सामवेदः/कौथुमीया/षड्विंशब्राह्मणम्/प्रथमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search

षड्विंशब्राह्मणम्
अथ प्रथमोऽध्यायः
ॐ ब्रह्म च वा इदमग्रे सुब्रह्म चास्ताम् ॥१॥ ततः सुब्रह्मण्योदक्रामत् ॥२॥ अथ ह देवा यज्ञेन ब्रह्म पर्य्यगृह्णत ॥३॥ अग्निर्वै ब्रह्माऽसावादित्यः सुब्रह्म ॥४॥ तद्देवा यज्ञस्य सन्धावन्वैच्छन् ॥५॥ एष वै यज्ञस्य सन्धिर्य्यत्रैष उत्करः ॥६॥ तस्मादत्करे तिष्ठन्त्सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति ॥७॥ सुब्रह्मण्योँ ३ सुब्रह्मण्योँ ३ सुब्रह्मण्यो ३ मिति स्त्रियमिव त्रिराह ॥८॥ त्रिषत्या वै देवाः॥९॥ इन्द्रागच्छेति ॥१०॥ यदाहेन्द्रागच्छेत्येतद्वा अस्य प्रत्यक्षं नाम तेनैवैनं तदाह्वयति ॥११॥ हरिव आगच्छेति ॥१२॥ पूर्व्यपक्षापरपक्षौ वा इन्द्रस्य हरी ताभ्याँ हीदँ सर्व्वँ हरति ॥१३॥ मेधातिथेर्मेषेति ॥१४॥ मेधातिथिँ ह काण्व्यायनम्मेषो भूत्वा जहार ॥१५॥ वृषणश्वस्य मेन इति ॥१६॥ वृषणश्वस्य ह मेनस्य मेनका नाम दुहिताऽऽस ताँ हेन्द्रश्चकमे ॥१७॥ गौरावस्कन्दिन्निति ॥१८॥ गौरमृगो ह स्म भूत्वावस्कन्द्यारण्याद्राजानं पिबति ॥१९॥ अहल्यायै जारेति ॥२०॥ अहल्याया ह मैत्रेय्या जार आस ॥२१॥ कौशिक ब्राह्मणेति ॥२२॥ कौशिको ह स्मैनां ब्राह्मण उपन्येति ॥२३॥ गौतम ब्रुवाणेति ॥२४॥ देवासुरा ह सँयत्ता आसँस्तानन्तरेण गोतमः शश्राम तमिन्द्र उपेत्योवाचेह नो भवाँस्पशश्चरत्वित नाहमुत्सह इत्यथाहं भवतो रूपेण चराणीति यथा मन्यस इति स यत्तद्गोतमो वा ब्रुवाणश्चचार गोतमरूपेण वा तदेतदाह गौतमेति ॥२५॥ इत्यहे सुत्यामागच्छ मघवन्निति ॥२६॥ तद्यथार्हतो ब्रूयादित्यहे वः पक्तास्मि तदागच्छतेत्येवमेवैतद्देवेभ्यः सुत्यां प्राह ॥२७॥ देवा ब्राह्मण इति ॥२८॥ देवा हैव देवा अथ हैते मनुष्यदेवा ये ब्राह्मणाः शुश्रुवाँसोऽनूचानास्ते मनुष्यदेवाः ॥२९॥ आहुतय एव (भागधेयं) देवानां दक्षिणा मनुष्यदेवानामाहुतिभिर्ह देवान् प्रीणाति दक्षिणाभिर्मनुष्यदेवाञ्छुश्रूषोऽनूचानान् ब्राह्मणान् प्रीणाति ॥३०॥ इति प्रथमः खण्डः ॥१/१॥

अथ यत्र सुब्रह्मण्यः सुब्रह्मण्यमाह्वयत्येतस्मिन्ह कालेऽसुररक्षाँसि देवानाँ यज्ञमजिघाँसन् ॥१॥ ते देवा निहवमेवाकुर्व्वत ब्रह्मोँ ३ सुब्रह्मो ३ मिति ॥२॥ तानादित्यः पर्ज्जन्यः पुरोबलाको भूत्वाऽभिप्रैत्तान्वृष्ट्याऽशन्या विद्युताऽहन् ॥३॥ तदाहुः स्त्री सुब्रह्मण्या३ पुमा३न्नपुंसका३ मिति ॥४॥ सर्व्वमेवेति ब्रूयात् ॥५॥ यत्पर्ज्जन्यः पुरोबलाको भूत्वाऽभिप्रैत्तेन पुमान्यद्वृष्ट्या यदशन्या तेन स्त्री यद्विद्युता तेन नपुँसकं तस्मात्सर्वमेवेति ब्रूयात् ॥६॥ तदाहुर्ऋक् सुब्रह्मण्या ३ यजू३ः सामा ३ इति सर्वमेवेति ब्रूयादृच इवास्या नामधेयँ सुब्रह्मण्येति तस्मादृङ्मन्त्र एव खल्वयं निगदभूतो भवति तस्माद्यजुः ॥७॥ सामकारिणः कुर्व्वन्ति यथाऽन्यैः सामभिस्तस्मात्साम तस्मात्सर्वमेवेति ब्रूयात् ॥८॥ तद्वा एतत्सुब्रह्मण्यामाहूय यजमानँ वाचयति रक्षसामपहत्यै ॥९॥ सासि सुब्रह्मण्ये तस्यास्ते पृथिवी पाद इत्याह यान्येव पृथिव्यामसुररक्षाँसि तान्येव तेनापहते सासि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पाद इत्याह यान्येवान्तरिक्षेऽसुररक्षाँसि तान्येव तेनापहते सासि सुब्रह्मण्ये तस्यास्ते द्यौः पाद इत्याह यान्येव दिव्यसुररक्षाँसि तान्येव तेनापहते सासि सुब्रह्मण्ये तस्यास्ते दिशः पाद इत्याह यान्येव दिक्ष्वसुररक्षाँसि तान्येव तेनापहते परो रजास्ते पञ्चमः पाद इत्याह पराँ रजसो वै ब्रह्मणः स्थानं तदेतदाह सा न इषमूर्जं धुक्ष्वेत्याहैषमेवास्मा ऊर्ज्जं दुग्धे वीर्य्यमन्नाद्यं धेहीत्याह वीर्य्यमेवास्मा अन्नाद्यं दधाति ॥१०॥ ब्रह्म श्रीर्व्वै नामैतत्साम यत्सुब्रह्मण्या तस्मात्प्रातरनुवाक उपाकृते विसँस्थिते च यज्ञे सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति ॥११॥ एष वै ब्रह्म सुब्रह्म चाप्नोति य एतदनो युक्तँ सुब्रह्मण्याय ददाति ॥१२॥ ब्रह्मणा चैवास्य श्रिया च यज्ञँ समर्द्धयति य एवँ वेद ॥१३॥ अथो खल्वाहुर्य्यच्चाव गतँ यच्चानवगतँ सर्व्वस्यैषैव प्रायश्चित्तिरिति तस्मादेवँविदँ सुब्रह्मण्यं कुर्व्वीत नानेवँ विदम् ॥१४॥ इति द्वितीयः खण्डः ॥१/२॥

एकच्छन्दः प्रातस्सवनं तस्मादेकपात्पुरुषो हरत्यन्यं प्रत्यन्येन तिष्ठति ॥१॥ त्रिच्छन्दा माध्यन्दिनः पवमानस्तस्मात्त्रयोऽधः प्राणाः ॥२॥ द्वे गायत्र्याँ सामनी तस्माद्द्वयमधरेण प्राणेन करोति ॥३॥ द्वे बृहत्याँ सामनी तस्माद्वयमुत्तरेण ॥४॥ एकं त्रिष्टुभि साम तस्मादेकैव नाभिः ॥५॥ प्राणानामिव तु विधृतिः ॥६॥ अथ यदेव तत ऊर्ध्वं तानि पृष्ठानि ॥७॥ बार्हतान्येकगायत्रीकाणि तस्माद् बृहत्य एव पर्श(श)वो बृहत्य एव कीकसाः पृष्ठमभिसमायन्ति ॥८॥ अथ यदेव तत ऊर्ध्वँ स आर्भवः पवमानः ॥९॥ प्राणो गायत्री श्रोत्रे उष्णिक्ककुभौ वागनुष्टुप् चक्षुर्जगती ॥१०॥ पुष्टिर्य्यदन्यत् ॥११॥ द्वे गायत्र्याँ सामनी तस्माद्द्वयं प्राणेन करोति प्राणिति चापानिति चैकं छन्दः ककुबुष्णिहौ द्वे सामनी तस्मात्समानँ सच्छ्रोत्रं द्वेधैव श्रृणोति द्वे अनुष्टुभि सामनी तस्मादद्वयँ वाचा करोति सत्यं चानृतं च वदत्येकं जगत्याँ साम तस्मादद्वे अक्षिणी सती समानं पश्यतो न हि पश्चादायन्तं पश्यति ॥१२॥ अथ यदेव तत ऊर्ध्वं मूर्धा तद्यज्ञायज्ञीयम् ॥१३॥ मूर्धा स्वानां भवति य एवँ वेद ॥१४॥ अध इव वा अन्यान्यङ्गान्युपरीव मूर्धाऽध इवास्मा अन्ये स्वा भवन्त्युपरीव स्वानां भवति य एवँ वेद ॥१५॥ यज्ञो वा अथ जज्ञ इत्याहुरेष वाव जात एषोऽवलुप्त-जरायुरेष आर्त्विजीनो य एतँ वेदमनुब्रूते यदा वा एतँ वेदमनुब्रूतेऽथ हैनँ श्रृण्वन्त्यसावन्ववोचतेति तद्वै स जायते ॥१६॥ ऊनाक्षरा गायत्री प्रातस्सवने प्रजानां प्रजात्या ऊनादिव हि प्रजाः प्रजायन्ते ॥१७॥ ऊनाक्षरा गायत्र्यामहीयवे प्रजानां प्रजात्या ऊनादिव हि प्रजाः प्रजायन्ते ॥१८॥ ऊनाक्षरा गायत्री पृष्ठेषु वामदेव्ये यजमानलोक एव स मध्ये हि यज्ञस्य यजमानः ॥१९॥ ऊनाक्षरा गायत्री सँहिते प्राणापानयोरुच्चार ऊनादिव हि प्राणापानावुच्चरतः॥२०॥ ऊनाक्षरँ यज्ञायज्ञीयं प्राणानामुत्सृष्ट्यै ॥२१॥ यो हि पूर्णमुपधमेद्यदि प्रतीयाद्विपदेद्यदि न प्रतीयाद्विष्यन्देत ॥२२॥ तदाहुस्सवनानां च वा एत उदानाः प्राणानां चोत्सृष्टिरिति॥२३॥ इति तृतीयः खण्डः ॥१/३॥

अध्वर्य्यवित्याहोद्गाता मा स्म मेऽनिवेद्य होत्रे प्रातरनुवाकमुपाकरोरिति ॥१॥ सोऽध्वर्युः प्राह ॥२॥ स हूतो व्रजति स पूर्वया द्वारा हविर्धाने प्रपद्यते ॥३॥ स दक्षिणस्य हविर्धानस्योत्तरं चक्रमभ्यप श्रयमाण उदङ्ङासीनो विश्वरूपा गायति ॥४॥ क्षत्रँ वै स्तोत्रँ विट्शस्त्रं क्षत्रेणैवास्मै विशमनु वीर्य्यमनु वर्त्त्मानं करोत्यथो स्तुतशस्त्रयोरेव समारम्भायाव्यवसँस्राय सन्तत्यै ॥५॥ एतद्ध स्माह ग्लावो मैत्रेयः प्राह्णे वा अद्याहं पापवसीयसँ व्याकरिष्यामीति स ह स्म सदस्येवोपवसथ्येऽहन्युदासीनो विश्वरूपा गायति ॥६॥ तदुपवादोऽस्त्यध्वर्यो किँ स्तुतँ स्तत्रँ होता प्रातरनुवाकेनान्वशँसीदिति स ब्रूयादकार्षमहं तद्यन्मम कर्म होतारं पृच्छतेति होतः किं स्तुतं स्तोत्रं प्रातरनुवाकेनान्वशँसीरिति स ब्रूयादकार्षमहं तद्यन्मम कर्म उद्गातारं पृच्छतेति उद्गातः किँ स्तुतँ स्तोत्रँ होता प्रातरनुवाकेनान्व शँसीदिति स ब्रूयादकार्षमहं तद्यन्मम कर्म्मागासिषं यद्गेयमिति ॥७॥ तं चेद्ब्रूयुस्तमो वै त्वमगासीर्न्द ज्योतिरिति ॥८॥ स ब्रूयाज्ज्योतिस्तेन येन ज्योतिः ज्योतिस्तेन येन ज्योतिस्तेन येन गायत्रीज्योतिस्तेन येन छन्दो ज्योतिस्तेन येन सामज्योतिस्तेन येन देवता ज्योतिरेवाहमगासिषं न तमो युष्माँस्तु पाप्मना तमसा विध्यानीत्याह पाप्मनेवैनाँस्तत्तमसा विध्यति ॥९॥ युञ्जे वाचँ शतपदीमित्याह वाग्वा व शतपद्यृक् शतपदी शतसनिमेव तदात्मानं च यजमानञ्च करोति ॥१०॥ गाये सहस्रवर्त्तनीति साम वै सहस्रवर्त्तनि सहस्रसनिमेव तदात्मानं च यजमानञ्च करोति ॥११॥ गायत्रं त्रैष्टपभं जगदिति गायत्रँ वै प्रातस्सवनं त्रैष्टुभं माध्यन्दिनँ सवनं जागतं तृतीयसवनँ सवनान्येव तद्यथास्थानं यथारूपं कल्पयति ॥१२॥ विश्वारूपाणि सम्भृतेति विश्वमेव तद्वित्तमात्मने च यजमानाय च सम्भरति ॥१३॥ देवा ओकाँसि चक्रिर इति ॥१४॥ ओको हास्मिन् यज्ञः कुरुते य एवँ वेद ॥१५॥ असितमृगा ह स्म वै पुरा कश्यपा उद्गायन्त्यथ ह युवानमनूचानं कुसुरुबिन्दमौद्दालकिं ब्राह्मणा उद्गीथाय वव्रे ते होचुः परि वै नोऽयमार्त्त्विज्यमादत्ते हन्तेममनुव्याहरामेति तं हानुव्याहरिष्यन्त उपनिषेदुः स होवाच ब्राह्मणा नमो वो अस्तु प्राह्णे वा अहँ यज्ञँ समस्थापयँ यथा तु वै ग्रामस्य यातस्य शीर्णँ वा भग्नँ वानु समावहेदेवँ वा अहँ यज्ञस्यातोऽधिकरिष्यामीति ते ह हिं कृत्योत्तस्थुः क इदमस्मा अवोचदिति ॥१६॥ इति चतुर्थः खण्डः ॥१/४॥

इन्द्रो ह वै विश्वामित्रायोक्थमुवाच वसिष्ठाय ब्रह्म वागुक्थमित्येव विश्वामित्राय मनो वाव ब्रह्म वसिष्ठाय ॥१॥ तद्वा एतद्वासिष्ठं ब्रह्म ॥२॥ अपि हैवँविदँ वा वासिष्ठँ वा ब्रह्माणं कुर्वीएठत ॥३॥ तद्यथोभयवर्तनिना रथेन याँ यां दिशं प्रार्थयते तां तामभि प्राप्नोत्येवमेतेनोभयवर्त्तनिना यज्ञेन यं कामं कामयते तमभ्यश्नुते ॥४॥ अथार्धभाग्वै मनः प्राणानां स यद् व्याहरति वाचि तन्मनः प्रतिष्ठापयति तद्यथैकवर्तनिना रथेन न काञ्चन दिशँ व्यश्नुते तादृगेतत् ॥५॥ यावदृचा यजुषा साम्ना कुर्य्युस्तावद्ब्रह्मा वाचँयमो बुभूषेत् ॥६॥ प्रजापतिर्व्वा इमाँस्त्रीन् वेदानसृजत त एनँ सृष्टा नाधिन्वन् तानभ्यपीडयत्तेभ्यो भूर्भुवः स्वरित्यक्षरत् । भूरित्यृग्भ्योऽक्षरत्सोऽयँ लोकोऽभवत् भुवरिति यजुर्भ्योऽक्षरत् सोऽन्तरिक्षलोकोऽभवत् स्वरिति सामभ्योऽक्षरत्स स्वर्ग्गो लोकोऽभवत् ॥७॥ तद्यद्यृक्त उल्बणं क्रियते गार्हपत्यं परेत्य भूः स्वाहेति जुहुयादयँ वै लोको गार्हपत्योऽयँ लोक ऋग्वेदस्तद्वा इमं च लोकमृग्वेदं च स्वेन रसेन समर्द्धयति ॥८॥ अथ यदि यजुष्ट उल्बणं क्रियेतान्वाहार्यपचनं परेत्य भुवः स्वाहेति जुहुयादन्तरिक्षलोको वा अन्वाहार्य्यपचनोऽन्तरिक्षलोको यजुर्व्वेदः तद्वा अन्तरिक्षलोकं च यजुर्वेदं च स्वेन रसेन समर्द्धयति ॥९॥ अथ यदि सामत उल्बणं क्रियेताहवनीयं परेत्य स्वः स्वाहेति जुहुयात्स्वर्गे९य वै लोक आहवनीयः स्वर्गोरी लोकः सामवेदस्तद्वै स्वर्गञ्च लोकँ सामवेदञ्च स्वेन रसेन समर्द्धयति ॥१०॥ अतो वाव यतमस्मिन्नेव । कतमस्मिँश्चोल्बणं क्रियेत सर्वेष्वेवानुपर्य्यायं जुहुयात्तथा हास्य यज्ञोऽस्कन्नः स्वगाकृतो भवतीति ॥११॥ अथ स्कन्नाद्वा भिन्नाद्वा त्रेधा यज्ञ उत्क्रामति देवान्दिवं तृतीयमन्तरिक्षमनुष्याँस्तृतीयं पृथिवीं पितॄँस्तृतीयम् ॥१२॥ तदभिमृशेद्देवान्दिवँ यज्ञोऽगात्ततो मा द्रविणमष्ट्वन्तरिक्षं मनुष्यान्यज्ञोऽगात्ततो मा द्रविणमष्टु पृथिवीं पितॄन् यज्ञोऽगात्ततो मा द्रविणमष्टु यत्र क्व च यज्ञोऽगात्ततो मा द्रविणमष्ट्विति तद्वा आत्मानं च यजमानञ्च स्वेन रसेन समर्द्धयति ॥१३॥ वरुणो वा एतद्विष्णौ यज्ञमुपार्प्मयति ॥१४॥ यद्यज्ञ उल्बणं क्रियते तदप उपनिनयेद्ययोरोजसा स्कभिता रजाँसि वीर्येभिर्व्वीरतमा शविष्ठा या पत्येते अप्रतीता सहोभिर्विष्णु अगन्वरुणा पूर्व्वहूतौ स्वाहेति तद्वा आत्मानं च यजमानञ्च स्वेन रसेन समर्द्धयति ॥१५॥ इति पञ्चमः खण्डः ॥१/५॥

ये विराजमतियजन्ते विराजमेव त ईप्सन्तोऽमुष्मिँल्लोके श्राम्यन्ति अथ य (एनामर्व्वाग्दभ्नुवन्ति) एनामर्वाक्स्तुवन्ति विराजमेव त ईप्सन्तोऽमुष्मिँल्लोके श्राम्यन्ति तेषां तथा श्राम्यताँ सुकृतं क्षीयते न हि तदमुष्मिँल्लोके शक्नुवन्ति यदस्माल्लोकादकृत्वा प्रयन्ति ॥१॥ एतद्ध स्मा होद्दालक आरुणिः कथं ते यजेरन् कथँ वा याजयेयुर्य्ये यज्ञस्य व्यृद्धेन न नन्दन्ति नन्दन्ति यत्समृद्धेनेति ॥२॥ अहँ वाव काले यजेयाहं काले याजयेयँ योऽहँ यज्ञस्य व्यृद्धेन न नन्दामि नन्दामि यत्समृद्धेनेति ॥३॥ अपि ह स्वादेव कामाद्यज्ञस्य व्यर्द्धयति भूयसी रूपाप्सीरुपाप्स्यामि भिषक्कृत्वा ॥४॥ एतद्ध स्म वै तद्विद्वानाह यावद्वा ऋचा होता करोति होतृष्वेव तावद्यज्ञः यावद्यजुषाध्वर्युरध्वर्य्युष्वेव तावत् यावत्साम्नोद्गातोद्गातृष्वेव । तावद्ब्रह्मण्येव तावद्यज्ञो यत्रोपरताः॥५॥ तस्मात्तस्मिन्नन्तर्धौ ब्रह्मा वाचँयमो बुभूषेत् ॥६॥ स यदि प्रमत्तो व्याहरेदेता वा व्याहृतीर्मनसानुद्रवेत् भूर्भुवः स्वरिति ॥७॥ वैष्णवीँ वर्च्चम् इदं विष्णुर्व्वि चक्रम इति ॥८॥ राज्ञो ह मितस्य मर्कटोँऽशूनादाय वृक्षमापुप्रुवे ॥९॥ स हारुणिराहुतिमुद्यत्योवाच पुनर्वैनान्निवप्स्यस्यतो वाव मृतोऽवपप्स्यस इति ॥१०॥ स होवाच किँ होष्यसीति ॥११॥ प्रायश्चित्तमिति ॥१२॥ किं प्रायश्चित्तमिति ॥१३॥ सर्व्वप्रायश्चित्तमिति ॥१४॥ किँ सर्व्वप्रायश्चित्तमिति ॥१५॥ महाव्याहृतिरेव मघवन्निति ॥१६॥ स होवाचोम् आरुणे यदाहुतिमनूचिषे कथं नु विदाञ्चकर्थ मर्क्कटोँशूनादत्तेति ॥१७॥ स होवाच यच्चावगतँ यच्चानवगतँ सर्वस्यैषैव प्रायश्चित्तिरिति ॥१८॥ तस्मादेतामेव जुहुयात् ॥१९॥ अपि वाज्ञातँ यदनाज्ञातँ यज्ञस्य क्रियते मिथ्वग्नेत् तदस्य कल्पय त्वँ हि वेत्थ यथायथँ स्वाहेति अपि वा प्राजापत्यां प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणाँ स्वाहेति तद्वा आत्मानञ्च यजमानञ्च स्वेन रसेन समर्द्धयति ॥२०॥ अथ यद्वै किञ्च यज्ञे मृन्मयं भिद्येत तदभिमृशेत् भूमिर्भूमिमगान्माता मातरमप्यगाद्भूयाम पुत्रैः पशुभिर्य्योऽस्मान् द्वेष्टि स भिद्यतामिति तद्वा आत्मानञ्च यजमानञ्च स्वेन रसेन समर्द्धयति ॥२१॥ इति षष्ठः खण्डः ॥१/६॥

घ्नन्तीव वा एतत्सोमँ राजानं प्रेव मीयते यदेनमभिषुण्वन्ति तस्यैतामनुस्तरणीं कुर्वन्ति यत्सौम्यं चरुं तस्मात्पुरुषाय पुरुषायानुस्तरणी क्रियते ॥१॥ साध्यानाँ वै देवानां सत्रमासीनानाँ शर्करा अक्षसु जज्ञिरे ते हेन्द्रमुपनिषेदुः कथं नु तेषाँ शर्करा अक्षसु जायेरन् यास्त्वँ विद्या इति तेभ्य एतत्सौम्ये चरौ श्यावमाज्यं प्रयच्छत् तदवेक्षन्त ते प्रापश्यन् प्रपश्यत्यनन्धो भवति य एवँ विद्वान्त्सौम्यं चरुमवेक्षते ॥२॥ योऽलमन्नाद्याय सन्नथान्नं नाद्याद्दक्षिणार्धँ सदसो गत्वैतँ सौम्यातिशेषं प्राश्नीयाज्जनँ वा एतस्मादन्नाद्यं क्रामति योऽलमन्नाद्याय सन्नथान्नं नात्ति जनोऽस्मात्पितरो जन्येनैवान्नेनान्नमत्ति अन्नादो भवति ॥३॥ इति सप्तमः खण्डः ॥१/७॥

इति प्रथमोऽध्यायः