सामवेदः/कौथुमीया/आर्षेयब्राह्मणम्/अध्यायः ५(पावमानं पर्व)
पञ्चमोऽध्यायः प्रथमः खण्डः
आजिगं चाभीकं च ऋषभश्च पवमानः । औक्ष्णोरन्ध्रो वा । आभीकं चैव । बाभ्रवे द्वे । इन्द्राण्याः साम । शैशवे द्वे । प्रजापतेर्दोहादोहीये द्वे । इन्द्राण्याश्चैव साम । आमहीयवं च॥५.१.१॥
उच्चा ते जातमन्धसः (सा. ४६७) इत्यत्र त्रयोदश सामान्युत्पन्नानि । तत्र प्रथमम् उच्चातेजा (ग्राम. १२.१. ४६७.१) इति मन्द्रचतुर्थादिकम् आजिगम् । आजियुद्धं तद्वत् । प्रतते द्वादशाहे तु हि गीयते तद् गमनसाधनं साम । [आजिजितिगमन] साधनमित्यर्थः । तथा च ब्राह्मणम् - आजिगं भवत्याजि- जित्याया आजिर्वा एष प्रततो यद् द्वादशाहस्तस्यैतदुज्जित्यै (तां ब्रा. १५. ९. ६-७) इति । सर्वत्र चकारो वाक्यभेदद्योतनार्थः । उच्चातेजा (ग्राम. १२.१. ४६७.२) इति द्वितीयक्रुष्टादिकम् आभीकम् अभिक्रमण- साधनमेतन्नामधेय साम । तथा च ब्राह्मणम् आभीकं भवत्यभिक्रान्त्या आङ्गिरसस्तपस्तेपानाः शुचमशोचंस्त एतत्सामापश्यंस्तानभीकेऽभ्य- वर्षतेन शुचमशमयन्त । यदभीकेऽभ्यवर्षत्तस्मादाभीकम् (ता. बा. १५. ९. ८-९) इति । हाहाउच्चातेजा (ग्राम. १२. १. ४६७. ३) इति मन्द्रादिक तृतीयम् ऋपभः पवमानः एतत्संज्ञम् । ऋषभ इव ऋषभः । तच्च ऋषभः पवमानो भवति । पशवो वै छन्दोमाः (ता. बा. १५. ३. १७) इत्यादि ब्राह्मणमनुसंधेयम् । अत्र विकल्पः । अथवा एतत् पञ्चमः अध्यायः (१) तृतीयं साम औक्षणोरन्ध्रः । उक्ष्णोरन्ध्रो नाम काव्यः तेन दृष्टमित्यर्थः। लिङ्गमवि- वक्षितम् । ऊचातेजाः (ग्राम. १२. १. ४६७.४) इति क्रुष्टद्वितीयादिकं चतुर्थं सामाभीकमेव । उच्चातेजा (ग्राम. १२. १. ४६७.५) इति मन्द्रा- दिकम् । उच्चातेजा (ग्राम. १२.१.४६७.६) इति मन्द्रादिकम् । एते द्वे पञ्चमषष्ठे बाभ्रवे कौम्भ्यस्य बभ्रोः संबन्धिनी । बभ्रुर्वा एतेन कौम्भ्योऽञ्जसा वर्ग लोकमपश्यत् (ता. ब्रा. १५.३.१३) इत्यादि ब्राह्मणमनुसंधेयम्। उच्चातेजातमा (ग्राम. १२.१. ४६७.७) इति मन्द्रचतुर्थादिकं सप्तमम् इन्द्राण्याः साम । उच्चातेजातमन्धासाः (ग्राम. १२.१. ४६७.८) इति मन्द्रचतुर्थादिकम् अष्टमम् । उच्चातेजातमन्यासाः (ग्राम. १२.१. ४६७.९) इति मन्द्रादिकं नवमम् । एते द्वे शैशवे । [शिशोराङ्गिरसस्य संबन्धिनी ।] शिशुर्वा आङ्गिरसो मन्त्र कृतां मन्त्र कृदासीत् (ता. ब्रा. १३. ३.२४) इत्यादि ब्राह्मणमनुसंधेयम् । उच्चा औहोवा (ग्राम. १२.१. ४६७. १०) इति तृतीयद्वितीयादिकम् । उच्चातेजातमन्धसोदोहाइदोहाए (ग्राम. १२. १. ४६७.११) इति मन्द्र- मन्द्रादिकम् । एते दशमैकादशे प्रजापतेदोहादोहीये दोहादोहशब्दयुक्ते । दशमस्य दोहादोहशब्द [युक्तत्वाद]नर्थक संज्ञाविधानमिति चेत् । सत्यम् । तथापि प्राणभृन्न्यायवत् छत्रिन्यायवद्वा द्विवचनान्यथानुपपत्त्या उत्तरस्य साम्नः संज्ञाविधा- नाच्च एतत्संज्ञाविधान शक्यते कर्तुम् । दोहादोहशब्दात् मतो छः सूत्र- सानोः (पा. ५.२.५९) इति मत्वर्थीयश्छः । उच्चातेजातमन्धसाः (ग्राम. १२.१.४६७.१२) इति तृतीयद्वितीयादिकम् एतदुपोत्तममिन्द्राण्याः एव साम । उच्चाताइजातमन्धसाः (ग्राम. १२.१.४६७.१३) इति मन्द्रद्विती- यादिकम् अन्तिमं] साम आमहीयवम् [इ त्यतिपूज्यम् एतन्नामधेयम् । अत्र ब्राह्मणम् – प्रजापतिरकामयत । बहु स्यां प्रजायेयेति । स शोचन्नमहीय- मानोऽतिष्ठन्स एतदामहीयवमपश्यत्तेनेमाः प्रजा असृजत ताः सृष्टा अमहीयन्त । यदमहीयन्त तस्मादामहीयवम् (ता. ब्रा. ७.५.१) इति ॥१॥ १६२ आर्षेयब्राह्मणम्
आजिगम् । सुरूपे द्वे । जमदग्नेः शिल्पे द्वे । संहितं च वसिष्ठस्य शकुलः। जमदग्नेश्च गम्भीरम् । संहितं चैव ॥५.१.२॥
खादिष्ठया मदिष्ठया (सा. ४६८) इत्यत्र नव सामान्युत्पन्नानि । खादाइष्ठाया (ग्राम. १२.१. ४६८.१) इति क्रुष्टद्वितीयादिकं प्रथममाजिग- [मेत] नामकम् । स्वादिष्ठया (ग्राम. १२.१.४६८.२) इति द्वितीयक्रुष्टा- दिकम् । स्वादिष्ठयौहो (ग्राम. १२. १.४६८. ३) इति द्वितीयक्रुष्टादिकम् । एते द्वे द्वितीयतृतीये सामनी सुरूपे एतत्संज्ञे । ओइस्वादी (ग्राम. १२.१. ४६८. ४) इति द्वितीयतृतीयादिकम् । उहुवाइ । स्वादी (ग्राम. १२. १. ४६८.५) इति द्वितीयतृतीयादिकम् । एते तुरीयपञ्चमे जमदग्नेः शिल्पे एतन्नामधेये । खादाइष्ठया (ग्राम. १२.१.४६८.६) इति चतुर्थमन्द्रादिक षष्ठं संहितम् । स्वादिष्ठयामदिष्ठयापवस्वसोमधारयाइ (ग्राम. १२. १. ४६८.७) इति चतुर्थमन्द्रादिकं सप्तमं वसिष्ठस्य च शकुलः । औहोहुम् स्थिहाएहिया। हाहाइ । स्वादाइष्ठाया (ग्राम. १२.१. ४६८.८) इति मन्द्रचतुर्थादिकमेतदष्टमं जमदग्नेश्च गम्भीरम् । स्वादिष्टयाम (ग्राम. १२.१.४६८.९) इति चतुर्थमन्द्रादिकम् अन्तिमं साम संहितमेव । संहितं संयोज [न] करणम् । अत्र ब्राह्मणम् --- तासु संहितं साध्या वै नाम देवा आसंस्तेऽवच्छिद्य तृतीयसवनं माध्यंदिनेन सबनेन सह स्वर्ग लोकमायंस्ते देवाः संहितेन समदधुर्यत् समदधुस्तस्मात् संहितम् (ता. बा. ८. ४. ८-९) इति ॥ २ ॥
सोमसामनी च । आशु च भार्गवम् । वैश्वदेवे द्वे । इन्द्रसामनी द्वे । यौक्ताश्वे द्वे ॥ ५.१.३ ॥ पञ्चमः अध्यायः (१) १६३
वृषा पवस्त्र धारया (सा. ४६९) इत्यत्र नव सामान्युत्पन्नानि । तत्र वृषापवा (ग्राम. १२.१. ४६९.१) इति मन्द्रादिकम् । वृषाहाउ (ग्राम. १२. १. ४६९. २) इति चतुर्थमन्द्रादिकम् । एते आये द्वे सोमसामनी । वृषापव (ग्राम. १२. १. ४६९.३) इति चतुर्थमन्द्रादिकं तृतीयम् आशुभार्गव- नामकम् । आशुभार्गवं भवति । अहर्वा एतदव्लीयत तद्देवा आशुना- भ्यधिन्वंस्तदाशोराशुत्वम् (ता. ब्रा. १४. ९. ९-१०) इति ब्राह्मणमनु- संधेयम् । आइवृषा (ग्राम. १२.१.४६९.४) इति चतुर्थमन्द्रादिकम् । वृषा । पवाएहिया (ग्राम. १२.१.४६९.५) इति मन्द्रतृतीयादिकम् । एते तुरीय चमे वैश्वदेवे । वृपापावा (ग्राम. १२. १. ४६९. ६) इति क्रुष्टद्विती- यादिकम् । वृषापावा (ग्राम. १२. १. ४६९.७) इति द्वितीयक्रुष्टादिकम् । एते षष्ठसप्तमे इन्द्रमामनी । औहोहोहाइवृपा (ग्राम. १२. १. ४६९.८) इति मन्द्रचतुर्थादिकम् । वृषाऔहोहोहाइ (ग्राम. १२. १. ४६९.९) इति मन्द्रचतुर्थादिकम् । एते अन्तिमे द्वे यु(यौ ?) क्ताश्वे । युक्ताश्वो नामाङ्गि- रसस्तेन दृष्टे । तथा च ब्राह्मणम् – युक्ताश्वो वाङ्गिरसः शिशू जाती विपर्यहरत्तस्मान्मन्त्रोऽपाक्रामत् स तपोऽतप्यत स एतद्योक्ताश्वमपश्यत् । (ता. ब्र. ११. ८.८) इत्यादि ॥ ३ ॥
भासं च । सोमसाम च । प्राजापत्यं च । सोमसाम चैव । भासं चैव । प्राजापत्यं चैव । अध्यधैर्ड वा सोमसाम॥५.१.४॥
यस्ते मदो वरेण्यः (सा. ४७०) इत्यत्र षट् सामानि उत्पन्नानि । तत्र यास्ताइ (ग्राम. १३. १. ४७०.१) इति चतुर्थमन्द्रादिकम् एतदाद्यं साम भासं भासकं प्रकाशकमेतन्नामधेयम् । तथा च ब्राह्मणम् – स्वर्भानुर्वा आसुर आदित्यं तमसाऽविध्यत् । स न व्यरोचत । तस्यात्रिर्भासेन तमोऽपाहन् स व्यरोचत यद्वै तद्भासा अभवत् तद्भासस्य भासत्वम् १६४ आर्षेयब्राह्मणम् (ता. ब्रा. १४.११.१४ ) इति । यस्तेमदाः (ग्राम. १३. १. ४७०.२) इति चतुर्थमन्द्रादिकं द्वितीयं सोमसाम सोमेन दृष्टम् । सोमसाम भवति इत्यादि। यत् (एवं ?) सोम आसीत्स तपोऽतप्यत । स एतत् सोमसामापश्यत् । (ता. ब्रा. ११.३.८-९) इति हि ब्राह्मणमनुसंधेयम् । यस्ताइमादाः (ग्राम. १३.१. ४७०. ३) इति तृतीयद्वितीयादिकं तृतीयं प्राजापत्यम् । यस्ताइमादोवरेणियाः (ग्राम. १३.१.४७०. ४) इति द्वितीयक्रुष्टादिकं चतुर्थं साम सोमसामैव । यस्ते । मादो। वा। ईया (ग्राम. १३.१. ४७०. ५) इति मन्द्रद्वितीयादिकं पञ्चमं भास- मेव । यस्तेमदोवरेणियाए (ग्राम. १३. १. ४७०. ६) इति मन्दमन्द्रादिकं प्राजापत्यमेव । अत्र अन्तिम एव विकल्पः । वा अथवा अध्यर्धेडं सोमसाम इति ॥ ४ ॥
वैष्टम्भे द्वे । पाष्ठौहे द्वे । वैष्टम्भं चैव । क्षुल्लकवैष्टम्भं वा । पाठौहं चैव ॥ ५.१.५॥
तिस्रो वाच उदीरते (सा. ४७१) इत्यत्र षट् सामान्युत्पन्नानि । तिस्रोवाचाः (ग्राम. १३.१. ४७१.१) इति मन्द्रादिकम् । तिस्रोवाचाः । उदाइरात (ग्राम. १३. १. ४७१. २) इति मन्द्रादिकम् । एते द्वे वैष्टम्मे। तिस्रोवाचोहाइ (ग्राम.१३.१.४७१.३) इति द्वितीयक्रुष्टादिकम् । तिम्रोवा- चउदीरतो (ग्राम. १३.१. ४७१. ४) इति मन्द्रचतुर्थादिकम् । एते द्वे तृतीय- चतुर्थे पाष्टौहे । तिस्रोवा (ग्राम. १३. १. ४७१. ५) इति चतुर्थतृतीयादिक पञ्चमं साम वैष्टम्भम् एव । विष्टम्भकारणम् । तथा च ब्राह्मणम् वैष्टम्भ भवत्यहा एतदव्लीयन तहेवा वैष्टम्मैय॑ष्टभ्नुवंस्तद्वैष्टम्भस्य वैष्टम्भ- त्वम्। दिश इति निधनम् (तां. ब्रा. १२.३.९-११) इति । अत्र विकल्पः । अथवा एतत्साम क्षुल्लकवेष्टम्भम् । तिस्रोवाचाउदीरताइ (ग्राम. १३.१.४७१. ६) इति चतुर्थमन्द्रादिकम् अन्तिम पाष्ठौहम् एव । पष्ठवाड् वाङ्गिरसः तेन दृष्टम् । तथा च ब्राह्मणम् – पाष्ठौहं भवति । पष्ठवाड्वा एतेनाङ्गिरसश्चतुर्थास्याह्रो वाचं वदन्तीमशृणोत् । स होवागिति निधनम् (ता. बा. १२. ५. १०-११) इति ॥ ५॥ पञ्चमः अध्यायः (१) १६५
इषोवृधीयं च । इन्द्रसाम च । वैश्वदेवे द्वे | आग्नेये द्वे । वैश्वदेवं चैव । आग्नेयं चैव ॥ ५.१.६ ॥
इन्द्रायेन्दो मरुत्वते (सा. ४७२) इत्यत्र अष्टौ सामान्युत्पन्नानि । तत्र इन्द्रायेन्दाउ (ग्राम. १३. १. ४७२.१) इति मन्द्रादिकमाद्यम् इषोवृधीयम् इषोवृधशब्दयुक्तम् । अस्य साम्न इषोवृधे इति निधनम् । आइन्द्रा (ग्राम. १३.१. ४७२. २) इति तृतीयद्वितीयादिकं द्वितीयम् इन्द्रसाम । इन्द्रायाइन्दो (ग्राम. १३. १. ४७२. ३) इति द्वितीयक्रुष्टादिकम् । इन्द्रायेन्दो। ए। मरू (ग्राम. १३.१. ४७२. ४) इति चतुर्थमन्द्रादिकम् । एत तृतीयचतुर्थे सामनी वैश्वदेवे । इन्द्रायेन्दोहाउ (ग्राम. १३. १. ४७२. ५) इति मन्द्रादिकम् । इन्द्रायेन्दोवा (ग्राम. १३. १. ४७२. ६) इति मन्द्रचतुर्थादिकम् । एते पञ्चमषष्ठे सामनी आग्नेये । इन्द्रायेन्दोमरुत्वते ओहाइ (ग्राम. १३. १. ४७२. ७) इति चतुर्थमन्द्रादिकं सप्तमं वैश्वदेवमेव । इन्द्रायेन्दोमरुत्वाताइ (ग्राम. १३. १. ४७२. ८) इति मन्द्रमन्द्रादिकम् । एतदन्तिमं साम आग्नेयमेव ॥६॥
शैशवानि चत्वारि । च्यावनानि चत्वारि ॥ ५.१.७ ॥
असाव्यꣳशुर्मदाय (सा. ४७३) इत्यत्र अष्टौ सामानि उत्पन्नानि । तत्र आसा (ग्राम. १३. १. ४७३. १) इति चतुर्थमन्द्रादिकम् । असाविया (ग्राम. १३. १. ४७३. २) इति चतुर्थमन्द्रादिकम् । असावियाओवा (ग्राम. १३. १. ४७३. ३) इति मन्द्रतृतीयादिकम् । असा । वियौवाओवा (ग्राम. १३. १. ४७३. ४) इति मन्द्रतृतीयादिकम् । इत्याद्यानि चत्वारि शैशवानि । शिशुर्वा आङ्गिरसः तेन दृष्टानि । असा । व्युहुवाहाइ (ग्राम. १३. १. ४७३. ५) इति चतुर्थमन्द्रादिकम् । असाव्यꣳशुः । औहोवाहाइ (ग्राम. १३. १. ४७३. ६) इति चतुर्थमन्द्रादिकम् । इहा । इहा । साव्यꣳशुर्मदाय (ग्राम. १३.१.४७३.७) इति तृतीयद्वितीयादिकम् । असावियꣳशुः आर्षेयब्राह्मणम्
(ग्राम. १३. १. ४७३. ८) इति तृतीयद्वितीयादिकम् । एतानि चत्वारि च्यावनानि । च्यवनो दाधीचः तेन दृष्टानि ॥ ७ ॥
प्राजापत्ये द्वे ॥ ५.१.८॥
पवस्व दक्षमाधन (सा. ४७४) इत्यत्र सामद्वयम् । पवस्वदौ (ग्राम. १३. १. ४७४.१) इति चतुर्थमन्द्रादिकम् । पत्रस्वदक्षसाधनः (ग्राम. १३.१.४७४.२) इति चतुर्थमन्द्रादिकम् । एते द्वे प्राजापत्ये ॥८॥ वैदन्वतानि चत्वारि । रजेराङ्गिरसस्य पदस्तोभौ द्वौ ॥९॥ परि स्वानो गिरिष्ठाः (सा. ४७५) इत्यत्र षट् सामान्युत्पन्नानि तत्र पारि (री)। स्वानोगिरिष्ठाः (ग्राम. १३.१.४७५.१) इति चतुर्थमन्द्रादिकम् । प । युपारी (ग्राम १३. १. ४७५. २) इति चतुर्थ- मन्द्रादिकम् । पारि (ग्राम. १३. १. ४७५. ३) इति तृतीयमन्द्रादिकम् । औहोह (ग्राम. १३. १. ४७५. ४) इत्यादि द्वितीयतृतीयादिकम् । एतान्या- द्यानि चत्वारि वैदन्वतानि । विदन्वान् भार्गवः तेन दृष्टानि । तथा च ब्राह्मणम् - विदन्वान् वै भार्गव इन्द्रस्य प्रत्यहस्तं शुगार्छत् । स तपोऽप्यत । स एतानि वैदन्वतान्यपश्यत् (तां ब्रा. १३. ११.१०) इति । पर्येस्वानाः (ग्राम. १३. १. ४७५.५) इति चतुर्थमन्द्रादिकम् । पर्योहो- वाहाइ ( ग्राम. १३. १.४७५.६) इति मन्द्रचतुर्थादिकम् । एते रजेराङ्गि- रसस्य [सामनी] । रजे: पदस्तोभौ प्रतिपादं स्तोभयुक्तौ ॥ ९ ॥
और्णायवे द्वे ॥ ५.१.१०॥
परि प्रिया दिवः कविः (सा. ४७६) इत्यत्र सामद्वयम् । परिप्रियादिवःकावीः (ग्राम, १३. १.४७६.१) इति मन्द्रचतुर्थादिकम् परिप्रियादिवः कवाइः (ग्राम. १३.१. ४७६.२) इति चतुर्थमन्द्रादिकम् । पञ्चमः अध्यायः (१) १६७ एते द्वे और्णायवे । ऊर्णायुर्नाम गन्धर्वः तत्संबन्धिनी । एतत्सामाधिकृत्याख्या[न]- मुखेन ब्राह्मणे स्पष्टमभिहितम् । और्णायवं भवत्यङ्गिरसो वै सत्रमासत इत्युपक्रम्य तेषां कल्याण आङ्गिरसो ध्यायमुदव्रजत् । स ऊर्णायुं गन्धर्वमप्सरसां मध्ये प्रेङ्कायमाणमुपैत् (ता. ब्रा. १२.११.९-१०) इत्यादि ।। १०॥
इति श्रीसायणाचर्यविरचिते माधवीये सामवेदार्थप्रकाशे आषे॔यब्राह्मणभाष्ये पञ्चमाध्याये प्रथमः खण्डः ॥ १ ॥ द्वितीयः खण्डः
सौभरे द्वे । सौभ्रवे वा ॥५.२.१॥
प्र सोमासो मदच्युतः (सा. ४७७ ) इत्यत्रै साम । प्रसोमासाः (ग्राम. १३. २.४७७.१) इति द्वितीयतृतीयादिकम् । प्र सोमासो विपश्चितः (सा. ४७८) इत्यत्रैक साम । प्रसोमासाः । वाइपश्चितः (ग्राम. १३. २. ४७८.१) इति मन्द्रकुष्टादिकम् । एते द्वे सौभरे । सुभरि म ऋषिः । अथवा सौभ्रवे ॥ १॥
इन्द्रस्य वृषकाणि त्रीणि । देवानां वर्षीणां वार्षेयं प्रथमम् ॥५.२.२॥
पवस्वेन्दो वृषा सुतः (सा. ४७९) इत्यत्रैक साम। पवस्वेन्दो- वृषासुताः (ग्राम. १३. २. ४७९.१) इति चतुर्थमन्द्रादिकम् । वृषा ह्यसि भानुना (सा. ४८०) इत्यत्र सामद्वयम् । वृषाहिया (ग्राम. १३.२. ४८०.१) इति चतुर्थमन्द्रादिकम् । वृषाहियासिभानुना (ग्राम. १३. २. ४८०.२) इति चतुर्थमन्द्रादिकम् । एतानि ऋद्वयाश्रितानि त्रीणि सामानि इन्द्रस्य वृषकाणि वृषशब्दयुक्तानि एतन्नामधेयानि । अथवा एषां मध्ये प्रथमं साम देवानामृषीणां वार्षेयम् एतत्संज्ञम् ।। २ ।।
बभ्रोः कौम्भ्यस्य सामानि त्रीणि ॥ ५.२.३ ॥
इन्दुः पसिष्ट चेतनः (सा. ४८१) इत्यत्र सामत्रयम् । इन्दुरौहो- वाहाइ । पावी (ग्राम. १३. २. ४८१.१) इति तृतीयद्वितीयादिकम् । इन्दुःपविष्टचेतनःप्रियःकवाइ (ग्राम. १३. २. ४८१. २) इति चतुर्थमन्द्रा- दिकम् । इन्दुःपविष्टचेतनःप्रियःकवीनाम् (ग्राम. १३. २. ४८१.३) इति चतुर्थमन्द्रा (मन्द्रचतुर्था ? ) दिकम् । एतानि त्रीणि कौम्भ्यस्य बभ्रोः सामानि ॥३॥
बभ्रोः कार्तवेशस्य त्रीणि ॥ ५.२.४ ॥ पञ्चमः अध्यायः (२)
असूक्षत प्र वाजिनः (सा. ४८२) इत्यत्र सामत्रयम् । असृक्षाता- प्रवाजिनाः (ग्राम. १३. २.४८२.१) इति मन्द्रद्वितीयादिकम् । असृक्षता- प्रावाजिनाः (ग्राम. १३.२.४८२.२) इति मन्द्रातिस्वारमन्द्रादिकम् । अमृक्षतप्रवाजिनः (प्राम. १३.२.४८२.३) इति तृतीयचतुर्थादिकम् । एतानि त्रीणि कार्तवेशस्य बभ्रोः सामानि ॥ ४ ॥
शाम्मदे द्वे । ऐटते वा ॥ ५.२.५ ॥
पवस्व देव आयुषग् (सा. ४८३) इत्यत्र सामद्वयम् । पावस्व दे (ग्राम. १३. २. ४८३.१) इति चतुर्थमन्द्रादिकम् । पवस्वदेवऐ (ग्राम, १३. २. ४८३.२) इति तृतीयचतुर्थादिकम्। एते द्वे शाम्मदे शम्मद्वाङ्गिरसः तेन दृष्टे । शाम्मद्वा एतेनाङ्गिरसोऽजसा स्वर्ग लोकमपश्यद् (ता. ब्रा. १५. ५. ११) इत्यादि ब्राह्मणमनुसंधेयम् । अथवा एते सामनी ऐटते । इटतो नाम ऋषिः ।। ५॥
वसिष्ठस्य जनित्रे द्वे ॥ ५.२.६॥
पवमानो अजीजनत् (सा. ४८४) इत्यत्र सामद्वयम् । पावा (ग्राम. १३.४८४.१) इति चतुर्थमन्द्रादिकम् । पवमानाः (माम, १३.२. ४८३.२) इति मन्द्रादिकम् । एते द्वे वसिष्ठस्य जनित्रे पुत्रहतस्य वसिष्ठस्य पुत्रोत्पत्तिसाधने ॥ ६॥
मरुतां प्रक्रीडा वा संक्रीडा वा निक्रीडा वा त्रयः ॥ ५.२.७॥
परि स्वानास इन्दवः (सा. ४८५) इत्यत्र सामत्रयम् । पारी (ग्राम. १३.२.४८५.१) इति चतुर्थमन्द्रादिकम् । पारी । स्वानासइन्द्रवा- उवा (ग्राम. १३.२.४८५.२) इति चतुर्थमन्द्रादिकम् । पारि (ग्राम. १३.२.४८५.३) इति तुतीयमन्द्रादिकम् । एते त्रयो मरुतां प्रक्रीडाः । १७० आर्षेयब्राह्मणम्
अत्र विकल्पापेक्षया त्रयः विकल्पाः । अथवा त्रयः संक्रीडा वा । निक्रीड- संज्ञा वा ॥ ७॥
औशनम् ॥ ५.२.८॥
परि प्रासिष्यदत्कविः (सा. ४८६) इत्यत्रैक साम । परिप्रासी (प्राम. १३. १.४८६.१) इति मन्द्रादिकम् । एतदौशनम् । उशना नाम काव्यः तेन दृष्टम् ॥ ८॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये पश्चमाध्याये द्वितीयः खण्डः ॥ २ ॥ तृतीयः खण्डः
यामानि त्रीणि । देवानामृषीणां वार्षेयमुत्तमम् ॥ ५.३.१॥ उपो षु जातम् (सा. ४८७) इत्यत्र सामत्रयम् । इहाइहाउपोषु- जातमाप्तुराम् (ग्राम. १३ ३. ४८७.१) इति द्वितीयक्रुष्टा (द्वितीया !)- दिकम् । ऊपोषुजातमाप्तुराम् (ग्राम. १३. ३. ४८७.२) इति क्रुष्टद्विती- यादिकम् । उपोष्वौ होइजाताम् (ग्राम. १३. ३. ४८७. ३) इति चतुर्थ- मन्द्रादिकम् । एतानि त्रीणि सा (या?) मानि । अथवा उत्तम तृतीयं साम देवानामृषीणामायनामकम् ॥ १ ॥
अङ्कतेश्च वैरूपस्य साम ॥ ५.३.२॥
पुनानो अक्रमीदमि (सा. ४८८) इत्यत्रैक साम । पुनानोआ (ग्राम. १३. ३. ४८८. १) इति मन्द्रादिकं वैरूपस्याङ्कतेः साम ॥ २ ॥
औशने द्वे । देवानां वर्षीणां वार्षेयं पूर्वम् ॥ ५.३.३ ॥
आविशन् कलशम् (सा. ४८९) इत्यत्र सामद्वयम् । आविश- न्कलाश सुताः (ग्राम, १३. ३. ४८९.१) इति मन्द्रातिस्वारमन्द्रादिकम् । आविशन्कलशम् (ग्राम. १३. ३. ४८९.२) इति चतुर्थतृतीयादिकम् । एते द्वे औशने । अत्रैव विकल्पः । अथवा पूर्वमैतयोराद्य साम देवानामृषी- णाम् आर्षेयम् [एतन्-] नामधेयम् ॥ ३ ॥
सोमसाम च ॥५.३.४॥
असर्जि रथ्यो यथा (सा. ४९०) इत्यत्रैकं साम । असर्जिरा (ग्राम. १३. ३. ४९०.१) इति मन्द्रादिकं सोमसाम ॥ ४ ॥
कार्ष्णे द्वे ॥ ५.३.५॥
प्र यद्गावो न भृर्णयः (सा. ४९१) इत्यत्र सामद्वयम् । प्रयद्धाउ (ग्राम. १३, ३. ४९१.१) इति मन्द्र (चतुर्थ ?) मन्द्रादिकम् । प्रयद्गावोन१७२ आर्षेयब्राह्मणम्
भूर्णयाः (ग्राम. १३. ३. ४९१.२) इति द्वितीयक्रुष्टादिकम् । एते द्वे काणे कृष्णशब्दयुक्ते । नन्तः कृष्णाम (सा. ४९१९) इति कृष्णशब्दो विद्यते ॥५॥
वैश्वदेवे द्वे। सोमसाम वैनयोः पूर्वम्। सूर्यसामोत्तमम्॥५.३.६॥
अपघ्नन् पवसे मृधः (सा. ४९२) इत्यत्र सामैकम् । अपघ्नौ । होइपावा (ग्राम. १३. ३. ४९२.१) इति मन्द्रचतुर्थादिकम् । अया पवस्व धारया (सा. ४९३) इत्यत्र सामैकम् । ए अयापवा (ग्राम. १३. ३. ४९३.१) इति मन्द्राद्रिकम् । एते ऋग्द्वयाश्रिते द्वे वैश्वदेवे । अत्रैव विकल्पः । अथवा एनयोः पूर्वमादिम साम सोमसाम । तथा उत्तरं द्वितीय सूर्यसाम । सर्यमरोचयः (सा. ४९३०) इति सूर्यसंबन्धो दृश्यते ॥ ६ ॥
इन्द्रस्य च वार्तघ्नम् ॥ ५.३.७ ॥
स पवस्व य आविथा (सा. ४९४) इत्यत्रैक साम । सहोइ । पवस्व (ग्राम. १३. ३. ४९४. १) इति तृतीयद्वितीयादिकम् इन्द्रस्य च वात्रघ्नं वृत्रहननसाधनम् । इन्द्रं वृत्राय हन्तवे (सा. ४९४०) इति श्रूयते ॥ ७ ॥
सोमसामानि त्रीणि ॥ ५.३.८॥
अया बीती परि स्रव (सा. ४९५) इत्यत्र सामत्रयम् । अयावीती (ग्राम. १३.३. ४९५.१) इति मन्द्रादिकम् । अयावीता (ग्राम. १३.३. ४९५.२) इति द्वितीयक्रुष्टादिकम् । अयावी (ग्राम. १३. ३. ४९५.३) इति चतुर्थतृतीयादिकम् । एतानि त्रीणि सोमसामानि ॥ ८ ॥
भारद्वाजं च ॥५.३.९॥
परि द्युक्ष सनद्रयिम् (सा. ४९६) इत्यत्रैक साम । परिद्युक्षाम (ग्राम. १३. ३.४९६.१) इति मन्द्रादिकं भारद्वाज भरद्वाजेन दृष्टम् ॥९॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पञ्चमाध्याये तृतीयः खण्डः ॥ ३ ॥ चतुर्थः खण्डः
वार्षाहरम् ॥ ५.४.१॥ अचिक्रदद्वपा हरिः (सा. ४९७) इत्यत्रैक साम । अचिक्रदान (ग्राम. १४. ४. ४९७.१) इति द्वितीयतृतीयादिकं वार्षाहरनामकम् ॥ १ ॥
वार्णानि त्रीणि ॥ ५.४.२॥
आ ते दक्षम् (सा. ४९८) इत्यत्र सामत्रयम् । आतेदक्षाम् (ग्राम. १४. ४.४९८.१) इति मन्द्रादिकम् । आतेदाक्षाम् (ग्राम. १४. ४. ४९८.२) इति द्वितीयतृतीयादिकम् । आतेदक्षमयः (ग्राम. १४. ४. ४९.८.३) इति तृतीयचतुर्थादिकम् । एतानि त्रीणि वार्णानि । वृशो वैजान (ता. ब्रा. १३. ३. १२) इति [आदि ब्राह्मणम् । तत्संबन्धीनि ।। २ ।।
इन्द्रस्य वैरूपे द्वे ॥ ५.४.३॥
अध्वयो अद्रिभिः सुतम् (सा. ४९९) इत्यत्र सामद्वयम् । अध्वर्योआ (ग्राम. १४. ४. ४९९.१) इति द्वितीयक्रुष्टादिकम् । अध्वर्यो । होअद्री (ग्राम. १४. ४. ४९९.२) इति चतुर्थमन्द्रादिकम् । एते द्वे इन्द्रस्य वैरूपे ॥३॥
तरन्तस्य च वैददश्वेः साम ॥ ५.४.४ ॥
तरत्स मन्दी धावति (सा. ५००) इत्यत्रैक साम । तरत्समा (ग्राम. १४. ४. ५००.१) इति मन्द्रादिकं वैददश्वेः, विददश्वापत्यस्य तरन्तस्य ऋषेः साम ॥ ४॥
सोमसाम च ॥ ५.४.५॥
आ पवस्व सहस्रिणम् (सा. ५०१) इत्यत्रैक साम । आपवस्वा (ग्राम. १४. ४. ५०१.१) इति मन्द्रादिक सोमसाम ।। ५ ।। १७४ आर्षेयवाह्मणम्
सूर्यसाम ॥ ५.४.६ ॥
अनु प्रत्नास आयवः (सा. ५०२) इत्यत्रैक साम । अनुप्रत्नास- आयावाः (ग्राम. १४.४.५०२.१) इति मन्द्रमन्द्रादिक सूर्यसाम च । रुचे जनन्त सूर्यम् (सा. ५०२) इति सूर्यसंबन्धात् ॥ ६ ॥
दार्ढ्यच्युतानि त्रीणि ॥ ५.४.७ ॥
अर्षा सोम धुमत्तम (सा. ५०३) इत्यत्र सामत्रयम् । अर्षाइहा (ग्राम. १४. ४. ५०३. १) इति द्वितीयक्रुष्टादिकम् । अर्षाहाउ (ग्राम. १४. ४. ५०३.२) इति चतुर्थमन्द्रादिकम् । अर्षासोमद्युम (ग्राम. १४. ४. ५०३.३) इति तृतीयचतुर्थादिकम् । एतानि त्रीणि दाढयच्युतानि ॥ ७ ॥
इन्द्रस्य च वृषकम् ॥ ५.४.८ ॥
वृषा सोम धुमा५ असि (सा. ५०४) इत्यत्रैक साम। वृषासोमा (ग्राम. १४. ४. ५०४.१) इति मन्द्रादिकम् इन्द्रस्य च वृषकम् । वृष- संयुक्तमेतन्नामधेयं साम ॥ ८ ॥
ऐषं च ॥ ५.४.९॥
इषे पवस्व धारय (सा. ५०५) इत्यत्रैक साम । इषेपवा (ग्राम, १४. ४.५०५.१) इति मन्द्रादिकम् ऐषम् इषशब्दयुक्तमेतत्साम ॥ ९॥
श्यावाश्वं च ॥ ५.४.१० ॥
मन्द्रया सोम धारया (सा. ५०६) इत्यत्रैक साम । मन्द्रयासो (ग्राम. १४. ४. ५०६.१) इति मन्दादिकं यावाश्वम् ॥ १० ॥
आयास्यं च । अयासोमीयं वा । सोमसाम वा ॥ ५.४.११ ॥
अया सोम सकृत्यया (सा. ५०७) इत्यत्रैक साम । अयासोम- सुकृत्यया (ग्राम. १४. ४. ५०७.१) इति मन्द्रचतुर्थादिकम् आयास्यम् अथवा अयासोमीयम् अयासोमशब्दयुक्तम् एतत्संज्ञ साम । यद्वा सोम- साम ।। ११ ।। पञ्चमः अध्यायः (४) १७५
आग्नेयं च ॥ ५.४.१२ ॥ अयं विचर्षिणिर्हितः (सा. ५०८) इत्यत्रैकं साम । आऔहौहो- वाहाइ । अयंविचा (ग्राम. १४. ४. ५०८.१) इति द्वितीयतृतीयादिकम् आग्नेयम् ।। १२॥
आयास्ये चैव ॥ ५.४.१३ ॥
प्रन इन्दो महे तु नः (मा. ५०९) इत्यत्र सामद्वयम् । प्रन इन्दोऐ (ग्राम. १४. ४. ५०९.१) इति तृतीयचतुर्थादिकम् । प्रनइन्दो (ग्राम. १४. ४. ५०९.२) इति तृतीयचतुर्थादिकम् । एते द्वे आयास्ये ।।१३।।
भारद्वाजं च ॥ ५.४.१४ ॥
अपघ्नन् पवते मृधः (सा. ५१०) इत्यत्रैकं साम । होईया ग्राम. १४. ४. ५१०. १) इत्यादि द्वितीयतृतीयादिकं भारद्वाजं भरद्वजेन दृष्टम् ॥ १४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये पञ्चमाध्याये चतुर्थः खण्डः ।। ४ ।। पञ्चमः खण्डः
आयास्यं माण्डवं च वसिष्ठस्यापदासे द्वे । सोमसाम वैनयोरुत्तरम् । आयास्यं चैव माण्डवं चैवोद्वच्च प्राजापत्यमायास्यं चैव । कण्वरथन्तरमायास्यं चैव तिरश्चीनिधनम् । प्रजापतेः सदोविशीयम् । जमदग्नेः स्ववासिनी द्वे । वसिष्ठस्य प्लवोऽग्नेः रौरवमिन्द्रस्य यौधाजयम् । युधाजेर्वाङ्गिरसस्य युधाजीवस्य वा विश्वामित्रस्येन्द्रस्य [वा] ॥५.५.१॥
पुनानः सोम धारय (सा. ५११) इत्यत्र षोडश सामान्युत्पन्नानि । तत्र पुनानःसो (ग्राम. १४. ४. ५११.१) इति मन्द्रादिकमाद्यं साम आया- स्यम् । अवास्यो नामाङ्गिरसः । इयाईया। पुनानःसो (ग्राम. १४.५. ५११.२) इति क्रुष्टद्वितीयादिकमनन्तरं साम माण्डवम् । पुनानः सोमधारया (ग्राम. १४. ५. ५११. ३) इति मन्द्रचतुर्थादिकम् । पुनानः सोमधारया (ग्राम. १४. ५. ५११. ४) इति चतुर्थमन्द्रादिकम् । एते तृतीयचतुर्थे वसिष्ठस्य[ा]पदासे । एतत्संज्ञे। तत्र विकल्पः । अनयोरुत्तरं सोमसाम। आइपुना (ग्राम. १४.५.५११.५) इति चतुर्थमन्द्रादिकम् आयास्यमेव । अयास्यो नामाङ्गिरसः तेन दृष्टम् । तथा च ब्राह्मणम् --- आयास्ये भवत इत्युपक्रम्य अयास्यो वा आङ्गिरस इत्यादि। स तपोऽतप्यत स एते आयास्ये अपश्यद् (तां. ब्रा. ११. ८. ९-१०) इति । अत्रैवापरमायास्यं विद्यते । तदपेक्षया च ब्राह्मणे द्विवचनेनोक्तम् ॥ पुनानःसोमधारया। पोवसोवा (ग्राम. १४. ५. ५११. ६) इति मन्द्रचतुर्था-(चतुर्थमन्द्रा ?) दिकं षष्ठं साम माण्डवमेव । पुनान:- १७७ पञ्चमः अध्यायः (५)
सोमधा । होर (हार?) या (ग्राम. १४.५. ५११.७) इति मन्द्रचतुर्थ-
दिकं सप्तमम् उद्वत्प्राजापत्यम् । पुनानःसोमधाहाउहोगा (ग्राम. १४.५.
५११.८) इति मन्द्रचतुर्थादिकम् अयाम्यमेव । पुनानःसोमधाग्या
(ग्राम. १४. ५. ५११.९) इति मन्द्रचतुर्थादिकं कण्याथन्तग्ना कम् ॥
पुनानःसोमधारया । ए (ग्राम. १४. ५. ५११.१०) इति चतुर्थतृतीयादिक
तिरश्चीनिधनम् आयास्यमेव । तथा च - आय स्यं भवति तिरश्ची-
निधनं प्रतिष्ठायै। अयास्यो या आङ्गिरस आदित्यानां दीक्षि-
तानामन्नमश्नाद् (तां ब्रा. १४. ४.२२) इत्यादि ब्राह्मणमनुसंधेयम् ॥
पुनानःसोमधारयाओहाओहाए (१४. ५. ५११.११) इति मन्दमन्द्रादिकं
प्रजापतेः सदोविशीयम् । सदोविशा इति निधनमस्य साम्नः । तद्युक्तम् ।।
ओहो । वा ओवा (ग्राम. १४.५. ५११. १२) इत्यादि क्रुष्टद्वितीयादिकम् ।
ओ। हो । वा ओवा इत्यादि पुनानः (ग्राम. १४. ५. ५११. १३) इति
द्वितीयतृतीयादिकम् । एते द्वादशत्रयोदशे सामनी जमदग्नेः स्वयासिनी
जमदग्नेरेतत्संज्ञे ॥ हा । होहा इत्यादि पुनानाःसो (ग्राम. १४.५. ५११.
१४) इति द्वितीयतृतीयादिक चतुर्दश साम वसिष्ठा प्लः । प्लवनं दुरित-
तरणसाधनम् । तथा च प्लवो भवति ममुद्रं वा एते प्रस्ना-
न्तीत्याहुर्ये द्वादशाहमुपयन्ति (ता. बा. १४. ५.१६-१७) इत्यादि ब्राह्मण-
मनुसंधेयम् ॥ पुनानःसोमाधारया (ग्राम. १४. ५. ५११.१५) इति द्वितीय-
तृतीयादिकम् उपोत्तमं साम अग्नेः रौरवम् । अत्र ब्राह्मणम् – अग्नि रुर-
स्तस्यैतद् [ग्वम् । असुरा वै देवान् पर्ययन्ति । तत एतावनी
सरौ विष्वञ्चौ स्तोभावपश्यत् । ताभ्यामेनात् प्रत्यौपत्त प्रत्युष्यमाणा
अरवन्त । यदरवन्त तस्माद्रौरवम् (ता. ब्रा. ७.५.१०-११) इति ॥ पुना ।
नाःसो (ग्राम. १४. ५. ५११.१६) इति तृतीयद्वितीयादिकं षोडश साम इन्द्रस्य १७४ आर्षेयब्राह्मणम्
यौधाजपम् युधाजय ायनम् । तथा च ब्राह्मणम् अथेन्द्रो यौधाजय-
मित्युपक्रम्य इन्द्रो वै युधाजित्तस्यैतद्यौधाजयम् । युधामर्या अजेष्मेति
नलायौधाजयम् ( ता. ब्रा. ७.५.१२-१५) इति । अथवा आङ्गिरमस्य
अङ्गि यः पुत्रस्य युधाजेः माम । युधाजीवस्य । युद्वेनाजीवत ति युधाजीवः ।
बलवर.म इत्यर्थः । तादृशस्य विश्वामित्रस्य साम वा । अथवा इन्द्रस्य वा ॥१॥
इन्द्रस्याच्छिद्ररयिष्ठे द्वे । वसिष्ठस्य वा। भारद्वाजे द्वे । आभीशवे द्वे । माण्डवे द्वे । अङ्गिरसामभीवासपरिवाससी द्वे । वैणसोमक्रतवीये द्वे । माण्डवं वैनयोरुत्तरम् । प्रजापतेर्गूर्दौ द्वौ । कश्यपस्य वा प्रतोदौ । अङ्गिरसां गोष्ठपुंस्तिनी द्वे। महारौरवं च। महायौधाजयं च ॥ ५.५.२ ॥
परीतो षिश्चता सुतम् । (सा. ५१२) इत्यत्र अष्टादश सानान्युत्पन्ना ने । तत्र परीतोषी चताउवा (ग्राम. १४. ५. ५१२.१) इति मन्द्रद्वितीयादिकम् । परीतोषी। चनामृताम् (ग्राम. १४.५ ५१२.२) इति मन्द्रद्वितीयादिकम् । एते आये द्वे इन्द्रस्याच्छिद्ररयिष्ठे । प्रथम- मच्छिद्रम् । अत्र ब्राह्मणम् अच्छिद्रं भवति । यद्वा एतस्याह्नः छिद्र मीनदेवा अच्छिद्रेणा यौस्तदच्छिद्रस्याच्छिद्रत्वम् (ता. बा. १४. ९.६५६६) इति । द्वितीयं रयिष्ठम । अत्र ब्राह्मणम् - रयिष्ठं भवति परावो ये रयि शूराम.रुध्यै (ता. बा. १४.११. ३१-३२) इति । अथवा १७९ पञ्चमः अध्यायः (५)
वसिष्ठस्य अच्छि यिष्ठे ॥ औहोइपरीतोषी (ग्राम. १४. ५. ५१२.३)
इति मन्द्रादिकम् । पर्येपारी (ग्राम. १४. ५. ५१२. ४) इति चतुर्थमन्द्रादि-
कम् । एते तृतीयचतुर्थे भारद्वाजे ॥ परीतो.पञ्चन सुतम् । ए (ग्राम.
१४. ५. ५१२.५) इति मन्द्रादिकम् । परीतोषिञ्चतासुतम् । ए (ग्राम.
१४. ५. ५१२. ६) इति मन्द्रा (चतुर्थमन्द्रा?) दिकम् । एते द्वे पञ्चमषष्ठे
आभीभवे ॥ परीतोषिञ्चतासुनम् । इहा (ग्राम. १४. ५. ५१२.७) इति
चतुर्थमन्द्रादिकम् । इहा। परीतोपिश्चासुताम् । इहा (ग्राम. १४. ५.
५१२.८) इति चतुर्थमन्द्रादिकम् । एते सप्तमाष्टमे द्वे - ण्डो ॥ परीतो-
षिश्चतासुताम् (ग्राम. १४. ५. ५१२. ९) इति चतुर्थमन्द्रादिकम् । परीतो-
षिञ्चतासुनाम् । ओवा (ग्राम. १४. ५. ५१२. १०) इति चतुर्थमन्द्रादि-
कम् । एते नवमदशमे अङ्गिरसामभी सपरिवा सी क्रमेण एतन्नामधेये ॥
परीतोषिञ्च (ग्राम. १४. ५.५१२. ११) इति चतुर्थमन्द्रादितम् । परीनो-
षाइ (ग्राम. १४.५.५१२. १२) इति क्रुष्टद्वितीयादिकम् । एते अनन् रे
द्वे वैणसोनक्रतवीये । आद्य य वैणमिति नाम। अनन्तरस्य से मक्र वियमित ।
अत्र विकल्पः । अथवा अनयोरुत्तरं द्विर्त य साम माण्ड म् ॥ उपाउप
(ग्राम. १४.५.५१२.१३) इत्यादि तृतीय द्वित या (द्वित यतृतीया)दि म् ।
हाउहाउहाउवा। परीतो षश्चात्तम् (ग्राम, १४ ५. ५११. १४) इनि
मन्द्रकुष्टादिकम् । एते त्रयोदशचतुर्दशे प्रजास्तेगूौ एतन्नामधेये
कश्यास्य वा प्रतोदौ । हाउहाउहाउवा । परी गोपिञ्चतात । इहा
उपा (ग्राम. १४. ५. ५१२.१५) इति पञ्चदश मामाङ्ग गो.
एतन्नामधेयः (यम् ?) ॥ हाउहा उहाउआ। परीतो.षेञ्च सुत।। श्रो
बृहत् । उपा (ग्राम. १४. ५.५१२.१६) इति पंडश साम पुस्ति म् (पुंम्ति !)। १८० आर्षेयब्राह्मणम्
एते द्वे [गोष्ठपुस्तिने] पुरुषस्य यूतिया यूत्या ?)श्च सामनी । हाउहाउहाउवा।
परीतोपिश्चनासुतम् (ग्राम. १४. ५. ५१२.१७) इति सप्तदशं महारैरवम्
एतन्नामधेयम् ।। हाओवा (ग्राम. १४. ५. ५१२.१८) इत्यादि द्वितीय-
तृत यादिकम् अन्तिमं साम महायौधाजयम् ॥ २ ॥
आश्वानि चत्वारि । सोमसामानि वा ॥ ५.५.३ ॥
आ सोम स्वानः (सा. ५१३) इत्यत्र चतुष्टय(चत्वारि ?)सामान्युत्पन्नानि । तत्र आयो (ग्राम. १४. ५. ५१३.१) इति तृतीयद्वतीयादिकम् । हावासोमस्खा (ग्रान. १४. ५. ५१३.२) इति मन्द्रादिकम् । आमोमखानो अद्रिभाइः (ग्राम. १४. ५. ५१२. ३) इति चतुर्थमन्द्रादिकम् । आसोमवानोअदिभिः (ग्राम. १४. ५. ५१३. ४) इति तृतीयचतुर्थादिकम् । एतानि चत्वारि आशानि । अथवा सोममामानि ॥ ३ ॥
आग्नेयं चाग्नेर्वा त्रिणिधनम् । कौत्सं वा यज्ञसारथि वा । अग्नेर्वैश्वानरस्य सामनी द्वे । द्विहिंकरं वामदेव्यं द्वितीयम् । अङ्गिरसां चोत्सेधनिषेधौ ॥ ५.५.४॥
प्र सोम देववीतये (सा. ५१४) इत्यत्र पञ्चसामान्युत्पन्नानि । तत्र प्रसोनदा (ग्राम. १४. ५. ५१४.१) इति मन्द्रादिकमाद्यमानेयम् । अथवा अग्ने स्त्रणिधननामधेयं वा । कौत्स कुत्सेन दृष्टम् । यज्ञसारथिनामधेयं वा । प्रसोमदेसी (ग्राम. १४. ५. ५१४.२) इति तृतीयमन्द्रा (? चतुर्था)- दिकम् । प्रसोमदेववीतया [] (ग्राम. १४. ५. ५१४ ३) इति द्वितीय- कुष्टादिकम् । एते द्वे अग्नेर्वैश्वानरस्य सामनी। अथवा द्वितीयम् एतयो- रुत्तरं साम द्विहिंकार हिंकारद्वयोपेतं वामदव्यत् ॥ प्रसोमदेववीतये । पञ्चमः अध्यायः (५)
सिन्धुः (प्राम, १४. ५. ५१४.४) इति तृतीयचतुर्थादिकम् । प्रसोमदाइ-
वावीतयाइ (ग्राम. १४. ५. ५१४. ५) इति मन्द्रादिकम् । एते अन्तिमे द्वे
अङ्गिग्सां उत्सेधनिषेधनामधेये। अत्र ब्राह्मणम् - उत्सेधो भवति ।
उत्सेधेन वै देवा पशूनुदसेधन् । निषेधेन पर्यगृहन् (ता. बा. १४.९.
१०-११) इति ॥ ४ ॥
सोमसामानि षट् । आश्वानि वा ॥५.५.५॥
सोम उ ष्वाणः सोतृभिः (सा. ५१५) इत्यत्र षट् सामान्युत्पन्नानि । हाउसोमाः (ग्राम. १४. ५. ५१५.१) इति चतुर्थमन्द्रादिकम् । सोम- ऊवाणः सोतृभाइः (ग्राम. १४. ५. ५१५.२) इति मन्द्रद्वितीयादिकम् । सोमउष्वाणः सोतृभिः। ए। अधी (ग्राम. १४. ५. ५१५.३), इति चतुर्थमन्द्रादिकम् । सोमउधणः सोवृमिः । ए । अधी। ष्णुमिरवीणाम् (ग्राम. १४. ५. ५१५. ४) इति चतुर्थमन्द्रादिकम् । सोमउष्वाणःसोत् । भाइः (ग्राम. १४.५. ५१५. ५) इति चतुर्थमन्द्रादिकम् । सोमउष्वाणः सोतृभिः (ग्राम. १४. ५. ५१५. ६) इति तृतीयचतुर्थादिकम् । एतानि षट् [सोम] सामानि । अथवा आश्वानि एतत्संज्ञकानि ॥ ५ ॥
विष्णोरयमणी द्वे । वैष्णवे वा । आङ्गिरसानि त्रीणि ॥५.५.६॥
तवाहं सोम रारण (सा. ५१६) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र तवाहसो (ग्राम. १५. ५. ५१६.१) इति मन्द्रादिकम् । तवातवा (ग्राम. १५. ५. ५१६. २) इति चतुर्थमन्द्रादिकम् । एते द्वे विष्णोरयमणी एतत्संज्ञे । अथवा वैष्णवे विष्णोः संबन्धिनी । तवाहसोमारारणा (ग्राम. १५. ५. ५१६.३) इति मन्द्रादिकम् (चतुर्थादिकम् ?) । तवाहंसोमरौ (ग्राम. १५. ५. ५१६. ४) इति चतुर्थमन्द्रादिकम् । तवाहसोमरारण (ग्राम. १५.५.५१६.५) इति तृतीयचतुर्थादिकम् । एतानि त्रीण्याङ्गिरसानि ॥६॥
औक्ष्णोनिधानानि त्रीणि । औक्ष्णोरन्ध्राणि वा। आग्नेयानि १८२ आर्षेयब्राह्मणम्
त्रीणि । द्व्यध्यासं च । सौषाम वसिष्ठस्य वा। पिप्पल्यौक्ष्णोनिधानं वा । [पिप्पल्य] औक्ष्णोरन्ध्रं वा । प्रजापतेश्च वाजिजित् ॥ ७॥
मृज्यमानः सुहस्त्या (सा. ५१७) इत्यत्राष्टौ सामान्युत्पन्नानि । तत्र मृज्यमानाः सुहस्तिया (ग्राम. १५. ५. ५१७.१) इति मन्द्रद्वितीया- दिकम् । मृज्यमानाः सुहस्ताया (ग्राम. १५. ५. ५१७.२) इति मन्द्र- द्वितीयादिकम् । मृज्यमानाः। सुह । स्तिया (ग्राम. १५. ५. ५१७.३) इति मन्द्रद्वितीयादिकम् । एतानि वीण्यौक्ष्णोनिधानानि । अथवा औक्षणो- रन्ध्राणिं । मृज्याए (ग्राम. १५.५.५१७.४) इति मन्द्रमन्द्रादिकम् । मृज्यमानःसुहस्त्ये। वाहाइ (ग्राम. १५. ५. ५१७. ५) इति मन्द्र- चतुर्थादिकम् । मृज्यमानाःसुहस्तिया (ग्राम. १५. ५. ५१७. ६) इति चतुर्थमन्द्रादिकम् । एतानि त्रीणि आग्नेयानि अग्निसंबन्धीनि । मृज्यमानः सुहस्त्या। समुद्रे वोवा (ग्राम. १५. ५. ५१७.७) इति मन्द्रचतुर्थादिक सप्तमं साम यध्यासमेतन्नामधेयम् । अथवा सौषाम वसिष्ठस्प वा। सौषामो नाम राजर्षिः एतत्संबन्धिनो वसिष्ठस्य । यद्वा पिप्पल्यौक्ष्णोनिधानम् । यद्वा पिप्पल्यौक्ष्णोरन्धं वा । मृज्यमानःसुहा (ग्राम. १५. ५. ५१७.८) इति मन्द्रचतुर्थादिकमन्तिम प्रजापतेर्वाजिजित् वाजिशब्दयुक्तमेतत्संज्ञम् ॥ ७ ॥
वैश्वदेवे द्वे । इन्द्रसामनी द्वे । स्व:पृष्ठं चाङ्गिरसम् । इन्द्रसामानि त्रीणि ॥५.५.८॥
अमि सोमास आयवः (सा. ५१८) इत्यत्राष्टौ सामान्युत्पन्नानि । तत्र हाहाइ । अभिसोमास आयावाः (ग्राम. १५. ५. ५१८.१) इति द्वितीयतृतीयादिकम् । अभिसोमा (ग्राम. १५. ५. ५१८.२) इति चतुर्थ१८३ पञ्चमः अध्यायः (५)
मन्द्रादिकम् । एते आये द्वे वैश्वदेवे । अभिसोमासआयवाः (ग्राम. १५.
५१८.३) इति द्वितीयक्रुष्टादिकम् । अभिसोमासआ। होया (य?)वाः
(ग्राम. १५. ५. ५१८. ४) इति मन्द्रचतुर्थादिकम् । एते द्वे अनन्तरे
इन्द्रसाम्नी ॥ अभाइसोमा (ग्राम. १५. ५. ५१८.५) इति क्रुष्टद्विती-
यादिकं पञ्चमम् आङ्गिरसम् अङ्गिरसः संबन्धि स्वःपृष्ठम् इत्युच्यते ।।
औहोवा । अभिसोमास आयवः । औहोवा (ग्राम. १५. ५. ५१८.६)
इति चतुर्थमन्द्रादिकम् । अभिसोमासआयावाः (ग्राम. १५. ५. ५१८.७)
इति मन्द्रादिमन्द्रमन्द्रादिकम् । अभिसोमासआयावाः । पवन्ताइमा (ग्राम.
१५. ५. ५१८.८) इति मन्द्रमन्द्रादिकम् । एतानि त्रीणि इन्द्रसामानि ॥ ८॥
सोमसामनी च। स्व:पृष्ठं चैवाङ्गिरसम् । सोमसामनी चैव । देवानां च पवित्रम् । आदित्यानां वा ॥५.५.९॥
पुनानः सोम जागृविः (सा. ५१९) इत्यत्रैक साम । पुनानः सोमजागृविरव्याः (ग्राम. १५. ५. ५१९. १) इति मन्द्रचतुर्थादिकम् । इन्द्राय पवते मदः (सा. ५२०) इत्यत्र त्रीणि सामानि उत्पन्नानि । तत्र इन्द्रायपा । वताइमादाः (ग्राम. १५.५.५२०.१) इति मन्द्रद्वितीयादिक- माद्यमे साम । एतत्पूर्वमेकर्चगतं साम । ते उभे सोमसामनी । इन्द्रा- यपा । वतेमदाः (ग्राम. १५.५.५२०.२) इति मन्द्रद्वितीयादिकं द्वितीयमेक साम आङ्गिरसं स्वःपृष्टमेव । इन्द्रायापावताइमदाः (ग्राम. १५. ५. ५२०. ३) इति मन्द्रद्वितीयादिकं तृतीय सामैकम् । पवस्व वाजसातम (सा.५२१) इत्यत्र उत्तरस्यां सामैकम् । पवस्ववाजसा । इहा (ग्राम. १५. ५. ५२१.१) इति चतुर्थमन्द्रादिकम् । पूर्वऋगाश्रितमन्तिमं [पवस्वेत्येकं चै] ते उभे सोमसामनी एव । पवमाना असृक्षत (सा. ५२२) इत्यत्रैक साम । पवमानाअसृक्षतपयाइ (ग्राम. १५. ५. ५२२.१) इति चतुर्थमन्द्रादिकं आर्षेयब्राह्मणम्
देवानां च पवित्रम् । पवित्रमिति धारया (सा. ५२२०) इति साग्नि पवित्रशब्दो विद्यते । अथवा आदित्यानां पवित्रम् ॥ ९॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पञ्चमाध्याये पञ्चमः खण्डः ॥ ५ ॥ षष्ठः खण्डः
औशनम् । वृशस्य वै जानस्याभीवर्तौ द्वौ। औशने चैव । सर्वाणि वौशनानि ॥५.६.१॥
प्रतु द्रव (सा. ५२३) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र ओइ- प्रतु (ग्राम. १५. ६. ५२३.१) इति द्वितीयतृतीयादिकं प्रथममौशनम् । प्रतु । एप्रतू (ग्राम. १५. ६. ५२३.२) इति चतुर्थमन्द्रादिकं द्वितीयम् । प्रतु- द्रावापरिकोशाम् (ग्राम. १५.६.५२३.३) इति चतुर्थमन्द्रादिकम् [तृतीयम्] । एते द्वे वै जानस्य वृशस्याभीवौं । हाओहा (ग्राम. १५. ६. ५२३. ४) इति मन्द्रादिकम् । प्रातु । द्रवा । परिकोशाम् (ग्राम. १५. ६. १२३.५) इति चतुर्थमन्द्रादिकम् । एते चतुर्थपश्चमे औशने एव । अथवा सर्वाण्यपि पश्चौशनानि ॥१॥
वाजसनी द्वे । वाजजिती द्वे । वाराहं बोत्तरम् । सर्वणि वैव वाराहाणि ॥५.६.२॥
प्रकाव्यम् (सा. ५२४) इत्यत्र चत्वारि सामान्युत्पन्नानि । प्रा- कावियाम् (ग्राम. १५. ६. ५२४.१) इति द्वितीय (? चतुर्थ) क्रुष्टादिक प्रथमम् । प्रकावियाम् । उशनेवा (ग्राम. १५. ६. ५२४.२) इति क्रुष्ट- द्वितीयादिकं द्वितीयम् । एते वाजसनी। प्रकाव्यमुशनेववाणो (ग्राम. १५. ६. ५२४.३) इति द्वितीयतृतीयादिकं तृतीयम् । हाउहाउ । हुप् । प्रकावियाम् (ग्राम. १५. ६.५२४.४) इति मन्द्रकुष्टादिकं चतुर्थम् । एते द्वे वाजजिती। अथवा उत्तरं वाराहम् । यद्वा सर्वाणि चत्वारि वाराहाणि ॥२॥ १४६ अ.यब्राह्मणम्
अङ्गिरसां संक्रोशास्त्रयः ॥ ५.६.३ ॥
तिस्रो वाच ईग्यति (सा. ५२५) इत्यत्र सामत्रयम् । होइ । हो। हाहो । तिस्रोवाचाः (ग्राम १५. ६. ५२५.१) इति क्रुष्टद्विती- यादिक प्रथमम् । इहोइह । इहोइहाहो । वाहोइह । तिस्रोपाचा (ग्राम. १५. ६.५२५.२) इति तृतीयद्वितीयादिकं द्वितीयम् । ओहा । ओहाओहा। ऋतस्यधाइ (ग्राम. १५. ६.५२५.३) इति तृतीयद्वितीयादिकं तृतीयम् । एते अङ्गिरमा संक्रोवस्त्रयः ।। ३ ।।
सामसुरसी द्वे । सामसरसे वा ॥ ५.६.४ ॥
अस्य प्रेपा (सा. ५२६) इत्यत्र सामद्वयम् । अस्या औहोवा (ग्राम. १५. ६. ५२६.१) [इति । औ (ओ?) होनाहाहोइ इहा अस्यप्रेषा (ग्राम. १५. ६.५२६.२) इति च । एते सामसुरसी सामसरसे वा ॥ ४ ॥
वेणोर्विशाले द्वे । गौतमस्य तन्त्रातन्त्रे द्वे ॥५.६.५॥
सोमः पवते जनिता (सा. ५२७) इत्यत्र सामचतुष्टयम् । सोमः पवा (ग्राम. १५. ६. ५२७.१) इति प्रथमम् । सोमःपवतेजनिता (ग्राम. १५. ६. ५२७. २) इति द्वितीयम् । एते वेणोविंशाले । हाउजनत् (ग्राम. १५. ६. ५२७.३) इति तृतीयम् । जनद्धाउ (ग्राम. १५. ६. ५२७. ४) इति चतुर्थम् । एते गौतमस्य तन्त्रातन्त्रे ॥ ५॥
अगस्त्यस्य यमिके द्वे । इन्द्रस्य वारवन्तीये द्वे । मरुतां वा। कालकाक्रन्दौ । ज्याह्रोडौ वा ॥ ५.६.६॥
अमि त्रिपृष्ठम् (सा. ५२८) इत्यत्रैक साम । ओहाइ इत्यादि अभित्रिपा (ग्राम. १५. ६. ५२८.१) इति द्वितीयतृतीयादिकम् । अक्रान्१८७ पञ्चमः अध्यायः (६)
त्समुद्र (सा. ५२९ ) इत्यत्रैक साम । हो । होइ । अक्रान्त्समुद्रःप्रथमे-
विध । मान् (ग्राम. १५. ६. ५२९.१) इति क्रुष्टद्वितीयादिकम् । एते
अगस्त्यस्य यमिके । कनिक्रन्ति (सा. ५३०) इत्यत्र सामद्वयमुत्पन्नम् ।
कानीक्रान्ती (ग्राम. १५. ६. ५३०.१) इति चतुर्थमन्द्रादिकम् । कनि-
क्रन्ति हा । होइ (ग्राम. १५. ६. ५३०. २) इति तृतीयचतुर्थादिकम् । एते
द्वे इन्द्रस्य वारवन्तीये । मरुतां वा । अभि त्रिपृष्ठम् , अक्रान्समुद्रः
कनिक्रन्तीति द्वे [इत्यर्थः] । एष स्य ते मधुमाँ इन्द्र (सा. ५३१) इत्यत्रैक
साम । एषाएषाः । स्यताइ (ग्राम. १५.६.५३१.१) इति चतुर्थमन्द्रादिकम् ।
पवस्व सोम मधुमान (सा. ५३२) इत्यत्रैक साम । हाओहाइ । इहा ।
पवस्वसोम (ग्राम. १५. ६. ५३२.१) इति द्वितीयतृतीयादिकम् अपरम् ।
एते द्वे ऋग्द्वयाश्रिते कालकाक्रन्दौ। अन्तिमं ज्याहोडनामकं वा ॥ ६ ॥
अथोत्तरेषु हाउजनद् इत्युपक्रम्य हाओहाइ । इहा। पवस्वसोमे-
त्यन्तानां नामान्तरमाह--
वासिष्ठान्यष्टौ ॥ ५.६.७ ॥
अर्थतेषामेव प्रत्येक विशेषसंज्ञां दर्शयति --
वसिष्ठस्य जनित्रे द्वे । अङ्गिरसां व्रतोपोहः। वसिष्ठस्य वा सम्पा। वैयश्वं च । सोमसामनी च । ऐषं च । माधुच्छन्दसं च॥५.६.८॥
अष्टस्वाद्ये द्वे वसिष्ठस्य जनित्रे । अङ्गिरस वोपहस्तृतीयम् । एतदेव वसिष्ठस्य सम्पासंज्ञकं वा । चतुर्थ वैयश्वम् । पञ्चमषष्ठे सोमसामनी । सप्तमम् ऐषम् । अष्टमं माधुच्छन्दसम् ॥ ८ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्राशे आयब्राह्मणभाष्ये पञ्चमाध्याये षष्ठः खण्डः ॥ ६ ॥ सप्तमः खण्डः
कुत्सस्याधिरथीयानि त्रीणि । आशुरथीयानि वा ॥५.७.१॥
प्र सेनानीः। शूरो अग्रे रथानाम् (सा. ५३३) इत्यत्र साम- त्रयम् । होवा । उहुवा । होवा । प्रा (प्र?) सेनानाइ: (ग्राम. १५. ७. ५३३.१) इति तृतीयचतुर्थादिकम् । औहोवा (ग्राम. १५. ७.५३३.२) इत्यादि मन्द्रचतुर्थादिकम् । औहोवा प्र सेनानाइः (ग्राम. १५. ७. ५३३. ३) इति मन्द्रचतुर्थादिकम् । एतानि त्रीणि कुन्सस्याधिरथीयानि रथशब्द- युक्तानि एतन्नामधेयानि सामानि । अथवा आशुग्थीयानि ॥ १ ॥
वैश्वज्योतिषाणि त्रीणि ॥ ५.७.२॥
प्र ते धारा मधुमतीरसृग्रन् (सा. ५३४) इत्यत्रैक साम । हाउहोवाहाइ । प्रतेधारा (ग्राम. १५. ७. ५३४.१) इति द्वितीयतृतीया- दिकम् । प्रगायताभ्यर्चा (सा. ५३५) इत्यत्रैक साम । प्रगायता (ग्राम. १५. ७. ५३५. १) इति द्वितीयकुष्टादिकम् । प्र हिन्वानो जनिता रोदस्योः (सा. ५३६) इत्यत्रैकं साम । हाउहोवाहाइ । प्रहिन्वानो (ग्राम. १५. ७.५३६.१) इति द्वितीयतृतीयादिकम् । एतानि ऋक्त्रया- श्रितानि त्रीणि सामानि वैश्वज्यो.तपाणि विश्वज्योतिःसंबन्धीनि । सूर्याचन्द्र- मसौ हि विश्वज्योतिः । जनयन्त्सूर्यम् (सा. ५३४१) इत्याद्यायामृचि सूर्यशब्दो विद्यते । उत्तरत्र सोमशब्दः ॥ २ ॥
वाचः सामनी द्वे ॥५.७.३॥
तक्षयदी मनसो वेनतो वाग (सा. ५३७) इत्यत्र सामद्वयम् । तक्षद्यदी (ग्राम. १५. ७.५३७.१) इति तृतीयचतुर्थादिकम् । तक्षद्यदाइ (ग्राम. १५. ७. ५३७.२) इति द्वितीयक्रुष्टादिकम् । एते द्वे वाचःसामनी । अत्र वाकशब्दो हि विद्यते ॥ ३ ॥ १४९ पञ्चमः अध्यायः (७) दाशस्पत्ये द्वे ॥४॥ साकमुक्षो मर्जयन्त स्वसारः (सा. ५३८) इत्यत्र सामद्वयम् । साकाम् (ग्राम. १५. ७. ५३८.१) इति चतुर्थमन्द्रादिकम् । साकमुक्षाए (ग्राम. १५. ७. ५३८.२) इति मन्द्रादिकम् । एते द्वे दाशस्पत्ये एतत्संज्ञे ॥४॥
कश्यपस्य च शोभनम् ॥ ५.७.५॥
अधि यदस्मिन् वाजिनीव शुभः (सा. ५३९) इत्यत्र सामैकम् । अधियदा (ग्राम. १५.७.५३९.१) इति चतुर्थमन्द्रादिक कश्यपस्य च शोभनम् । शुभशब्दस्य विद्यमानत्वात् । चकारो वाक्यभेदद्योतनार्थः ॥५॥
दाशस्पत्यानि चैव चत्वारि ॥ ५.७.६ ॥
इन्दुर्वाजी पवते गोन्योधा (सा. ५४०) इत्यत्र सामचतुष्टयम् । इन्दुजी (ग्राम. १५. ७. ५४०. १) इति द्वितीयतृतीयादिकम् । इन्दु- जीपवतौ (ग्राम. १५.७.५४०.२) इति चतुर्थमन्द्रादिकम् । इन्दुरौहो- वाहाईया (१५. ७. ५४०. ३) इति मन्द्रचतुर्थादिकम् । इन्दुर्वाजीपवते- गोनियोघाः (ग्राम. १५.७.५४०.४) इति मन्द्रचतुर्थादिकम् । एतानि चत्वारि दाशस्पत्यानि एव ॥ ६ ॥
श्नौष्टानि त्रीणि । श्नुष्टेर्वाङ्गिरसस्य । अग्नेर्वैश्वानरस्य सामानि ॥ ५.७.७॥
अया पवा पवस्वैना वसूनि (सा. ५४१) इत्यत्र सामत्रयम् । औहोहाइ (ग्राम. १६. ७. ५४१.१) इति मन्द्रचतुर्थादिकम् । अयोहाइ । पवोहाइ (ग्राम. १६.७.५४१. २) इति मन्द्रचतुर्थादिकम् । हाओवा (ग्राम. १६. ७.५४१.३) इत्यादि द्वितीयतृतीयादिकम् । एतानि त्रीणि नौष्टानि । अथवा आङ्गिरसस्य अङ्गिरसः पुत्रस्य श्नुष्टेः एतन्नामधेयस्य ऋषेः आर्षेयब्राह्मणम्
संबन्धीनि । वैश्वानरस्याग्रदेवतायाः स्वभूतान्येतानि सामानि । दीदिहीति
निधनं दीप्तिसामकम् । तेन अग्निसामानीत्यभिधीयन्ते । तथा च ब्राह्मणम् -
इनुष्टि; एतेनाङ्गिरसोऽञ्जसा स्वर्ग लोकमपश्यद् (तां. बा. १३. ११. २३)
इत्यादि अग्नेर्वा एतद्वैश्वानरस्य साम दीदिहीति निधनमुपयन्ति
दीदा एव ह्यग्निर्वैश्वानर (ता. ब्रा. १३. ११.२४) इत्यन्तम् अनुसंधेयम् ॥ ७॥
आत्रं च ॥ ५.७.८॥
महत्तत्सोमो महिषः (सा. ५४२) इत्यत्रकं साम । महत्तत्सोमो- महिषाश्चकारा (ग्राम. १६.७.५४२.१) इति द्वितीयतृतीयादिकम् आत्रम् अत्रिणा दृष्टम् ॥ ८॥
वासिष्ठं च ॥५.७.९॥
असर्जि वकवा रथ्ये यथाजौ (सा. ५४३) इत्यत्रैकं साम । असा औहो (ग्राम. १६. ७. ५४३. १) इति द्वितीयक्रुष्टादिकं वासिष्ठं वसिष्ठेन दृष्टम् ॥ ९॥
अपां च साम ॥५.७.१०॥
अपामिवेदुर्मयस्ततुराणाः (सा. ५४४) इत्यत्रै साम । अपा- मिवेदर्मयस्तौ (ग्राम. १६. ७.५४४.१) इति मन्द्रचतुर्थादिकम् अपांच साम ॥१०॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पञ्चमाध्याये सप्तमः खण्डः ॥ ७ ॥ अष्टमः खण्डः
नकुलस्य वामदेवस्य प्रेतौ द्वौ । महाकार्तयशं च कार्तवेश
वा । और्ध्वसद्मनं च । श्यावाश्वं च । आन्धीगवं चेति ॥५.८.१॥
पुरोजिती वो अन्धसः (सा. ५४५) इत्यत्र षट् सामान्युत्पन्नानि । तत्र पुरोजिती (ग्राम. १६. ८. ५४५. १) इति मन्द्रादिकम् । पुरोजिती। वो ओंधासाः (ग्राम. १६. ८. ५४५. २) इति मन्द्रादिकम् । एतौ द्वौ वामदेवस्य नकुलस्य प्रेडौ । पुरोहाहाउ (ग्राम. १६. ८. ५४५. ३) इति मन्द्रादिकं तृतीयं महाकार्तयशम् एतन्नामकम् । अत्र विकल्पः। एतत् कार्तवेश वा ॥ पुरोजितीवोअन्धसः । उवाहाइ (ग्राम. १६. ८. ५४५. ४) इति मन्द्रचतुर्थादिकं चतुर्थम् औलसझनम् । औ_शब्देन दिगन्तराण्यभिधीयन्ते। इतस्ततः सर्वत्र समगमनं [सद्मनम् ।] तत्साधनमित्यर्थः। असुरा वा एषु लोके- वासंस्तान्देवा औलसझनेभ्यो लोकेभ्यः प्राणुदन्त (ता.बा.९.२.११) इति ब्राह्मणमनुसंधेयम् ।। पुरो (ग्राम. १६.८.५४५.५) इति तृतीयद्वितीयादिकं पञ्चमं श्यावाश्वम् । श्यावाश्वो नाम ऋषिः । अत्र ब्राह्मणम् श्यावाश्व- मर्चनानसं सत्रमासीनमित्युपक्रम्य इन्द्रस्तृतीयसवनाद्वीभत्समान उदक्रामत् । तं देवाः श्यावाश्वेनहाइ एहियेत्यन्बह्वयन् । स उपा- वर्तत (तां ब्रा. ८. ५. ९-११) इति । अस्य साम्नः ऐहाइएहियेति स्तोभः ॥ पुरोजितीवोंधासाः (ग्राम. १६. ८. ५४५. ६) इति मन्द्रचतुर्था- दिकं षष्ठं साम आन्धीगवम् । अन्धीगुर्नाम ऋषिः । तेन दृष्टम् । तथा च ब्राह्मणम् --आन्धीगवं भवत्यन्धीगुर्वा एतत्पशुकामः सामापश्यत् (तां. बा. ८.५.१२) इति ॥ १॥
क्रौञ्चानि त्रीणि । सोमसामानि वा ॥५.८.२॥
अयं पूषा रयिर्भगः (सा. ५४६) इत्यत्र सामत्रयम् । अयंपूपोहो (ग्राम. १६. ८. ५४६. १) इति द्वितीयक्रुष्टादिकम् । अयंपूषा । अयंपूषा आर्षेयब्राह्मणम्
(ग्राम. १६. ८. ५४६. २) इति मन्द्रादिकम् । अपूषा (ग्राम. १६. ८.
५४६. ३) इति चतुर्थतृतीयादिकम् । एतानि त्रीणि क्रौञ्चानि । अथवा
सोमसामानि ॥ २ ॥
त्वाष्ट्रीसामनी च । वासिष्ठं च । त्वाष्ट्रीसाम च । वासिष्ठं च । त्वाष्ट्रीसामनी चैव । वासिष्ठं चैव ॥ ५.८.३ ॥
सुनामो मधुमत्तमाः (सा. ५४७) इत्यत्राष्टौ सामानि उत्पन्नानि । तत्र सुतासोमा (ग्राम. १६. ८. ५४७ १) इति मन्द्रादिकम् । सुतासो- मधुमत्तमा (ग्राम. १६. ८.५४७.२) इति मन्द्रचतुर्थादिकम् । एते आये द्वे वाष्ट्रीसामनी ॥ सुतासोमधुमत्तमाः । सोमाइन्द्रा (प्राम. १६. ८. ५४७.३) इति मन्द्रचतुर्थादिकं तृतीय वासिष्ठम ॥ सुतासोमधुमत्तमाः। सोमाहाउ (ग्राम. १६. ८. ५४७. ४) इति मन्द्रचतुर्थादिकं चतुर्थं त्वाष्ट्री- साम ।। सुतासोमधुमत्तमाए (ग्राम. १६. ८. ५४७.५) इति मन्द्रादिक पञ्चमं वासिष्ठम् ।। सुतासोमाहा (ग्राम. १६. ८. ५४७. ६) इति क्रुष्ट- द्वितीयादिकम् । सुता । सोना । हाहा (ग्राम. १६. ८. ५४७.७) इति मन्द्रतृतीयादिकम् । एते षष्ठसप्तमे त्वाष्ट्रीसामनी ॥ सुतासोमाधुमत्तमाः (ग्राम. १६.८.५४७. ८) इति मन्द्रद्वितीयादिकमन्तिम वासिष्ठमेव ॥३॥
क्रौञ्चे द्वे ॥ ५.८.४॥
सोमाः पवन्त इन्दवः (सा. ५४८) इत्यत्र सामद्वयम् । हाउ- सोमाः (ग्राम. १६. ८.५४८.१) इति चतुर्थमन्द्रादिकम् । सोमाःपवन्त- इन्दवाः (ग्राम. १६. ८. ५४८. २) इति मन्द्रतृतीयादिकम् । एते द्वे क्रौञ्चे ॥ ४ ॥ १९३ पञ्चमः अध्यायः (6)
सोमसामानि त्रीणि । क्रौञ्चं चैव । सोमसाम चैव ॥५.८.५॥
अभी नो वाजसातमम् (सा. ५४९) इत्यत्र पञ्च सामान्युत्पन्नानि । अभीनोवा । जासाऔहोवा (ग्राम. १६. ८. ५४९. १) इति मन्द्रक्रुष्टादि- कम् । अभीनोवा (ग्राम. १६. ८. ५४९.२) इति मन्द्रक्रुष्टादिकम् । अभीहोइ (ग्राम. १६. ८. ५४९. ३) इति द्वितीयक्रुष्टा (द्वितीया ? ) दिकम् । एतानि त्रीणि सोमसामानि ॥ अभीनोवा (ग्राम. १६. ८. ५४९. ४) इति द्वितीयक्रुष्टादिकं तुरीयं साम क्रौञ्चमेव ।। अभीनोयौहोजसातमाम् (ग्राम. १६.८.५४९.५) इति चतुर्थ(मन्द्र ?) मन्द्रादिकं पञ्चमं सोमसाम च ॥५॥
आङ्गिरसानि त्रीणि । प्रैयमेधानि वा ॥ ५.८.६ ॥
अभी नवन्ते अद्रुहः (सा. ५५०) इयत्र सामत्रयम् । आभी (ग्राम. १६. ८. ५५०.१) इति तृतीयद्वितीयादिकम् । अभी । नवा (ग्राम. १६. ८. ५५०. २) इति मन्द्रतृतीयादिकम् । अभीनवन्ते अद्रुहः । ओहाइ (ग्राम. १६. ८. ५५०.३) इति मन्द्रचतुर्थादिकम् । एतानि त्रीणि आङ्गि- रसानि । अथवा प्रेयमेधानि । प्रियमेधो नाम ऋषिः ।। ६ ।।
गृत्समदस्य सूक्तानि चत्वारि । वसिष्ठस्य वा ॥५.८.७॥
आ हर्यताय धृष्णवे (सा. ५५१) इत्यत्र सामचतुष्टयम् । आहा । ओवा (ग्राम. १६. ८.५५१.१) इति तृतीयद्वितीयादिकम् । हाहाइ । आहर्यता (ग्राम. १६. ८.५५१. २) इति द्वितीया यादि म । आदर्यताय धृष्णवआ (ग्राम. १६. ८. ५५१. ३) हा चतुर्थमन्द्रादिकम् । आर्य (ग्राम. १६. ८. ५५१.४) इति तृतीनचादिकम् । एतानि चत्वारि १९४ आर्षेयब्राह्मणम्
गृत्समदस्यर्षेः सूक्तानि तत्संज्ञकानि सामानि । एकैकं साम सूक्तनामधेयम् ।
अथवा वसिष्ठस्य सूक्तानि ॥ ७ ॥
आकूपारं च ॥ ५.८.८॥
परित्यं हर्यतं हरिम् (सा. ५५२) इत्यत्र सामैकम् । परित्य५- हर्यत हरिम् (ग्राम. १६. ८. ५५२.१) इति तृतीयचतुर्थादिकम् आकू- पारम् । अकूपारो नाम कश्यपः। तत्संबन्धि । अकूपारो वा एतेन कश्यपो जेमानं महिमानमगच्छद् (ता. ब्रा. १५. ५. ३०) इति ब्राह्मण- मनुसंधेयम् ॥ ८॥
वैरूपं च । नृगस्य वा साम ॥ ५.८.९ ॥
प्र सुन्वानाबान्धसः (सा. ५५३) इत्यत्र सामैकम् । प्रसुन्वा- नायअन्धसाः (ग्राम. १६. ८. ५५३. १) इति द्वितीयक्रुष्टादिक वैरूपम् । अथवा नृगस्य वा मामैतत् ॥ ९॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पञ्चमाध्याये अष्टमः खण्डः ॥ ८॥ नवमः खण्डः
कावम् । वाजसनी द्वे । कावं वैनयोः पूर्वम् । वाजजिती द्वे कावं चैव ॥५.९.१॥
अभि प्रियाणि पवते (सा. ५५४) इत्यत्र षट् सामान्युत्पन्नानि । आभि- प्रीया (ग्राम. १६. ९.५५४.१) इति द्वितीयतृतीयादिकमाद्य कावं प्रजापति- देवताकम् । तथा च ब्राह्मणम्-अभिप्रियाणि पवत इति कावं प्राजापत्यं साम (ता. बा. ८. ५. १४) इति ॥ ए। अभिप्रिया । णिपवताइ (ग्राम. १६.९. ५५४.२) इति चतुर्थमन्द्रादिकं द्वितीयम् । अभ्यौहोवाहाइप्रियाणी (ग्राम. १६.९.५५४. ३) इति मन्द्रचतुर्थादिकं तृतीयम् । एते द्वे वाजसनी । अथवा एतयोः द्वितीयतृतीययोः पूर्वम् आदिम साम कावम् ॥ अभिप्रिया। णीपवताइ (ग्राम. १६. ९. ५५४. ४ ) इति द्वितीयक्रुष्टादिकम् । अभि- प्रिया । णीपवताइ । चनोहिताः (ग्राम. १६. ९. ५५४. ५) इति द्वितीयक्रुष्टादिकम् । एते चतुर्थपञ्चमे वाजजिती एतन्नामके शूरजयकारणे । अत्रापि वाजीजिगीवाविश्वाधनानीति हि निधनम् । अत्र वाजशब्दयुक्ते इत्यर्थः । [वाज] शब्दे[न] निधनेन जयोऽभिधीयते ॥ अभ्योवा (ग्राम. १६. ९. ५५४. ६) इति मन्द्रचतुर्थादिकम् अन्तिमं कावमेव ।। १॥
आङ्गिरसानि त्रीणि । उद्वद्वैषां भार्गवं प्रथमम् । सामराजमुत्तमम् । सामराजानि चैव त्रीणि । सिमानां वैषां निषेध उत्तमम् ॥ ५.९.२॥
. १९६ आर्षेयब्राह्मणम्
अचोदसो नो धन्वन्त्विन्दवः (सा. ५५५) इत्यत्र षट् सामा- न्युत्पन्नानि । तत्र अचोदसो (ग्राम. १६. ९. ५५५.१) इति द्वितीयक्रुष्टा- दिकम् । आचोदसो (ग्राम. १६. ९. ५५५.२) इति क्रुष्टद्वितीयादिकम् । हाउहोवाहाइ। अचोदसोनोधा (ग्राम. १६. ९. ५५५.३) इति द्वितीय- तृतीयादिकम् । एतानि लीण्याङ्गिरसानि । अथवा एषां मध्ये प्रथमम् आदिमम् उद्वद् भार्गवम् । उत्तमम् अन्तिमं सामराजम् ॥ सामराज भवति साम्राज्यमाधिपत्यं गच्छति (ता. ब्रा १५. ३. ३५) इति ब्राह्मणमनुसंधेयम् ॥ अचोहाइ (ग्राम. १६. ९. ५५५. ४) इति मन्दचतु- र्थादिकम् । अचौहोवा (ग्राम. १६. ९. ५५५. ५) इति मन्द्रचतुर्थादिकम् । अचो। वाहाइ (ग्राम. १६. ९. ५५५. ६) इति मन्द्रचतुर्थादिकम् । एतानि त्रीणि सामराजानि एव । अथवा एषां मध्ये उत्तमम् अन्तिम सिमानां निषेधनामकम् ॥ २॥
वासिष्ठम् ॥ ५.९.३॥
एष प्रकोशे मधुमां अचिकत (सा. ५५६) इत्यत्रैक साम । एपप्रकोशे (ग्राम. १६. ९. ५५६. १) इति द्वितीयक्रुष्टादिक वासिष्ठम् ॥ ३॥
लौशे द्वे । प्रवच्च भार्गवम् । विरूपस्य च तन्त्रम् । यामं पञ्चमम् ॥ ५.९.४॥
प्रो अयासीत् (सा. ५५७) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र प्रोयासीत् (ग्राम. १६. ९. ५५७.१) इति द्वितीयतृतीयादिकम् । प्रोया- सीदिन्दुरिन्द्रस्यनिः (ग्राम.१६.९.५५७.२) इति तृतीयचतुर्थादिकम् । एते आये द्वे लौशे ।। प्रो अयासाइत (ग्राम. १६.९.५५७.३) इति द्वितीय- क्रुष्टादिकं तृतीयं प्रबद्भार्गवम् । अत्र ब्राह्मणम् -प्रात्यो भवन्ति (ता. बा. १४. ३. ४) इत्युपक्रम्य प्रवद्भार्गवं भवति । प्रवता वै देवाः स्वर्ग लोकं प्रायन्नुद्वतोदायन् (तां. बा. १४. ३. २३-२४) इति ।। प्रो अयासा इव (ग्राम. १६. ९.५५७. ४ ) इति द्वितीयक्रुष्टादिकं तुरीयं विरूपस्य च पञ्चमः अध्यायः (९) १९७
तन्त्रम् । आइ । इयां । प्रो अयासाइदिन्दुरिन्द्रा (ग्राम. १६. ९. ५५७. ५) इति क्रुष्टद्वितीयादिकं पञ्चमं साम यामम् ॥ ४ ॥
दासशिरसी द्वे । दाससरसे वा ॥ ५.९.५॥
धर्ता दिवः पवते कृत्व्यो रसः (सा. ५५८) इत्यत्र सामद्वयम् । धर्तादाइवा (ग्राम. १६. ०.५५८) इति द्वितीयक्रुष्टादिकम् । धर्ताऔहो- हाइ (ग्राम. १६. ९. ५५८.२) इति मन्द्रचतुर्थादिकम् । [एते] दास- शिरसी एतन्नामधेये। अथवा दाससरसनामके ॥ ५ ॥
यामानि त्रीणि ॥ ५.९.६॥
वृषा मतीनाम् (सा. ५५९) इत्यत्र सामत्रयम् । वृषामाती (ग्राम. १६. ९. ५५९. १) इति द्वितीयक्रुष्टादिकम् । वृपामतीनांपव (ग्राम. १६. ९.५५९.२) इति क्रुष्टद्वितीयादिकम् । वृषामताइ (ग्राम. २६. ९. ५५९. ३) इति क्रुष्टद्वितीयादिकम् । एतानि त्रीणि यामानि ॥ ६॥
मरुतां धेनु ॥ ५.९.७ ॥
त्रिरस्मे सप्त धेनवः (सा. ५६०) इत्यत्रैक साम । नाइः । अस्मै (ग्राम. १६. ९. ५६०.१) इति क्रुष्टद्वितीयादिक मरुतां धेनु । धेनुशब्द- युक्तमेतत्संज्ञकम् ॥ ७॥
इन्द्रस्यापामीवनी द्वे । वायोर्वाभिक्रन्द उत्तरम् ॥ ५.९.८ ॥
इन्द्राय सोम सुषुतः (सा. ५६१) इत्यत्र सामद्वयम् । इन्द्रा (ग्राम. १६. ९. ५६१.१) इति द्वितीयक्रुष्टादिकम् । इन्द्रायसोभसुपुतः पर्यो (ग्राम. १६. ९. ५६१. २) इति चतुर्थमन्द्रादिकम् । एते द्वे इन्द्र- स्यापामीवनी अशमीवशब्दयुक्ते । अपामीवा भवतु (सा. ५६१') इति अपामीवशब्दस्य विद्यमानत्वात् । अथवा उत्तरं द्वितीय साम वायोर्वाभि- क्रन्दः ॥ ८॥ आर्षेयब्राह्मणम् १९८
यामानि चैव त्रीणि ॥ ५.९.९॥
असावि सोमो अरुषो वृषा हरिः (सा. ५६२) इत्यत्र सामत्रयम् । असाविसो (ग्राम. १६. ९. ५६२. १) इति द्वितीयक्रुष्टादिकम् । आसावीसो (ग्राम. १६. ९. ५६२. २) इति द्वितीयतृतीयादिकम् । असाविसोमोअरुषो- वृषाह (ग्राम. १६. ९. ५६२.३) इति चतुर्थमन्द्रादिकम् । एतानि त्रीणि यामानि एव । चकारो भेदार्थः ॥ ९॥
मरुतां चैव धेनु ॥ ५.९.१०॥
प्र देवमच्छा (सा. ५६३) इत्यत्रैक साम । प्रादे (ग्राम. १६.९. ५६३.१) इति चतुर्थमन्द्रादिकं मरुतां धेनुः (नु?) इत्येव । धेनुशब्द- युक्तमेत्संज्ञकम् । गाव आ न धेनवः (सा. ५६३०) इत्यत्र धेनुशब्दो विद्यते ।। १०।।
अञ्जतो व्यञ्जतः समञ्जत इति काक्षीवता(? तानि) त्रीणि सामानि । शार्ङ्गाणि वा ॥ ५.९.११ ॥
अज्जते व्यञ्जते समजते (सा. ५६४) इत्यत्र त्रीणि सामा- न्युत्पन्नानि । अञ्जताइ (ग्राम. १६. ९. ५६४. १) इति द्वितीयक्रुष्टादिक- माद्यम् । अञ्जाहो (ग्राम. १६. ९. ५६४. २) इति तृतीयद्वितीयादिकं द्वितीयम् । हावांजा (ग्राम. १६. ९. ५६४. ३) इति चतुर्थमन्द्रादिक तृतीयम् । त्रीण्येतानि काक्षीवतानि कक्षीवत्संबन्धीनि, कक्षीवानौशिजस्तेन पञ्चमः अध्यायः (९)
दृष्टानि सामानि । अञ्जतो व्यञ्जतः समति इति पृथक् पृथक्
नामधेयानि । अत्र अञ्जते व्यञ्जते समजत इति साम्नि विद्यमानत्वात् ।
वा अथवा शाङ्गाणि ॥ ११ ॥
आदित्यस्य अर्कपुष्पे द्वे ॥ ५.९.१२ ॥
पवित्रं ते विततम् (सा. ५६५) इत्यत्र सामद्वयम् । पवित्रंतेविततम् (ग्राम. १६. ९. ५६५. १) इति द्वितीयक्रुष्टादिकम् । पवित्रन्तेविततम (ग्राम. १६. ९. ५६५. ३) इति द्वितीयक्रुष्टादिकम् । एते द्वे सामनी आदित्यस्य अर्कपुष्पे अन्नसमृद्धिकारणे। तथा च ब्राह्मणम् - अर्कपुष्प भवति । अन्नं वै देवा अर्क इति वदन्ति रममस्य पुष्पमिति (ता. ब्रा. १५. ३. २२-२३) इति ।। १२ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पञ्चमाध्याये नवमः खण्डः ॥ ९॥ दशमः खण्डः
वसिष्ठस्य पदे द्वे । वसिष्ठस्यानुपदे द्वे । अपि वा पदं चानुपदं च । पदं चैवानुपदं चैव । पौष्कलं पञ्चमम् ॥५.१०.१॥
इन्द्रमच्छ सुता इमे (सा. ५६६) इत्यत्र पञ्चसामान्युत्पन्नानि । तत्र इन्द्रमच्छा (ग्राम. १७. १०. ५६६. १) इति मन्द्रादिकमाद्यम् । इन्द्रमच्छा । सुताइमाइ (ग्राम. १७.१०.५६६.२) इति मन्द्रादिकं द्वितीयम् । एते आये द्वे वसिष्ठस्य पदे । इन्द्रम् । इन्द्राम् (ग्राम. १७. १०.५६६. ३) इति चतुर्थमन्द्रादिकं तृतीयम् । इन्द्रमच्छसुताइमे (ग्राम. १७. १०. ५६६. ४) इति तृतीयचतुर्थादिकं चतुर्थम् । एते तृतीयतुरीये सामनी वसिष्ठम्यानुपदे एतन्नामके। अत्र विकल्प दर्शयति अपि वा अथवा प्रथमसामप्रभृतिक्रमेण पदं च अनुपदं च। पदं चैवानुपदं चैव इति योजनीयम् ॥ इन्द्रमाच्छसु (ग्राम. १७.१०. ५६६. ५) इति द्वितीय- क्रुष्टादिकं साम पञ्चमम् । एतत् पौष्कलम् एतन्नामक समृद्धिसाधनम् । तथा च ब्राह्मणम् - एतत् पौष्कलम् । एतेन वै प्रजापतिः पुष्कलान् पशूनसृजत ( तां. बा. ८. ५. ६.) इत्यादिकमनुसंधेयम् ॥ १॥
ऐषिराणि पञ्च ॥५.१०.२॥
प्रधन्वा सोम जागृविः (सा. ५६७) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र प्रधन्वासौहोइ (ग्राम. १७.१०.५६७.१) इति द्वितीयक्रुष्टादिक- माद्यम् । प्रधन्वासौहो (ग्राम. १७.१०. ५६७.२) इति द्वितीयक्रुष्टादिक २०१ पञ्चमः अध्यायः (१०)
द्वितीयम् । औहौहोइ । प्रधन्वासो (ग्राम. १७.१०. ५६७.३) इति
द्वितीयक्रुष्टादिकं तृतीयम् । हुहाइ इत्यादि प्रधन्वासो (ग्राम. १७.१०.
५६७. ४) इति क्रुष्टद्वितीयादिकं चतुर्थम् । प्रधन्वासोमजागृवीः (ग्राम. १७.
१०. ५६७.५) इति द्वितीयक्रुष्टादिकं पञ्चमम् । एतानि पञ्च सामान्यै-
षिराणि ॥ २॥
शौक्तानि पञ्च ॥ ५.१०.३॥
सखाय आ नि षीदत (सा. ५६८) इत्यत्र पञ्च सामान्युत्पन्नानि । सखाया आ (ग्राम. १७. १०.५६८.१) इति द्वितीयतृतीयादिकमाद्यम् । सखायाआ (ग्राम. १७.१०. ५६८. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । सखायआनि (ग्राम. १७.१०.५६८.३) इति चतुर्थमन्द्रादिकं तृतीयम् । ओ(और) होइ । सखायआनि (ग्राम. १७.१०. ५६८. ४) इति चतुर्थ- मन्द्रादिक चतुर्थम् । सखायआओया (ग्राम. १७.१०. ५६८. ५) इति मन्द्रतृतीयादिकं पञ्चमम् । एतानि पञ्च सामानि शौक्तानि । शुक्तेर्नाम ऋषेः संबन्धीनि । तथा च ब्राह्मणम् -- सखाय आ नि षीदत (ता. ब्रा. १२. ५. ५) इत्युपक्रम्य शौक्तं भवति । शुक्तिर्वा एतेनाङ्गिरसोऽजसा स्वर्ग लोकमपश्यत् (तां ब्रा. १२. ५.१५-१६) इति ॥ ३ ॥
कार्णश्रवसानि त्रीणि ॥ ५.१०.४॥
तं वः सखायो मदाय (सा. ५६९) इत्यत्र सामनयमुत्पन्नम् । तां वः (ग्राम. १७.१०.५६९.१) इति तृतीयद्वितीयादिकम् । ओइनं वः आर्षेयवाह्मणम् २०२
सखा (ग्राम. १७.१०.५६९.२) इति द्वितीयतृतीयादिकम् । तं वः सखायोमदाया (ग्राम. १७.१०. ५६९.३) इति मन्द्रमन्द्रादिकम् । एतानि त्रीणि कार्णश्रवसानि। अत्र ब्राह्मणम् -- तं वः सखायो मदाय (तां ब्रा १३. ११.३) इत्युपक्रम्य कार्णश्रवसं भवति शृण्वन्ति तुष्टुवानम् । कर्णश्रया वा एतदाङ्गिरसः पशुकामः सामापश्यद् (ता. बा. १३.११.१४ १५) इति ॥ ४ ॥
वाचः सामनी द्वे । इन्द्रसामनी द्वे । मरुतां प्रेङ्खो वसिष्ठस्य वा ॥५.१०.५॥
प्राणा शिशुर्महीनाम् (सा. ५७०) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र प्राणा (ग्राम. १७.१०.५७०.१) इति चतुर्थमन्द्रादिकम् । प्राणाणा (ग्राम. १७.०. ५७०.२) इति चतुर्थमन्द्रादिकम् । एते द्वे वाचः सामनी ॥ प्राणा शशुः (ग्राम. १७.१०.५७०.३) इति चतुर्थमन्द्रादिकम् । प्राणा । होइ (ग्राम. १७.१०.५७०. ४) इति मन्द्रद्वितीयादिकम् । एते द्वे इन्द्रमामनी ॥ प्राणा । हहोइ (ग्राम. १७.१०. ५७०.५) इति मन्द्रतृतीयादिकं मरुतां प्रेशनामकम् । अथवा वसिष्ठस्य प्रेः ॥ ५ ॥
प्राजापत्ये द्वे । वैश्वदेवे वा ॥ ५.१०.६ ॥
पवस्व देववीतये (सा. ५७.) इत्यत्र सामद्वयम् । पवस्वदाइ (ग्राम, १७.१०. ५७१.१) इति क्रुष्टद्वितीयादिकम् । पवस्वदा । ववीत- याइ (ग्राम. १७. १०. ५७१. २) इति मन्द्रद्वितीयादिकम् । एते द्वे प्राजापत्ये । अथवा वैश्वदेवे ॥ ६ ॥
इन्द्रस्य सुज्ञाने द्वे । द्यौते द्वे । ज्योतिषे वा । प्रजापतेरातीषादीये द्वे ॥ ५.१०.७ ॥
सोमः पुनान ऊर्मिणा (सा. ५७२) इत्यत्र षट् सामान्युत्पन्नानि । तत्र सोमः पुना । नऊर्मिणा (ग्राम. १७.१०.५७२.१) इति मन्द्र२०३ पञ्चमः अध्यायः (१०)
द्वितीयादिकम् । सोमः पुना । नऊर्मिणोवा (ग्राम. १७.१०. ५७२.२)
इति मन्द्रद्वितीयादिकम् । एते आद्ये इन्द्रस्य सुज्ञाने । सोमः पुनानऊ
(ग्राम. १७. १०. ५७२.३) इति चतुर्थमन्द्रादिकम् । सोमःपुनानऊर्मिणा-
ऐही (ग्राम.१५.१०. ५७२. ४) इति द्वितीयतृतीयादिकम् । एते अनन्तरे
द्वे द्यौते । अथवा ज्योतिपे। सोमःपुना । नऊ (ग्राम. १७.१०. ५७२.
५) इति तृतीयचतुर्थादिकम् । सोमःपुना । हो (ग्राम. १७.१०.५७२. ६)
इति तृतीयचतुर्थादिकम् । एते अनन्तरे द्वे प्रजापतेरातीषादीये आयुर्वृद्धिकरे ।
अतीषादीयं भवति । आयुर्या आतीषादीयम् । आयुषोऽवरुध्या (तां. बा. ११. १२. १५-१६) इति ।। ७ ॥
सोमसामानि चत्वारि ॥ ५.१०.८ ॥
प्र पुनानाय वेधसे (सा ५७३) इत्यत्र सामद्वयम् । प्रपुनानाय- वेधसाइ (ग्राम. १७. १०. ५७३.१) इति द्वितीयक्रुष्टादिकम् । प्रपुनानौ- होयवेधसाइ (ग्राम १७.१०. ५७३.२) इति चतुर्थमन्द्रादिकम् । गोमान्न इन्द्रो अश्ववत् (सा. ५७४) इत्यत्रैकं साम। गोमान्नः (ग्राम. १७.१०. ५७४.१) इति तृतीयचतुर्थादिकम् ।। अस्मभ्यं त्वा वसुविदम् (सा. ५७५) इत्यत्रैकं साम । हावास्मा (ग्राम. १७.१०. ५७५.१) इति चतुर्थमन्द्रादि- कम् । एतानि ऋक्त्रयाश्रितानि चत्वारि सामानि सोमसामानि ॥ ८ ॥
सोमस्य यशांसि त्रीणि ॥ ५.१०.९॥
पवते हर्यतो हरिः (सा. ५७६) इत्यत्र सामानि त्रीणि । पवतेहा (ग्राम. १७.१०.५७६. . ) इति मन्द्रादिकम् । पा। पवतेहा (ग्राम १७.१०. ५७६.२) इति तृतीयद्वितीयादिकम् । पवते हर्यतः (ग्राम. १७. १०.५७६.३) इति तृतीयचतुर्थादिकम् । एतानि त्रीणि सोमस्य यशांसि यशःपदयुक्तानि सामानि । वीरवद्यशः (सा. ५७६ ) इति यशःशब्दो २०४ आर्षेयब्राह्मणम्
भारद्वाजं च ॥ ५.१०.१० ॥
परि कोशं मधुश्चुतम् (सा. ५७७) इत्यत्रैक साम । परिकोशं- मधुश्चुताम् (ग्राम. १७.१०. ५७७. १) इति द्वितीयक्रुष्टादिकं भारद्वाज भरद्वाजेन दृष्टम् । चकारो वाक्यभेदद्योतनार्थः ॥ १० ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाप्ये पञ्चमाध्याये दशमः खण्डः ।। १० ।। एकादशः खण्डः
वासिष्ठं च सफे च । वासिष्ठं चैव सर्फ चैव ॥५.११.१॥
पवस्व मधुमत्तम (सा. ५७८) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र पावा (ग्राम. १७. ११. ५७८. १) इति चतुर्थमन्द्रादिकमाद्य वासिष्ठम् । पावस्वम (ग्राम. १७. ११. ५७८. २) इति द्वितीयतृतीयादिकम् । पवस्व- मधुमा । इहा (ग्राम. १७. ११. ५७८, ३) इति चतुर्थमन्द्रादिकम् । एते द्वे सफनामके व्यापनशीले । अत्र ब्राह्मणम् – सफेन वै देवा इमाँल्लोकान् समाप्नुवन् । यत् माप्नुवंस्तत् सफस्य सफत्वम् (तां. ब्रा. ११. ५. ६) इति ॥ पवस्वमा (ग्राम. १७. ११. ५७८. ४) इति चतुर्थमन्द्रादिक चतुर्थ वासिष्ठम् ॥ पवस्वापधु (ग्राम १७. ११. ५७८. ५) इति द्वितीय- क्रुष्टादिकं पञ्चमं सफमेव ॥ १ ॥
ऐषिराणि चत्वारि ॥५.११.२॥
अभि द्युम्नं बृहद्यशः (सा. ५७९) इत्यत्र सामचतुष्टयम् । अभाइ (ग्राम.१७.११.५७९.१) इति द्वितीयक्रुष्टादिकम् । अभेद्युम्नाम् (ग्राम. १७. ११.५७९.२) इति मन्द्रचतुर्थादिकम् । अभिद्युम्नंबृहत (ग्राम. १७.११. ५७९. ३) इति मन्द्रचतुर्थादिकम् । अभिद्युम्नंबृहद्यशाः (ग्राम. १७.११.५७९. ४) इति मन्द्रमन्द्रादिकम् । एतानि चत्वारि ऐपिराणि एतन्नामधेयानि ।। २ ॥
कार्णश्रवसानि त्रीणि । वाचःसामानि त्रीणि ॥ ५.११.३ ॥
आ सोता परि षिञ्चत (सा. ५८०) इत्यत्र पट् सामान्युत्पन्नानि । तत्र आसोतापागइपाऔहोवा (ग्राम. १७. ११. ५८०.१) इति मन्द्र- क्रुष्टादिकम् । आसोतापारिषि (ग्राम. १७. ११. ५८०. २) इति मन्द्र- द्वितीयादिकम् । आसोतापारिषाइ (ग्राम. १७. ११. ५८०.३) इति मन्द्र- क्रुष्टादिकम् । एतान्याद्यानि त्रीणि कार्णश्रवसानि । कर्णश्रवा नामाङ्गिरसः तेन दृष्टानि ।। आ(ओ?) सोनापारीषिश्चता (ग्राम. १७. ११. ५८०.४) इति मन्द्रमन्द्रादिकम् आसौऔहोवा (ग्राम. १७.११.५८०.५) इति तृतीयद्वितीयादिकम् । आसोतापा (ग्राम. १७.११. ५८०.६) इति तृतीय- चतुर्थादिकम् । एतानि त्रीणि वाचः सामानि ।। ३ ।। २०६ आर्षेयब्राह्मणम्
कौल्मलबहिषे द्वे । शकु तृतीयम् । सीदन्तीयं वा । कौल्मलबर्हिषाणि चैव त्रीणि ॥ ५.११.४ ॥
एता त्यं मदच्युतम् (सा. ५८१) इत्यत्र पट् सामान्युत्पन्नानि । तत्र एताम् । ऊत्याम् (ग्राम. १७. ११. ५८१.१) इति चतुर्थमन्द्रादिकम् । एतामूत्याम् (ग्राम. १७.११. ५८१. २) इति चतुर्थमन्द्रादिकम् । एते द्वे कौल्मलबहिपे ।। एतामुत्यम् । ए। मदा (ग्राम. १७. ११. ५८१. ३) इति मन्द्रचतुर्थादिकं तृतीय शकुनामक साम । अथवा एतत्साम सीदन्तीय- नामकम् । तथा च ब्राह्मणम्-शङ्कु भवत्यह्नो धृत्यै । यद्वा अधृतं शङ्कुना तद्दाधार । तदु सीदन्तीयमित्याहुरेनेन चै प्रजापनिरूद्ध इमाँल्लोकान् असीदद्यदसीदत्तत्सीदननीयस्य सीदन्तीयत्वम् (तां. ब्रा. ११.१०.१२-१३) इति । एतमुत्यम् । ओहाइ (ग्राम. १७.११.५८१.४ ) इति मन्द्रचतुर्थादिकम् । एता पुत्यंमदाच्युताम् (ग्राम. १७. ११. ५८१. ५) इति मन्द्रतृतीयादिकम् । एताम। उत्यम्मदा (ग्राम. १७. ११. ५८१. ६) इति तृतीयद्वितीयादिकम् । एतानि त्रीणि दौल्मलवहिपाणि ए। ॥ ४ ॥
भरद्वाजस्य लोमनी द्वे । प्रजापतेर्वा दीर्घे । सोमसामानि त्रीणि ॥ ५.११.५॥
स सुन्वे यो वसूनाम् (सा. ५८२) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र गामू ( ग्राम. १७. ११. ५८२ १) इति चतुर्थमन्द्रादिकम् । ससुहाउ (ग्राम. १७. ११. ५८२.२) इति चतुर्थमन्द्रादिकम् । एते आये द्वे भरद्वाजस्य लोमनी एतत्संज्ञे । अथवा प्रजापते दीर्घे दीर्घनामधेये । सः । स्वेसासू (ग्राम. १७. ११. ५८२. ३) इति चतुर्थमन्द्रादिकम् । ससुन योवसनाम (ग्राम. १७. ११, ५८२. ४) इति द्वितीयक्रुष्टादिकम् । ससु-धेयाः । एवामू (ग्राम. १७.११. ५८२.५) इति चतुर्थमन्द्रादिकम् । एतानि त्रीणि सोम मिनि ॥ ५ ॥ २०७ पञ्चमः अध्यायः (११)
शैतोष्माणि चत्वारि । शीतोष्णानि वा ॥ ५.११.६॥
त्वं ह्यङ्ग दैव्य (सा. ५८३) इत्यत्र चत्वारि सामान्युत्पन्नानि । त्वंहिया । गदाइवियपवनानजनिनानि (ग्राम. १७.११. ५८३.१) इति मन्द्रद्वितीयादिकम् । त्वंहि ग । गदाइविय (ग्राम. १७.११. १८३.२) इति मन्द्रादिकम् । त्वंागदा (ग्राम. १७.११. ५८३.३) इति चतुर्थ- मन्द्रादिकम् । त्वंहोअंगदैविया (ग्राम. १७. ११. ५८३.४) इति मन्द्र- द्वितीयादिकम् । एतानि चत्वारि शैतोमणि अथवा शीतोष्णानि । धुमत्तमः (सा. ५८३) इति वचो उप्णो हि विद्यते । अमृतत्वाय (सा. ५८३) इत्यनेन शीतम् । तत्पदसंभवादेतेषां शीतोष्मनाम संपन्नम् ।। ६॥
गायत्रपार्श्व च संतनि च । सोमसामानि चैव त्रीणि ॥५.११.७॥
एष स्य धारया सुत (सा. ५८४) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र एषाः (ग्राम. १७.११. ५८४.१) इति चतुर्थमन्द्रादिकमाद्य साम गायत्रपार्श्वम् एतन्नामधेयम् । तथा च गायत्रपार्श्व भवति । अहर्वा एतदवलीयत । तद्देवा गायत्रपार्थेन समतन्वन्। तस्माद् गायत्र- पार्श्वम् (ता. ब्रा. १४.९.२५-२६) इत्यादि ब्राह्मणमनुसंधेयम् ।। एषाहाउ (ग्राम. १७. ११.५८४.२) इति चतुर्थमन्द्रादिक द्वितीयं संतनि, यज्ञस्य संयोजकम् , एतन्नामक साम । अत्र संतनि भवतीत्यादि । एतेन साम्नां संयुनक्ति (तां ब्रा. १४. ३. ८) इति ब्राह्मणमनुसंधेयम् ।। एपस्यधा (ग्राम. १७. ११. ५८३. ३) इति द्वितीयक्रुष्टादिकम् । एपस्याधारयासुताः २०४ आर्षेयब्राह्मणम्
(ग्राम. १७.११. ५८४. ४) इति द्वितीयक्रुष्टादिकम् । एतस्यधारयासुताः
(ग्राम. १७.११.५८४.५) इति चतुर्थमन्द्रादिकम् । एतानि त्रीणि सोमसामा-
न्येव । सोमेन दृष्टानीत्यर्थः । अत्र- यथा वा इमा अन्या ओषधय एवं सोम
आसीत् । स तपोऽतप्यत । स एतत्सोमसामापश्यत् (तां ब्रा. ११. ३. ९)
इति हि ब्राह्मणम् ॥ ७॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पञ्चमाध्याय एकादशः खण्डः ॥ ११ ॥
।। पवमानार्षेयभाष्यं समाप्तम् ।।
वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । पुमांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीबुक्कभूपालसाम्राज्यधुरंधरेण सायणामात्येन विरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पञ्चमोऽध्यायः ॥ ५ ॥