सामवेदः/कौथुमीया/षड्विंशब्राह्मणम्/पञ्चमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search

अथ पञ्चमोऽध्यायः

प्रजापतिस्तपोऽतप्यत तस्य ह वै तप्यमानस्य मनः प्राजायत देवान्त्सृजेयमिति त इमे देवा असृजन्त दिवा देवानसृजत नक्तमसुरान्यद्दिवा देवानसृजत तद्देवानां देवत्वं यदसूर्यं तदसुराणामसुरत्वं यत्पीतत्वं तत्पितॄणां पितृत्वम् ॥१॥ देवा वै स्वर्ग्गकामास्तपोऽतप्यन्त तेषां तप्यमानानाँ रसोऽजायत पृथिव्यन्तरिक्षं द्यौरिति तेऽभ्यतपँस्तेषां तप्यमानानां रसोऽजायत ऋग्वेदः पृथिव्या यजुर्व्वेदोऽन्तरिक्षात्सामवेदोऽमुष्मात्तेऽभ्यतपँस्तेषां तप्यमानानाँ रसोऽजायत ऋग्वेदाद्गार्हपत्यो यजुर्व्वेदाद्दक्षिणाग्ग्निस्सामवेदादाहवनीयस्तेऽभ्यतपँस्तेषां तप्यमानानां पुरुषोऽजायत सहस्रशीर्षाः सहस्राक्षः सहस्रपात् ॥२॥ ते देवाः प्रजापतिमुपाधावन्वेदशरीरैर्व्वा इदममृतशरीरं न ह वा इदं मृत्योस्समाप्स्यतेति तेऽब्रुवन् को नामासीति ॥३॥ स होवाच यज्ञो नामेति ॥४॥ तेषां प्रजापतिः सद्यो यज्ञसँस्थामुपैति सद्यो ह वा एष यज्ञसँस्थामुपैति ॥५॥ यद्गार्हपत्यं प्रादुष्करोति सा दीक्षणीया यद्दक्षिणग्ग्निं चाहवनीयं च सा प्रायणीया यत्समिधोऽभ्यादधाति ता उपसदः ॥६॥ अथ यस्याज्यमुत्पूतँ स्कन्दति सा वै स्कन्नानामाहुतिस्ततो वै यजमानः प्रमायुर्भवति वरो देयः सैव तस्य प्रायश्चित्तिः ॥७॥ अथ यस्याज्यमनुत्पूतँ स्कन्दत्यसौ वा अस्कन्नानामाहुतिस्ततो वै यजमानस्य चित्तं प्रमायुर्भवति चित्रं देयँ सैव तस्य प्रायश्चित्तिः ॥८॥ यद्गार्हपत्ये जुहोति तत्प्रातःसवनँ यद्दक्षिणाग्ग्नौ जुहोति तन्माध्यन्दिनँसवनँ यदाहवनीये जुहोति तत्तृतीयसवनम् ॥९॥ यन्मार्ज्जयते सोऽस्यावभृथः ॥१०॥ यदन्ना ददाति तेनोदयनीयस्योदवसानीयस्य समाप्त्यै ॥११॥ अथ यस्याग्निर्मथ्यमानो न जायेतान्यमाहृत्यान्यस्मिन्नवकाशे जुहुयात् ब्राह्मणस्य वा हस्तेऽजस्य वा कर्णे कुशस्तम्बे वाप्सु वा जुहुयात् ॥१२॥ अन्यैः शतहुताद्धोमादेकः शिष्यहुतो वरँ शिष्यैः शतहुताद्धोमादेकः पुत्रहुतो वरं पुत्रैः शतहुताद्धोमादेको ह्यात्महुतो वरम् ॥१३॥ स्वयँ होता स्वयं दोही स्वयमेवोपतिष्ठेताग्ग्निहोत्रम् ॥१४॥ हौम्यशेषं दक्षिणा ॥१५॥ सर्व्वैर्ह वा एतस्य यज्ञक्रतुभिरिष्टं भवति य एवं विद्वानग्ग्निहोत्रं जुहोति ॥१६॥ इति प्रथमः खण्डः ॥५/१॥

प्रजापतिर्व्वा एतत्सत्रँ सहस्रसँवत्सरमसृजत तेषां प्रजापतिः सहस्रसँवत्सरं गवामयनेऽवारुन्धद्गवामयनं द्वादशाहे द्वादशाहमतिरात्रेऽतिरात्रँ षोडशिनि षोडशिनमुक्थ्य उक्थ्यमग्ग्निष्टोमेऽग्ग्निष्टोममिष्टिपशुबन्धयोरिष्टिपशुबन्धावग्निहोत्रे सर्व्वैर्ह वा एतस्य यज्ञक्रतुभिरिष्टं भवति य एवँ विद्वानग्ग्निहोत्रं जुहोति ॥१॥ इति द्वितीयः खण्डः ॥५/२॥

प्रजापतिर्द्देवेभ्य औदुम्बरीमुच्छ्रयत्यसुषिरमूलामग्रन्थिं पृथुबुध्नामेकजाम् ॥१॥ यजमानमात्र्यौदुम्बरी भवति ॥२॥ अथ कुब्जवामना यजमाना ह्रस्वाश्चोर्ध्वबाहवः प्रच्छेदनं कुर्य्युः ॥३॥ कतिच्छदनौदुम्बरी भवति नवच्छदनाग्ग्निष्टोम साद्यस्क्रेष्वेकादश वैश्यस्तोमातिरात्रपौण्डरीकेषु सप्तदश वाजपेयाप्तोर्य्याम्णोरेकविँशत्यश्वमेधे अष्टाचत्वारिँशतं पुरुषमेधे अपरिमितँ सर्वमेधे ॥४॥ य एवँ वेद यदौदुम्बरीमुच्छ्रयत्यपचितिमेवाप्नोति ॥५॥ प्रजापतिरकामयतापचितिं प्राप्नवानीत्यूर्गुदुम्बर ऊर्ग्गन्नमन्नँ साम तस्मात्सामगेभ्योऽपचितिं करवाणीति य एवँ वित्त्वौदुम्बरीमुच्छ्रयत्यपचितिमेवाप्नोति ॥६॥ इति तृतीयः खण्डः ॥५/३॥

यूपं करोति सक्षीरँ स्थूलं मूले वालाग्रमनुरूपम् ॥१॥ वज्ज्रो वै यूपो वज्ज्रेणैवास्मै भ्रातृव्यं प्रहरति ॥२॥ अष्टाश्रीः करोति ॥३॥ दशदिशः परिगृह्णात्युभयतः पाङ्क्ते द्वे यूपे करोति ॥४॥ पञ्चदशसप्तदशैकविंशत्यरत्निँ वा ॥५॥ पालाशं पुष्टिकामस्य बैल्वं ब्रह्मवर्चसकामस्य औदुम्बरमन्नाद्यकामस्य खादिरं बलकामस्य वैभीतकराजवृक्षौ भ्रातृव्यवतः क्रमुकाश्वत्थपाषाणा यशस्कामस्य यत्किञ्च यज्ञियं पशुकामस्य ॥६॥ तत्र वर्ज्जनीया भवन्ति गडुलो व्रणिलो व्यावृत्तः कुठिः कुब्जः शूलो दग्धः शुष्कः सुषिरो घुणजग्ध इत्यप्रशस्ताः ॥७॥ अथ प्रशस्ताः शुद्धावर्त्ता अनुपूर्वसमाः प्रशस्ताः ॥८॥ यूपस्याश्रीदैवतान्यग्ग्निः पूर्व्वायाँ यमो दक्षिणायाँ वरुणः पश्चिमायाँ सोम उत्तरायाँ या विदिशस्तास्वादित्यरुद्रमरुद्वसवोऽपराजिताः पितरश्चाधरायाँ साध्याश्चोर्ध्वायाम् ॥९॥ सर्वदेवत्यो वै यूपो यूपो वै बहुरूपो वज्रीष भूत्वा देवानुपतिष्ठते ॥१०॥ ते देवाः प्रजापतिमुपाधावन्यूपेन प्रहरन्त्यारोपयन्त्या योधयन्ति च तद्यूपस्य यूपत्वम् ॥११॥ मूलमरत्निँ सत्वचं निखनेत् ॥१२॥ तस्य यन्नैखान्यं तत्पितॄणाँ यदूर्ध्वं तन्मनुष्याणाँ यत्तदधो रशनाया ओषधिवनस्पतीनाँ यदूर्ध्वँ रशनायास्तद्विश्वेषां देवानाम् ॥१३॥ आप्लावयन्त्यलङ्कुर्व्वन्त्यहतेन वसनेनाच्छादयन्ति चेति ॥१४॥ तद्गन्धर्वाप्सरसाम् ॥१५॥ इन्द्रस्य चषालँ यदूर्ध्वं चषालस्याङ्गुलमात्रं कार्यंचस तत्साध्यानां देवानाम् ॥१६॥ प्राचीँ सन्नमत्येतद्वै विष्णोः परमं पदम् ॥१७॥ तस्यर्त्तवः शरीरँ शिरः संवत्सरो वेदा रूपाणि सँवत्सर एव प्रतितिष्ठति य एवँ वेद ॥१८॥ इति चतुर्थः खण्डः।।५/४॥

ब्रह्मवादिनो वदन्ति कस्माद् ब्राह्मणः सायमासीन सन्ध्यामुपास्ते? कस्मात्प्रातस्तिष्ठन् ? का च सन्ध्या? कश्च सन्ध्यायाः कालः? किञ्च सन्ध्यायाः सन्ध्यात्वम् ? ॥१॥ देवाश्च वासुराश्चास्पर्धन्त तेऽसुरा आदित्यमभिद्रवत्स आदित्योऽबिभेत्तस्य हृदयं कूर्मरूपेणातिष्ठत् ॥२॥ स प्रजापतिमुपाधावत्तस्य प्रजापतिरेतद्भेषजमपश्यदृतं च सत्यं च ब्रह्म चोङ्कारं च त्रिपदां च गायत्रीं ब्रह्मणो मुखमपश्यत् ॥३॥ तस्माद् ब्राह्मणोऽहोरात्रस्य सँयोगे सन्ध्यामुपास्ते सज्ज्योति स्याज्ज्योतिषो दर्शनात्सोऽस्याः कालः सा सन्ध्या तत्सन्ध्यायाः सन्ध्यात्वँ यत्सायमासीनः सन्ध्यामुपास्ते तया वीरस्थानं जयत्यथ यदपः प्रयुङ्क्ते ता विप्रुषो वज्ज्री भवन्ति ता विप्रुषो वज्ज्री भूत्वासुरानपाघ्नन्ति ततो देवा अभवन्परासुरा भवत्यात्मना परास्य भ्रातृव्यो भवति य एवँ वेद यत्सायं च प्रातश्च सन्ध्यामुपास्ते तया वीरस्थानँ स्थानं च सन्ततमविच्छिन्नं भवति य एवँ वेद ॥४॥ इति पञ्चमः खण्डः ॥५/५॥

अथैषा चन्द्रमसः क्षयवृद्धिर्भवति यदा वै चन्द्रमाः क्षीयते चाप्यायते च तदनुव्याख्यास्यामः ॥१॥ पूर्वपक्षे वै देवा दीक्षन्ते तेऽपरपक्षे सोमं भक्षयन्ति तत्रेमानि त्रीणि पात्राण्युपधीयन्ते पृथिवी पात्रमन्तरिक्षं पात्रं द्यौः पात्रमिति तं देवा दिव्येन पात्रेणादित्याः प्रथमं पञ्चकलं पञ्चमीं भक्षयन्ति तेऽन्तरिक्षेण पात्रेण रुद्रा द्वितीयं पञ्चकलं दशमीं भक्षयन्ति ते पृथिव्या पात्रेण वसवस्तृतीयं पञ्चकलं पञ्चदशीं भक्षयन्ति षोडशी कलावशिष्यते षोडशकलो वै चन्द्रमाः स ओषधीश्च वनस्पतीँश्च गाश्च पशूँश्चादित्यं च ब्रह्म च ब्राह्मणाश्चानुप्रविशति तं देवा इन्द्रज्येष्ठाः सोमपाश्चासोमपाश्च यथा पितरं पितामहं प्रपितामहं वा वृद्धं प्रलयमुपगच्छमानँ व्याधिगतं मरिष्यतीति वा ताँ रात्रिँ वसन्ते तदमावास्याया अमावास्यात्वं तस्मादमावास्यायां नाध्येतव्यं भवति ॥२॥ अथ सम्भरणन्तमोषधिभ्यश्च वनस्पतिभ्यश्च गोभ्यश्च पशुभ्यश्चादित्याश्च ब्रह्मणश्च ब्राह्मणाः सन्नयन्ते तात्सान्नाय्यस्य सान्नाय्यत्वम् ॥३॥ चन्द्रमा वै धाता या पूर्व्वा पौर्णमासी सानुमतिर्योत्तरा सा राका या पूर्व्वामावास्या सा सिनीवाली योत्तरा सा कुहूर्योऽनुपश्यत्यन्यं न पश्यति तन्मिथुनमेवास्य भवति ॥४॥ पुष्ये चानुमतिर्ज्ज्ञेया सिनीवाली तु द्वापरे खार्व्वायां तु भवेद्राका कृतपर्व्वे कुहूर्भवेत्॥५॥ न्यूने चानुमतिँ विद्याद्यस्मिन्दृश्येत सा सिनीवालीँ राकायान्तु सम्पूर्णश्चन्द्रस्तु कुहूर्न्न दृश्येत ॥६॥ इति षष्ठः खण्डः ॥५/६॥

स्वाहा वै कुतः सम्भूता? कस्य दुहिता? केन प्रकृता? किं गोत्रा? कत्यक्षरा? कतिपदा? कति मात्रा? कति वर्णा? कत्युच्छवासा? किञ्चास्याः शरीरं? कान्यङ्गानि? कानि लोमानि? कति शिराँसि? कति वा चक्षूँषि? किमस्या आस्यं? किं प्रावृता? कौ बाहू? कौ पादौ? क्व च स्थिता? किमधिष्ठाना? कथं च स्वाहां प्रतिगृह्णासि? ब्रूहि स्वाहाया रूपं च दैवतं च ॥१॥ स्वाहा वै सत्यसम्भूता ब्रह्मणो दुहिता ब्रह्मप्रकृता लातव्यसगोत्रा त्रीण्यक्षराण्येकं पदं त्रयोऽस्यै वर्णाः शुक्लः पद्मः सुवर्ण इति चत्वारोऽस्यै वेदाः शरीरँ षडङ्गान्यङ्गान्योषधिवनस्पतयो लोमानि द्वे चास्याः शिरसी एकँ शिरोऽमावास्या द्वितीयं पौर्णमासी चक्षुश्चन्द्रादित्यावाज्यभागौ हुतं दक्षिणा प्रावृता बृहद्रथन्तरमृग्यजुः सामगतिः सा स्वाहा सा स्वधा स वषट्कारः सैषा देवेषु वषट्कारभूता प्रयुज्यते पितृयज्ञेषु स्वधाभूता शकटीमुखीं पृथिवीमन्तरिक्षेण विपर्येति तस्या अग्ग्निर्दैवतं ब्राह्मणो रूपँ यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणाँ स्वाहेति ॥२॥ तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्च्चसेनेति ॥३॥ इति सप्तमः खण्डः ॥५/७॥

इति पञ्चमोऽध्यायः