सामग्री पर जाएँ

सामवेदः/कौथुमीया/आर्षेयब्राह्मणम्/अध्यायः १(आग्नेयं पर्व)

विकिस्रोतः तः

आर्षेयब्राह्मणम्

सायणाचार्यविरचितेन वेदार्थप्रकाशेन समन्वितम्


वागीशाद्याः सुमनसः सर्वार्थानामुपऋमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २॥

तत्कटाक्षेण तद्रूपं दधद् बुक्कमहीपतिः ।
आदिशत्सायणाचार्यं वेदार्थस्य प्रकाशने ॥ ३ ॥

ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् ।
कृपालुः सायणाचार्यों वेदार्थं वक्तुमुद्यतः ॥ ४ ॥

व्याख्यातावृग्यजुर्वेदौ सामवेदेऽपि संहिता ।
व्याख्याता ब्राह्मणस्याथ व्याख्यानं संप्रवर्तते ॥ ५ ॥

अष्टौ हि ब्राह्मणग्रन्थाः प्रौढं ब्राह्मणमादिमम् ।
षड्विंशाख्यं द्वितीयं स्यात्ततः सामविधिर्भवेत् ॥ ६॥

आर्षेयं देवताध्यायो भवेदुपनिषत्ततः ।
संहितोपनिषद्वंशो ग्रन्थावष्टावितीरिताः ॥ ७ ॥

प्रथमः अध्यायः

प्रथमः खण्डः

तत्र अथ खल्वयमार्षः प्रदेशो भवति इत्यादिकमार्षेयब्राह्मणं क्रमप्राप्तं व्याख्यायते । तत्रादौ ब्राह्मणार्थं संगृह्य प्रदर्शयति -

अथ खल्वयमार्षः प्रदेशो भवति ॥१.१.१॥

अथ इत्यानन्तर्ये । खल्विति प्रसिद्धौ। अयमनेन ब्राह्मणेन प्रतिपाद्योऽर्थः । आर्षः ऋषिसंबन्धी । प्रदेशः उपदेशो भवति ॥१॥

कः पुनरसौ तमाह -

ऋषीणां नामधेयगोत्रोपधारणम् ॥ १.१.२॥

ऋषीणां नामधेयगोत्रैश्च । उपलक्षणमेतत् । ऋषीणां नामधेयगोत्रच्छन्दोदेवतादिवाचकेन च शब्देन साम्नां वाच्यत्वज्ञानमवधारणम् । यादृशेऽर्थोऽनेन ब्राह्मणेन प्रतिपाद्यत इत्यर्थः ॥२॥

नन्वेवमर्थस्य ब्राह्मणप्रतिपादितत्वात् तदध्ययनार्थज्ञानयोः पुरुषेण प्रवृत्तिः कथमित्याशङ्कयाह -

स्वर्ग्यं यशस्यं धन्यं पुण्यं पुत्र्यं पशव्यं ब्रह्मवर्चस्यं स्मार्तमायुष्यम् ॥ १.१.३ ॥

एतद् ब्राह्मणाध्ययनमर्थज्ञानं वा स्वर्ग्यं स्वर्गाय हितं, यशस्यं यशसे हित, धन्यं धनाय हितं, पुण्यमदृष्टकरं, पुत्र्यं पुत्राय हितं, पशव्यं पशुभ्यो हितं, प्रथमः अध्यायः (१)

ब्रह्मवर्चस्यं श्रुताध्ययनजन्यं तेजः ब्रह्मवर्चसं, [तस्मै हितम् । ] स्मात स्मृतयः, अधीतानां वेदानां स्मरणानि तद्धेतुभूतम् । आयु यम् आयुष्करम् । एवमस्य ब्राह्मणाध्ययनस्य अनुष्ठानौपयिकस्य स्वातन्त्र्येण स्वर्गादिफलानां प्राप्ति धनत्वात् पुरुषप्रवृत्तिः सिद्धचतीत्यर्थः ॥ ३ ॥

अस्य ब्रामणस्याध्ययने किंचिद्धर्ममाह --

प्राक्प्रातराशिकमित्याचक्षते ॥ ४ ॥

प्रातराशः प्रातर्भोजनं, ततः प्रागेवाध्यया यस्य तत् [प्राक] प्रातगशिकन् । तथाविधमे तद् ब्राह्मणम् इत्याचक्षते कथयन्ति ब्रह्मवादिनः ॥ ४ ॥

उक्तं स्वातन्त्र्यफलवत्त्वं संवादेन द्रढयति ---

तदप्येवमाहुर्य इदमुपधारयत एकैकस्य ऋषेः दिव्यं वर्षसहस्रमतिथिर्भवति । अभिनन्दितः प्रतिनन्दितो मानितः पूजितस्ततः स्वाध्यायफलमुपजीवतति ॥ ५ ॥

तत्र पूर्वोक्तविषये ब्रह्मवादिनोऽप्येवमाहः । किमिति तदुच्यते । योऽध्येता इद मृषीणां नामधेयगोत्रादिकमुपधारयति स दिव्यं र्षमहस्त्रं धुसंबन्धि देवानां वर्षसहस्रम् । अत्यन्तसंयोगे द्वितीया । तत्कालपर्यन्तमेकैकस्य ऋपे: अतिथिर्भवति । ऋषिभिरभिनन्दितः उपलालितः । प्रतिनन्दितः प्रतिक्षणं नन्दितः । [मानितः] आार्ध्यादिभिः सत्कृतः । पूजते आर्षेयब्राह्मणम्

नमस्कारादिना अर्चितः सन् तत एवमृषिपूजानन्तरं च स्वाध्यायफलं नियमपूर्वमधीतवेदफलमुपजीवति लभते । इतिशब्दः संवादसमाप्त्यर्थः ॥ ५ ॥

          ऋष्यादिज्ञानमवश्यं कर्तव्यमित्यत्र ब्राह्मणान्तरं संवादयति -  

अथापि ब्राह्मणं भवति - "यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्तं वा पद्यति प्र वा मीयते पापीयान् भवति । यातयामान्यस्य छन्दांसि भवन्ति । अथ यो मन्त्रे मन्त्रे वेद सर्वमायुरेति श्रेयान् भवति । अयातयामान्यस्य छन्दांसि भवन्ति । तस्मादेतानि मन्त्रे मन्त्रे विद्यात्" इति ॥ ६ ॥

     यो ह वै यः खलु अविदितार्षेयच्छन्दोदैवतब्राह्मणेन आर्षेयमृषिसंबन्धि परिज्ञानं, छन्दो गायत्र्यादि, दैवतम् अग्न्यादिकं, ब्राह्मणं विनियोजकवाक्यम् । एतानि आर्षेयादीनि अविदितानि अज्ञातानि यस्य तादृशेन मन्त्रेण याजयति वाध्यापयति वा स याजकोऽध्यापयिता वा स्थाणुं स्थावरतां वा ऋच्छति प्राप्नोति । गर्तं वा श्वभ्रं वा पद्यति गच्छति । स्थाणुत्वं गर्तपातो वा तस्य प्राप्नो (भव?) तीत्यर्थः । अथ वा प्रमीयते म्रियते। मृङ् (मीञ् ?) हिंसायामिति धातुः । एवमार्षेयादिकमजानानो याजकोऽध्यापको वा पापीयान् भवति निकृष्टतरो भवति ॥ प्रथमः अध्यायः (१)

अपि चास्य छन्दांसि छन्दःसंयुक्तान्यधीत वेदवाक्यानि यातयामानि गतसानि नीर्वीयाणि भवन्ति । स्मृतिश्च भवति --

अविदित्वा ऋषिच्छन्दोदैवतं योगमेव वा ।

योऽध्यापयेज्जपेद्वापि पापीयान् स तु जायते ॥ इति ॥

इत्थं विपक्षे बाधकमुपन्यस्य अथ तत्परिज्ञानबलान्याह – अथ यो मन्त्र इत्यादिना छन्दांसि भवन्तीत्यन्तेन । अथ- शब्दः पूर्वोत्तरफलक्षण्यघोत नार्थः । यो याजको [अध्यापको] वा मन्त्रे मन्त्रे प्रतिमन्त्रं आर्षेयच्छन्दोदैवतानिब्राह्मणेन वेद जानाति सर्वं संपूर्णम् वर्षशतं आयुः जीवनलक्षणमेति प्राप्नोति । श्रेयान् प्रशस्यतमश्च भवति । अस्य वेदितुश्छन्दांसि अयातयामानि अगतसाराणि भवन्ति । यस्मादेवं तस्मादेतानि आर्षेयच्छन्दोदैवतब्राह्मणानि मन्त्रे मन्त्रे प्रतिमन्त्रं विद्यात् जानीयात् ॥ ६ ॥

इत्थं ब्राह्मणार्थाणपरिज्ञाने दोषं तत्परिज्ञाने च फलमुक्ता अथ। तद्वेदि [तुः] ऋषिब्राह्मणादिसालोक्यं पुनर्जन्मनि जातिस्मरत्वं [च] आह--

ऋषीणां सस्थानः भवति । स्थानः भवति ब्रह्मणः । स्वर्गे लोके भवति। स्मरन्नाजायते पुनः । य एवं वेद ॥ ७ ॥

सान्नामार्षेयं नाम एवं वक्ष्यमाणप्रकारेण यो वेद जानाति स ऋषीणां आर्षेयब्राह्मणम्

सोमादीनां संस्थानः समानस्थानो भवति । ते येषु लोकेषु निवसन्ति अयमपि वेदिता तेषु लोकेषु निवसेदित्यर्थः। तथा ब्रह्मणः प्रजापतेः संस्थानः समानस्थानो भवति । स्वर्गे लोके च महीयते पूज्यते। पूर्वजन्मानि हि स्मरन् पुनराजायते स्मरन्नेव​ सन् उत्पद्यते इत्यर्थः ॥ ७ ॥

अथास्य ब्राह्मणस्याध्येतुः फलमाह -

तान्येतान्यार्षेयाणि योऽधीते ब्राह्मणः पङ्क्तिपावनो भवत्यर्घ्यः ॥ ८ ॥

तानि पूर्वं सामान्येनोक्तानि एतानि विस्तरतोऽग्रे पृथक् पृथक् वक्ष्यमाणानि ऋषिसंबन्धीनि साम्नां नामधेयानि योऽधीते पठति ब्राह्मणः [सः] पङ्क्तिपावनः पङ्क्तिः एकत्र भुञ्जानानां ब्राह्मणानां समष्टिः तां पुनाति शुद्धयति । येन तथाविधो भवति । अर्घ्यः अर्घार्हः पूजार्हश्च भवति ॥ ८ ॥

एतद्ब्राह्मणमधीयानस्य किंचिद्बतमुपदिशति -

य एवंवित्स्यान्न मृन्मये भुञ्जीत । तथा हास्यायुर्न रिष्येत तेजश्च ॥ ९ ॥

य एवंवित् वक्ष्यमाणप्रकारेण आर्षेय​ब्राह्मणस्यार्थं वेद लब्धवान् स्यात् भवेत् स मृन्मये मृद्विकारे पात्रे न भुञ्जीत। तथा ह तथा सति अस्य अधीयानस्य आयुर्न रिष्येत न विनश्येत् । प्रवर्धेतेत्यर्थः । तेजश्व ब्राह्मं शरीरं वा न रिष्येत । एतदर्थमेतद्ब्राह्मणाध्ययनम् ॥ ९॥ प्रथमः अध्यायः (१)

वेदितव्यं फलं चोपन्यस्य यत् प्रतिपाद्यमथ तत् प्रतिजानीते -

अथात उपदेशः ॥ १० ॥ अथ - शब्दः प्रकृतब्राह्मणानन्तर्यार्थः । अतः शब्दो हेत्वर्थः । यत एतद्राह्मणाध्ययनमन्तरेण साम्नामार्षेयनामानि न ज्ञायन्ते अतो हेतोस्तेषामुपदेशः कियत इति शेषः ॥ १० ॥

अथ प्रणवस्य वेदत्रयसारत्वादादावन्ते च सर्वत्र प्रयोक्तव्यत्वाच्चाङ्गरूपत्वेन च साम्नामादौ प्रयोक्तव्यत्वात् ओमित्युद्गायतीत्युद्गानरूपतया गानाञ्च तस्य तावदार्षेयं नाम दर्शयति ----

ओमिति एतत् परमेष्ठिनः प्राजापत्यस्य साम । परमेष्ठिनो वा ब्राह्मणस्य ब्रह्मणो वा ब्रह्मवाचो वा ॥ ११ ॥

ओमित्येतत् प्राजापत्यस्य प्रजापतिर्हरिस्तत्पुत्रस्य परमेष्ठिनः संबन्धि साम । अनेन दृष्टत्वात् परमेष्ठिनः सामेत्यर्थः। अथवा ब्राह्मणस्य ब्राह्मणः (ब्रह्मा ?) सर्वजगत्कारणं परमात्मा तस्य पुत्त्रस्य परमेष्ठिनः स्वभूतं साम । यद्वा । ८ आर्षेयब्राह्मणम्

ओमित्येतत् ब्रह्मण एव तत्साम । अथवा ब्रह्मवाचः ब्रह्मैव वाक् तस्य शब्दब्रह्मणः संबन्धि । एवं बहूनामृषीणां संबन्धप्रतिपादनादेषामन्यतमस्य नाम्नाङ्कितमेतत् प्रणवाख्यं सामेत्यर्थः ॥ ११ ॥

एवं व्याहृतिसाम्नामाषे॔यं [नाम] दर्शयति -

सत्यसाम स्वर्गस्य वा लोकस्य द्वारविवरणं देवानां वौकस्त्रयस्य वा वेदस्याप्यायनमयातयामाक्षरस्थं साम ॥ १२॥

यदेतत् व्याहृतिषु गीयमानं साम तत् सत्यसाम । सत्यभूतस्य प्रजापतेरभिधायकत्वात् सत्यसामेत्याचक्षते । यद्वा स्वज्‍ययाे॔तिरिति स्वःशब्दस्य दर्शनात् स्वर्गस्य वा लोकस्य द्वारविवरणम् । द्वारं वित्रियते उद्घाट्यतेऽनेनेति व्युत्पत्तिः । यद्वा व्याहृतित्रयस्य त्रयीसारत्वात् सकलवेदप्रतिपाद्यानां देवानामोकः स्थानम् । तेषां सर्वेषामोकः [इत्यर्थः] । स्थानवाचकत्वेनावाप्यस्याधिगमात् स्थानत्वोपचारः । यद्वास्य भूरादिलोकत्रयवाचकत्वात् तद्वा स्थानम् । अथवा त्रयस्य त्रिविधस्य अग्निवाय्वादित्यात्मकस्य वेदस्याप्यायनं प्रवचनं तच्च व्याहृतिसामायातयामाक्षरस्थम् । अगतसारेषु अक्षरेषु स्थितम् । ऋग्वेद प्रथमः अध्यायः (१) ९

एव अग्नेरजायतेत्युपक्रम्य ऐतरेयके भूरित्येव ऋग्वेदादजायत भुव इति यजुर्वेदात् स्वरिति सामवेदाद् (ऐ. ब्रा. ५.३२.) इति प्रतिपादितम् । अस्मद्राह्मणमपि (°णेऽपि?) ॥ १२ ॥ अथ सर्वसाधारणस्य हिंकारस्य ऋषिसंबन्धमाह -

वासिष्ठो हिंकारः प्राजापत्यो गवां वा ॥ १३ ॥

वासिष्टो वसिष्ठेन दृष्टः । प्राजापत्यः प्रजापतिना दृष्टः । गोशरीराभिमानिनो देवा गावः, तेषां वा संबन्धी हिंकारः ।। १३ ॥ अथ तत्सवितुर्वरेण्यमित्यस्यां गीयमानस्यार्षेयं नाम दर्शयति -

गायत्रं पौष्कलमाग्नेयम् ॥ १४ ॥

गायत्र्यामुत्पन्नत्वादस्य गायत्रमिति संज्ञा । पौष्कलं, पुष्कलो नाम ऋषिः तेन दृष्टम् । तथा आग्नेयम् अग्निसंबन्धि । एवमेतन्नाम । तत्सवितुर्वरेण्यम् (सा. १४६२.) इति साम्न इत्यर्थः ॥ १४ ॥

अनिरुक्तं गेयम् ( तां.ब्रा.६.१.८) इति श्रुत्या तस्य गायत्रस्य सर्वत्रानिरुक्तगानं प्राप्तम् । विषयविशेषे तद्बाधितुमाह -

प्रथमायां वा यथादिष्टं गेयम् । प्रथमस्वरैर्वा चतुरक्षरवृडान्तैः ॥ १५ ॥

यथादिष्टं यथा आदिश्यतेऽधीयतेऽध्ययनसमये तथैव प्रथमायां गेयम् ॥ १५ ॥

अथास्य साम्नः प्रस्तावस्य परिमाणमाह -

आद्यपात् प्रस्ताव ओंकारान्तः ॥ १६ ॥ १० आर्षेयबाह्मणम्

ओंकारान्त आद्यपात् प्रस्ताव इत्यर्थः । स तूच्यते हि गायत्रस्य पादेन प्रस्तावः सर्वत्राष्टाक्षरेणेति धनंजय इति ॥ १६ ॥

अस्य सान्नोऽवसाने दायो आ इति पठ्यते । तद्विषये किंचिदाह -

हुम् आ वेत्यन्तस्तोमो वृद्धो वा ॥ १७ ॥

हुम् आ इति तत्रायमन्तस्तोमः । गायत्रसाम्नोऽन्ते प्रयुज्यमानः स्तोभो वा वृद्धो वा। आर्चिकमक्षरमेवैतद्रूपेण परिणतं न स्तोभ इति । वेति अस्य साम्नः स्तोभत्वं वैकल्पिकम् । अत उत्तरासु यत्र गानमतिदिश्यते तत्र स्तोभपक्षे हि आ वेत्यन्ते प्रयोक्तव्यम् । इतरथा आर्चिकमेवाक्षरमेवंरूपम् ॥ १७ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षयब्राह्मणे प्रथमाध्यायस्य प्रथमः खण्डः ॥ १ ।। द्वितीयः खण्डः

अथ सामवेदच्छन्द:साम्नां च बहवो ऋषयः । ऋगाश्रितत्वेन नानासामानि गीतानि । तेषाम् ऋषिसंबन्धं दर्शयति --

गोतमस्य पर्कावभितः। कश्यपस्य बर्हिष्यं मध्यमम् ॥१.२.१॥

अग्न आयाहि वीतय (सा. १) इत्यस्यामाद्यायामृचि सामत्रयमुत्पन्नम्। तत्र प्रथमम् ओग्नाई (ग्राम. १.१.१.१) इत्यादिकं चतुर्थस्वरादिकं साम गोतमपर्कनामधेयम् । पर्कः पृची संपर्के इत्यस्माद्धातोः घञ् कः । दर्शने संबन्धः । तेन दृष्टमित्यर्थः । द्वितीयम् अग्न आयाहीवी (ग्राम. १.१.१.२) इत्यादि चतुर्थमन्द्रस्वरादिकं कश्यपस्य बर्हिष्यनामकम् । बर्हिषि यज्ञे साध्यं बर्हिष्यम् , तेन दृष्टम् । तृतीयमग्न आयाहि । वा इतयाइ (ग्राम.१.१.१.३) इत्यादिकं चतुर्थमन्द्रस्वरादिकं गोतमस्य पर्कः ॥ १ ॥

सौपर्णं च वैश्वमनसं च ॥ १.२.२ ॥

त्वमग्ने यज्ञानाम् (सा. २) इत्यस्यामेकं सामोत्पन्नम् । त्वमग्ने यज्ञानाम् (ग्राम. १.१.२.१) इति चतुर्थमन्द्रादिकं तत् सौपर्णम् । यज्ञः सुपर्णरूपः तत्संबन्धि । तस्येदमित्यण् । यज्ञो वै देवेभ्योऽपाक्रामत् । स१२ आर्षेयब्राह्मणम्

सुपर्णरूपं कृत्वाचरत् (तां. ब्रा. १४. ३. १०) इति ब्राह्मणम् । यद्वा सुपर्णो नाम ऋषिः । तेन दृष्टम् । सुपर्णशब्दात् दृष्टं सामेत्यणप्रत्ययः । चकारो वाक्यभेदद्योतनार्थः । वैश्वमनसं चेति । विश्वमनसः संबन्धि । वैश्वमनसं भवति । विश्वमनसं वा ऋषिमध्यायमुद्रजितं रक्षोऽगृह्णात् (तां. ब्रा.१५. ५.२०) इति हि ब्राह्मणम् । एतन्नामकर्षिसंबन्धि साम ॥ २ ॥

बृहद्भारद्वाजं बृहदाग्नेयं बृहद्वा सौरम् ॥ १.२.३ ॥

अग्निं दूतम् (सा. ३) इत्यस्यामेकं सामोत्पन्नम् । तद् अग्नि दृतम् (ग्राम. १.१.३.१) इति मन्द्रस्वरादिकम् । अत्र ऋषिदेवताभेदेन विकल्पत्रयम् दर्शयति- बृहद्भारद्वजं बृहदाग्नेयं बृहद्वा सौरमिति। वा-शब्दः पक्षान्तराभिधायकः। भरद्वाजसंबन्धि बृहन्नामकं वा सूर्यदेवताकं बृहन्नामकं वा साम । अमिसूर्ययोर्मेदाभावादिति तृतीयः पक्ष आश्रितः ॥ ३ ॥

श्रौतर्षाणि त्रीणि ॥ ४ ॥

अग्निवृत्राणि (सा. ४) इत्यस्यामृचि सामत्रयमुत्पन्नम् । तत्र अनिवृत्रा (प्राम. १. १.४.१) इत्यादिकं क मन्द्रस्वरादिकं [प्रथमम् ] | द्वितीयम् अग्निरौहोवाहाइ (ग्राम. १.१.४.२) इति तृतीयस्वरादिकम् । तृतीयम् ओग्नीः (ग्राम. १. १. ४. ३) इति चतुर्थस्वरादिकम् । [ए-] तानि श्रौतर्षाणि ॥ ४ ॥

औशने च शैरीषं चौशने वाभितः शैरीषं मद्ध्यमं शैरीषे वोत्तरे सर्वाणि वौशनानि सर्वाणि वा शैरीषाणि ॥५॥

[प्रेष्ठं वो (सा. ५) इत्यस्यां सामत्रयमुत्पन्नम् । तत्र] आधद्वितीये सामनी औशने उशनसा दृष्टे । दृष्ट सामेत्यणप्रत्ययः । तृतीये (य?) तु प्रेष्ठं वो हा उ (ग्राम. १. १.५.३) इत्यादिकम् मन्द्रस्वरादिकं शैरीषम् । एतन्नाम प्रथमः अध्यायः (२) १३

कम् । अत्र उतनामविपर्ययेण चतुरो विकल्पान् दर्शयति – औशने वाभितः शैरीषं मद्धयमं शैरीपे वोत्तरे सर्वाणि चौशनानि सर्वाणि च शेरीपाणीति । वाशब्दः पक्षान्तरद्योतनार्थः । प्रथमतृतीये सामनी औशने एतन्नामके । मध्यमं द्वितीय शैरीषनामकम् । वा अथवा इत (उत्त!) रे द्वितीयतृतीये सामनी शैरीपनामधेये । प्रथमं त्वौशनमित्याल्लभ्यत इति नोक्तम् । सर्वाणि त्रीणि सामानि औशनानि उशनसा दृष्टानि । यदा सर्वाणि वा शैरीषाणि । एतैर्नामविकल्पैर्व्यवहारः प्रयोगान्तरेषु द्रष्टव्यः ॥ ५ ॥

इन्द्रस्य सांवर्गवार्त्रघ्ने द्वे ॥ ६ ॥

त्वं नो अग्ने महोभिः पाहि (सा. ६) इत्यस्यां सामद्वयमुत्पन्नम् । तत्र त्वं नो या (ग्राम. १. १.६.१) इत्यादिकं प्रथमं मन्द्रस्वरादिकं मांवर्गनामकम् , [त्वां] त्वं नो अग्ने म (ग्राम. १. १. ६.२) इत्यादि चतुर्थमन्द्रस्वरादिकं द्वितीयमिन्द्रवार्त्रघ्ननामधेयम् ॥ ६॥

साकमश्वस्य शौनःशेपेः सामनी द्वे ॥ १.२.७ ॥

एहयूषु ब्रवाणि त (सा. ७) इत्यस्यां सामद्वयमुत्पन्नम् । एहयूषु ब्रवाणा इताइ (ग्राम. १.१. ७.१) इत्यादि मन्द्रद्वितीयस्वरादिकं प्रथमम् । एहयूषुब्रवौहोणाइताइ (ग्राम. १. १. ७. २) इत्यादि मन्द्रस्वरादिकं द्वितीयम् । एते द्वे शुनःशेपपुत्रस्य साकमश्वस्य संबन्धिनी सामनी । अत्र ब्राह्मणम् - साकमश्वेनाम्यक्रामन् । यत् साकमश्वेनाभ्यक्रानंस्तस्मात् साकमश्वमिति ॥ ७॥ १४ आर्षेयब्राह्मणम्


वत्सस्य काण्वस्य सामनी द्वे ॥ ८ ॥

आ ते वत्सो मनो यमत् (सा. ८) इत्यत्र सामद्वयमुत्पन्नम् । अत्र आ ते वत्साः (ग्राम. १. १. ८. १) इत्यादि मन्द्रस्वरादिकं प्रथमं साम वत्सस्य साम । आ ते वत्सो मनो यमत् (ग्राम. १. १. ८. २) इति चतुर्थमन्द्रस्वरादिकं द्वितीयम् । [एते द्वे] कण्वनामक [स्य] ऋषेः पुत्रस्य वत्सनामकस्य स्वभूते सामनी ॥ ८ ॥

अग्नेश्च वैश्वानरस्यार्षेयम् ॥ ९॥

त्वमाग्ने पुष्करादधि (सा. ९) इत्यस्यामेकं सामोत्पन्नम् । त्वामग्ने पूष्कारादधी (ग्राम. १. १. ९. १) इत्यादि मन्द्रादिकं साम अग्नेरार्षेयनामकम् । अस्य साम्नोऽग्नि्र्द्ष्टेत्यर्थः ॥ ९॥

सुमित्रस्य च वाध्र्यश्वेः साम ॥ १० ॥

अग्ने विवस्वदा भर (सा. १०) इत्यत्रैकं सामोत्पन्नम् । तच्च अग्ने विवस्वदाभरो वाहाइ (ग्राम. १. १. १०. १) इत्यादि चतुर्थमन्द्रस्वरादिकम् एकं साम । वाध्यश्वनामकस्य ऋषेः पुत्रस्य [सु] मित्रस्य स्वभूतं साम । तेन दृष्टम् ॥ १० ॥

अत्र ऋषिविकल्पं दर्शयति ---

वाध्र्यश्वस्य वानूपस्य ॥ ११ ॥

वा-- शब्दो विकल्पार्थः । अनृपशब्दाद् अपत्यार्थे ऋष्यन्धकं - (पा. ४. १. ११४) त्यण् । अनृपनामकस्य ऋषेः पुत्रस्य वाध्यश्वस्य साम ॥ ११ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आषेयब्राह्मणे प्रथमाध्याये द्वितीयः खण्डः ॥ २॥ तृतीयः खण्डः

अग्नेः संवर्गः ॥ १ ॥

नमस्ते अग्न ओजसे (सा. ११) इत्यस्यामृचि एकं सामोत्पन्नम् । नमस्तौ होग्नाइ (ग्राम. १.२. ११.१) इत्यादि चतुर्थमन्द्रादिकं अग्नेः संवर्गनामकम् ॥ १॥

वैश्वमनसं च ॥ १ ॥

दूतं वो विश्ववेदसम् (सा. १२) इत्यस्यामृचि एकं सामोत्पन्नम् । दूतां वो विश्ववेदसाम् (ग्राम. १ . २ . १२ . १) इत्यादि मन्द्रचतुर्थतृतीयादिकं साम वैश्वमनसं विश्वमनसः संबन्धि ॥ २ ॥

श्नाभाश्नौष्टीये द्वे ॥ ३ ॥

उप त्वा जामयो गिर (सा. १३) इत्यस्यां सामद्वयं समुत्पन्नम् । तद् उप त्वाजा (ग्राम. १.२.१३. १) इत्यादि मन्द्रम्वरादिकं प्रथमम् , उप त्वाजामायो गिराः (ग्राम. १.२.१३.२) इत्यादिकं मन्द्रादिकं द्वितीयम् । एते द्वे क्रमेण श्राभाश्राष्टीयनामके भवतः ॥ ३ ॥

वैश्वामित्रं च ॥१.३.४॥

उप त्याग्ने दिवे दिव (सा. १४) इत्यत्रैकं [साम] उत्पन्नम् । उपा त्वाग्ने दिवे दिवाइ (ग्राम. १. २. १४.१) इत्यादि द्वितीयक्ष्टाक्रुदिकमेकं साम वैश्वामित्रं विश्वामित्रेण दृष्टम् ॥ ४ ॥

अग्नेर्जराबोधीये द्वे ॥ ५॥

जराबोध तद्विविड्डि (सा. १५) इत्यस्यां सामद्वयमुत्पन्नम् । तत्र १६ आयब्राह्मणम्

जरा बोधा (ग्राम. १. २. १५. १) इत्यादि चतुर्थमन्द्रादिकं प्रथमम् । जग बोधो वा (ग्राम. १. २. १५. २) इत्यादि मन्द्रचतुर्थादिकं द्वितीयम् । एते द्वे अग्नेः संबन्धिनी जराबोधीयनामके । जराबोधशब्दस्तयोः साम्नोरस्तीत्यर्थे मनौ छः सूत.सान्मोः(पा. ५.२. ५९) इति मत्वर्थीयश्छप्रत्ययः ॥ ५ ॥

तत्र विकल्पेन देवतासंबन्धं दर्शयति ---

रुद्रस्य वा ॥ १.३.६ ॥

वा- शब्दः पक्षान्तरवाची । अथवा रुद्रस्य स्वभूते जराबोधीये भवतः ।। ६ ।।

मारुतं च ॥ १.३.७ ॥

प्रति त्यं चारुमध्वरम् (सा. १६) इत्यत्र एकं सामोत्पन्नम् । प्रतित्याश्चारुमध्धराम् (ग्राम. १. २. १६. १) इति द्वितीयक्रुष्टादिकं मारुतं मरुतां संबन्धि ।। ७॥

भार्गवे द्वे शौन:शेपे वेन्द्रस्य वारवन्तीयं तृतीयं सर्वाणि वा भार्गवाणि सर्वाणि वा शौनःशेपानि सर्वाणि वा वारवन्तीयानि ॥ १.३.८ ॥

अश्वं न त्वा वारवन्तम (सा. १७) इत्यस्यामृचि सामत्रयमुत्पन्नम् । तत्र आश्वा औ हो वा (ग्राम. १. २. १७. १) इति क्रुष्टद्वितीयादिकं प्रथमम् । अश्वन्नत्वावारवन्ताम् (ग्राम. १. २. १७. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । ते उभे भार्गवे भृगुनाम्ना ऋषिणा दृष्टे । वा यद्वा शौनःशेपे शुनःशेपेन दृष्टे । मन्त्रद्रष्टा शुनश्शेपः । सामद्रष्टा भृगुः । मन्त्रद्रष्टा सामद्रष्टेति ऋषिविकल्पः । तृतीय तु अश्वन्नत्वा औहोहाइ (ग्राम. १. २. १७. ३) इति प्रथमः अध्यायः (३) १७

मन्द्रचतुर्थस्वरादिकं इन्द्रस्य स्वभूतं वारवर्न्तयनामकं साम । वारवन्तशब्दोपेतमित्यर्थः ॥ ८॥

और्वस्य वैधारयस्य सामनी द्वे । अग्नेर्वा सामुद्रे । समुद्रस्य वा वाससी ॥ ९॥

[और्वभृगुवच्छुचिम् (सा. १८) इत्यत्रामृचि सामद्वयमुत्पन्नम् । तत्र और्वभृगुवद् ओहाइ (ग्राम. १. २. १८. १) इत्यादि मन्द्रचतुर्थस्वरादिकं प्रथमम् । और्वभृगुवच्छुचिम् (ग्राम. १. २. १८. २) इत्यादि मन्द्रचतुर्थमन्द्रस्वरादिकं द्वितीयम् । ते उभे उर्वनामकस्य ऋषेः पुत्रस्य वैधारयस्य स्वभृते सामनी। वा यद्वा अग्नेः संबन्धिनी सामुद्रनामके । वा अथवा समुद्रस्य वाससी एतन्नामधेयके ॥ ९॥]

अत्रेश्वासङ्गः ॥ १० ॥

[अग्निमिन्धान (सा. १९) इत्यत्रैकं सामोत्पन्नम् । अग्निमिन्धानो मनसौ हौहोवाहाइ (ग्राम. १.२.१९१.) इत्यादि मन्द्रचतुर्थमन्द्रस्वरादिकम् अत्रेः स्वभूतम् आसङ्गनामकं साम ॥ १०॥]

प्रजापतेश्च निधनकामम् ॥ ११ ॥

[आदिन्प्रत्नस्य रेतस (सा. २०) इत्यत्रैकं सामोत्पन्नम् । आदित्प्रत्नाग्यरेतसाः (ग्राम. १.२.२०.१.) इत्यादि चतुर्थस्वरादिकं प्रजापतेः संबन्धि निधनकामनामधेयकम् ॥ ११ ॥]

इति श्रीसायणाचार्यविरचिते माधवी ये सामवेदार्थप्रकाशे आर्येयब्राह्मणे प्रथमाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ चतुर्थः खण्डः


सैन्धुक्षितानि त्रीणि ॥१॥

[अग्नि वो वृधन्तम् (सा. २१) इत्यस्यामृचि सामत्रयमुत्पन्नम् । तत्र अग्निं वो वृधान्ताम् (ग्राम. १.३.२१.१.) इति मःद्रचतुर्थमन्द्रस्वरादिकम् प्रथमम् । अग्निं वाए (ग्राम. १.३.२१.२.) इति मन्द्रमन्द्रादिकम् द्वितीयम् । अग्निं वः (ग्राम. १.३.२१.३.) इति मन्द्रचतुर्थमन्द्रादिकं द्वितीयम् । तानि त्रीणि सैन्धुक्षितानि । सिन्धुक्षिन्नाम ऋषिस्तेन दृष्टानि इत्यर्थः ।। १ ॥]

अग्नेर्हरसी द्वे । इहवद्धामदेव्यं तृतीयम् ॥ १.४.२॥

[अग्निस्तिग्मेन (सा. २२.) इत्यत्र सामत्रयमुत्पन्नम् । तत्र आग्ना ओवा (ग्राम. १.३.२२.१.) इति क्रुष्टद्वितीयत्वरादिकं प्रथमम् । ओहा ओग्नी: (ग्राम. १.३.२२.२.) इति चतुर्थमन्द्रस्वरादिकं द्वितीयम् । ते द्वे अग्नेः संबन्धिनी हरसी एतन्नामधेये । अग्निस्तिग्मेन शोचिपा (ग्राम. १.३.२२.३.) इति मन्द्रचतुर्थस्वरादिकं तृतीयं साम इहद्वा पदव्यनामकम् ।। २ ॥]

यामे द्वे ॥ ३ ॥

अग्ने मृडमहाँ असि (सा. २३.) इत्यस्यामुत्पन्नम् सामद्वयम् । तत्राद्यम् [अग्नाइमृडा (ग्राम. १.३.२३.१.) इति] क्रप्तस्वरादिकम् । अग्नेमृडमहाँ असि (ग्राम. १.३.२३.२.) इति तृतीयचतुर्थस्वरादिकं द्वितीयम् । ते द्वे यामे। यमः पार्थिवोऽग्निः । तद्देवताके । साम्य देवता (पा. ४.२.२४.) इत्य ॥ ३ ॥

अग्ने रक्षोन्धे द्वे ॥४ ॥

अग्ने रक्षा णो अंहसः (सा. २४.) इत्यत्रैकम् सामोत्पन्नम् । अग्नेरक्षाणो अहसाः (ग्राम. १.३.२४.१.) इति मन्द्रद्वितीयतृतीयादिक साम । प्रथमः अध्यायः (४) १९

अग्ने युवा हि ये तव (सा. २५.) इत्यत्रैकसामोत्पत्तिः। अग्ने यूक्ष्वा (ग्राम. १.३.२५.१.) इति मन्द्रद्वितीयतृतीयस्वरादिक साम । ते उभे उभयाश्रिते सामनी अग्ने ग्क्षोने एतन्नामके ॥ ४ ॥

वैश्वमनसं चाग्नेश्वार्षेयम् ॥ १.४.५ ॥

नि त्वा नक्ष्य विश्पते (सा. २६.) इत्यत्रैक सामोत्पन्नम् । नित्वाहोइ (ग्राम. १.३.२६.१.) इति मन्द्रद्वितीयादिकं वैश्वमनसं विश्वमनसा दृष्टम् । चकारो वाक्यान्तरद्योतनार्थः ॥ अग्निमर्धा (सा. २७.) इत्यत्रैकं साम । अग्निर्मुदीवः ककूत (ग्राम. १.३.२७.१.) इति मन्द्रमन्द्रादिकम् अग्नेगर्षेयम् । अग्निरस्य सानो द्रष्टेत्यर्थः ॥ ५ ॥

सोमसाम च ॥ १.४.६॥

इममू षु त्वमस्माकम् (सा. २८) इत्यस्यामेकं सामोत्पन्नम् । इममूषु (ग्राम. १.३.२८.१.) इति मन्द्रादिकं सोमसामनाम ॥ ६ ॥

गौपवनं च ॥ १.४.७॥

तं त्वा गोपवनो गिरा (सा. २९.) इत्यत्रैक सामोत्पन्नम् । तंत्यागोपा (ग्राम. १.३.२९.१.) इति मन्द्रादिकमेक साम गौपवनसंज्ञकम् ॥ ७ ॥

सूर्यसामनी च ॥ १.४.८ ॥

परि वाजपतिः (सा. ३०.) इट त्रैक सामोत्पन्नम् । पय (ग्राम. १.३.३०.१.) इलि चतुर्थमन्द्रादिकमेकं साम । उदु त्यं जातवेदसम् (सा. ३१.) इत्यत्रैकं सामोत्पन्नम् । उदुत्यम (ग्राम. १.३.३१.१.) इति चतुर्थमन्द्रादिकमेकं साम। ते उभे ऋन्द्रयाश्रिते मूर्यस्य मामनी भवतः ॥ ८॥ २० आर्षेयब्राह्मणम्


कावं च वसुरोचिषः ॥ ९ ॥

कविमग्निमुप स्तुहि (सा. ३२.) इत्यस्यामेकमुत्पन्नम् साम। कविमग्नीम् (प्राम. १.३.३२.१.) इति मन्द्रस्वरादिकं साम वसुरोचिषः एतन्नामकस्य ऋषेः स्वभूतम् । कावं कविशब्दोपेतपदमेतन्नाम ॥ ९॥

सूर्यवर्चसः सामनी द्वे ॥ १० ॥

शं नो देवीरभिष्टये (सा. ३३) इत्यस्यां सामद्वयमुत्पन्नम् । शन्नो देवीः (ग्राम. १. ३. ३३. १) इति मन्द्रस्वरादिकमाद्यम् साम । हुवा होइ शन्नो देवीः (ग्राम. १. ३. ३३. २) इति तृतीयद्वितीयक्रुष्टादिकं द्वितीयम् । ते उभे सूर्गवर्चमः स्वभूते सामनी ॥ १० ॥

अत्र ऋषिविकल्पमाह -

वसुरोचिषो वा पारावतेः काशीते वा कापोते वा वासुमन्दे वा ॥ ११॥

वा- शब्दः पक्षान्तरवाची । उक्ते द्वे सामनी पारावतपुत्रस्य वसुरोचि- र्नामकस्य ऋषेः संबन्धिनी । काशीते वा। वाशीतो नाम ऋषिः । कापो11-भिधेये वा। वसुमन्दो नाम ऋषिः । तस्य स्वभूते वा ॥ ११ ॥ गोराङ्गिरसस्य सामनी द्वे ॥ १२ ॥

कस्य नूतं परीणसि (सा. ३४) इत्यत्र सामद्वयमुत्पन्नम् । कस्यानूनाम् (१.३.३४.१.) इति क्रुष्टद्वितीयादिकं प्रथमम् । ओ (औ?) होइ हुवाइ । हुवए प्रथमः अध्यायः (४) २१

                               कस्य नूनां पारीणसि (ग्राम. १.३. ३४. २) इति द्वितीयतृतीयक्रुष्टादिकं 
                               द्वितीयम् । एते द्वे अङ्गिरःपुत्रस्य गोः, गुरिति ऋषिः, तस्य संबन्धिनी सामनी 
                               भवतः ॥ १२ ॥
                                   अत्त्रैव ऋषिसंज्ञाविकल्पमाह -
                                     गोतमस्य वा मनाज्ये ॥ १३ ॥                         5 
                                    अथवा गोतमस्य स्वभूते मनाज्ये एतन्नामके भवतः ॥ १३ ॥ 
                                इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणे 
                                           प्रथमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥              8 पञ्चमः खण्डः 

भरद्वाजस्यौपहवौ द्वौ श्नौष्टोगवं तृतीयमग्नेर्वैश्वानरस्य यज्ञायज्ञीयम् ॥ १.५.१॥

यज्ञायज्ञा वो अग्नये (सा. ३५) इत्यस्यां चत्वारि सामान्युत्पन्नानि । तत्र यज्ञायज्ञा (ग्राम. १. ४. ३५.१) इति मन्द्रस्वरादिकं प्रथमम् । यज्ञायज्ञा (ग्राम. १. ४. ३५.२) इति चतुर्थतृतीयचतुर्थमन्द्रादिकं द्वितीयम् । ते द्वे सामनी भरद्वाजस्य संबन्धिनी उपहवौ एतन्नामके । हृञ् स्पर्धायाम् ! ह्वः संप्रसारणं च न्यभ्युपविपु (पा. ३.३.७२) इति एतत्संयोगेन संप्रसारणम् ॥

याज्ञायाज्ञा (ग्राम. १.४.३५.३.) इति क्रुष्टद्वितीयादिकं तृतीयं साम नौष्टीगवम् । शुष्टीगुर्नाम ऋषिः तेन दृष्टम् । यज्ञायेति चतुर्थतृतीयादिक चतुर्थं साम दैश्वानराख्यस्याग्नेः स्वभूतम् । यज्ञायज्ञीयं यज्ञायज्ञापदोपेतमेतन्नामकम् । देवा चै ब्रह्म [व्यमजन्त तस्य यो रसोऽत्यरिच्यत तद् ] यज्ञायज्ञीयम् [अ] भवत् (ता. बा. ८.६.१.) इति ब्राह्मणमनुसंधेयम् ॥ १॥

अस्यैव ऋषिसंबन्धिनाम दर्शयति ----

भरद्वाजस्य वा ॥ १.५.२॥

भरद्वाजस्य ऋषेः संबन्धि यज्ञायज्ञीयं साम । यज्ञायज्ञाशब्दात् मतौ छः मूक्त साम्नोः (पा. २.२.५९.) इति छः ॥ २ ॥ प्रथमः अध्यायः (५) २३

कार्तयशं च कार्तवेशं वा नार्मेधं च कार्तवेशं चैव ॥ १.५.३॥

पाहि नो अन्न एक या (सा. ३६.) इत्यस्यां सामत्रयम् । तत्र पाहि नो अग्न एकया (ग्राम. १.४.३६.१.) इति मन्द्रद्वितीयादिकं प्रथम कार्तयशनामकम् । अथवा कार्तवेशनामकम् । पाहिनो अग्नएकयाए (ग्राम. १.४. ३६.२.) इति मन्दमन्द्रादिक द्वितीय नार्मेधम् । नृमेधो नाम ऋषिः । तत्संबन्धि । तथा ब्राह्मणम् – नृमेधमाङ्गिरसं सत्रमासीनं श्वभिरभ्याह्वयन्। सोऽग्निमुपाधावत् । पाहि नो अग्न एकवेति । तं वैश्वानरः पर्युदतिष्ठत् (ता. बा. ८.८.१२.) इत्यादि । पाहि नो अग्नए (ग्राम. १:४.३६.३.) इति चतुर्थतृतीयादिकं तृतीय साम कासवेशम् [एतन्नामकमेव ॥ ३ ॥

भरद्वाजस्य पृश्निनी द्वे ॥ १.५.४ ॥

बृहद्भिरग्ने अर्चिभिः (सा. ३७.) इत्यत्र सामद्वयम् । बृहाद्धीग्ने अचिंभिर्हाउ (ग्राम. १.४.३७.१.) इति द्वितीयक्रुष्टादिकम् । बृहद्भिरग्ने अर्चिभीरे (ग्राम. १.४.३७.२.) इति मन्द्रादिकम् । एते द्वे भरद्वाजस्य पृश्निनी। एतन्नामके । तथा ब्राह्मणम्-भरद्वाजस्य पृश्न्यच्छावाकस्य साम भवति । अन्नं वै देवाः पृश्नीति वदन्ति (तां. बा. १२.१०.२४-५.) इति ॥ ४

उरोराङ्गिरसस्य साम ॥ १.५.५॥

त्वे अग्ने स्वाहुत (सा. ३८.) इत्यत्रैकं सामोत्पन्नम् । त्वेआग्नेवाहुतहाउ (ग्राम १.४.३८.१.) इति क्रुष्टद्वितीयादिकम् आङ्गिरसस्य अङ्गिरसः पुत्रस्य उरोः साम ॥ ५॥ आर्षेयब्राह्मणम्

गोतमस्य पौरुमद्ने द्वे । पुरुमद्गस्य वाङ्गिरसस्य ॥ १.५.६ ॥ ।

अग्ने जरितविश्पतिः (सा. ३९.) इत्यत्र सामद्वयम् । अग्नेजरित. विश्पतिः । औहोवा (साम. १.४.३९.१.) इति चतुर्थमन्द्रादिकं प्रथमम् अग्ने जरितर्वि (ग्राम. १.४.३९.२.) इति तृतीयचतुर्थादिकं द्वितीयम् । एते द्वे गोतमस्य पौरुमद्ने । अत्र ब्राह्मणम् – देवाश्च वा असुराश्च अस्पर्धन्त । ते देवा असुगणां पौरुमद्देन पुरोऽमज्जयम् । यत् पुरोऽमज्जयन् तस्मात् पौरुमद्गम् (ता. ब्रा. १२.३.१४.) इति । यद्वा आङ्गिरसस्य पुरुमद्गस्य सामनी ॥ ६ ॥

मण्डोर्जामदग्न्यस्य सामनी द्वे माण्डवे वा ॥ १.५.७ ॥

अग्ने विवस्वदुषसः (सा. ४०.) इत्यत्र सामद्वयम् । अग्ने विवाहाउ (ग्राम. १.४.४०.१.) इति मन्द्रस्वरादिकम् । अग्नेविवस्वदुषासाः (ग्राम. १.४.४०.२.) इति मन्द्रचतुर्थादिकम् । एते द्वे जामदग्न्यस्य जमदग्निपुत्रस्य मण्डोरेतन्नामकस्य ऋषेः संबन्धिनी। जमदग्निशब्दाद्यञ् । यद्वा माण्डवे जमदग्निगोत्रव्यतिरिक्तस्य मण्डोः स्वभूते भवतः ॥ ७ ॥

भरद्वाजस्य गाथम् ॥ १.५.८ ॥

त्वं नश्चित्र ऊत्या (सा. ४१.) इत्यत्रैक साम । त्वन्नाश्चित्रऊत्या (ग्राम. १.४.४१.१.) इति क्रुष्टद्वितीयादिक भवति । भरद्वाजस्य गाथं गाथेन दृष्टमित्यर्थः ॥ ८ ॥ प्रथमः अध्यायः (५) २५


गौतमे द्वे ॥ १.५.९॥

त्वमित्सप्रथा असि (सा. ४२.) इत्यत्र सामद्वयम् । हाउत्वमित्मप्रथाअसिहाउ (ग्राम. २.४.४२.१.) इति मन्द्रादिकं प्रथमम् । त्वंत्यामे (ग्राम. २.४.४२.२.) इति द्वितोयं मन्द्रादिकम् । ते उभे गौतमेन दृष्टे ॥ ९ ॥

अग्नेरायुः ॥ १.५.१० ॥

आ नो अग्ने वयोवृधम् (सा. ४३.) इत्यत्रैक साम । आनो अग्नेवयोवृधम् (ग्राम. २. ४. ४३.१.) इति तृतीयचतुर्थादिकम् अग्नेगयुः । आयुर्वर्धनमेतन्नामकम् ॥ १० ॥

अग्नेर्हरसी द्वे दैर्घश्रवसे द्वे ॥ १.५.११ ॥

यो विश्वा दयो वसु (सा. ४४.) इत्यत्र सामचतुष्टयमुत्पन्नम् । योविश्वादयतेवर (ग्राम. २.४.४४.१.) इति मन्द्रद्वितीयादिकम् । योविश्वादयतेवसुहाउ (ग्राम. २.४.४४.२.) इति मन्द्रादिकम् । एते द्वे अग्नेहरसी एतन्नामके । योविश्वादयतेवस्त्रोहा ओहाए (ग्राम. २.४.४४.३.) इति मन्द्रमन्द्रादिकम् । योविश्वादयतेसए (ग्राम. २.४.४४.४.) इति मन्द्रमन्द्रादिक च । एते [वै] दैर्घश्रवसे दीर्घश्रवसा राजन्यऋषिणा दृष्टे । तथा च ब्राह्मणम्दैर्घश्रवसं भवति। दीर्घश्रवा वै राजन्यऋषिर्योगपरुद्धोऽशनायश्चरन् स एतदैर्घश्रवसमपश्गत् (तां. ब्रा. १५.२४-५) इति ॥ ११ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणे प्रथमाध्याये पञ्चमः खण्डः ॥ ५॥ षष्ठः खण्डः

अग्नेराग्नेये द्वे । गोतमस्य मनाज्ये द्वे ॥१.६.१॥

एना वो अग्निं नमसा (सा. ४५) इत्यस्यां चत्वारि सामानि जातानि । तत्र एनावो अग्निंनामसा (ग्राम. २.५.४५.१) इति मन्द्रचतुर्थादिकं प्रथमम् । ऐनावो अग्निन्नमसाहाउ इति मन्द्रादिकं द्वितीयम् । ते उभे अग्नेः स्वभूते आग्नेये अग्निदेवताके भवतः । अग्निशब्दात् सास्य देवता (पा. ४.२.२४) इत्यर्थे अग्निकलिभ्यां सर्वत्र ढग् वक्तव्यः (वार्तिकं पा. ४.१.८६.) इति ढक् । एनावोअग्निमेनमसा (ग्राम. २.५.४५.३) इति मन्द्रचतुर्थादिकं तृतीयम् । एनावोअग्निन्नमसोर्जोनपावो (ग्राम. २.५.४५.४) इति मन्द्रचतुर्थादिकं तुरीयम् । ते गोतमस्य संबन्धिनी मनाज्ये एतन्नामधेये भवतः ॥ १॥

दैवराजं च ॥ १.६.२॥

शेपे वनेषु मातृषु (सा. ४६) इत्यत्र एकं सामोत्पन्नम् । शेपेवन इषुमातृषू (ग्राम. २.५.४६.१) इति चतुर्थादिकं दैवराजम् देवराजस्य [स्वभूतम् ] । देवराजो नाम ऋषिस्तेन दृष्टम् ॥ २॥ प्रथमः अध्यायः (६)


गाथिनश्च कौशिकस्य साम ॥ ३ ॥

अदर्शिं गातुवित्तमः (सा. ४७) इत्यत्रैकं सामोत्पन्नम् । अदर्शिगातुवित्तमाए (ग्राम. २.५.४७.१) इति मन्द्रमन्द्रादिकं कौशिकस्य कुशिकपुत्रस्य गाथिनः एतन्नामकस्य ऋषेः स्वभूतं साम ॥ ३ ॥

बार्हदुक्थे द्वे ॥ ४ ॥

अग्निरुक्थे पुरोहितः (सा. ४८) इत्यत्र सामद्वयोत्पत्तिः । अग्निरुकथाइ (ग्राम. २.५.४८.१) इति मन्द्रस्वरादिकं प्रथमम् । अग्निरुक्था औहोहोहाइ (ग्राम. २.५.४८.२) इति मन्द्रचतुर्थादिकं द्वितीयम् । ते उभे बाहदुक्थे बृहदुक्थनामकेन दृष्टे सामनी ॥ ४ ॥

पौरुमीढं च ॥ ५ ॥

अग्निमीडिष्वावसे (सा. ४९.) इत्यत्रैकं सामोत्पन्नम् । अग्निमी (ग्राम. २.५.४९.१) इति मन्द्रचतुर्थादिकं साम पौरुमीढम् । पुरुमीढेन दृष्टम् ॥ ५॥

कार्णश्रवसं प्रास्कण्वं वा ॥ ६ ॥

श्रुधि श्रुत्कर्ण (सा. ५०) इत्यत्रैकं साम जातम् । श्रुधी (ग्राम. २.५.५०.१) इति तृतीयद्वितीयादिकं कर्णश्रयसम् । कर्णश्रवा नाम ऋषिः तेन दृष्टम् । अत्र ऋषिविकल्पः । अथवा प्रास्कण्यम् प्रस्कण्वेन दृष्टम् ॥ ६॥ अ.यवाह्मणम् दैवोदासं च ॥७॥

प्र दैवोदासः (सा. ५१) इत्यत्र एकं सामोत्पन्नम् । प्रदेवोदासोग्नीः (ग्राम. २. ५. ५१.१) इति मन्द्रचतुर्थादिकं दैवोदासम् । दिवोदासेन ऋषिणा दृष्टम् ॥ ७॥

सौक्रतवं च ॥ १.६.८॥

अधज्मो अध वा दिवः (सा. ५२) इत्यत्रैकम् सामोत्पन्नम् । अधज्जा ओवा (ग्राम. २. ५. ५२. १) इति मन्द्रचतुर्थादिकं सौक्रतवम् सुक्रतुशब्दयुक्तमेतन्नामकं साम । एतन्मन्त्रनिबन्धनं नामधेयम् । सर्वत्र चकारो वक्ष्यमाणापेक्षः ॥ ८॥

काण्वे द्वे ॥ १.६.९॥

काय नो वना त्वम् (सा. ५३) इत्यत्र सामद्वयमुत्पन्नम् । कायमानोवनातुबाम (ग्राम. २. ५. ५३.१) इति चतुर्थमन्द्रादिकम् प्रथमम् । एकाया (ग्राम. २. ५. ५३. २) इति [ चतुर्थमन्द्रादिकं ] द्वितीयं च । एते द्वे काणे कण्वस्य स्वभूते ॥९॥

मानवे द्वे ॥ १.६.१० ॥

नि त्वामग्ने मनुर्दधे (सा. ५४ ) इत्यस्यां सामद्वयोत्पत्तिः । नित्यामग्नाइ (ग्राम. २. ५. ५४. १) इति मन्द्रस्वरादिकमाद्यम् । होबाइ प्रथमः अध्यायः (६) २९

नित्वामग्नेमनुर्दधे (प्राम. २. ५. ५४. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । ते उभे मानवे मनुना ऋषिणा दृष्टे । दृष्टं साम (पा. ४. २. ७.) इत्यण्प्रत्ययः ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेय ब्रामणे प्रथमाध्याये षष्ठः खण्डः ॥ ६ ॥ सप्तमः खण्डः


अग्नेश्च द्रविणम् ॥१.७.१॥

देवो वो द्रविणोदाः (सा. ५५) इत्यत्रैकं सामोत्पन्नम् । देवोवोद्रविणोदाः (ग्राम. २. ६. ५५. १) इति मन्द्रचतुर्थादिकम् अग्नेः स्वभूतं द्रविणशब्दोपेतमेतन्नामकं साम ॥१॥

बार्हस्पत्यं च ॥ १.७.२॥

प्रैतु ब्रह्मणस्पतिः (सा. ५६) इत्यत्रैकं साम । प्रैतुब्रह्मणस्पतीः (ग्राम. २. ६. ५६. १) इति मन्द्रद्वितीयादिकं बार्हस्पत्यम् । ब्रह्मणस्पतिरिति लिङ्गात् ॥ २॥

वसिष्ठस्य च वीङ्कम् ॥ १.७.३ ॥

ऊर्ध्व ऊषु ण ऊतये (सा. ५७) इत्यत्रैकं सामोत्पन्नम् । ऊर्ध्वऊषुणाऊतायाइ (ग्राम. २. ६. ५७. १) इति द्वितीयतृतीयादिकं वसिष्ठस्य ऋषेः स्वभूतं वीङ्काम् एतन्नामधेयम् ॥ ३ ॥

विष्पर्धसश्चाङ्गिरसस्य साम ॥ १.७.४ ॥

प्र यो राये निनीप्रति (सा. ५८) इत्यस्यामेकं साम जातम् । प्रयोरायाइनिनीषताइ (ग्राम. २. ६. ५८. १) इति चतुर्थमन्द्रादिकम् आङ्गिरसस्य अङ्गिरसः पुत्रस्य विष्पर्धसश्च एतन्नामकस्य ऋषेः संबन्धि ॥ ४ ॥ प्रथमः अध्यायः (७) ३१


ऐतवाद्ध्र्यं च ॥ १.७.५॥

प्र वो यहूं पुरूणाम् (५९) इत्यत्रैकम् साम जातम् । प्रवाः (ग्राम. २. ६. ५९.१) इति मन्द्रचतुर्थादिकम् ऐतवाद्ध्र्यनामकम् । [ऐत-] वध्र्दर्नाम ऋषिः, तेन दृष्टम् ॥ ५॥

मनसश्च दोहः ॥ १.७.६॥

अयमग्निः सुवीर्यस्य (सा. ६०) इत्यत्रैकम् साम। अयमग्निः सुवीर्यस्यहाउ (ग्राम. २. ६. ६०.१) मन्द्रादिकं मनसश्च दोह एतन्नामकम् ॥ ६ ॥

समन्तानि त्रीण्यग्नेरेकं वसिष्ठस्य वा वरुणस्य द्वे ॥ १.७.७॥

त्वमग्ने गृहपतिर् (सा. ६१) इत्यस्यामुत्पन्नानि त्रीणि सामानि समन्तनामधेयानि । अत्रैव ऋषिदेवताभेदेन विविच्य नामत्रयं दर्शयति - अग्नेरेकं वसिष्ठस्य वा वरुणस्य द्वे इति । त्वमग्नेगृहपताइः (ग्राम. २. ६. ६१ १) इति चतुर्थमन्द्रादिकं प्रथममग्नेः स्वभूतमेतद्देवतानिबन्धनं नाम । अथवा वसिष्ठस्य संबन्धि । एतद्दृष्टनिबन्धनम् । त्वमग्नेगृहापतीः (ग्राम. २.६.६१.२) इति चतुर्थमन्द्रादिकं द्वितीयं वरुणस्य संबन्धि । त्वमाग्नेगृहापतीः (ग्राम. २. ६. ६१. ३) इति मन्द्रद्वितीयतृतीयादिकं तृतीयम् साम ॥ ७॥

वाम्रस्य च वैखानसस्य सामाञ्जिगस्य वा दानवस्य ॥ १.७.८ ॥

सखायस्त्वा ववृमहे (सा. ६२) इत्यत्रैकं साम । सखायस्त्वा औहोहोहाइ (ग्राम. २. ६. ६२. १) इति मन्द्रचतुर्थादिकं वैखानसस्य आषेयब्राह्मणम्

[विखनसपुत्रस्य] वाम्रस्य । वाम्रो नाम ऋषिः तस्य ऋषेः संबन्धि [साम] । अत्र ऋषिविकल्पमाह - आञि्जगस्य वा दानवस्येति । अथवा दानवस्य आञि्जगस्य ऋषेः साम ॥ ८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणे प्रथमाध्याये सप्तमः खण्डः ॥ ८ ॥ अष्टमः खण्डः


श्यावाश्वं चर्तुषामणी च यामं च ॥१.८.१॥

आ जुहोता हविषा मर्जयध्वम् (सा. ६३) इत्यत्रैक सामोत्पन्नम् । आजुहोता (ग्राम. २. ७. ६३. १) इति चतुर्थमन्द्रादिकं श्यावाश्वं श्यावाश्वेन ऋषिणा दृष्टम् । चकारा वक्ष्यमाणापेक्षाः । चित्र इच्छिशोस्तरुणस्य. वक्षथः (सा. ६४) इत्यस्यां सामद्वयमुत्पन्नम् । ओइ चित्रइच्छाइशोस्तरुणा (ग्राम. २. ७. ६४. १) इति क्रुष्टद्वितीयादिकमाद्यम् । चित्राए (ग्राम. २. ७. ६४. २) इति मन्द्रादिकं द्वितीयम् । ते द्वे च [ऋतु] सामनी ऋतुर्नाम ऋषिस्तस्य स्वभूते सामनी । इदं त एकं पर उ त एकम् (सा. १. ६५) इत्यत्रैकं साम । ओहा। हहाइ । इदंतए (ग्राम. २. ७. ६५. १) इति तृतीयचतुर्थादिकं साम यामं यमदेवताकम् ॥ १ ॥

अग्नेश्चार्षेयम् ॥ १.८.२॥

इमं स्तोममहते जातवेदसे (सा. ६६) इत्यतैकं सामोत्पन्नम् । [इम स्तोमाम्] इति तृतीयद्वितीयादिकम् अग्नेराषयम् । अस्य सानोऽमिद्रष्टेत्यर्थः ॥ २ ॥

अत्र ऋषिनामभेदेन विकल्पं दर्शयति -

कौत्सं वा यज्ञसारथि वा ॥ १.८.३ ॥

वा-शब्दः पक्षान्तरद्योतनार्थः । एतत्साम कौत्सं कुत्सनाम्ना ऋषिणा दृष्टम् । यद्वा यज्ञसारथिनामधेय भवति । यज्ञस्य ज्योति ३४ आर्षेयब्राह्मणम्

टोमादेः सारथिरिव तिष्ठति । तद्वत् प्रणायकं भवतीत्यत एव तस्य नाम युक्तम् ॥ ३॥

अग्नेर्वैश्वानरस्य सामनी द्वे ॥ १.८.४ ॥

मूर्धानं दिवो अरतिं पृथिव्या (सा. ६७) इत्यत्र सामद्वयमुत्पन्नम् । मूोहोहाइ (ग्राम. २. ७. ६७. १) इति मन्द्रचतुर्थादिकमाद्यम् । होवाइ । मुद्धोहाइ (ग्राम. २. ७. ६७. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । ते द्वे वैश्वानराख्यस्य अनेः स्वभूते सामनी ॥ ४ ॥

आश्वे द्वे ऐटते वा ॥ १.८.५ ॥

वि त्वदापो न पर्वतस्य पृष्ठाद् (सा. ६८.) इत्यत्र सामद्वयोत्पत्तिः । वित्वत् । ओहाइ (ग्राम. २. ७. ६८. १) इति चतुर्थादिकमाद्यम् । हा। ययाइदिवोहाइवित्वद् (ग्राम. २.४.७. ६८. २) इति मन्द्रतृतीयादिकं द्वितीयम् । ते उभे आश्वे अश्वशब्दोपेते । एतन्नामधेये सामनी भवतः । एतन्मन्त्रवर्णनिबन्धनं नाम वा । अथवा ऐटते इटतो नाम ऋषिः तेन दृष्टम् (प्टे?) ॥ ५॥

वामदेव्यं च रौद्रं वा ॥ १.८.६॥

आवो राजानम् (सा. ६९) इत्यत्रैक साम । आवो राजा (ग्राम. २. ७. ६९. १) इति चतुर्थमन्द्रादिकं वामदेव्यं वामदेवनामकेन ऋषिणा दृष्टम् । वामदेवाड्डयड्डयौ (पा. ४. २. ९) इति दृष्टं सामेत्यर्थे ड्यत्प्रत्ययः । अत्रैव देवताभेदेन मन्त्रशब्देन वा विकल्पः । वा अथवा रौद्रं रुद्रदेवताकं रुद्रशब्दोपेतं वा साम ॥ ६॥ प्रथमः अध्यायः (८) ३५


वैश्वज्योतिषे द्वे ॥ १.८.७ ॥

इन्धे राजा समर्यो नमोभिः (सा. ७०) इत्यत्र सामद्वयमुत्पन्नम् । इन्धाइ (ग्राम. २. ७. ७०. १) इति तृतीयद्वितीयस्वरादिकम् [आद्यम् । हौहो। [होहो । ] हौहोइ । इन्धेराजासमोनमोभीः (ग्राम. २. ७. ७०. २) इति क्रुष्टद्वितीयादिकं साम द्वितीयम् । ते द्वे [वैश्वज्योतिष] । विश्वज्योतिरित्यग्नेर्वाचकः । ऋषेर्वा ॥ ७ ॥

यामे द्वे ॥ १.८.८॥

प्र केतुंना बृहता याग्निः (सा. ७१) इत्यस्यां सामद्वयोत्पत्तिः । प्रकेतुना (ग्राम. २. ७. ७१. १) इति द्वितीयकृष्टम्वरादिकमाद्यम् । हा । हा औहोइ । प्राके (ग्राम. २. ७. ७१. २) इति मन्द्रद्वितीयतृतीयादिकम् । ते उभे यामे । यमो नाम पार्थिवोऽग्निः । तद्देवताके ॥ ८ ॥

इन्द्रस्य वैराजे द्वे ॥ १.८.९॥

अग्निं नरो दीधितिभिः (सा. ७२) इत्यत्र सामद्वयमुत्पन्नम् । हउहाउहाउ । अग्नीम् (ग्राम. २. ७.७२.१) [इति मन्द्रचतुर्थादिकमाद्यम् । हाउहाउहाउ। अग्नीम् । नराः। दी (ग्राम. २. ७. ७२. २) इति मन्द्रचतुर्थादिकं द्वितीयम् । ते उभे इन्द्रस्य संबन्धिनी वैराजे विराट्छन्दस्कोपेते एतन्नामधेये भवतः । एतत् छन्दोनिबन्धनं नाम ॥ ९ ॥

अत्रैव ऋषिनामादिभेदेन बहून् कल्पान् दर्शयति -

वसिष्ठस्य वा प्रजापतेर्वा राशिमराये मरायराशिने वा स्फार्तिकरणे वा च्यावने वा शैखण्डिने वैन्वके वा ॥१.८.१०॥ ३६ आयब्राह्मणम्

सर्वत्र वाशब्दो विकल्पवाची । अथवा एते सामनी वसिष्ठस्य ऋषेः स्वभूते । अथवा प्रजापतेः स्वीये । राशिमराये एतत्संज्ञके भवतः । पूर्वस्य सानो राशीति नाम अपरस्य मरायमिति विद्यमानत्वात् । आढ्यादि (पा.३.२.५६) सूत्रेण स्फातेरप्रत्ययः । प्रकृतेश्च तदृह्यम् इति वचनाद् तदुपपदात् करोतेः ख्युन् प्रत्ययः । च्यावने वा। च्यवनो नाम ऋषिः तेन दृष्टे वा । शैखण्डिने वा । शिखण्डिनः स्वभूते वा । ऐन्वके वा । इन्वकाख्यऋषिणा दृष्टे । तेषामुपयोगः प्रयोगकारेण द्रष्टव्यः ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणे प्रथमाध्याये अष्टमः खण्डः ॥ नवमः खण्डः

श्येनश्च ( स्य ?) श्यैनं वा श्यैतं वा शयनं वा शायनं वा प्रजापतेर्वा दीर्घायुष्यं वा ॥१.९.१॥

अबोध्यग्निः समिधा (सा. ७३) इत्यत्र सामैकम् । अबोधिया (ग्राम. २. ८. ७३. १) इति चतुर्थादिकम् । श्येनः शंसनीयगतिः अग्निः तस्य स्वभूतम् । विकल्पो वक्ष्यमाणापेक्षयैव कृतो वा । अथवा श्यैननामधेयं वा [ श्यास्त्या (उ. २१३) इतीनच् ] प्रत्ययः । तस्येदम् (पा. ४. ३. १२०) इत्यर्थेऽञ्प्रत्ययश्च । यज्ञद्वेषिणां नाशकरमित्यर्थः । शयनं वा शायनं वा बाह्यज्ञानं तद्विविक्तान् (!) करोतीत्यस्यैतन्नाम। एकस्मिन्नेव साम्नि विधाय गातव्यमिति नामविकल्पः कृतः ॥ १॥

वासुक्रं च ॥ १.९.२ ॥

प्र भूर्जयन्तं महां विपोधाम् (सा. ७४) इत्यत्रैकं सामोत्पन्नम् । प्रभूर्जयंताम् (ग्राम. २. ८. ७४. १) इति चतुर्थमन्द्रादिकं साम । वासुकं वसुक्रो नाम ऋषिः, तेन दृष्टम् । सर्वत्र चकारो वाक्यभेदद्योतकः ॥ २॥

पौषं च ॥ १.९.३ ॥

शुक्रं ते अन्यद्यजतं ते अन्यद् (सा. ७५) इत्यत्रैकं सामोत्पन्नम् । शुक्रं ते अन्यद् (ग्राम. २. ८. ७५.१) इति मन्द्रचतुर्थादिकं साम । पौषं पूषदेवताकम् ॥ ३॥ ३८ आर्षेयब्राह्मणम्


कौत्सं च ॥ १.९.४ ॥

इडामग्ने पुरुदंससं सनि गोः (सा.७६) इत्यत्रैक साम । इडामनाइ (ग्राम. २.८.७६.१) इति मन्द्रस्वरादिक कौत्सं कुत्सेन ऋषिणा दृष्टम् ॥ ४ ॥

काश्यपे द्वे ॥ १.९.५॥ ।

प्र होता जातो महान् (सा. ७७) इत्यत्र सांमद्वयमुत्पन्नम् । प्रहोताजाताः (ग्राम. २. ८. ७७. १) इति चतुर्थमन्द्रादिकमाद्यम् । प्रहोताजातः । उहुवाहाइ (ग्राम. २. ८. ७७. २) इति चतुर्थमन्द्रादिक द्वितीयम् । ते उभे कश्यपस्य म्वभूते सामनी ॥ ५ ॥

घृताचेराङ्गिरसस्य साम ॥ १.९.६ ॥

स सम्राजमसुरस्य प्रशस्तम् (सा. ७८) इत्यत्र समिकम् । प्रसम्राजाम् (ग्राम. २. ८. ७८. १) इति मन्द्रादिकं आङ्गिरसस्य अङ्गिरःपुत्रस्य घृताचेरेतन्नामधेयस्य ऋषेः साम ॥ ६ ॥

भरद्वाजस्य प्रासाहम् ॥ १.९.७ ॥

अरण्योर्निहितो जातवेदाः (सा. ७९) इत्यत्रैक सामोत्पन्नम् । अरण्योः (ग्राम. २. ८. ७९. १) मन्द्रादिकं भरद्वाजस्य म्वभूतं प्रासाहं शक्त्यभिभवनसमर्थम् एतन्नामक साम ॥ ७ ॥

अग्नेर्वैश्वानरस्य राक्षोघ्नमत्रेर्वा ॥ १.९.८ ॥

सनादग्ने मृणसि यातुधानान् (सा. ८०) इत्यत्रैक सामोत्पन्नम् । अहा। वोहा। [वो हा।] सनादग्नाइ (ग्राम. २.८.८०.१) इति तृतीयद्वितीयस्वरादिकं साम वैश्वानराख्यस्यानेः स्वभूतं राक्षोभं रक्षोहननसाधनमेतन्नामधेयम् । एतदैवतं नाम वा। प्रथमा (अथवा !) अत्रे तन्नाम कस्य ऋषेः राक्षोनसाम ॥८॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मण प्रथमाध्यायस्य नवमः खण्डः ॥ ९॥ दशमः खण्डः


पाथे च ॥१.१०.१॥

अग्न ओजिष्ठमाभर (सा. ८१) इत्यत्र सामद्वयमुत्पन्नम् । आमाओवा (ग्राम. २. ९. ८१. १) इति क्रुष्टद्वितीयादिकमाद्यम् । अग्नेहाउ (ग्राम. २. ९. ८१. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । एते द्वे. पाथे पथिशब्दयुक्ते सामनी । रात्सि वाजाय पन्थाम (मा. ८१) इति सान्नि विद्यमानत्वात् । सर्वत्र चकारो वाक्यभेदद्योतनार्थः ॥ ५ ॥

बृहच्चाग्नेयम् ॥ १.१०.२॥

यदि वीरो अनु व्याद् (सा. ८२) इति अत्र सामैकमुत्पन्नम् । यदिवीरोअनुष्यात् (ग्राम. २. ९. ८२. १) इति तृतीयचतुर्थस्वरादिकम् आग्नेयम् तत् बृहन्नामकम् अमिदेवताकं साम ॥ २ ॥

यामं च ॥ १.१०.३ ॥

त्वेषस्ते धूम ऋण्यति (सा. ८३) इत्यत्र सामैकम् । त्वेषास्ते धूमऋण्वतिहाउ (ग्राम. २. ९. ८३. १) इति द्वितीयक्रुष्टदिकं साम यामम् । यमः पार्थिवोऽग्निः । तद्देवताकम् ॥ ३ ॥

बृहच्चैवाग्नेयम् ॥ १.१०.४॥

त्वं हि क्षैतवद्यशः (सा. ८४ ) इत्यत्र सामैकम् । त्वहितवद्यशः । ईयइयाहाइ (ग्राम. २. ९. ८४. १) इति चतुर्थमन्द्रादिकम् आग्नेयम् अमिदेवताकम् । एतद्देवताकं बृहच्चैव बृहन्नामकमेव ॥ ४ ॥ ४० आर्षेयब्राह्मणम्


बृहतश्च कौमुदस्य साम ॥ १.१०.५॥

प्रातरग्निः पुरुप्रियः (सा. ८५) इत्यत्र सामैकं जातम् । प्रातरग्नाइः पुरुप्रियाः (ग्राम. २. ९. ८५. १) इति मन्द्र.तिस्वारमन्द्रादिकं कौमुदस्य । कुमुदो नाम ऋषिः तदपत्यस्य बृहतः एतन्नामकस्य ऋषेः संबन्धि साम ॥ ५॥

अग्नेर्यद्वाहिष्ठीये द्वे यन्मंहिष्ठीये वा ॥ १.१०.६ ॥

यद्वाहिष्ठं तदग्नये (सा. ८६) इत्यत्र सामद्वयम् । यद्वाहिष्ठंतदा (ग्राम. २. ९. ८६. १) इति चतुर्थमन्द्रादिकमाद्यम् । यद्वाहिष्ठंतदग्नये । यद्वाहिष्ठो वा (ग्राम. २. ९. ८६. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । ते द्वे अग्नेः यद्वाहिष्ठीये यद्वाहिष्ठशब्दयुक्ते । एतन्नामके सामनी । यद्वाहिष्ठशब्दात् मतौ छः सूक्तसाम्नोः (पा. ५. २. ५९) इति मत्वर्थीयश्छः । वा अथवा एते एव सामनी यन्मंहिष्ठीये यन्मंहिष्ठशब्दोपेते एतन्नामधेये भवतः । पक्षान्तरापेक्षायां विकल्पः । क्वचित्प्रयोगे एवमभिगीयते ॥ ६ ॥

अग्नेर्विशोविशीयमैडं वा शार्ङ्गम् ॥ १.१०.७ ॥

विशोविशो वो अतिथिम् (सा. ८७) इत्यस्यामेकम् । विशोविशोहिम् (ग्राम. २. ९. ८७.१) इति मन्द्रस्वरादिकम् अग्नेर्विशोविशीयं विशोविशशब्दोपेतम् एतन्नामकम् । एतदग्निना दृष्टम् । तथा च ब्राह्मणम् – विशोविशीयं भवति । अग्निरकामयत । विशोविशोऽतिथिः स्याम् । प्रथमः अध्यायः (१०) ४१

विशोविश आतिथ्यमश्नुवीयति । स तपोऽतप्यत । स एतद्विशोविशीय. मपश्यत् (तां ब्रा. १४. ११.३७-३८) इति । अथवा ऐडं वा शार्ङ्गम् । विट्शब्देन पुष्टिरभिधीयते । पुष्टि विशः (ऐ.आ.१.१.६) इति ऐतरेयारण्यकम् । अन्न हि पुष्टिः । ऐडम् इडान्तयुक्तं शाङ्गम् एतन्नामकम् ॥ ७ ॥

अथ स्तुतिपरत्वेन विकल्पः -

प्रजापतेश्च कनीनिके द्वे । अत्रेर्वा ॥ १.१०.८ ॥

बृहद्वयो हि भानवे (सा. ८८.) इत्यत्र सामद्वयमुत्पन्नम् । बृहद्वयाः (ग्राम. २. ९. ८८. १) इति मन्द्रस्वरादिकं प्रथमम्। बृहद्वयोहिभानावाइ (ग्राम. २.९.८८.२) इति मन्द्रमन्द्रादिक द्वितीयम् । ते उभे प्रजापतेः स्वभूते कनीनिकानामधेये सामनी । वा अथवा अत्रेः संबन्धिनी सामनी ॥ ८॥

श्रौतर्वणं च ॥ १.१०.९॥

अगन्म वृत्रहन्तमम् (सा. ८९.) इत्यत्र सामैकम् । अगन्मवृ । नाहान्तामाम् (ग्राम. २. ९. ८९. १) इति मन्द्रादिक श्रौतर्वणं श्रुतर्वच्छब्दयुक्तमेतन्नामकं साम ॥ ९॥

कश्यपस्य च स्वयोनीन्द्रस्य चेन्द्रियमिन्द्रस्य वा प्रियम् ॥ १.१०.१० ॥

जातः परेण धर्मणा (सा. ९०) इत्यत्र सामैकं जातम् । जातः परेणधा (ग्राम. २. ९. ९०.१) इति द्वितीयादि] स्वरयुक्तं कश्यास्य ४२ आर्षेयब्राह्मणम्

ऋषेः स्वयोनिनामकं साम । वा अथवा इन्द्रस्य स्वभूतम् इन्द्रियनामक साम । वा अथवा इन्द्रस्य प्रियं नाम । वाशब्दः पूर्वेणापि संबद्धः ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणे प्रथमाध्याये दशमः खण्डः ॥ १० ॥ एकादशः खण्डः


बार्हस्पत्यं च ॥१.११.१॥

सोमं राजानं वरुणम् (सा. ९१) इत्यत्र सामैकम् । सोमꣳ राजानं वरुणाम् (ग्राम. ३. १०. ९१. १) इति चतुर्थमन्द्रस्वरादिकम् । चकारो वाक्यभेदार्थः ॥१॥

आरूढवच्चाङ्गिरसं यामं वा ॥१.११.२॥

इत एत उदारुहन् (सा. ९२) इत्यत्र सामैकम् । आरोहान् (ग्राम. ३. १०. ९२. १) इति क्रुष्टतृतीयद्वितीयादिकम् आरूढशब्दयुक्तम् आङ्गिरसम् अङ्गिरसः स्वभूतं साम । उदारुहन्निति साम्नि विद्यमानत्वात् । वा एतत् साम यामं यमेन दृष्टम् । अथवा याममग्निदेवत्यम् । वेति सामनामार्थे । प्रथमे आग्नेये काण्डे पठितत्वात् ॥ २ ॥

आसिते द्वे ॥ १.११.३॥

राये अग्ने महे त्वा (सा. ९३) इत्यस्यां सामद्वयमुत्पन्नम् । राये अग्नेमहाइ (ग्राम. ३. १०. ९३. १) इति मन्द्रचतुर्थादिकं प्रथमम् । रायायाग्नेमहेत्वाहाउ (ग्राम. ३. १०. ९३. २) इति द्वितीयक्रुष्टादिकं द्वितीयम् । ते द्वे आसिते प्रकाशमाने एतन्नामके सामनी भवतः ॥ ३ ॥

त्वाष्ट्रीसाम च ॥ १.११.४॥

दधन्वे वा यदीमनु (सा. ९४.) इत्यस्यां सामैकमुत्पन्नम् । ४४ आर्षेयब्राह्मणम्

दधन्वेवायदीमनु (ग्राम. ३. १०. ९४. १) इति चतुर्थमन्द्रादिकं त्वाष्ट्रीसाम । त्वाष्ट्री नाम काचिद्देवता ॥ ४ ॥

अगस्त्यस्य च राक्षोघ्नम् ॥ १.११.५॥

प्रत्यग्ने हरसा हरः (सा. ९५.) इत्यस्.ामेकं साम । प्रत्यग्ने (ग्राम. ३. १०. ९५. १) इति तृतीयचतुर्थादिकम् अगस्त्यस्य ऋषेः संबन्धि राक्षोनं रक्षोहननसमर्थ साम ॥ ५ ॥

मानवं च ॥ १.११.६॥

त्वग्ने वमूरिह (सा. ९६) इत्यस्लामेकम् । स्व ग्ने । त्वमनाइ (ग्राम. ३. १०. ९६. १) इति चतुर्थमन्द्रादिक मानवं मनुनाम्ना ऋषिणा दृष्टम् । चारो वाक्यभेदद्योतनार्थः ॥ ६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्र.शे आयब्राह्मणे प्रथमाध्याये एवादशः खण्डः ॥ ११ ॥ द्वादशः खण्डः


तौदे द्वे दैर्घतमसानि त्रीणि । सर्वाणि वा तौदानि सर्वाणि वा दैर्घतमसानि ॥ १.१२.१॥

पुरु त्वा दाशिवायोचे (सा. ९७) इत्यस्याम् ऋचि पञ्च सामान्युत्पन्नानि । तत्र पुरु । त्वादाशिवायोचाये (ग्राम. ३. ११ ९७. १) इति मन्द्रचतुर्थादिकं प्रथमम् । पुरुत्वादाशिवाइवो। चे (ग्राम. ३.११. ९७.२) इति मन्द्रचतुर्थमन्द्रादिकं द्वितीयम् । ते द्वे तौदे तौदनामनी । पुरुत्वादाशिवाडो। चे (ग्राम. ३. ११. ९७. ३) इति मन्द्रचतुर्थादिकं तृतीयम् । पुरुत्वादाशिवाडोचे (ग्राम. ३. ११. ९७. ४) इति मन्द्रद्वितीयतृतीयादिकं तुरीयम् । पुरुत्वादाशिवाकोचेहाउ (ग्राम. ३. ११. ९७. ५) इति द्वितीयक्रुष्टादिकं पञ्चमम् । एतानि त्रीणि दैर्घतमसानि दीर्घतमसः स्वभूतानि । ऋषिद्वयस्यापि सर्वैः सह संबन्धं दर्शयति – सर्वाणि वा तौदानि सर्वाणि वा दैर्घतमसानि । वा अथवा सर्वाणि पञ्च सामानि तौदानि सर्वाणि दैर्घतमसानि वा ॥१॥

श्यावाश्वस्य प्रहितौ द्वौ ॥ १.१२.२ ॥

प्र होने पूयं वचः (सा. ९८) इत्यत्र सामद्वयमुत्पन्नम् । प्रहोत्रेपू (ग्राम. ३. ११. ९८. १) इति मन्द्रस्वरादिकमाद्यम् । प्रहोत्राइ पूर्वी (वि ?) यं वचाः (ग्राम. ३. ११. ९८. २) इति मन्द्रद्वितीयादिकं ४६ आर्षेयब्राह्मणम्

द्वितीयम् । ते उभे श्यावाश्वेन ऋषिणा प्रहितौ दृष्टावित्यर्थः । लिङ्गमविवक्षितम् ॥ २ ॥

प्रजापतेः श्रुधीये द्वे श्रुद्ध्ये वा श्रद्धे वा सत्ये वा सामनी वा ॥ ३ ॥

अग्ने वाजस्य गोमतः (सा. ९९) इत्यस्यां सामद्वयमुत्पन्नम् । अग्ने वाजास्य (ग्राम. ३. ११. ९९. १) इति चतुर्थमन्द्रादिकं प्रथमम् । अग्नेवाजस्यगोहिस्थितमतोहोहाइ (ग्राम. ३. ११. ९९. २) इति मन्द्रचतुर्थादिकं द्वितीयम् । ते द्वे प्रजापतेः श्रुधीये श्रुधियाशब्दयुक्ते एतन्नामके सामनी । श्रुधिया एहिया इति साम्नि विद्यमानत्वात् । तथाच ब्राह्मणम् - प्रजापतिः पशूनमृजत । ते अस्मात् सृष्टा अपाक्रमन् । तानेतेन साम्ना श्रुधिया एहिया इत्यन्वह्वयत् । स उपावर्तत । (ताम्. ब्रा. १५. ५. ३५) इति ॥ ३ ॥

प्रजापतेः सदोहविर्धानानि त्रीणि । सदः पूर्वम् । हविर्धाने उत्तरे ॥ १.१२.४॥

अग्ने यजिष्ठः (सा. १००) इत्यत्र सामत्रयम् उत्पन्नम् । तत्र प्रथमः अध्यायः (१२) ४७

अग्नेयजिष्ठो अध्वराए (ग्राम. ३. ११. १००. १) इति मन्द्रादिकं प्रथमम् । अग्ने । इयाईया (ग्राम. ३. ११. १००. २) इति मन्द्रद्वितीयादिकं द्वितीयम् । अमईया ओवा (ग्राम. ३. ११. १००. ३) इति मन्द्रचतुर्थादिकं तृतीयम् । एतानि त्रीणि प्रजापतेः संबन्धीनि सदोहविर्धाननामधेयानि सामानि । किं कस्य सद:संज्ञा ? कस्य हविर्धानसंज्ञा ? किं सर्वेषां सदोहविर्धाननामधेयानि ? इति शङ्कां निरसितुमाह-सदः पूर्वम् । हविर्धाने उत्तरे इति । तेषां मध्ये प्रथमं सद:संज्ञ साम। उत्तरे द्वितीयतृतीये हविर्धाननामधेये॥ ४॥

त्वष्टुरातिथ्यम् ॥ १.१२.५॥

जज्ञानः सप्त मातृभिः (साम. १०१) इत्यत्रैक साम । जज्ञानः सा (ग्राम. ३. ११. १०१. १) इति मन्द्रस्वरादिकं त्वष्टुः स्वभूतमातिथ्यमतिथ्यह-(र्थ ?) मेतन्नामकं साम । अतिथेयेः (यः?) (पा. ५. ४. २६) इति ण्य-(व्य?) प्रत्ययः ॥ ५ ॥

अदितेश्व साम ॥ १.१२.६॥

उत स्या नो दिवा मतिः (सा. १०२) इत्यत्रैक साम । [उतस्यानोदिवामतीः] (ग्राम. ३. ११. १०२. १) इति मन्द्रद्वितीयादिकम् अदितेः स्वभूतम् एतन्नामकम् । वाक्यभेदार्थश्चकारः ॥ ६ ॥.. स्थूलाक्षरैः युक्तः भागः४८ आर्षेयब्राह्मणम्


वार्क जम्भं च ॥ १.१२.७॥ va instead of ya vat instead of ythra shva instead of ya ईडिया हि प्रति (सा. १०३) इत्यत्र समैकम् । ईडाइप्याहि (ग्राम. ३. ११. १०३. १) इति द्वितीयक्रुष्टादिकं [वार्क] जम्भं वृकजम्भेन दृष्टमेतन्नामकम् ॥ ७ ॥

अगस्त्यस्य च राक्षोघ्नम् ॥ १.१२.८ ॥

                         itvathvakam

न तस्य मायया च न (सा. १०४) इत्यत्रैक साम । नतोवा (ग्राम ३. ११. १०४. १) इति मन्द्रचतुर्थादिकम् अगस्त्यस्य स्वभूतं राक्षोनमित्येतन्नामकं साम । चकारो मिन्नवाक्यद्योतकः ॥ ८ ॥ it is somakruthvam it is brhadagnaniyam सौमक्रतवं च बृहदाग्नेयीयं वा ॥ १.१२.९॥

                       ityavathakam

अप त्यं वृजिनं (सा. १०५) इत्यत्रै साम । अपत्यंवृजिनम् (ग्राम. ३. ११.१०५.१) इति तृतीयचतुर्थादिकं सौमक्रतवं सोमक्रतुना दृष्टम् । बृहदाग्नेयीयं बृहत्संबन्धिनः अग्नेर्वा । बृहन्नामकमाग्नेयीयममिदेवताकं साम ॥ ९॥ प्रथमः अध्यायः (१२) ४९


अगस्त्यस्य चैव राक्षोघ्नम् ॥ १.१२.१० ॥

श्रुष्टयग्ने नवस्य मे (सा. १०६) इत्यस्यां सामैकम् । हाउश्रुष्टयग्नेनवस्यमेहाउ (ग्राम. ३. ११. १०६. १) इति मन्द्रस्वरादिकम् अगस्त्यस्य ऋषेः स्वभूतं राक्षोनमेतन्नामक साम ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणे प्रथमाध्याये द्वादशः खण्डः ॥ २॥ त्रयोदशः खण्डः


इन्द्रस्य प्र मंहिष्ठीयानि चत्वारि । वसिष्ठस्य वासितं वैषां तृतीयम् ॥१.१३.१॥

प्र मंहिष्ठाय गायत (सा. १०७) इत्यत्र चत्वारि सामान्युत्पन्नानि । प्रम हाइष्ठायगायता (ग्राम. ३. १२. १०७.१) इति मन्द्रद्वितीयादिकं प्रथमम् । प्रमरहिष्ठाय (ग्राम. ३. १२. १०७.२) इति चतुर्थमन्द्रादिकं द्वितीयम् । प्रमरहिष्ठायगा (ग्राम. ३. १२. १०७.३) इति तृतीयचतुर्थादिकं तृतीयम् । प्रमरहिष्ठाय (ग्राम. ३. १२. १०७. ४) इति चतुर्थमन्द्रादिकं तुरीयम् । एतानि चत्वारि इन्द्रस्य संबन्धीनि । प्रमाहिष्ठीयानि प्रमंहिष्ठशब्दयुक्तानि एतन्नामधेयानि । एषां सानामिन्द्रसंबन्धित्वं ब्राह्मणे श्रूयतेप्रमंहिष्ठीयेन वा इन्द्रो वृत्राय वजं प्रावर्तयत् (ता. बा. १२. ६. ५.-६) इति । अत्र नामान्तरम् । अथवा वसिष्ठस्य प्रमंहिष्ठीयानि सामानि । एषां मध्ये तृतीयस्य नामान्तरं दर्शयति - आसिनं वैषां तृतीयम् । इति । एषां मध्ये तृतीयं त्रित्वसंख्यापूरकम् आसितम् असितो नाम ऋषिः तत्संबन्धि । तथा ब्राह्मणम् -- आसितं भवति । असितो वा एतेन दैवलस्त्रयाणां लोकानां दृष्टिमपश्यत् (तां. बा. १४. ११. १८-१९) इति ॥१॥

भरद्वाजस्य वाजभृद्वाजाभृद्वा वाजाभर्मीयं वा ॥१.१३.२॥ प्रथमः अध्यायः (१३) ५१

प्रसो अग्ने तयोतिभिः (सा. १०८) इत्यत्रैकं साम । प्रासोहाइ (ग्राम. ३. १२. १०८.१) इति क्रुष्ट द्वितीयादिकं भरद्वाजस्य ऋषेः स्वभूतं वाजभृत् वाजस्य बलस्य पोषकम् एतन्नामकम् । वा अथवा वाजाभृन्नाम । दीर्घ एव विशेषः । यद्वा वजाभर्मीयम् । सुवीराभिस्तरति वाजकर्मभिः (सा. १०८ ) इति वाजकर्मशब्दोऽस्ति । तद्युक्तमेतन्नामकं साम ॥२॥

सौभराणि त्रीणि ॥ १.१३.३ ॥

तं गूर्धया स्वर्णग्म् (सा. १०९) इत्यत्र सामत्रयमुत्पन्नम् । तं गूर्धायासुवर्णरोवा (ग्राम. ३. १२. १०९.१) इति मन्द्रचतुर्थादिकमाद्यम् । तं गूर्धयासुवर्णाराम् (ग्राम. ३. १२. १०९. २) इति मन्द्रचतुर्थमन्द्रादिक द्वितीयम् । तं गूधया स्वौहार्णागम (ग्राम. ३. १२. १०९. ३) इति मन्द्रचतुर्थादिक तृतीयम् । एतानि त्रीणि सुभरि म ऋषिः तेन दृष्टानि सामानि ॥३॥

पक्थस्य सौभरस्य सामनी द्वे । पथो वा पक्थस्य वा ॥१.१३.४॥

मा नो गृणीथा अतिथिम् (सा. ११०) इत्यस्यां सामद्वयम् । मानाः (ग्राम. ३. १२. ११०.१) इति चतुर्थम्वरादिकं प्रथमम् । मानोहाउ (ग्राम. ३. १२. ११०. २) इति चतुर्थमन्द्रादिक द्वितीयम् । ते उभे सौभरस्य सुभरिपुत्रस्य पक्थस्य एतन्नामकम्य ऋषेः म्वभृते सामनी । सौभरमित्यत्र ५२ आर्षेयब्राह्मणम्

ऋषिविकल्पं दर्शयति - पथो वा पाथंस्य वा इति । अथवा पथः पथिसंबन्धिनी वा । पाथंस्य अन्यगोत्रस्य ऋषेः स्वभूते सामनी । पकथ इति केवलस्योपादानात् अन्यगोत्र इत्यवगम्यते ॥ ४ ॥

दैवानीकं च ॥ १.१३.५॥

भद्रो नो अग्नीगहुत(सा. १११) इति अस्य सामैकम् । भद्रो नः (ग्राम. ३. १२. १११. १) इति चतुर्थतृतीयादिकं दैवानीकम् । दैवानीकॊ नाम ऋषिः तेन दृष्टम् । चकारो वाक्यभेदार्थः ॥ ५॥

गौतमं च साध्यं वा ॥ १.१३.६॥

यजिष्ठं त्वा ववृमहे (सा. ११२) इत्यत्र सामैकम् । याजि (ग्राम. ३. १२. ११२. १) इति तृतीयमन्द्रादिकं गौतमंसंम्बंन्धिनॊ गॊतमम्। तस्य संबन्धि । यद्वा साध्यम् । सिद्धिर्नाम ऋषिः तस्य संबन्धि ॥ ६ ॥

जमदग्नेश्च संवर्गः ॥ १.१३.७॥

तदग्ने धुम्नमा भर (सा. ११३) इत्यत्रैकं साम । तदग्ने घम्नम् (ग्राम. ३.१२. ११३. १) इति चतुर्थमन्द्रादिकं जमदग्नैः संवर्गनामधेयम् । सुवर्जाः सवर्गात् संवर्गः स्तोत्राणां फलप्रदम् इत्यर्थः ॥ ७ ॥

अगस्त्यस्य च राक्षोघ्नम् ॥ १.१३.८॥

यद्वा उ विशतिः (सा. ११४) इत्यत्र सामैकम् । यद्वा ऊविश्पतिः (प्राम. ३. १२. ११४.१) इति द्वितीयक्रुष्टद्वितीयादिकम् अगस्त्यस्य स्वभूतं प्रथमः अध्यायः (१३) ५३

राक्षोघ्नं रक्षोहननसमर्थमेतन्नामकं साम । रक्षोहननशब्दादणि उपधालोपे कुत्वे च कृते रूपम् । चकारो भिन्नवाक्यद्योतकः ॥ ८ ॥

इति श्री सायणाचर्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्रामणे प्रथमाध्याये त्रयोदशः खण्डः ॥ १३ ॥