सामवेदः/कौथुमीया/ताण्ड्य ब्राह्मणम्/अध्यायः ४/खण्ड ९

विकिस्रोतः तः


<४.९.१> पत्नीः संयाज्य प्राञ्च उदेत्यायं सहस्रमानव इत्यतिच्छन्दसाहवनीयमुपतिष्ठन्ते
<४.९.२> इमे वै लोका अतिच्छन्दा एष्वेव लोकेषु प्रतितिष्ठन्ति
<४.९.३> गोरिति निधनं भवति विराजो वा एतद्रूपं यद्गौर्विराज्येव प्रतितिष्ठन्ति
<४.९.४> प्रत्यञ्चः प्रपद्य सार्पराज्ञ्या ऋग्भिः स्तुवन्ति
<४.९.५> अर्बुदः सर्प एताभिर्मृतां त्वचमपाहत मृतामेवैताभिस्त्वचमपघ्नते
<४.९.६> इयं वै सार्पराज्ञ्यस्यामेव प्रतितिष्ठन्ति
<४.९.७> तिसृभिः स्तुवन्ति त्रय इमे लोका एष्वेव प्रतितिष्ठन्ति
<४.९.८> मनसोपावर्तयति
<४.९.९> मनसा हिङ्करोति मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरति मनसा निधनमुपयन्त्यसमाप्तस्य समाप्त्यै
<४.९.१०> यद्वै वाचा न समाप्नुवन्ति मनसा तत् समाप्नुवन्ति
<४.९.११> परिश्रिते स्तुवन्ति ब्रह्मणः परिगृहीत्यै
<४.९.१२> ब्रह्मोद्यं वदन्ति ब्रह्मवर्चस एव प्रतितिष्ठन्ति
<४.९.१३> चतुर्होतारं होता व्याचष्टे स्तुतमेव तदनुशंसति नहि तत् स्तुतं यदननुशस्तम्
<४.९.१४> प्रजापतिं परिवदन्त्याप्त्वेवैनं तद्व्याचक्षते तावदापामैनमिति
<४.९.१५> गृहपतिरौदुम्बरीं धारयति गृहपतिर्वा ऊर्जो यन्तोर्जमेवैभ्यो यच्छति
<४.९.१६> वाचं यच्छन्ति
<४.९.१७> दुग्धानीव वै तर्हि छन्दसांसि यातयामान्यन्तर्गतानि तान्येव तद्रसेनाप्याययन्ति
<४.९.१८> अथो श्वस्तनमेवाभिसंतन्वन्ति
<४.९.१९> आत्मदक्षिणं वा एतद्यत् सत्त्रम्
<४.९.२०> यदा वै पुरुष आत्मनोऽवद्यति यं कामं कामयते तमभ्यश्नुते
<४.९.२१> द्वाभ्यां लोमावद्यति द्वाभ्यां त्वचं द्वाभ्यां मांसं द्वाभ्यामस्थि द्वाभ्यां मज्जानं द्वाभ्यां पीवश्च लोहितं च
<४.९.२२> शिखा अनुप्रवपन्ते पाप्मानमेव तदपघ्नते लघीयांसः स्वर्गं लोकमयामेति
<४.९.२३> अथो गवामेवानुरूपा भवन्ति सर्वस्यान्नाद्यस्यावरुद्ध्यै