त्तयति ॥५॥ द्विरात्रेण राजोपजीविनं त्रिरात्रेण राजानं चतूरात्रेण ग्रामं पञ्चरात्रेण नगरꣳ षड्रात्रेण जनपदꣳ सप्तरात्रेणासुररक्षाꣳस्यष्टरात्रेण पितृपिशाचान्नवरात्रेण यक्षान् दशरात्रेण गन्धर्वाप्सरसोऽर्धमासेन वैश्रवणं मासेनेन्द्रं चतुर्भिः प्रजापतिꣳ सँवत्सरेण यत्किञ्च जगत्सर्वꣳ हास्य गुणी भवति गुणी भवति ॥६॥ इति पञ्चमः खण्डः ॥२/५॥

2.6 अथातः सौभाग्यानाम् ॥१॥ यदिन्द्रो अनयदुच्चा ते जातमन्धस इति नवमदशमे एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः सुभगो भवति ॥२॥ द्वन्द्वाद्यायाः सप्तमाष्टमाभ्यामिन्द्राणीꣳ सदा तर्पयन् सुभगो भवति ॥३॥ अपामार्गं दन्तपवनं घृतमधुलिप्तं भद्रो नो अग्ग्निराहुत इत्येतेनानिष्ठीवन् सँवत्सरं भक्षयन् सुभगो भवति ॥४॥ भगो न चित्र इत्येताभ्यामञ्जयन् सुभगो भवति ॥५॥ इममिन्द्रेति वर्गं प्रयुञ्जानः सर्वजनस्य प्रियो भवति ॥६॥ परि प्रिया दिवः कविरित्येते यां कामयेत्ताँ श्रावयेत्कामयते हैनम् ॥७॥ अथ यास्य न गुणी स्यात्तां ब्रूयादाचामेतीन्द्रो विश्वस्य राजतीत्येताभ्यामाचामेत् ॥८॥ पदपाꣳसून्वास्याग्नौ जुहुयाद्ये ते पन्था अधो दिव इति ॥९॥ तैलँ वैनाँ याचित्वा पाणी परिमृद्वन्नग्नौ प्रतापयेदग्ग्न आयाहि वीतय इति द्वितीयेन नानागतायाँ विरमेत् ॥१०॥ गोजरायुकमहस्तस्पृष्टꣳ शोषयित्वा प्रियङ्गुकाꣳ सहाꣳ सहदेवा मध्यण्डां भूमिपाशकाꣳ सचां काचपुष्पीमित्येता उत्थाप्य तदहश्चूर्णानि कारयेदा नो विश्वासु हव्यमित्येतेन त्रिः सम्पाताꣳश्चूर्णेषु कृत्वा अग्ग्न आयाहि वीतय इति रहस्येनाद्भिः सँयूय तानि नाशुचिः पश्येद्वोपस्पृशेद्वा तदनुलेपनमेतेनानुलिप्तो याँ यामुपस्पृशते सा सैनं कामयते ॥११॥ गम्यां नास्नात उपस्पृशेत् ॥१२॥ उत्पले बुद्धे प्रियङ्गुका आवपेद्यदा पर्णानि सँहरेदथैनमुत्थाप्य चतुरङ्गुलमुभयतः परिच्छिद्य मध्यमुद्धरेत्तदनुलेपनम्, तेनानुलिम्पेदवाꣳशं च नि त्वा नक्ष्य विश्पत इत्येतेनास्य वेशस्थाः प्रव्रजिताश्च वश्या भवन्ति ॥१३॥ कन्याप्रवहण एकरात्रोपोषितोऽमावास्यायां निशि चतुष्पथ एह्यूषु ब्रवाणि त इत्येतेनाभिषिञ्चेत् त्रिरभिषिक्ता प्रदीयते ॥१४॥ आ ते वत्साः इति पुंसः ॥१५॥ त्रिरात्रोपोषितः कृष्णचतुर्दश्याꣳ शवादगारमाहृत्य चतुष्पथे बाधकमिध्ममुपसमाधाय मत्स्यं कृकरमित्येतौ जुहुयादग्ग्ने मृड महाꣳ असीति पूर्वेणाग्ग्निर्वृत्राणीति द्वितीयां। ते आहुती कोशे कृत्वा हरितालेन गोहृदयशोणितेन चोत्तरेण संनयेद्यं द्विष्यात् प्रमꣳहिष्ठीयेनास्य शय्यामवकिरेदगारं च भस्मना नैकग्रामे वसति ॥१६॥ अथातो यशस्यानां त्वमिन्द्र यशा असि, पवते हर्य्यतो हरिरित्येतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानो यशस्वी भवति ॥१७॥ प्रियङ्गुका वा पुष्येणाभिजुहुयाद्यशो मेति तदनुलेपनम् तेनानुलिम्पेत् संवत्सरम्। यशस्वी भवति यशस्वी भवति ॥१८॥ इति षष्ठः खण्डः ॥२/६॥

2.7 अथातो ब्रह्मवर्चस्यानाँ। रथन्तरं वामदेव्यं नौधसꣳ श्यैतं महानाम्न्यो यज्ञायज्ञीयमित्येतेषामेकमनेकँ वा सर्वाणि वा प्रयुञ्जानो ब्रह्मवर्चसी भवति ॥१॥ कस्तमिन्द्रेति द्विकं प्रयुञ्जानो ब्रह्मवर्चसी भवति श्रद्धा चास्य भवति ॥२॥ जगृह्मा त इति षड्वर्गं प्रयुञ्जानो ब्रह्मवर्चसी भवति ॥३॥ अष्टरात्रोपोषितो ब्राह्मीमुत्थाप्य प्रजापतेर्हृदयेनाभिगीय सहस्रकृत्वः प्राश्नीयाच्छ्रुतनिगादी भवति ॥४॥ पुष्पाणि वास्या उदकेन संवत्सरं यण्वेन प्राश्नीयाच्छ्रुतनिगादी भवति ॥५॥ मासꣳ सोमभक्षः स्यात्सदसस्पतिमद्भुतमित्येतेन श्रुतनिगादी भवति ॥६॥ सदा वैतत्प्रयुञ्जीत श्रुतनिगादी भवति ॥७॥ भारद्वाजिकाया जिह्वामुत्थाप्य तदहश्चूर्णं कारयित्वा मधुसर्पिभ्याꣳ सँयूय प्रागन्नप्राशनात्कुमारं प्राशयेदिन्द्रमिद्गाथिनो बृहदित्येतेन श्रुतनिगादी भवति ॥८॥ हरिद्रायास्तुलावरार्द्धं चूर्णयित्वैतेनैव कल्पेन संवत्सरं यण्वेन प्राश्नीयाच्छ्रुतनिगादी भवति ॥९॥ वचामेतेन कल्पेन वाचोव्रतेन पूर्वेण प्राश्नीयाच्छ्रुतनिगादी भवति ॥१०॥ मत्स्याक्षक शङ्खपुष्पी वचा केरडी घृतानि बार्ह द्गिरेणाभिजुहुयात्सहस्रकृत्वः शतावरमेतेनैव प्राश्नीयाच्छ्रुतनिगादी भवति ॥११॥ वचायास्त्रिवृतं कारयेन्मणिमग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधाय वाचोव्रतेनोत्तरेणाभिजुहुयात् सहस्रकृत्वः शतावरन्तं मणिं कण्ठेन शिरसा वा धारयन् कथासु श्रेयान् भवति ॥१२॥ वचां मधुकमित्येते आस्येऽवधायापां फेनेनेत्येतन्मनसानुद्रत्यान्ते स्वाहाकारेण निगीर्य्य
राजन्वानहमराजकस्त्वमसीत्युक्त्वा विवदेत् पर्षदि राजनि चोत्तरवादी भवत्युत्तरवादी भवति॥१३॥ इति सप्तमः खण्डः।।२/७॥

2.8 अथातः पुत्रीयाणाम् ॥१॥ नि त्वा नक्ष्य, नि त्वामग्ग्ने, प्रयोरायेऽयमग्निः सुवीर्य्यस्य, जातः परेण, न हि वश्चरमञ्च न, सोमः पवते जनिता मतीनामिति सर्वाण्यपत्यं नित्यवत्साः , रथन्तरं, व्याहृतिवर्ग्गोऽरूरुचदिति द्वे एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः सुरूपान् दीर्घायुषः पुत्राँल्लभते ॥२॥ रोहिण्याँ वा रोहिण्या गोः सरूपवत्सायाः पयसि रक्तशालीनां स्थालीपाकꣳ श्रपयित्वा परमेष्ठिनः प्राजापत्यस्य व्रतेनाभिजुहुयात् सहस्रकृत्वः शतावरमेतेनैवाभिगीयोद्धृत्य सभार्यः प्राश्नीयात् सुरूपान् दीर्घायुषः पुत्राँल्लभते॥३॥ कृष्णाया गोस्सरूपवत्सायाः पयसि कृष्णषष्टिकाणाꣳ स्थालीपाकꣳ श्रपयित्वा कृष्णपञ्चम्यामुदिते सोमे त्वमिमा ओषधीरित्येतेनाभिजुहुयात् सहस्रकृत्वः शतावरमेतेनैवाभिगीयोद्धृत्य सभार्यः प्राश्नीयात् सुरूपान् दीर्घायुषः पुत्राँल्लभते ॥४॥ कौम्भ्यं घृतं पुरुषव्रतेनाभिजुहुयादनुगानश उत्तरेण सदा प्राश्नीयात् सुरूपान् दीर्घायुषः पुत्राँल्लभते ॥५॥ उडङ्गवानाँ योऽग्रे गच्छेत् तं गृहीत्वा तदहस्त्रिवृतं कारयेन्मणिमग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधायोच्चा ते जातमन्धस इति तृतीयेनाभिजुहुयात् सहस्रकृत्वः शतावरं तं मणिं कण्ठेन शिरसा वा धारयञ्च्छतानुचरो भवति शतानुचरो भवति ॥६॥ इत्यष्टमः खण्डः॥२/८॥
इति द्वितीयः प्रपाठकः