सामवेदः/कौथुमीया/सामविधानब्राह्मणम्/तृतीयः प्रपाठकः
अथ तृतीयः प्रपाठकः
अथातो धन्यानाम् ॥१॥ शुक्लवाससा प्रयोगः स्नानमवलेखनमनिष्ठीवनꣳ सदा चाञ्जनꣳ सत्यवचनꣳ सुमनसां धारणं केशश्मश्रुलोमनखानां तु नान्यत्र व्रताद्दारानेवोपेयात् काले । एवँ व्रतो यदुदीरत आ हर्यतायेति वर्ग एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः श्रीमान्यशस्वी पुष्टिमान्धन्यो भवति॥२॥ गिर्वणः पाहि नः सुतमिति चैतत्सदा प्रयुञ्जीत मयि श्रीरिति चास्य निधनं कुर्य्याच्छ्रीमान् भवति ॥३॥ त्रीन्वोदकाञ्जलीन्सदाचामेदयꣳ सहस्रमानव इत्येताभ्याꣳ श्रीरिति चोत्तरस्य निधनं कुर्याच्छ्रीमान्भवति ॥४॥ सक्तुमन्थं दधिमधुघृतमिश्रमा त्वा विशन्त्विन्दव इत्यनेन सन्नयेदा मा विशन्त्विन्दवो न मामिन्द्रातिरिच्यत इत्येतेन पिबेदलक्ष्मीं नुदते ॥५॥ तिष्येण घृतं क्रीणीयादायाहि सुषुमा हि त इत्येतेन पिबेदलक्ष्मीं नुदते ॥६॥ गौरान् सर्षपाꣳस्तिष्येण चूर्णं कारयित्वेन्द्रेहि मत्स्यन्धस इत्येतेन सँयूय तैर्मुखं पाणी पादौ च सर्वाणि चाङ्गानि सर्वाꣳश्च सँश्लेषानुत्सादयन्नलक्ष्मीं नुदते ॥७॥ गौरसर्षपानग्ग्नौ जुहयाद्यद्वीडाविन्द्र यत् स्थिर इत्येतेन हिरण्यं लभते ॥८॥ व्रीहियवानग्नौ जुहुयात् सुनीथो घा स मर्त्य इत्येतेन धान्यं लभते ॥९॥ व्रीहियवौ सर्पिर्मधुमिश्रावास्येऽवधाय सपूर्व्यो महोनामित्येतेन मनसानुद्रुत्यान्ते स्वाहाकारेण निगिरेदेवँ सदा प्रयुञ्जानः सहस्र लभते ॥१०॥ इम उ त्वा विचक्षत इत्येतेनाहुतिसहस्रं जुहुयात्सहस्रं लभते ॥११॥ मासोपोषितो बिल्वानां दधिमधुघृताक्तानां श्रायन्तीयेनाष्टसहस्रं जुहुयात् । सिद्धे सौवर्णान्यसिद्धे राजतानि ॥१२॥ नैयग्रोधं दन्तपवनं घृतमधुलिप्तं गव्योषुण इत्येताभ्यामनिष्ठीवन्त्संवत्सरं भक्षयन्त्सहसँ लभते सहसँ लभते ॥१३॥ इति प्रथमः खण्डः ॥३/१॥
3.2 त्रिरात्रोपोषितो भद्रो नो अग्ग्निराहुत इत्येतेनाहुतिसहस्रं जुहुयात्सहस्रं लभते ॥१॥ औदुम्बरीर्व्वा समिधो घृताक्ताः सहस्रं जुहुयाद्गा लभते ॥२॥ व्रीहियवानग्नौ जुहुयाद्धान्यं लभते ॥३॥ द्वादशरात्रोपोषितः एवा ह्यसि वीरयुरित्येतेनाहुतिसहस्रं जुहुयाद्ग्रामँ लभत एताँश्च सर्वान् कामानवाप्नोति ॥४॥ श्रत्ताष्टकं प्रयुञ्जानः प्रथमेन हिरण्यं लभते द्वितीयेन धान्यं तृतीयेन पशूंश्चतुर्थेन पुत्रान् पञ्चमेन ग्रामान् षष्ठेन यशः सप्तमेन ब्रह्मवर्चसमष्टमेन स्वर्गंल्लोकमवाप्नोति ॥५॥ सँवत्सरं गोर्ग्रासमाहरेद्गावश्चिद्धा समन्यव इत्येतेनानन्त्याँ विन्दते श्रियम् ॥६॥ वैरूपाष्टकं नित्यं प्रयुञ्जानो लक्ष्मीर्जुषते ॥७॥ अन्त्यं वा जानुदघ्न उदके तिष्ठन् ॥८॥ नाभिदघ्ने धान्यं कक्षदघ्ने पशूनास्यदघ्ने पुत्रान् ग्रामं च ॥९॥ अनपेक्षितो वाऽसकृद्गीत्वोत्तीर्णः संहस्रं लभते ॥१०॥ आहुतिसहस्रं वा जुहुयात्सामान्तेषु स्वाहाकारैः ॥११॥ एतेषां कल्पानाँ यथा भूयस्तथा श्रेयस्तथा श्रेयः॥१२॥ इति द्वितीयःखण्डः॥३/२॥
3.3 गाः प्रकाल्यमानाश्चोपकाल्यमानाश्च सदोपतिष्ठेत गव्यो षु ण इत्येताभ्याँ स्फीयन्ते बहुला भवन्ति ॥१॥ सदा भोजनस्योपनीतस्याग्रमग्नौ जुहुयादग्ने विवस्वदुषस इति पूर्वेण बलिं चोत्तरेण कुर्याद्बहुपशुधनधान्यो भवति ॥२॥
अष्टरात्रोपोषितोऽमावास्यायां निश्येकवृक्षे क्षीरिण्यरण्ये माꣳसꣳ सुसꣳस्कृतमेकतृप्त्यवरार्द्ध्यं माणिभद्रायोपहरेदेष स्य ते मधुमाꣳ इन्द्र सोम इत्येतेन। हिरण्यद्रोणं लभते ॥३॥ त्रिरात्रोपोषितः शुक्लचतुर्दश्याꣳ शौनं माꣳसं पायसँ वोपहरेत् त्रिरस्मै सप्त धेनवो दुदुह्रिर इत्येतेन दैवान्पोषान्पुष्यति बहुपुरुषं चास्य भवति क्रियाश्चानेन कुरुते ॥४॥ त्रिरात्रोपोषितः कृष्णचतुर्दश्यां मत्स्यानुपहरेन्महाराजाय सँश्रवस इति वर्गेणासुरान् पोषान् पुष्यति बहुपुरुषं चास्य भवति क्रियाश्चानेन कुरुते ॥५॥ अथातो वास्तुशमनम् ॥६॥ प्रदक्षिणं प्रतिदिशं रज्ज्वा यच्छेदवान्तरदेशेषु च । यत्राभिसमेयुस्तत्रोपलिम्पेत् रज्वन्तेषु च शमीपलाशश्रीपर्णीनां पत्रैर्वास्तूपकिरेदक्षतैश्च सुमनोभिश्च पूर्वैः प्रोष्ठपदैर्ग्गृहेऽग्ग्निं प्रतिष्ठाप्य धानावन्तं करम्भिणमित्येतद्गीत्वा पायसमग्नौ जुहुयात्परेषां च पलाशपर्णमध्येषु बल्युपहारः प्रजापतये स्वाहेति मध्य उपहरेदिन्द्रायेति पुरस्ताद्वायव इत्यवान्तरदेशे यमायेति दक्षिणतः पितृभ्य इत्यवान्तरदेशे वरुणायेति पश्चान्महाराजायेत्यवान्तरदेशे सोमायेत्युत्तरतो महेन्द्रायेत्यवान्तरदेशे वासुकय इत्यधस्तादूर्ध्वं नमो ब्रह्मण इति दिवि बहुपशुधनधान्यहिरण्यमायुष्मत्पुरुषं वीरसूः सुभगाविधवस्त्रीकꣳ शिवं पुण्यं वास्तु भवति, चतुर्षु मासेषु प्रयोगः संवत्सरे वा पुनः प्रयोगः पुनः प्रयोगः ॥७॥ इति तृतीयः खण्डः॥३/३॥
3.4 अथातोऽदृष्टदर्शनानाम् ॥१॥ सङ्करात् सङ्करेवासिनीमावहेच्छूर्पेणाक्षतान्गन्धान्सुमनसश्चात्र कृत्वा सँविष्टः प्राक्शिराः शुचौ देशे शिरस्तः कृत्वा क इममुहुवेत्येतद्गीत्वा वाग्यतः प्रस्वपेत् पश्यति ह ॥२॥ गरगोलिकाँ वा समुद्रेऽवधाया याहि सुषुमा हि त इत्येतद्गीत्वा वाग्यतः प्रस्वपेत् पश्यति ह ॥३॥ कन्याँ वोपवासयेददृष्टरजसमादर्शं च अयमग्ग्निः श्रेष्ठतम इत्येतेन व्युष्टायाँ रात्रावेतेनैवाभिगीय परिमृज्य ब्रूयात् पश्येति पश्यति ह ॥४॥ उदशरावं वोपवासयेत् प्र मित्राय प्रार्य्गम्ण इत्येतेन व्युष्टायाँ रात्रावेतेनैवाभिगीय परिमृज्य ब्रूयात् पश्येति पश्यति ह ॥५॥ वंशमय्यौ वा शलाके गन्धैः प्रलिप्य मध्यमेनोपवासयेद् व्युष्टायाँ रात्रावेतेनैवाभिगीय परिमृज्य ब्रह्मचारिणौ ब्रूयाद्धारयत मिति सन्नमत्योः सिद्धिं विद्यात् ॥६॥ यष्टिं वान्त्येन चतुरङ्गुलशो निमायोपवासयेत् व्युष्टायाँ रात्रावेतेनैवाभिगीय परिमृज्य प्रमिणुयादङ्गुलिपर्वभिः पूर्यमाणेषु सिद्ध्यति ॥७॥आषाढ्यां पौर्णमास्यां बीजानि धारयित्वोपवासयेत्तुलां च इन्द्रमिद्देवतातय इत्येतेन व्युष्टायाँ रात्रावेतेनैवाभिगीय परिमृज्य प्रोक्ष्य धारयेत यानि गरीयाँसि तान्यृध्यन्ते॥८॥अक्षतानां द्वौ राशी कुर्याद्भावाभावयोरा नो विश्वासु हव्यमित्येतेन व्युष्टायाꣳ रात्रावेतेनैवाभिगीय प्रोक्ष्य ब्रूयादालभस्वेति भावमालभमाने सिद्ध्यति ॥९॥ ज्योतिष्मताँ विधूमानामङ्गाराणां द्वौ राशी कुर्याद् यावन्तो वा स्युस्तेनार्थिनः श्रुष्ट्यग्ग्ने नवस्य म इत्येतेनैनान् युगपद्धृतेनाभिषिञ्चेत् यः पूर्वः प्रज्वलितो विधूमेनार्चिषा प्रदक्षिणमभि पर्यावर्त्तते स जयतीति विद्यात् ॥१०॥ ज्योतिष्कान् कुर्य्यान्मानुषीणां घृतेन सद्यो मथितेन प्र सोम देववीतय इत्येतेनैनान्ज्वलयेद् यः पश्चाच्छाम्यति स चिरं जीवति स चिरं जीवति ॥११॥ इति चतुर्थः खण्डः॥३/४॥
3.5 राजानमभिषेचयेत्तिष्येण श्रवणेन वा ॥१॥ व्रीहियवैस्तिलमाषैर्दधि मधुसुमनोजातरूपैर्यशस्विनीभ्यो नदीभ्यः समुद्राच्चोदकान्याहृत्यौदुम्बरे भद्रासने वैयाघ्रे चर्मण्युत्तरलोम्न्यासीनं जीवन्तीनां गवाꣳ शृङ्गकोशैरभिषिञ्चेदभ्रातृव्य इति रहस्येन ॥२॥ यं कामयेतैकराजः स्यान्नास्य चक्रं प्रतिहन्येतेत्येकवृषेणाभिषिञ्चेत् ॥३॥ अभिषेक्त्रे दद्याद् ग्रामवरं दासीशतꣳ सहस्रं तदधीनश्च भवेत ॥४॥ अद्भुते यवद्रोणं जुहुयाद्वात आ वातु भेषजमित्येतेन शाम्यति ह ॥५॥ कृष्णाꣳस्तिलानग्ग्नौ जुहुयात्प्र दैवोदासो अग्ग्निरित्येतेन। नैनं कृतानि हिꣳसन्ति तान्येव प्रतिगच्छन्ति ॥६॥ व्रीहियवानग्नौ जुहुयात्पञ्चनिधनेन वामदेव्येन नैनं कृतानि हिꣳसन्ति तान्येव प्रतिगच्छन्ति ॥७॥ ताम्ररजतजातरूपायसीं मुद्रां कारयित्वोच्चा ते जातमन्धस इति चतुर्थेनाभिजुहुयात् सहस्रकृत्वः शतावरं तां मुद्रां दक्षिणेन पाणिना धारयेन्नैनं कृतानि हिꣳसन्ति तान्येव प्रतिगच्छन्ति तान्येव प्रतिगच्छन्ति ॥८॥ इति पञ्चमः खण्डः॥३/५॥
3.6 सङ्ग्रामं युयुत्समानस्योदकमभिजुहुयात् सोमꣳ राजानँ वरुणमित्येतेन। तत एनं पाययेद्यो राजा चर्षणीनामिति पूर्वेण । ये चात्र मुख्याः स्युस्तानुत्तरेणाभिषिञ्चेत् ॥१॥ अथ हैनꣳ संनाहयेत् प्र सेनानीरिति वर्गेण ॥२॥ अथास्य रथं युञ्ज्यादा त्वा सहस्रमाशतमिति वर्गेण ॥३॥ बृहद्रथन्तराभ्यां चक्रे वामदेव्येनाधिष्ठानम् ॥४॥ स घा तं वृषणꣳ रथमित्येतेनाधितिष्ठेत् प्रयान्तं चैनमनुगायेदिन्द्रस्य नु वीर्य्याणि इति ॥५॥ आजिशीर्षं गत्वा त्रीनिषूनस्येदु त्वा मन्दन्तु सोमा इत्यनेन जयति न पराजीयते ॥६॥ सन्दर्शने धूम्रायाः गोः सरूपवत्साया घृतद्रोणं जुहुयात् सत्यमित्थेति रहस्येन जयति न पराजीयते ॥७॥ बाधकमयीनाꣳ समिधां घृताक्तानाꣳ सहस्रं जुहुयादभित्वा पूर्वपीतय इति वषट्कारं चास्य निधनं कुर्याज्जयति न पराजीयते ॥८॥ सैध्रकमयीनाꣳ समिधां घृताक्तानां सहस्रं जुहुयादभित्यं मेषमितीन्द्र इव दस्यूꣳ प्रमृण इति चास्य निधनं कुर्याज्जयति न पराजीयते ॥९॥ सप्तरात्रोपोषितः सप्तमुख्यानुद्दिश्य सद्यः पीडितेन सर्षपतैलेन सप्तहेनाहुतिसहस्रं जुहयात्सप्तरात्रान्न भवन्ति ॥१०॥ हस्त्यश्व रथपदातीनां पिष्टमयीः प्रतिकृतीः कृत्वा पिष्टस्वेदꣳ स्वेदयित्वा सर्षपतैलेनाभ्यज्य तासां क्षुरेणाङ्गान्यवदायाग्ग्नौ जुहुयादभि त्वा शूर नोनुम इति रहस्येन यत्र हीशब्दो यावतां जुहोति सर्वे न भवन्ति ॥११॥ त्रिरात्रोपोषितः कृष्णचतुर्दश्याꣳ शवादङ्गारमाहृत्य चतुष्पथे बाधकमिध्ममुपसमाधाय वैभीतकेन स्रुवेण सर्षपतैलेनाहुतिसहस्रं जुहुयात् संमील्येन यत्र वृश्चशब्दः स्यात्तत्र पुरुषः शूलहस्त उत्तिष्ठति तं ब्रूयादमुं जहीति हन्त्येनम् ॥१२॥ आमगर्भस्य वा क्षुरेणाङ्गान्यवदाय्याग्नौ जुहुयात् कक्षवर्गाद्यैश्चतुर्भिः सपत्नं मनसा ध्यायन्त्सद्यो न भवति सद्यो न भवति ॥१३॥ इति षष्ठः खण्डः॥३/६॥
3.7 अथ यः कामयेतामुह्यन्त्सर्व्वाण्या जनित्राणि परिक्रामेयमिति महे नो अद्य बोधयेत्येतत्सदा प्रयुञ्जीतान्तवेलायां चैतत्स्मरेदमुह्यन्त्सर्व्वाण्याजनित्राणि परिक्रामति ॥१॥ अथ यः कामयेत सर्वत्राग्निर्म्मे ज्वलेदिति सँवत्सरꣳ शिरसाग्ग्निं धारयेदग्ग्न आ याहि वीतय इति प्रथमेनोपतिष्ठेत् द्वितीयेन परिहरेत् तृतीयेन परिचरेत् सर्वत्र हास्य ज्वलति यदिच्छति तद्दहति ॥२॥ अथ यः कामयेत पिशाचान् गुणीभूतान् पश्येयमिति संवत्सरं चतुर्थे काले भुञ्जानः कपालेन भैक्षं चरन् प्राणाः शिशुरित्यन्त्यꣳ सदा सहस्रकृत्व आवर्तयन् पश्यति ॥३॥ अयाचितमेतेन कल्पेन द्वितीयं प्रयुञ्जानः पितॄन् पश्यति ॥४॥ सँवत्सरमष्टमे काले भुञ्जानः पाणिभ्यां पात्रार्थं कुर्वाणो वृत्रस्य त्वा श्वसथादीषमाणारित्येतयोः पूर्वꣳ सदा सहस्रकृत्व आवर्तयन् गन्धर्वाप्सरसः पश्यति ॥५॥ अयाचितमेतेन कल्पेन द्वितीयं प्रयुञ्जानो देवान् पश्यति ॥६॥ यद्वर्च्च इति दिशाँव्रतं दशानुगानमेतेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जीत निधयोऽस्य प्रकाशन्ते ये दैवास्ताँस्तेन ॥७॥ मासमुपवसेदेकमेकमयाचितं भुञ्जीत मयि वर्च इत्येतेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जीत निधयोऽस्य प्रकाशन्ते ये पृथिव्याम् ॥४॥ अष्टरात्रोपोषितोऽमावास्यायां मुख आज्यं कृत्वाग्ग्निं नर इत्येतयोः पूर्वं मनसानुद्रुत्यान्ते स्वाहाकारेणाग्ग्नौ जुहुयात् व्युष्टायाँ रात्रौ भूतौ पश्यति पञ्च हास्य कार्षापणा भवन्ति व्ययकृताश्च पुनरायन्ति मूलमशून्यं कुर्यात् ॥९॥ गवां प्रविशन्तीनाँ या पश्चात् स्यात्तस्याः शिरोऽभ्यनुमृज्य पुच्छमनुमृज्य पाणी सꣳहृत्यानङ्गमेजयस्तिष्ठेत् सर्व्वाꣳ रात्रिं द्वितीयमावर्तयन्। जम्भका हास्य सार्वकामिका भवन्ति। सार्वकामिका भवन्ति ॥१०॥ इति सप्तमः खण्डः।।३/७॥
3.8 अथ यः कामयेत पुनर्न प्रत्याजायेयमिति ॥१॥ रात्रिं प्रपद्ये पुनर्भूम्मयोभूङ्कन्याꣳ शिखण्डिनीं पाशहस्ताँ युवतिं कुमारिणीमादित्यश्चक्षुषे वातः प्राणाय सोमो गन्धायापः स्नेहाय मनोऽनुज्ञाय पृथिव्यै शरीरम ॥२॥ सा हैनमुवाचास्मिन्न्सँवत्सरे मरिष्यस्यस्मिन्नयनेऽस्मिन्नृतावस्मिन्मासेऽर्धमासेऽस्मिन् द्वादशरात्रेऽस्मिन् षड्रात्रेऽस्मिꣳस्त्रिरात्रेऽस्मिन् द्विरात्रेऽस्मिन्नहोरात्रे ऽस्मिन्नहन्यस्याꣳ रात्रावस्याँ वेलायामस्मिन्मुहर्ते मरिष्यस्येहि स्वर्ग्गंल्लोकं गच्छ देवलोकँ वा ब्रह्मलोकँ वा क्षत्रलोकँ वा विरोचमानस्तिष्ठ विरोचमानामेहि योनिं प्रविश ॥३॥ नाहँ योनिं प्रवेक्ष्यामि भूतोत्तमाया ब्रह्मणो दुहितुः सꣳरागवस्त्राया जायते म्रियते सन्धीयते च ॥४॥ रात्रिस्तु मा पुनातु रात्रिः खमेतत् पुष्पान्तं यत्पुराणमाकाशं तत्र मे स्थानं कुर्वपुनर्भवाया पुनर्जन्मन एतावदेव रात्रौ रात्रेर्व्रतं च रात्रेर्व्रतं च ॥५॥ इत्यष्टमः खण्डः ॥
3.9 चतुरो मासान् पयोभक्षो गा अनु गत्वारण्ये शुचौ देशे मठं कृत्वा तत्र प्रविशेत् कमण्डलुमुदकोपस्पर्शनार्थमादाय त्रीन्सप्तरात्राननुदक उपवसन्नृचꣳ साम यजामह इत्येतयोः पूर्वꣳ सदा सहस्रकृत्व आवर्तयन यदि देवताः पश्यति सिद्धं तदित्यथोत्थानमन्तरिक्ष्या हास्य सिद्धा भवत्यन्तरिक्षक्रमणं च द्वाराणि चास्य विव्लीयन्ते ॥१॥ द्वितीयमेतेन कल्पेन प्रयुञ्जानः कामचारी मनोजवा भवति ॥२॥ शुक्लानुपवसेत् सर्वान् कालान्मृष्टः शुक्लवासाश्चन्दनेनानुलिप्तः सुमनसो धारयꣳ
स्त्यमूषु पूर्वꣳ सदा सहस्रकृत्व आवर्तयन् ये मानुषाः कामास्तानवाप्नोति ॥३॥ द्वितीयमेतेन कल्पेन प्रयुञ्जानो ये दैवास्ताꣳस्तेन ॥४॥ मासमुपवसेदेकमेकमयाचितं भुञ्जीत मयि वर्च इत्येतेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानस्त्रयाणाँ लोकानामाधिपत्यं गच्छति व्यृद्धावप्यस्यैकस्य ॥५॥ अथ यान्यनादिष्टकामकल्पानि तेषाँ यथाश्रुति स्मृतिलिङ्गैः कामा: क्षुरसँयुक्ताः ॥६॥ आभिप्रायिकं कर्म ॥७॥ सोऽयं प्राजापत्यो विधिस्तमिमं प्रजापतिर्बृहस्पतये प्रोवाच बृहस्पतिर्न्नारदाय नारदो विष्वक्सेनाय विष्वक्सेनो व्यासाय पाराशर्य्याय व्यासः पाराशर्यो जैमिनये जैमिनि: पौष्पिञ्ज्याय पौष्पिञ्ज्यः पाराशर्यायायणाय पाराशर्यामियणो बादरायणाय बादरायणस्ताण्डिशाट्यायनिभ्यां ताण्डिशाट्यायनिनौ बहुभ्यः ॥८॥ सोऽयमनूचानाय ब्रह्मचारिणे समावर्त्तमानायाख्येय: ॥९॥ उपाध्यायाय ग्रामवरꣳ सहस्रꣳ श्वेतं चाश्वं प्रदायानुज्ञातो वा यं कामं कामयते तमाप्नोति तमाप्नोति ॥१०॥ इति नवम: खण्ड: ॥३/९॥ इति तृतीयः प्रपाठकः॥
इति तृतीयं सामविधानब्राह्मणम्