सामवेदः/कौथुमीया/षड्विंशब्राह्मणम्/चतुर्थोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search

अथ चतुर्थोऽध्यायः

स्वरान्तः प्रथमस्त्रिरात्रो गायत्री ॥१॥ प्राणो वै गायत्री प्रजापतिः स्वरः प्रजापतिमेवाप्नोति ॥२॥ निधनान्तो द्वितीयस्त्रिष्टुप्॥३॥ वीर्य्यँ वै त्रिष्टुप्त्रैष्टुभः पुरुषः पुरुषमेवाप्नोति ॥४॥ इडान्तस्तृतीयो जगती ॥५॥ पशवो वा इडा पशवो जगती जागताः पशवः पशूनेवाप्नोति ॥६॥ प्रसृतच्छन्दाः प्रथमस्त्रिरात्रस्तेन सोऽयातयामा ॥७॥ अथोत्तरस्य च्छन्दांसि व्यूहन्ति त्रिष्टुभः प्रतिपदो भवन्ति त्रिष्टुभाँल्लोके जगत्यो जगतीनां गायत्र्यस्तेन सोऽयातयामा ॥८॥ अथोत्तमस्य च्छन्दाँसि व्येवोहन्ति जगत्यः प्रतिपदो भवन्ति जगतीनाँल्लोके त्रिष्टुभस्त्रिष्टुभां गायत्र्यस्तेनो एव सोऽयातयामा ॥९॥ अभि वा एता अन्योन्यस्यै लोकमभ्यध्यायन काममेवैनागमयत्याप्नोति तं कामँ यस्मै कामायैष आह्रियते ॥१०॥ तस्माद्युजौ न सदृग्वहतस्तस्माद्विपरिणीतौ वहीयाँसौ भवतस्तस्मादुभयतोदन्तः स्यदन्ते ॥११॥ तृचे वा अन्य ऋषयो विराजमपश्यन्वसिष्ठश्चतुर्ऋचे ॥१२॥ तेन स चतुर्ऋचो यस्तृचेऽन्यत्साम भवत्येकर्च्चेऽन्यद्यद्वाव चतसृष्वेकँ साम स एव चतुर्ऋचः ॥१३॥ साम भूयाँसं पोषं पुष्यति तमनु पोषं पोषुको भवति ॥१४॥ एतद्ध स्माह मुञ्जः सोमश्रवस एतँ ह वै वयँ साम्नः पोषं विद्येति तस्माद्वयमप्रतिगृह्णन्तो न सहस्रपोषाच्च्यवामहा इति ॥१५॥ तदु ह स्माह वासिष्ठश्चैकितानेयः साम हैव नूनं भूयाँसं पोषं पुष्यति तमनपोषं पोषको भवति विधवाया इव त्वे वै तज्जन्म यदसाम्नी चतुर्थ्येवं ह वा एते विदुरिति तस्मादेतेषाँ युवानः श्रोत्रियाः पुरायुषः प्रमायुका भवन्ति युवतयो जाया विधवा भवन्तीति यत्तृचेऽन्यत्साम भवत्येकर्चेऽन्यद्यद्वाव चतसृष्वेकँ साम स एव चतुर्ऋच इति ॥१६॥ पशुरतिरिच्यते स ऐन्द्राग्ग्न आलम्भ्यः ॥१७॥ इन्द्राग्ग्नी वै देवानामोजिष्ठौ ता उ अयातयामानौ तावेव तद्युनक्ति स्वर्गस्य लोकस्य समष्ट्यै ॥१८॥ सौर्य्यं ब्रह्मवर्चसकाम आलभेत ॥१९॥ एतस्याँ वा एकादशिन्यामादित्याः सूर्य्यमजनयत्स तेजो ब्रह्मवर्चसमवारुन्ध तेजस्वी ब्रह्मवर्चसी भवति य एवं वेद ॥२०॥ अथो खल्वाहुराग्ग्नेय एवालम्भ्य इत्यग्ग्निर्व्वै सर्व्वा देवतास्तेन न देवतानां कां चनान्तरेति ॥२१॥ इति प्रथमः खण्डः ॥४/१॥

अथैष श्येनः॥१॥ अभिचरन्यजेत ॥२॥ श्येनो वै वयसां क्षेपिष्ठो यथा श्येन आददीतैवमेवैनमेतेनादत्ते ॥३॥ त्रिवृतः पवमाना भवन्ति ॥४॥ त्रिवृद्वै स्तोमानां क्षेपिष्ठो यत्त्रिवृद्भवत्याशीयस्तृणवा इति ॥५॥ रथौ हविर्धाने भवतो रथवज्ज्रमेवास्मै तत्प्रवर्त्तयति स्तुत्यै ॥६॥ वषट्कारणिधनं भवति ॥७॥ एष वै वज्राणामोजिष्ठो यत्साम वज्ज्रो यं बहवो वषट् कुर्वन्ति तमेवास्मै वज्ज्रं प्रहरति स्तृत्यै ॥८॥ उभे बृहद्रथन्तरे भवत उभाभ्यामेवास्मै बृहद्रथन्तराभ्याँ वज्ज्रं प्रहरति स्तृत्यै ॥९॥ पराचीषु रथन्तरं भवति ॥१०॥ पराञ्चमेवास्मै वज्ज्रं प्रहरति स्तृत्यै ॥११॥ तस्य रथन्तरं पृष्ठं बृहत् ब्रह्मसामैष वै साम वज्ज्रस्तमेवास्मै वज्ज्रं प्रहरति स्तृत्यै ॥१२॥ यं कामयेत क्षीयेतेति तस्य बृहत्पृष्ठं कुर्य्याद्रथन्तरं ब्रह्मसाम क्षत्रँ वै बृहत्पशवो रथन्तरं क्षत्रेणैवास्य पशून् हन्त्यपशुर्भवति क्षीयते ॥१३॥ यं कामयेत परां परावतमियान्न प्रतितिष्ठेदिति पवमाने रथन्तरं कुर्यात्बृहत्पृष्ठं प्लवं ब्रह्मसाम बृहद्रथन्तराभ्यामेवैनमेभ्यो लोकेभ्य उद्धृत्य प्लवेन प्रप्लावयति परां परावतमेति न प्रतितिष्ठति ॥१४॥ वार्षाहरे पवमानमुखे भवतः सफौपगवे नानदं क्रूराणि सामानि सम्भवन्ति स्तृत्यै ॥१५॥ तैल्वको वा बाधको वा यूप स्फ्याग्रः ॥१६॥ शवनभ्ये अधिषवणे ॥१७॥ अग्ग्नये रुद्रवते लोहितः पशुः॥१८॥ सादयन्त्युपाँश्वन्तर्यामौ॥१९॥ शरमयं बर्हिः शीर्त्यै ॥२०॥ वैभीतक इध्मो विभित्यै ॥२१॥ लोहितोष्णीषा लोहित वाससो निवीता ऋत्विजः प्रचरन्ति स्तृत्यै ॥२२॥ नव नव दक्षिणा भवन्ति ॥२३॥ नावयन्त्येवैनं तत् ॥२४॥ इति द्वितीयः खण्डः ॥४/२॥

त्रिवृदग्ग्निष्टोमः ॥१॥ तस्येषुँ विष्टुतिं कृत्वाभिचरन्यजेत ॥२॥ इषुवधो वै पुरायुषो भवति यदिषुँ विष्टुतिं करोति पुरैवैनामायुषः प्रवृश्चति ॥३॥ त्रिवृद्वै स्तोमानां क्षेपिष्ठो यत्त्रिवृद्भवत्याशीयस्तृणवा इति ॥४॥ वषट्कारणिधनं भवति ॥५॥ सप्तहं भवत्यासप्तमात्पुरुषादनायतनो भवति यमेतेनाभिचरन्ति ॥६॥ समानमितरच्छ्येनेन ॥७॥ इति तृतीयः खण्डः ॥४/३॥

अथैष सदँशः॥१॥ अभिचरन् यजेत ॥२॥ यद्वै दुरादानँ सदँशेन तदादत्ते ॥३॥ यद्द्वौ द्वौ स्तोमौ सह यथा ह दुरादानँ सदँशेनानुहायाददीतैवमेवैनमेतेनादत्ते ॥४॥ विवृतँ स्तोमँ सम्पद्यते बृहतीं छन्दो वज्ज्रो वै त्रिवत्पशवो बृहतीं वज्ज्रेणैवास्य पशून् हन्त्यपशुर्भवति ॥५॥ वैय्यश्वं भवति व्यश्वमेवैनं करोति ॥६॥ परिष्टुब्धेडं भवति पर्य्येवैनँ वृश्चति ॥७॥ वार्षाहरे पवमानमुखे भवतः काशीतौपगवे नानदं क्रूराणि सामानि सम्भवन्ति स्तृत्यै ॥८॥ निस्सप्तदशस्तेन क्रूरः ॥९॥ समानमितरच्छ्येनेन ॥१०॥ इति चतुर्थः खण्डः ॥४/४॥

अथैष वज्ज्रोऽभिचरन्यजेत वज्ज्रेणैवास्मै वज्ज्रं प्रहरति स्तृत्यै ॥१॥ सर्व्वः पञ्चदशो भवति ॥२॥ वज्ज्रो वै पञ्चदशस्तमेवास्मै वज्ज्रं प्रहरति स्तृत्यै ॥३॥ उक्थ्यः षोडशिमान्भवति॥४॥ पशवो वा उक्थानि वज्ज्रः षोडशी वज्जेणैवास्मै वज्ज्रं प्रहरति स्तृत्यै ॥५॥ तस्य महानाम्न्यः षोडशिसाम भवति॥६॥ वज्ज्रो वै महानाम्न्यो वज्ज्रः षोडशी वज्जेणैवास्मै वज्ज्रं प्रहरति स्तृत्यै ॥७॥ समानमितरत्पूर्वेण ॥८॥ इति पञ्चमः खण्डः॥४/५॥

अतिरात्रश्चतुर्विँशं प्रायणीयमहरभिजित्त्रयस्स्वरसामानो दिवाकीर्त्यमहस्त्रयस्स्वर सामानो विश्वजिन्महाव्रतं चातिरात्रश्च ॥१॥ विश्वेदेवाः सत्रमासत सोमेन राज्ञा गृहपतिना तेऽब्रुवन्त्सोम एव नो राजा सर्व्वत्र विभवेदिति तस्मात्सोमो राजा सर्व्वाणि नक्षत्राण्युपैति सोमो हि रेतोधाः॥२॥ नवाहँ सँवत्सरस्य गर्भमुपयन्ति॥३॥नवाहो वै सँवत्सरस्य प्रतिमा नव प्राणाः प्राणानेवावरुन्धते ॥४॥ प्रजावन्तो जीवा ज्योतिरश्नुवते य एता उपयन्ति ॥५॥ इति षष्ठः खण्डः ॥४/६॥

इति चतुर्थोऽध्यायः