साधनदीपिका/नवमकक्षा

विकिस्रोतः तः
← अष्टमकक्षा साधनदीपिका
नवमकक्षा
[[लेखकः :|]]
दशमकक्षा →

(९)
नवमकक्षा

अथ मुख्यं तत्त्वं निरूप्यते । श्रीभागवते (१.२.११)

वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् ।
ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥

अत्र तत्तत्त्वत्रयेषु भगवानेव मुख्यः । भगवान् स्वयं भगवान् । स तु
श्रीकृष्णो व्रजेन्द्रनन्दनो गोविन्द एव । तत्र प्रमाणम्

ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः ।
अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥१॥

यत्तु ब्रह्म, तदस्यैव प्रभारूपम्, यथा

यस्य प्रभा प्रभवतो जगद्अण्डकोटि
कोटिष्वशेषवसुधादि विभूतिभिन्नम् ।
तद्ब्रह्म निष्कलमनन्तमशेषभूतं
गोविन्दमादिपुरुषं तमहं भजामि ॥४०॥

तत्र भगवद्गीता ब्रह्मणो हि प्रतिष्ठाहमित्यादि ।

यश्च परमात्मा स तु अस्य भगवतोऽंशांशरूपः, यथा द्वितीये (२.२.८)

केचित्स्वदेहान्तर्हृदयावकाशे
प्रादेशमात्रं पुरुषं वसन्तम् ।
चतुर्भुजं कञ्जरथाङ्गशङ्ख
गदाधरं धारणया स्मरन्ति ॥

कृष्णब्रह्मणोरैक्यम् (ऋष्२.३.२१८) किरणारोकोपमाजुषोः इत्यादेः । अतस्तत्
तत्त्वत्रयेषु परमतत्त्वरूपस्य स्वयंभगवतो मुख्यत्वं दृश्यते । तस्माद्
योगत्रयेषु भक्तियोग एव मुख्यः । स तु अन्याभिलाषिताशून्यमित्यादुअ
उत्तमत्वेन गृहीतः । यथा श्रीभागवते (११.११.४८)

प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धव ।
नोपायो विद्यते सम्यक्प्रायणं हि सतामहम् ॥ इत्यादेः ।

[भक्तिरसामृतसिन्धौ १.२.१,५]

सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ।
वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥

तत्र रागानुगाया मुख्यत्वम्, यथा (ऋष्१.२.२८१)

रागबन्धेन केनापि तं भजन्तो व्रजन्त्यमी ।
अङ्घ्रिपद्मसुधाः प्रेमरूपास्तस्य प्रिया जनाः ॥

वैशिष्ट्यं पात्रवैशिष्ट्याद्रतिरेषोपगच्छति । इति (ऋष्२.५.१)

यथाविधस्वरूपानुगत्यलक्षणं श्रीमत्प्रभुचरणैः (ऋष्१.२.२७०)

विराजन्तीमभिव्यक्तां व्रजवासी जनादिषु ।
रागात्मिकामनुसृता या सा रागानुगोच्यते ॥

इति पूर्वं विचारितमस्ति । श्रीभागवते च (१०.१४.३२)

अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥

अथ रागानुगा सा द्विधा सम्बन्धानुगा कामानुगा च । तत्र कामानुगा
मुख्या । सा द्विधा सम्भोगेच्छामयी तत्तद्भावेच्छामयी च ।

केलितात्पर्यवत्येव सम्भोगेच्छामयी भवेत् ।
तद्भावेच्छात्मिका तासां भावमाधुर्यकामिता ॥ (ऋष्१.२.२९९)

तत्राधिकारी
श्रीमूर्तेर्माधुरीं प्रेक्ष्य तत्तल्लीलां निशम्य वा ।
तद्भावाकाण्क्षिणो ये स्युस्तेषु साधनतानयोः । (ऋष्१.२.३)

मत्तोऽस्य सुखं भादिति सम्भोगेच्छामयी । मत्तोऽनयोः सुखं भूयादिति तत्
तद्भावेच्छामयीति द्वयोर्भेदः । यथा श्रीभागवते (१०.४४.१४)

गोप्यस्तपः किमचरन् यदमुष्य रूपं
लावण्यसारमसमोर्ध्वमनन्यसिद्धम् ।
दृग्भिः पिबन्त्यनुसवाभिनवं दुरापम्
एकान्तधाम यशसः श्रिय ऐश्वरस्य ॥

त्रैलोक्ये पृथिवी धन्या यत्र वृन्दावनं पुरी ।
तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम ॥

श्रीभक्तिरसामृतसिन्धौ (२.५.३८) चयथोत्तरमसौ इत्यादि, इत्युद्धवादयोऽप्य्
एतं वाञ्छति भगवत्प्रियाः । (१.२.२८६) इति । तद्यथा (भागवतम् १०.४७.६१)

आसामहो चरणरेणुजुषामहं स्यां
वृन्दावने किमपि गुल्मलतौषधीनाम् ।
या दुस्त्यजं स्वजनमार्यपथं च हित्वा
भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥

ब्रह्मस्तुतिः (१०.१४.३४)

तद्भूरिभाग्यमिह जन्म किमप्यटव्यां
यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् । इत्यादि ।

अतो व्रजवासिजनादिषु विराजमानाया रागात्मिकाया मुख्यत्वेन रागानुगाया
मुख्यत्वम् । तद्अनुसारत्वात् । अस्यामेव रागानुगायां गृहस्थोदासीन
भेदेनाधिकारिणो द्विविधा दृश्यन्ते । तत्र उदासीना मुख्याः । तद्यथा श्री
नारदवाक्ये (भागवतम् १.५.५)

तत्साधु मन्येऽसुरवर्य देहिनां
सदा समुद्विग्नधियामसद्ग्रहात् ।
हित्वात्मपातं गृहमन्धकूपं
वनं गतो यद्धरिमाश्रयेत ॥ इत्यादि ।

किं वासनं ते गरुडासनाय
किं भूषणं कौस्तुभभूषणाय ।
लक्ष्मीकलत्राय किमस्ति देयं
वागीश किं ते वचनीयमास्ते ॥ इत्यादेः ।

ऐश्वर्यमाधुर्यानुभविभक्तानां दिविव्धत्वेऽपि पुनश्चतुर्विधा भक्ताः
श्रीलघुभागवतामृते (२.५.३९)

यस्य वासः पुराणादौ ख्यातः स्थानचतुष्टये ।
व्रजे मधुपुरे द्वारवत्यां गोलोक एव च ॥

तत्रैव (१.५.४८८९)

व्रजेशादेरंशभूता ये द्रोणाद्या अवातरन् ।
कृष्णस्तानेव वैकुण्ठे प्राहिणोदिति साम्प्रतम् ॥
प्रेष्ठेभ्योऽपि प्रिअयतमैर्जनैर्गोकुलवासिभिः ।
वृन्दारण्ये सदैवासौ विहारं कुरुते हरिः ॥

बृहद्गणोद्देशदीपिकायाम् (१२५)सर्वा एवाखिलं कर्म जानन्ते इत्यादेः । तथा
हि लघुभागवतामृते (१.५.४९८)यत्तु गोलोकनाम स्यात्तच्च गोकुलवैभवम्
इति । तथापि स्तवमालायां (नन्दापहरणम्) चवैकुण्ठं यः सुष्ठु
सन्दर्श्य इत्यादि ।

श्रीकृष्णसन्दर्भे (११६) श्रीवृन्दावने श्रीगोलोकदर्शनं तु
तस्यैवापरिच्छिन्नस्य गोलोकाख्यवृन्दावनाप्रकटप्रकाशविशेषः
पर्यवस्यतीति माहात्म्यावलम्बनेन भजतां स्फुरतीति ज्ञेयम् । तत्तु न
केवलमुपासनास्थानमेवेदं प्राप्तिस्थानमिदमेव ।

तत्रोपासकाश्चतुर्विधाःकेवलैश्वर्यानुभविनः, माधुर्य
मिश्रैश्वर्यानुभविनः, ऐश्वर्यमिश्रमाधुर्यानुभविनः, केवल
माधुर्यानुभविनश्च । तत्र केवलैश्वर्यानुभविनां स्थानं वैकुण्ठं
माधुर्यमिश्रैश्वर्यानुभविनां महावैकुण्ठपरव्योमगोलोकम् ।
ऐश्वर्यमिश्रमाधुर्यानुभविनां पुरद्वयम् । केवलमाधुर्यानुभविनां
तु श्रीवृन्दावनम् (Bऋष्१.२.३०३)

रिरंसां सुष्ठु कुर्वन् यो विधिमार्गेण सेवते ।
केवलेनैव स तदा महिषीत्वमियात्पुरे ॥

किं च स्वकीयापरकीययोर्मध्ये परकीयायामेव मुख्यो रसो जायते इति
पूर्वं विचारितोऽस्ति । अतो रतिस्त्रिधासाधारणी समञ्जसा समर्था च । तत्र
साधारणी सम्भोगेच्छानिदाना कुब्जादिषु । समञ्जसा तु पत्नीभावाभिमान
मयी क्वचिद्भेदितसम्भोगेच्छासान्द्रा रुकिम्ण्य्आदिषु । समर्था खलु स्व
स्वरूपजाता श्रीकृष्णसुखस्वरूपा सान्द्रतमा श्रीराधिकादिषु । यथा (ऊण्
१४.५३)

स्वस्वरूपात्तदीयाद्वा जाता यत्किंचिद्अन्वयात् ।
समर्था सर्वविस्मारिगन्धा सान्द्रतमा मता ॥

किं च मन्त्रमयी स्वारसिक्योर्मध्ये स्वारसिकी श्रेष्ठा । स्वारसिकी चात्र श्री
राधाप्राणबन्धोरित्यत्र मासयामपि सेवायां सद्भावात् । अतएव गीतायां
(१२.१०)

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ॥

अभ्यासो नाम मनोयोगो मत्कर्म श्रवणकीर्तनादि ।

श्रीहरिभक्तिविलासे (२०.३८२)

एवमेकान्तिनां प्रायः कीर्तनं स्मरणं प्रभोः ।
कुर्वतां परमप्रीत्या इत्यादि ।

एवं भक्तिसन्दर्भे[* ॰१२]

सद्धर्मशासको नित्यं सदाचारनियोजकः ।
सम्प्रदायी कृपापूर्णो विरागी गुरुरुच्यते ॥

टीकाविरागी विशिष्टरागवान् । तस्माद्दोषदृष्ट्या विषयपरित्यागः सुतरां
लभ्यते ।

तथा हि

विषयाविष्टचित्तानां विष्ण्व्आवेशः सुदूरतः ।
वारुणीदिग्गतं वस्तु व्रजन्नैन्द्रीं किमाप्नुयात् ॥[* ॰१३]

गृहारम्भो हि दुःखाय न सुखाय कदाचन । इति च ।

श्रीप्रह्लादवाक्ये (७.५.५) च

तत्साधु मन्येऽसुरवर्य देहिनां
सदा समुद्विग्नध्यामसद्ग्रहात् ।
हित्वात्मपातं गृहमन्धकूपं
वनं गतो यद्धरिमाश्रयेत ॥

श्रीभागवते भगवद्उक्तौ (११.७.६)

त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु ।
मय्यावेश्य मनः सम्यक्समदृग्विचरस्व गाम् ॥

त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्
भजन्नपक्वोऽथ पतेत्ततो यदि ।
यत्र क्व वाभद्रमभूदमुष्य किं
को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ इति ।

(गीता १८.६५)
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।

(गीता ९.३०)
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥

(गीता ९.२२)
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥

इत्यादेः बहुशः ।

विशेषतो रागानुगाधिकारिलक्षणं दर्शयति (ऋष्१.४.७)

न पतिं कामयेत्कञ्चिद्ब्रह्मचर्यस्थिता सदा ।
तम्एव मूर्तिं ध्यायन्ती चन्द्रकन्तिर्वरानना ॥

स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च ॥
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।
विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥ इत्यादि ।

ये तु भगवत्परिकराणां विषया दृश्यन्ते । ते तु सिद्धानां तेषां भव
बन्धनाय न भवन्ति । नित्यसिद्धा मुकुन्दवतित्यादेः । किं च श्रीस्वामि
चरणैः गृहस्थितस्य पुनरासक्तिसम्भवातित्यादेः ।

प्रसङ्गात्शिष्यलक्षणम् (ः १.५९६२, मन्त्रमुक्तावल्याम्)

शिष्यः शुद्धान्वयः श्रीमान् विनीतः प्रियदर्शनः ।
सत्यवाक्पुण्यचरितोऽदभ्रधीर्दम्भवर्जितः ॥
कामक्रोधपरित्यागी भक्तश्च गुरुपादयोः ।
देवताप्रवणः कायमनोवाग्भिर्दिवानिशम् ॥
नीरुजो निर्जिताशेषपातकः श्रद्ध्यान्वितः ।
द्विजदेवपितॄणां च नित्यमर्चापरायणः ॥
युवा विनियताशेषकरणः करुणालयः ।
इत्यादिलक्षणैर्युक्तः शिष्यो दीक्षाधिकारवान् ॥ इत्यादि ।

नन्वनुकार्यज्ञानं विना कथमनुसरणज्ञानम् । इत्यत आह

रागानुगाविवेकार्थमादौ रागात्मिकोच्यते ॥ (ऋष्१.२.२७१)

टीकाथ स्वरूपलक्षणतटस्थलक्षणाभ्यां तामेवोपपादयति ।

इष्टे स्वारसिकी रागः परमाविष्टता भवेत् ।
तन्मयी या भवेद्भक्तिः सात्र रागात्मिकोदिता ॥ (ऋष्१.२.२७२)

टीकेष्टे स्वाभीप्सितप्रेमविषये श्रीनन्दनन्दने इति यावत् । स्वारसिकी
स्वाभाविकी परमाविष्टता कायिकी वाचिकी मानसी चेष्टा । सा रागो भवेत् । तन्
मयी तन्मात्रप्रेरिता या भक्तिः सा रागातिम्कोदितेति योजना । इष्टे प्रेममय
गाढतृष्णेति स्वरूपलक्षणम् । इष्टे स्वारसिकी परमाविष्टतेति तटस्थ
लक्षणम् ।

अथ तस्या विभागमाह (ऋष्१.२.२७३)

सा कामरूपा सम्बन्धरूपा चेति भवेद्द्विधा ॥

यद्यपि कामरूपायामपि सम्बन्धविशेषोऽस्त्येव, तथापि पृथग्उपादानं
वैशिष्ट्यापेक्षया ।

तत्र कामरूपमाह (ऋष्१.२.२८३)

सा कामरूपा सम्भोगतृष्णां या नयति स्वताम् ।
यदस्यां कृष्णसौख्यार्थमेव केवलमुद्यमः ॥

अथ सम्बन्धरूपा (ऋष्१.२.२८८)
सम्बन्धरूपा गोविन्दे पितृत्वाद्य्आभिमानिता ।
अत्रोपलक्षणतया वृष्णीनां वल्लवा मताः ॥

अत्र शुद्धसम्बन्धरूपायां सम्बन्धाद्वृष्णयः (७.१.२०) इत्यत्र वृष्णीनाम्
उपलक्षणतया ये वल्लवाः प्राप्तास्त एवात्र मताः । न तु महिमज्ञानयुक्ता
द्वारकादिनित्यसिद्धभक्ता इत्यर्थः । तद्वेत्तुमेवोपपादयति (१.२.२८८)

यदैश्यज्ञानशून्यत्वादेषां रागे प्रधानता ॥

अथ पूर्वोक्तरागानुगाभक्तेर्विभागमाह (१.२.२९०)

रागात्मिकाया द्वैविध्याद्द्विधा रागानुगा च सा ।
कामानुगा च सम्बन्धानुगा चेति निगद्यते ॥

तत्र अधिकारिलक्षणम् (१.२.२९१)

रागात्मिकाइकनिष्ठा ये व्रजवासिजनादयः ।
तेषां भावाप्तये लुब्धो भवेदत्राधिकारवान् ॥

ननु रागानुगायां लुब्धश्चेदधिकारवान् तर्हि लोभज्ञानं विना कथं
प्रवृत्तिरित्यत आह लोभस्वरूपम् (ऋष्१.२.२९२)

तत्तद्भावादिमाधुर्ये श्रुते धीर्यदपेक्षते ।
नात्र शास्त्रं न युक्तिं च तल्लोभोत्पत्तिलक्षणम् ॥

टीकातत्तद्भावादिमाधुर्ये श्रुते श्रीकृष्णभक्तमुखात्श्री
भागवतादिषु श्रवणद्वारा यत्किञ्चिदनुभूते सति धीर्यन्माधुर्यादिकम्
अपेक्षते कदा मम तद्भावमाधुर्यचेष्टा माधुर्यं च भवेतिति तदेव
लोभोत्पत्तेर्लक्षणं स्वरूपम् । अत आश्रयिष्यमाणे गुरौ तद्भावमाधुर्यम्
आयातम् । यतः (भागवतम् ११.२.२१) तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तममित्य्
एकादशस्कन्धपद्यटीकायां श्रीश्रीधरस्वामिभिरप्युक्तम् । अन्यथा
न्यायतो बोधसंचाराभावात् ।

विक्रीडितं व्रजवधूभिरिदं च विष्णोः
श्रद्धान्वितो यः शृणुयादथ वर्णयेद्वा ।
भक्तिं परां भगवति परिलभ्य कामं
हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ (भागवतम् १०.३३.३९)

टीकाहृद्रोगं कामादिकमपि शीघ्रमेव त्यजति । अत्र सामान्यतोऽपि
परमत्वसिद्धेस्तत्रापि परमश्रेष्ठश्रीराधासंवलितलीलामयतद्
भजनं तु परमतममेवेति स्वतः सिध्यति । किन्तु रहस्यलीला तु पौरुष
विकारवदिन्द्रियैः पितृपुत्रदासभावैश्च नोपास्या स्वीयभावविरोधात् ।
रहस्यत्वं च तस्याः क्वचिदल्पांशेन क्वचित्तु सर्वांशेनेति ज्ञेयम् । (हक्ति
सन्दर्भे ३३८)

तत्रत्यभक्तिमार्गा दर्शिताः । तथा हिस्वपुंस्त्वभावनायां तु नैव
रागानुगां गता श्रीदशमे श्रुत्य्अध्याये स्त्रिय उरगेन्द्रभोगभुजदण्ड
विषक्तधियो [भागवतम् १०.८७.२३] इत्यादिः । श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते
मनः (भागवतम् १०.९०.२६) । न पतिं कामयेत्कञ्चिद्ब्रह्मचर्यस्थिता सदा (ऋष्
१.४.७) । एवं वेदस्तुतौ (!०.८७.२१)

दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश्
चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ।
न परिलषन्ति केचिदपवर्गमपीश्वर ते
चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ (१०.८७.२१)

टीकायानि कुलानि शिष्योपशिष्यतया तेषां सङ्गेन विसृष्टगृहाः ।

अथ रागानुगाङ्गान्याह (ऋष्१.२.२९४५, ३०९, ३००२, ३०७)

कृष्णं स्मरन् जनं चास्य प्रेष्ठं निजसमीहितम् ।
तत्तत्कथारतश्चासौ कुर्याद्वासं व्रजे सदा ॥
सेवा साधकरूपेण सिद्धरूपेण चात्र हि ।
तद्भावलिप्सुना कार्या व्रजलोकानुसारतः ॥
कृष्णतद्भक्तकारुण्यमात्रलाभैकहेतुका ।
पुष्टिमार्गतया कैश्चिदियं रागानुगोच्यते ॥
पुराणे श्रुयते पाद्मे पुंसमपि भवेदियम् ॥
पुरा महर्षयः सर्वे दण्डकारण्यवासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुमैच्छन् सुविग्रहम् ॥
ते सर्वे स्त्रीत्वमापन्नाः समुद्भूताश्च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥
तथापि श्रुयते शास्त्रे कश्चित्कुरुपुरीस्थितः ।
नन्दसूनोरधिष्ठानं तत्र पुत्रतया भजन् ।
नारदस्योपदेशेन सिद्धोऽभूद्वृद्धवर्धकिः ॥

टीकासिद्धिऽभूदिति बालवत्सहरणलीलायां तत्पितॄणामेव सिद्धिर्ज्ञेया । एवं
च सति श्रुइत्कन्याचन्द्रकान्तिप्रभृतीनां नित्यसिद्धपर्करानुगत्याभावात्
श्रीनन्दनन्दनस्य प्रकाशरूपस्यैव प्राप्तिर्न तु तादृशस्वरूपस्य । अतएव
प्रामाणिकैरप्युक्तं धाम्नोऽभेदेऽपि परिकरभेदे प्रकाशः । यथा तासां
मध्ये द्वयोर्द्वयोः (१०.७७.७) इति । नित्यसिद्धानुगतानां तु श्रीनन्द
नन्दनस्य तादृशस्वरूपस्यैव प्राप्तिरित्यानुगत्यापेक्षावश्यकीति भूयान्
विशेषोऽस्तीति विभावनीयम् ।

अथ चन्द्रकान्तिप्रभृतिषु रागानुगीयगुरुचरणावलम्बनस्यादृष्टत्वाद्
रागानुगायामेतस्य कारणता न सम्भवति चेन्न । सामान्यतस्तादृशगुरु
चरणावलम्बनस्य कारणतायाः साक्षात्परम्परया स्वीकारात् । यत्र
साक्षात्कारणता न सम्भवति तत्र जन्मान्तरीणकारणकल्पनं फलबलात् ।
अतएवालङ्कारिकैर्बालक्सय कवितायां तथैव कल्प्यते । अतः स्वयमेव वक्ष्यते
(Bऋष्१.३.५७)
साधनेक्षां विना यस्मिन्नकस्माद्भाव ईक्ष्यते ।
विघ्नस्थगितमत्रोह्यं प्राग्भवीयं सुसाधनम् ॥

अतएव गोपालोपासकाः पूर्वमप्राप्ताभीष्टसिद्धयः इत्यादिकं च ।
अथ भावः (Bऋष्१.३.१)
शुद्धसत्त्वविशेषात्मा प्रेमसूर्यांशुसाम्यभाक् ।
रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते ॥

यथा तन्त्रे
प्रेम्णस्तु प्रथमावस्था भाव इत्यभिधीयते ।
सात्त्विकाः स्वल्पमात्राः स्युरत्राश्रुपुलकादयः ॥

अथ प्रेमा (Bऋष्१.४.१)
सम्यङ्मसृणितस्वान्तो ममत्वातिशयाङ्कितः ।
भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥

यथा पञ्चरात्रे
अनन्यममता विष्णौ ममता प्रेमसङ्गता ।
भक्तिरित्युच्यते भीष्मप्रह्लादोद्धवनारदैः ॥

(ऋष्१.४.१५१६)
आदौ श्रद्धा ततः साधुसङ्गोऽथ भजनक्रिया ।
ततोऽनर्थनिवृत्तिः स्यात्ततो निष्ठा रुचिस्ततः ॥
अथासक्तिस्ततो भावस्ततः प्रेमाभ्युदञ्चति ।
साधकानामयं प्रेम्नः प्रादुर्भावे भवेत्क्रमः ॥

(ऋष्२.१.४६, १०)
अथास्याः केशवरतेर्लक्षिताया निगद्यते ।
सामग्रीपरिपोषेन परमा रसरूपता ॥
विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
स्वाद्यत्वं हृदि भक्तानामानीता श्रवणादिभिः ।
एषा कृष्णरतिः स्थायी भावो भक्तिरसो भवेत् ॥
प्राक्तन्याधुनिकी चास्ति यस्य सद्भक्तिवासना ।
एष भक्तिरसास्वादस्तस्यैव हृदि जायते ॥
कृष्णादिभिर्विभावाद्यैर्गतैरनुभवाध्वनि ।
प्रौढानन्दचमत्कारकाष्ठामापद्यते पराम् ॥

तथा हि श्रुतिःरसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति इति ।

उपपतौ परकीयायामेव रसोत्कर्षः । अतएव उज्ज्वलनीलमणौ (१.१९)

अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः ॥

टीकात्रैव उपपतौ । तथा च भरतेन (ऊण्१.२०२१)

बहु वार्यते खलु यत्र प्रच्छन्नकामुकत्वं च ।
या च मिथो दुर्लभता सा मन्मथस्य परमा रतिः ॥
लघुत्वमत्र यत्प्रोक्तं तत्तु प्राकृतनायके ।
न कृष्णे रसनिर्यासस्वादार्थमवतारिनि ॥

पुनस्तत्रैव (ऊण्३.१९)
कन्यकाश्च परोढाश्च परकीया द्विधा मताः ।
व्रजेशव्रजवासिन्य एताः प्रायेण विश्रुताः ।

तथा हि रुद्रः (ऊण्३.२०)
वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।
तदेव पञ्चबाणस्य मन्ये परममायुधम् ॥

विष्णुगुप्तसंहितायां च (ऊण्३.२१)
यत्र निषेधविशेषः सुदुर्लभत्वं च यन्मृगाक्षीणाम् ।
तत्रैव नागराणां निर्भरमासज्जते हृदयम् ॥

(ऊण्३.२२)
आः किं वान्यद्यतस्तस्यामिदमेव महामुनिः
जगौ पारमहंस्यां च संहितायां स्वयं शुकः ॥

यथा श्रीदशमे (१०.३३.१९)
कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ।
रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥

टीकागोपीनां योषित इति तासां स्पष्टमेव परकीयत्वम् ।

ता वार्यमाणाः पतिभिः पितृभिर्भातृबन्धुभिः । (भागवतम् १०.३३.१९)

यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग
स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् । (भागवतम् १०.२९.३२)

तद्यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ।
क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत ॥ (१०.२९.२२)

भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया । (१०.२९.२४)

अस्वर्ग्यमयशस्यं च कृच्छ्रं भयावहम् ।
जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियाः ॥ (१०.२९.२६)

तत्रैव
स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता ।
प्रतीपमाचरद्ब्रह्मन् परदाराभिमर्शनम् ॥ (१०.३३.२७)

तथा श्र्येकादशे (११.१२.१३)
मत्कामा रमणं जारमस्वरूपविदोऽबलाः ॥

पद्मपुराणे च
गोपनारीभिरनिशं यत्र क्रीडति कंसहा ॥

क्रमदीपिकायां च
गोगोपगोपवनितानिकरैः परितमिति ।

बृहद्गौतमीयतन्त्रे च
अत्र या गोपपत्न्यश्च निवसन्ति ममालये ।
श्रीगोपालस्तवे
विचित्राम्बरभूषाभिर्गोपनारीभिरावृतम् ॥ इति ।

बृहद्वामने च
जारधर्मेण सुस्नेहं सर्वतोऽधिकमुत्तमम् ।
मयि सम्प्राप्य सर्वोऽपि कृतकृत्यो भविष्यति ॥ इति ।

अथ श्रीरासपञ्चाध्यायीश्रीबृहद्वैष्णवतोषण्यां श्रीसनातनगोस्वामि
चरणैरुक्तम् (१०.२२.२१)

याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः ।
यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः ॥

टीकाभर्जिताः क्वथिता धानाः प्रायो बीजाय फलान्तरोत्पादनाय नेशते । किन्तु
स्वयं भोग्यतापत्त्या सद्य एव परमसुखाय समर्था भवन्तीत्यर्थः । इत्य्
एवं पतित्वेन प्रेमविशेषासिद्धेरुपपतित्वेनैव तत्संसिद्धेरिति भावः । तद्
एवाह यातेति । हे अबला इत्यातिबाल्यं सूचयति । अतोऽधुना रत्य्अयोग्या इति भावः ।
यद्वा पूर्वोक्तन्यायेन सर्वतोऽधिकशक्तिमत्य इत्यर्थः । प्रकारविशेषेण
मद्वशीकारविशेषात् । यतः सिद्धाः सम्पन्नकामित्वात्तद्अतीतफला इत्य्
अर्थः । इमा निकट एवैष्यच्छरत्कालीना इति तासां विदूरवर्तित्वेऽपि इमा इति
सन्निहिततया उक्तिः सान्त्वनार्था । अन्यत्समानम् ।

यद्वा, हेमन्तस्योत्तरमाससम्बन्धिनीरागमिनीः क्षपाः मया सह रमणं
प्राप्स्यथ इति ।

ननु अस्मत्सङ्कल्पितं त्वयोद्वहनसुखं सिध्यतु, तेन रासक्रीडादिषु सुखं
च सम्पद्यताम् । तत्राह यदिति । यदुद्दिश्य आर्यायाश्चिच्छक्तेः कात्यायन्या
अर्चनं व्रतं चेरुर्भवत्यः, तदिदं मयोक्तमौपपत्येन रासक्रीडादि
सुखमेवेत्यर्थः । विवाहेन पतित्वे रासक्रीडादिसुखविशेषो न सम्पद्यत
इति भावः । सतीः हे सत्य इति औपपत्येऽपि यूयं सर्वथा साध्व्य एव । मद्एक
मात्रनिष्ठत्वादिति भावः । तत्त्वतोऽनौपपयात्विवाहिताभ्योऽप्यधिकप्रियत्वात्


यद्वा सतीरिति क्षपाविशेषणम् । उत्तमा रासानन्दाविर्भाविकाः शारदाः
शीतोष्णादिरहिता ज्योत्स्नाश्चेत्यर्थः ।

यद्वा तत्क्रीडामाहात्म्यमेवाह यद्यस्मात्सत्यो लक्ष्मीधरणादयः । इदं
रासक्रीडादिसुखमुद्दिश्य आर्यार्चनव्रतं चेरुरेव, न तु तत्सुखं प्रापुर्
इत्यर्थः । यद्रमणमिदं व्रतम् । अन्यत्समानम् ।

श्रीमज्जीवगोस्वामिचरणैःअथ व्रजे प्रकटायां च श्रीकृष्णस्यौपपत्यं
नित्यम् । श्रीराधिकादीनां च परकीयात्वं नित्यम् । तयोः स्वरूपेण द्वैविध्यं
नास्ति । किन्तु अप्राकृतद्वापरे प्राकृतद्वापरस्य मिलने स्वयंरूपे श्रीनन्द
नन्दने वसुदेवनन्दनादिषु प्रकाशेषु मिलितेषु सत्सु लीलायाः प्राकट्यं
भवति । यथोक्तमाकरे (ळ्Bहाग्१.५.४३८)

प्रपञ्चगोचरत्वेन सा लीला प्रकटा स्मृता ।
अन्यास्त्वप्रकटा भान्ति तादृश्यस्तद्अगोचराः ॥

किं च श्रीकृष्णस्यौपपत्याभावे रसोत्कर्षाभावः स्यात् । यथाकरे (ऊण्१.१९,२१)

अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः ॥
लघुत्वमत्र यत्प्रोक्तं तत्तु प्राकृतनायके ।
न कृष्णे रसनिर्यासस्वादार्थमवतारिनि ॥

अतएव एकादशे (११.१२.१३)

मत्कामा रमणं जारमस्वरूपविदोऽबलाः ।
ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः ॥

अस्य व्याख्या स्वदशश्लोकीभाष्ये कृतैव । तत्रेदं बीजम् । यत्रौपपत्ये लोक
विरुद्धं धर्मविरुद्धं च । तत्रैव लघुत्वम् । यत्र तु तद्उभयाभावस्
तत्र बहुनिवारणादिहेतुभिः शृङ्गारस्य परमोत्कर्षता । तत्र लौकिकौपपत्ये
परदारान्न गच्छेच्च मनसापि कदाचन इति शास्त्रविरुद्धत्वेन पाप
सम्भवात् । धर्मविरुद्धमत एव निन्दासम्भवात्लज्जाकरत्वेन लोक
विरुद्धत्वं च । अतः स्वयं श्रीकृष्णेनापि (भागवतम् १०.२९.२६) ।

अस्वर्ग्यमयशस्यं च कृच्छ्रं भयावहम् ।
जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियाः ॥

इत्यनेन तस्यैवास्वर्ग्यादिकमुक्तम् । श्रीव्रजदेवीभिरपि निःस्वं त्यजन्ति
गणिका जारा भुक्त्वा रतां स्त्रियम् (१०.४७.७) इति तस्यैवोल्लेखः कृतः । श्रीकृष्णे तु
शास्त्रविरोधाभावेन पापासम्भवान्न धर्मविरुद्धत्वम् ।
अतएवानिन्द्यत्वेन लज्जाद्य्असम्भवान्न लोकविरुद्धं च । प्रत्युत लोके
सुष्ठूपादेयत्वमेवेति बहुनिवारणादिहेतुभिः शृङ्गारस्य परमोत्कर्षतेति
तासां परमदुःसहलोकलज्जानादरेण तद्एकप्रीत्या प्रवृत्तेरवगमात् । तत्
प्रीतेश्च सर्वशास्त्रफलरूपत्वात् । तत्र (१०.३३.२९)

धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥

इत्यादि । वचनप्रामाण्यात्न धर्मविरुद्धमपि, यथा

गोचारणायानुचरैश्चरद्वने
यद्गोपिकानां कुचकुङ्कुमाङ्कितम्

इत्यत्र यदक्रूरेण श्रीकृष्णस्यौपपत्यस्योल्लेखः कृतः । तत्खलु पितृव्यत्वेन
दासत्वेन चेत्युभयथा न युज्यते । किन्तु उपादेयत्वेनैव । न च प्रीति
विशेषोल्लेख एव कृत इति वक्तव्यम् । तद्वाचकशब्दयानुपादानात् । यत्खलु श्री
भागवतादिपुराणेषु नानाजातीयमुनिराजसभादिषु तद्औपपत्य
प्रतिपादिका रासलीला गीयते तत्तु सुष्ठूपादेयत्वेनैव, नान्यथा । तासां तद्
एकसुखार्थप्रवृत्तिस्तु यत्ते सुजात इत्यादिश्रीभागवतोक्तेः । तत्प्रीतेः सर्व
शास्त्रफलरूपत्वं यथा तत्रैव कुर्वन्ति हि त्वयि रतिं कुशलाः इति । कुशलाः
शास्त्रनिपुणाः इति टीका च ।

परकीयात्वं चोदाहरति चाकरे (ऊण्३.१८)

रागोल्लासविलङ्घितार्यपदवीविश्रान्तयोऽप्युद्धुर
श्रद्धारज्यद्अरुन्धतीमुखसतीवृन्देन वन्द्येहिताः ।
आरण्या अपि माधुरीपरिमलव्याक्षिप्तलक्ष्मीश्रियस्
तास्त्रैलोक्यविलक्षणा ददतु वः कृष्णस्य सख्यः सुखम् ॥ इति ।

कास्ता इत्यपेक्षायामाह (ऊण्३.१९)

कन्यकाश्च परोढाश्च परकीया द्विधा मताः ।

परमोत्कर्षमाह (ऊण्३.१९)

प्रच्छन्नकामता ह्यत्र गोकुएन्द्रस्य सौख्यता ॥

अत्र परकीयात्वविशेषे इति । तस्मात्श्रीकृष्णतद्धामसमयपरिकर
लीलादीनां सर्वलौकिकातीतत्वेऽपि यथा लोकवल्लीलायां सच्चिद्आनन्दमयश्री
विग्रहे मुत्रपुरीषोत्सर्गादिकं स्वीक्रियते तथा तल्लीलापरिकररूपाभिर्
मन्वादिभिः पाणिग्रहणे को दोषः । सङ्गमे तु दोष एव, स च नास्ति । यथा
(ऊण्३.३२)

न जातु व्रजदेवीनां पतिभिः सह सङ्गमः ॥

अतएव (भागवतम् १०.३३.२७)

मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥

इति पार्श्वस्थान्न तु सङ्गमोचितशय्यास्थानानि । तथापि योगमायया विवाहोचितं
लौकिकवैदिकं कर्म कारयित्वा पाणिग्रहणं प्रत्यायितम् ।

किं च गोकुलस्य प्रकटाप्रकटरूपेण प्रकाशद्वैविध्यस्वीकारे सति लीलाया
द्वैविध्यं स्यात् । तयोः स्वरूपेण द्वैविध्यस्याभावः । अतः श्रीराधिकादिभिः
सार्धं प्रकटविहारेऽपि श्रीकृष्णस्याधोक्षजत्वात्तत्परिवारसमय
लीलादीनां तत्स्वरूपशक्तिविलासत्वेन तत्समानधर्मत्वाच्च तस्य तेषां च
प्रपञ्चेन्द्रियाविषयत्वमप्राकट्यम् । ततः स्वयं प्रकाशत्वशक्त्या स्वेच्छा
प्रकाशया सोऽभिव्यक्त्यो भवेन्नेत्रे न नेत्रविषयस्त्वतः इति निर्धारणात्तस्य
तेषां च प्रपञ्चेन्द्रियविषयत्वं प्राकट्यम् । अतएव श्रीलघुभागवतामृते
(१.५.३९१२)

यदद्यापि दिदृक्षेरनुत्कण्ठार्ता निजप्रियाः ।
तां तां लीलां ततः कृष्णो दर्शयेत्तान् कृपानिधिः ॥
कैरपि प्रेमवैवश्यभाग्भिर्भागवतोत्तमैः ।
अद्यापि दृश्यते कृष्णः क्रीडन् वृन्दावनान्तरे ॥
इत्यत्रैव वृन्दावने लीलायाः प्रपञ्चागोचरायाः साक्षाद्दर्शनम् । अप्रकट
वृन्दावनसत्तापक्षे तु ब्र्हमह्रदनीताः इतिवदत्र तस्य साक्षाद्
दर्शनानुपपत्तिः ।

किं चाप्रकटवृन्दावनस्य सत्त्वे (उत्कलिकावल्लरी ६६)

प्रपद्य भवदीयतां कलितनिर्मलप्रेमभिर्
महद्भिरपि काम्यते किमपि यत्र तार्णं जनुः ।
कृतात्र कुजनेरपि व्रजवने स्थितिर्मे यया
कृपां कृपणगामिनीं सदसि नौमि तामेव वाम् ॥

तथा श्रीगान्धर्वसम्प्रार्थनाष्टके (१) वृन्दावने विहरतोरिह केलिकुञ्जे इत्य्
आद्य्अनुपपत्तिः । एवं च सति कल्पवृक्षादिरूपाणां निम्बादिरूपेण यत्प्रतीतिः
। तत्तु (नैषधीयचरिते ३.९४) पित्तेन दूने रसने सितापि तिक्तायते इतिवत् । नयन
दोषात्शङ्खं पीतमिव पश्यतीतिवत् । प्रकाशैकरूपायाः सूर्यकान्तेरुलूकेषु
तमोऽभिव्यञ्जकता इतिवच्च सापराधेष्वयोग्येषु तेषु तस्य स्वरूपाप्रकाश
प्रायिकत्वाच्च । अनेन श्रीकृष्णस्यौपपत्ये श्रीराधिकादीनां परकीयात्वे केचित्
पुनरेवमाहुःयः खलूपपत्याद्य्उत्कर्षो वर्णितः श्रीमद्भिर्ग्रन्थ
कृद्भिः स तु परेच्छयैव न तु स्वाभिमतः । तन्न तेषां प्रार्थनाविरोधात्
। यथा ह्युत्कलिकावल्लर्यां (४५)

आलीभिः सममभुपेत्य शनकैर्गान्धर्विकायां मुदा
गोष्ठाधीशकुमार हन्त कुसुमश्रेणीं हरन्त्यां तव ।
प्रेक्षिष्ये पुरतः प्रविश्य सहसा गूढस्मितास्यं बलाद्
आच्छिन्दानमिहोत्तरीयमुरसस्त्वां भानुमत्याः कदा ॥

इत्यत्र हि स्वकीयत्वेन तया तया तस्य पुष्पहरणम् । तेन च तत्तत्सख्या ।
उत्तरीयाकर्षणं न सम्भवतीति । तथा कार्पण्यपञ्जिकायां (३५) च

गवेषयन्तावन्योऽन्यं कदा वृन्दावनान्तरे ।
सङ्गमय्य युवां लप्स्ये हारिणं पारितोषिकम् ॥

तथा (३४)
गुर्वायत्ततया क्वापि दुर्लभान्योन्यवीक्षणौ ।
मिथः सन्देशसीधुभ्यां नन्दयिस्यामि वां कदा ॥

अत्रापि परस्परान्वेषणं दुल्रभान्योऽन्यवीक्षणं च परकीयायामेव
सम्भवतीति । एवं श्रीमन्महाप्रभोः परमान्तरङ्गभक्तश्रीरघुनाथ
दासगोस्वामिपादैर्यथा विलापकुसुमाञ्जल्याम् (८८)

भ्रात्रा गोयुतमत्र मञ्जुवदने स्नेहेन दत्त्वालयं
श्रीदाम्ना कृपणां प्रतोष्य जटिलां रक्षाख्यराकाक्षणे ।
नीतायाः सुखशोकरोदनभरैस्ते संद्रवन्त्याः परं
वात्सल्याज्जनकौ विधास्यत इतः किं लालनां मेऽग्रतः ॥

इत्यादि बहुशः ।
किं च व्रजे श्रीकृष्णस्य नवयौवने समृद्धिमान् शृङ्गारो ज्ञेयः । स च
महाभावस्वभावेन चिरप्रवासं विना निकटप्रवासेऽपि तत्स्फूर्त्या
सम्भवति । त्रुटिर्युगायते त्वामपश्यतामित्यादि न्यायेन ब्रह्मरात्रततिवद्
विरहेऽभूतित्यादि न्यायेन शरज्ज्योत्स्नारासे विधिरजनिरूपापि निमिषादिन्यायेन
च । अतएव श्रीमद्उज्ज्वजनीलमणौ (१५.२०३) सम्पन्नस्योदाहरणे श्री
हंसदूतस्य पद्यं दत्तम् । अतो विदग्धमाधवे (१.३६) पौगण्डत्वेन
भासमानत्वं दर्शितम् । यथा दुद्धमुहस्स वच्छस्स दाणिं को क्खु
उव्वाहौसरो । इत्यादौ ।

नवयौवनस्यैव सदास्थायित्वेन ध्येयत्वम् । यथा स्तवमालायां (उत्कलिका
वल्लरी १७) श्यामयोर्नववयःसुषमाभ्यामित्यादौ । अतः श्रीकृष्णदुग्ध
मुखत्वस्य सदा स्फूर्त्या श्रीव्रजेश्वर्यादिभिस्तस्य परिणयोद्यमः क्वापि न
कृतः । किमुत महाभावप्रभेदाधिरूढविशेषमादनभावस्वभावे ।
स च तं विना सम्भवतीति वक्तव्यम् । यथा श्र्यार्षवचनम्

वन्दे श्रीराधिकादीनां भावकाष्ठामहं परम् ।
विना वियोगं सम्भोगं या तुर्यमुदपादयत् ॥

अत्र भावकाष्ठां मादनरूपाम् । मादनस्य लक्षणम् (ऊण्१४.२१९, २२६, २२९)

सर्वभावोद्गमोल्लासी मादनोऽयं परात्परः ।
राजते ह्लादिनीसारो राधायामेव यः सदा ॥
न निर्वक्तुं भवेच्छक्या तेनासौ मुनिनाप्यलम् ॥।
स्फुरन्ति व्रजदेवीषु परा भावभिदाश्च याः ।
तास्तर्काय्गोचरत्या न सम्यगिह वर्णिताः ॥

इत्यादेश्च चिरनिकटप्रवासे चिर प्रवास स्फूर्त्या समृद्धिमान् सम्भोगो
भवतीति किमाश्चर्यम् ।

ननु तर्हि कथं श्रीगोस्वामिपादैः समृद्धिमान् सम्भोगो नववृन्दावने
उदाहृतः ? तत्तु स्पष्टलीलायां नन्दनन्दनवसुदेवनन्दनयोर्
एक्तवाभिमानात् । तद्यथा (११.१२.१३) मत्कामा रमणं जारमस्वरूप
विदोऽबलाः । तथा (१०.४६.३) गच्छोद्धव व्रजं सौम्य पित्रोर्नः प्रीतिमावहन्
इत्यादि । अतएव श्रीमद्उज्ज्वलनीलमणौ (१५.१८५६)

हरेर्लीलाविशेषस्य प्रकटस्यानुसारतः ।
वर्णिता विरहावस्था गोष्ठवामभ्रुवामसौ ॥
वृन्दारण्ये विहरता सदा रासादिविभ्रमैः ।
हरिणा व्रजदेवीनां विरहोऽस्ति न कर्हिचित् ॥

अतएव श्रीरसामृतसिन्धौ (२.५.१२८) श्रीभागवतादिगूढार्थः श्रीगोस्वामि
पादैर्दर्शितः । यथा

प्रोक्तेयं विरहावस्था स्पष्टलीलानुसारतः ।
कृष्णेन विप्रयोगः स्यान्न जातु व्रजवासिनाम् ॥

यथा हि यामलवचनं

कृष्णोऽन्यो यदुसम्भूतो यः पूर्णः सोऽस्त्यतः परम् ।
वृन्दावनं परित्यज्य स क्वचित्नैव गच्छति ॥ इति ।

स्पष्टल्कीला श्रीनन्दनन्दनवसुदेवनन्दनयोरेकात्मव्यञ्जिकाः । अस्पष्ट
लीला गूढलीला तयोर्भेदव्यञ्जिका । अतएव श्रीनन्दयशोदादीनां परिकरैः
सह द्वारवत्यादिगमनं व्रजेशादेरंशभूता ये द्रोणाद्या इत्यादिवत्ज्ञेयम्
। श्रीललितमाधवे (१०.३६) श्रीराधाप्रार्थना

या ते लीलारसपरिमलोद्गारिवन्यापरीता
धन्या क्षौणी विलसति वृता माथुरी माधुरीभिः ।
तत्रास्माभिश्चटुलपशुपीभावमुग्धान्तराभिः
संवीतस्त्वं कलय वदनोल्लासिवेणुर्विहारम् ॥ ३८ ॥

कृष्णः प्रिये तथास्तु ।

राधिका कधं बिअ ?

(कृष्णः स्थगितमिवापसव्यतो विलोकते ।)
(प्रविश्य गार्ग्या सहापटीक्षेपेण एकानंशा ।)

एकानंशासखि राधे ! मात्र संशयं कृथाः । यतो भवत्यः श्रीमति गोकुले
तत्रैव वर्तन्ते किन्तु मयैव कालक्षेपणार्थमन्यथा प्रपञ्चितम् । तदेतन्
मनस्युअन्भूयताम् । कृष्णोऽप्येष तत्र गत एव प्रतीयताम् ।

गार्गी (स्वगतम्)फलिदं मे तातमुहादो सुदेन ।

श्रीभागवते यथा श्रीनन्दनन्दनवसुदेवनन्दनयोरेकत्वव्यञ्जिका
स्पष्टा । तथा श्रीललितमाधवे विन्ध्यादारप्रसूताकीर्तिदाप्रसूतयोरेकत्व
व्यञ्जिका लीला स्पष्टा । यथा गूढलीलायां श्रीकृष्णो वसुदेवनन्दनरूपेण
गतस्तथा श्रीराधा सत्यभामारूपेण गता । यथा स्पष्टलीलायां वसुदेव
नन्दने नन्दनन्दनावेशस्तथा श्रीसत्यभामायां श्रीराधावेश इति ।

नन्वप्रकटलीलायां पूर्वरागो नास्तीति प्रकटलीलाविशेषोऽपेक्ष्यः । प्रकट
लीलायां समृद्धिमान् सम्भोगो नास्तीत्यप्रकटलीलाविशेषोऽपेक्ष्यः । अतएव
गोकुलस्य प्रकटाप्रकटप्रकाशयोः स्वरूपेण द्वैविध्यं स्यात् । एवं लीलायाश्
च ? तत्राह समृद्धिमान् सम्भोगस्तत्र प्रकटलीलायां न जातश्चेत्, तदर्थम्
अप्रकटलीलाविशेषोऽपेक्ष्यः । स तत्र जात एव यथा दन्तवक्रवधानन्तरं
रम्यकेलिसुखेनात्र मासद्वयमुवास ह इति ।

किं च स्वकीयासु समञ्जसा रतिः, सा चानुरागान्ताः । तत्र जातिभेदेन
समृद्धिमान् सम्भोगो रसनिर्यासत्वेन न कथ्यते । परकीयासु समर्था रतिः
। सा च भावान्ता । वैशिष्ट्यं पात्रवैशिष्ट्याद्रतिरेषोपगच्छति (ऋष्२.५.१) इति
समर्थारतिस्थायिकः समृद्धिमान् सम्भोगो रसनिर्यासत्वेन कथ्यते । अतएव
प्रकटलीलायां पूर्वरागसमृद्धिमन्तौ जातौ । अ प्रकटलीलाविशेष
स्वीकारेण किं प्रयोजनम् ? किं च जातप्राकट्याः पूर्वरागादिगता लीला
अप्रकटा अधुना वर्तन्ते तासां पुनः प्राकट्ये किं पुनः पूर्वरागादिरूपं
निजप्रयोजनं भवति । लीलायाः प्रकटायां समृद्धिमत आस्वादनमस्त्येव
। तदर्थं प्रकटलीलाविशेष इत्यसङ्गतिरिति । किन्तु रसशास्त्रे सम्भोगस्य
रात्रिप्राधान्यत्वात् । स च समृद्धिमान् रात्रावेव जायते यथा निकटदूरेत्यादि
पूर्ववत् ।

केचित्तु दन्तवक्रवधानन्तरं प्रौढयौवने ॰॰[* ॰१४] प्रौढयौवनं विचार्यते । आनुक्रमिकी लीला नित्या । सा च जन्म कर्म च मे दिव्यमित्य्
आदेः । तस्यां श्रीनन्दनन्दनस्य वयोगणनं श्रीवैष्णवतोषण्यां निर्णीतम्
एव । तत्तु पञ्चविंशत्य्अधिकशतवर्षपर्यन्तम् । तद्व्यवस्था । व्रजे
एकादशसमाः । तत्र सावित्र्यजन्माभावेन धर्मशास्त्रविरोधाद्विवाहो नास्ति
। रासक्रीडासुखसम्भोगे परकीयात्वमेवेत्यर्थः । मथुरायां
चतुर्विंशतिः वर्षाः । तत्रापि नास्ति विवाहः । ततः सम्भोगादनन्तरं
सत्यभामादीनाम् । ततः षोडशसहस्रकन्यानाम् । ततः पुत्रपौत्रादयो
बहवो जाताः । ततो दन्तवक्रवधानन्तरं लीलावसाने व्रजागमनम् । तत्रापि
केषांचिन्मते विवाहः श्रीराधादिभिः सम्मतः । तदसङ्गतम् । श्रीभागवते
कुत्राप्यवर्णितत्वात् । बन्धुवर्गाएर्निषेधाभावेन रसोत्कर्षाभावाच्च ।
अतएव गोचारणादिजन्यविरहाभावस्ततो रासदानमानादिलीलादेरभावेन
दूती प्रेषणादेरभावः स्यात् । अतएव श्रीरूपपादैर्नवयौवनस्य
सदाधेयत्वेन वर्णितत्वात्श्रीमहाप्रभोः पार्षदवृन्दैर्विवाहस्य कुत्राप्य्
अवर्णितत्वाच्च । श्रीपद्मपुराणमते ललितमाधवे विवाहवर्णनं कल्प
भेदेन समाधेयम् ।

तस्मात्सर्वेषां मते प्रकटाप्रकटलीलायां परकीयैव नित्यत्वात् । विवाहं
स्वीकृत्य तेनैव लीलाया अपरकटत्वं मत्वा स्वकीयाया नित्यत्वं मन्यते । तद्
असङ्गतम् । पूर्वहेतोः श्रीव्रजेश्वरादीनां श्रीकृष्णस्य सदा दुग्ध
मुखत्वस्फूर्त्या सावित्रजन्याभावेन विवाहाभावात् । नवयौवनसंवलित
पूर्णतमत्वस्य श्रीरूपगोस्वाम्य्आदिभिः सदा ध्येयत्वाच्च । तत्तु श्री
कृष्णस्य मथुरादिगमनाभावात् । स च कृष्णोऽन्यो यदुसम्भूतः इत्यादि ।
मथुरादिगमने तु पूर्णतरत्वादिपातात् । नवयौवनस्य सदा ध्येयत्वं यथा
स्तवमालायां (उत्कलिकावल्लरी १७)

श्यामयोर्नववयःसुषमाभ्यां
गौरयोरमलकान्तियशोभ्याम् ।
क्वापि वामखिलवल्गुवतंसौ
माधुरी हृदि सदा स्फुरतान्मे ॥ इत्यादेश्च ।

अस्मन्मते तु श्रीवसुदेवनन्दनरूपेण मथुराद्वारकादौ गत्वा
दन्तवक्रवधानन्तरं पुनर्व्रजमागत्य तत्र तु स्वयंप्रकाशरूपेण श्री
व्रजेन्द्रनन्दनेन लीलायाः प्रकटनं कृतम् । तत्तु त्रिमास्याः परतस्तासां
साक्षात्कृष्णेन सङ्गतिः इति जातम् । अस्य तु प्रकटाप्रकटे जातत्वं पूर्वमेव
लिखितम् । ततः श्रीमद्व्रजेन्द्रनन्दने पूर्णतरादिप्रकाशे । न तु मथुरा
द्वारकादौ च । अतः प्रकटाप्रकटे परकीयायाः सद्भावेन नित्यत्वात् । तत्तु
जयति जननिवास इत्यादेर्वर्तमानप्रयोगा बहवः सन्ति । अतः श्रीकृष्ण
चैतन्यमहाप्रभोः परिवारेषु श्रीमन्नित्यानन्दाद्वैतादिभिः श्री
भागवतानुसारेण प्रकटाप्रकटे व्रजलीलायां श्रीकृष्णस्यौपपत्यं
नित्यत्वेन स्वीकृत्य स्वस्वपरिवारे प्रवर्तितं दृश्यते । तेषु च श्रीगदाधर
स्वरूपरूपसनातनभट्टरघुनाथदासकर्णपूरादिभिस्तत्तन्
मतानुसारेण तत्र तत्रैव परकीयात्वं स्वस्वग्रन्थगणे वर्णयित्वा
प्रवर्तितं दृश्यते । लीलामात्रस्य नित्यत्वात् । तत्तु जयति जननिवासः इत्यादेः ।

तथा श्रीरामानुजाचार्यमध्वाचार्यप्रभृतिभिश्च लीलामात्रस्य नित्यत्वं
स्थाप्यते । अतो लीलामात्रस्य नित्यत्वेनानुक्रमिक्या लीलाया नित्यत्वे न दोषस्तस्मात्
प्रकटाप्रकटे परकीयाया नित्यत्वम् ।

तत्तु पुनः परिपाट्या विचार्यते । स्वयं भगवान् श्रीव्रजेन्द्रनन्दनः श्री
कृष्णचैतन्यः । स च सप्तोत्तरचतुर्दशशतशकाब्दे प्रकटितः । जगद्
गुरुत्वादाचार्यत्वमङ्गीकृतवान् । अवतारे तु मुख्यकारणमाह ( १.१.६)

श्रीराधायाः प्रणयमहिमा कीदृशो वानयैवा
स्वाद्यो येनाद्भुतमधुरिमा कीदृशो वा मदीयः ।
सौख्यं चास्या मद्अनुभवतः कीदृशं वेति लोभात्
तद्भावाढ्यः समजनि शचीगर्भसिन्धौ हरीन्दुः ॥ इत्यादि ।

गौणकारणं तु भूभाररूपमहापापिनामसुरस्वभावं दूरीकृत्य कलौ
मुख्यधर्मनामसङ्कीर्तनप्रवर्तनम् । तस्य प्रमाणमनुग्रहाय
भक्तानाम् (१०.३३.३६) इत्यादि । अतएव श्रीनित्यानदाद्वैतगदाधरस्वरूपरूप
सनातनादीन्निजपार्षदान् प्रकटय्य तद्द्वारेण युगधर्मं प्रवर्तयित्वा
तैः सह पुनरष्टचत्वारिंशद्वर्षपर्यन्तं प्रकटमुख्यकारणं
मुख्यरसास्वादनं कृतवान् । आस्वादनं तु सर्ववेदान्तसारश्रीभागवत
संमतम् । तत्तु प्रकटाप्रकटे नित्यत्वात् । तत्र च (१०.३३.१९)

कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ।
रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥

इत्यादि बहुशः । तस्माद्व्रजेन्द्रनन्दनस्य गोपस्त्रीषूपपतित्वं तासां तु
तस्मिन् परकीयात्वं क्रमलीलावसाने प्रकटं नित्यमेव । यतः श्रीमन्
महाप्रभुः श्रीकृष्णचैतन्यः सर्वभक्तान् तदेवास्वादनं कारयित्वा
स्वयमेवास्वादनं कृतवान् । तत्र स्वयमास्वादनं यथा श्रीचैतन्य
चरितामृते (२.१.११)

चण्डीदास विद्यापति रायेर नाटक गीति
कर्णामृत श्री गीत गोविन्द
महाप्रभु रात्रि दिने स्वरूपरामानन्देर सने
नाचे गाय परम आनन्द

एतद्अभावे हृदि यस्य प्रेरणया प्रवर्तितोऽहं वराकरूपोऽपि इति वचनात् । श्री
महाप्रभुना निजप्राकट्यस्य प्रयोजनस्य श्रीमद्रूपगोस्वामिकृतश्रीमद्
उज्ज्वलनीलमण्य्आदिभिः सम्पादितत्वात् । प्राकट्यमुख्यप्रयोजनस्य हान्या
श्रीमहाप्रभोः प्राकट्यमप्रयोजकम् । तस्मात्श्रीमहाप्रभोः
कृतास्वादनस्य परमविज्ञसेव्यत्वम् । यथा तत्र श्रीदासगोस्वामिकृत
स्तवावल्यां (श्रीचैतन्याष्टके ४)

अनावेद्यां पूर्वैरपि मुनिगणैर्भक्तिनिपुणैः
श्रुतेर्गूढां प्रेमोज्ज्वलरसफलां भक्तिलतिकाम् ।
कृपालुस्तां गौडे प्रभु अतिकृपाभिः प्रकटयन्
शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥

अतएव श्रीमहाप्रभोः शक्तिरूपैः श्रीरूपगोस्वामिचरणैः श्रीमद्उज्ज्वल
नीलमणिश्रीविदग्धमाधवदानकेलिकौमुद्य्आदिग्रन्थानां समर्था
रतिविलासरूपाणां सूत्ररूपे श्रीस्मरणमङ्गले प्रतिज्ञातम्श्रीराधाप्राण
बन्धोः इति । एवं लघुभागवतामृते (१.५.४४८, ४५१)

प्रपञ्चागोचरत्वेन सा लीला प्रकटा मता ॥ इति ।

अथ प्रकटतां लब्धे व्रजेन्द्रविहिते महे ।
तत्र प्रकटयत्येष लीला बाल्यादिका क्रमात् ।
करोति याः प्रकाशेषु कोटिशोऽप्रकटेष्वपि ॥

एवं स्तवमालास्तवावलीगणोद्देशदीपिकादिषु प्रकटाप्रकटे वर्तमानाः
परकीया लीलाः प्रार्थनीया वर्तन्ते । एवं श्रीमहाप्रभुपार्षदवर्गैः
कृतेषु संस्कृतप्राकृतमयग्रन्थनिचयेषु बहुविधानि प्रमाणानि वर्तन्ते।
तत्र श्रीमहाप्रभुपरमगुरुश्रीमाधवेन्द्रपुरीगोस्वामिपादिअः श्री
श्रीभगवत्प्राप्तिकाले प्रार्थितवान्

अयि दीनदयार्द्र नाथ हे,
मथुरानाथ कदावलोक्यसे ।
हृदयं त्वद्अलोककातरं
दयित भ्राम्यति किं करोम्यहम् ॥ इत्यादि ।

तत्तु पार्षदाः श्रीकृष्णचैतन्यस्य प्रकटाप्रकटे सभासु स्वयम्
आस्वादितवन्तस्तेषां शिष्यप्रशिष्यादयस्तद्ग्रन्थद्वारेणेदानीमप्य्
आस्वादयन्ति जयति जननिवास इत्यादिवर्तमानप्रयोगैर्लीलामात्रस्य नित्यत्वात्
। तत्र प्रमाणानि यथा श्रीरामानन्दरायगोस्वामिपादानां जगन्नाथ
वल्लभाख्यं नाटकम्, श्रीस्वरूपगोस्वामिपादानां करचा, श्रीगदाधर
पण्डितगोस्वामिपादानां प्रेमामृतस्तोत्रादि, श्रीनरहरिठक्कुरपादानां
श्रीकृष्णभजनामृतादि, श्रीवासुदेवघोषपादानां पदावल्य्आदि, श्री
राघवपण्डितगोस्वामिपादानां श्रीभक्तिरत्नप्रकाशादि, श्रीविष्णुपुरी
गोस्वामिपादानां भक्तिरत्नावल्य्आदि, श्रीसार्वभौमभट्टाचार्यपादानां
श्रीमन्महाप्रभोः शतनामस्तोत्रादि, श्रीप्रबोधानन्दसरस्वतीपादानां
पादानां श्रीवृन्दावनशतकादि, श्रीसनातनगोस्वामिपादानां श्रीवैष्णव
तोषण्य्आदि, श्रीरूपगोस्वामिपादानां श्रीभक्तिरसामृतसिन्धुः, श्र्युज्ज्वल
नीलमणिः, श्रीविदग्धमाधवादि, श्रीगोपालभट्टगोस्वामिपादानां श्री
भागवतसन्दर्भश्रीकृष्णकर्णामृतटीकादिः, श्रीरघुनाथभट्ट
गोस्वामिपादानां तत्शिष्यद्वारेण श्रीभागवतादिभक्तिशास्त्रपठन
पाठनादिकम्, श्रीरघुनाथदासगोस्वामिपादानां मुक्ताचरितस्तवमालादि,
श्रीकर्णपूरगोस्वामिपादानां श्र्यानन्दवृन्दावनचम्पूश्रीकृष्णाह्निक
कौमुदीश्रीगौरगणोद्देशश्रीचैतन्यचन्द्रोदयनाटकादि, श्री
भागवताचार्यपादानां श्रीकृष्णप्रेमतरङ्गिनी, तत्र श्रीमद्अनन्ताचार्य
पादश्रीनयनानन्दपादादीनां पदावल्य्आदि ।

एवं च श्रीमहाप्रभोस्ताम्बूलचर्वितजन्मश्रीनित्यानन्दप्रभुसेवकश्री
नारायणीपुत्रश्रीवृन्दावनठक्कुरवर्णितश्रीचैतन्यभागवतादि । तत्तु
श्रीनित्यानन्दप्रभुना साक्षात्प्रेरणया लिखितं भवति । तथा हि श्रीचैतन्य
चरितामृते (१.८.) चैतन्यलीलार व्यास वृन्दावन दास इत्यादि ।

एवं श्रीमहाप्रभोर्मतविरोधिनः श्रीमद्अच्युतानन्दादि विना श्रीमद्
अद्वैतप्रभुपुत्राः श्रीमद्अद्वैताचार्यपादैस्त्यक्ताः । तत्तु श्रीचैतन्य
चरितामृतादौ प्रसिद्धम् । एवमुपमहत्सु श्रीलोचनदासठक्कुरकृतश्री
चैतन्यमङ्गलदुर्लभसारादि, श्रीकृष्णदासकविराजमहानुभावकृतश्री
गोविन्दलीलामृतश्रीचैतन्यचरितामृतश्रीकृष्णकर्णामृतटीकादि ।
श्रीनिवासाचार्यकृतचतुःश्लोकीटीकादि, श्रीनरोत्तमदासठक्कुरश्री
गोविन्दकविराजकृतपदावल्य्आदयः सर्वत्र प्रसिद्धाः । एवमुत्कलनिवासि
श्रीश्यामानन्दादीनां पदावली प्रसिद्धा ।

किं च श्रीमन्महाप्रभोर्मन्त्रसेवकः साक्षात्कोऽपि श्रीरूपसनातनादीनां
च । तत्र शक्तिसञ्चारकृतसेवकत्वे प्रमाणं मनःशिक्षायां (७,१२) यदीच्छेर्
आवासं व्रजभुवि सरागं प्रतिजनुः इत्यत्रैव, सयूथश्रीरूपानुग इह
भवन् गोकुलवने इत्यादि । श्रीबृहद्भागवतामृतपूर्वखण्डे (१.१.१)

नमश्चैतन्यदेवाय स्वनामामृतसेविने ।
यद्रूपाश्रयणाद्यस्य इत्यादि ।

अथ श्रीजीवगोस्वामिपादः श्रीमद्रूपपादस्य भ्रातुष्पुत्रस्तस्मात्तं
मन्त्रसेवकं कृतवान् । तस्य तु श्रीमन्महाप्रभोर्दर्शनं नास्ति श्रीमद्
रूपादीनामप्रकटे परकीयात्वं स्वकीयात्वं च मतं स्वग्रन्थे लिखितं तेन
। तत्र स्वकीयात्वं श्रीमद्रघुनाथदासप्रभृतयः श्रीचैतन्यपार्षदाः
श्रीरूपादिसङ्गिनोऽनङ्गीकृतवन्तः । श्रीजीवपादस्य तत्तु स्वेच्छालिखनं न
भवति । किन्तु परेच्छालिखनम् । तत्पाण्डित्यबलात्लिखनपरिपाटीदर्शनेन
पण्डितजनास्तत्स्वीकुर्वन्ति । ये च लब्धश्रीमहाप्रभुकृपा लब्धश्री
रूपादिकृपास्ते तु सर्वथा नाङ्गीकुर्वन्ति । एतन्मतप्रवर्तनं तु कालकृतम्
एव । तत्तु सर्वं कालकृतं मन्ये इत्यादि । श्रेयांसि बहुविघ्नानि इत्यादि च ।

अतस्तु केचिदेवं वदन्ति श्रीजीवपादस्तु भ्रातुष्पुत्र एव शिष्यश्च । तन्मतं
स्वकीयात्वमेव । तस्मात्ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत (१.१.८)
इत्य्आदिन्यायेन श्रीमद्रूपपादमतं स्वकीयात्वमेव । एवं चेत्श्रीमन्
महाप्रभोः पार्षदेषु विरुद्धं जातम् । श्रीमन्महाप्रभुणा तु श्रीमद्
रूपसनातनौ प्रति स्वकीयात्वमुपदिष्टम् । अन्येषु तु परकीयात्वम्
उपदिष्टमिति गुरुतरं विरुद्धं स्यात् । श्रीमद्रूपगोस्वामिपादानां शक्ति
सञ्चारोपदिष्टश्रीमज्जीवपादादिशिष्याणां सर्वेषां परकीयैव । केवलं श्री
जीवगोस्वामिपादगणमध्ये क्वचित्क्वचिद्गुरुविरुद्धमाश्चर्यं दृश्यते
। यतोऽद्यापि तेषु सन्तानेषु एवं शिष्येषु स्वस्वग्रन्थेषु प्रकटेऽप्रकटे च
परकीयात्वं दृश्यते । तस्मात्श्रीमन्महाप्रभोस्तत्पार्षदादीनां च
परकीयात्वमेव मतम् । श्रीमज्जीवपादेन तु यत्स्वकीयात्वं लिखितं तत्
परेच्छयैव । अतएव श्रीकृष्णसन्दर्भे स्वकीयासिद्धान्तानन्तरं तद्दोषः
प्रार्थनया स्वयमेव क्षमापितः । तथा हि

यदेतत्तु मया क्षुद्रतरेण तरलायितम् ।
क्षमतां तत्क्षमाशीलः श्रीमान् गोकुलवल्लभः ॥

तत्र शिष्यपरम्पराश्रवणमाहगोपालदासनामा कोऽपि वैश्यः श्रीजीव
गोस्वामिपादानां प्रियशिष्यः । तत्प्रार्थनापरवशेन तेन स्वकीयात्वं
सिद्धान्तितम् । अतएव श्रीमद्रूपसनातनपादादीनां ग्रन्थेषु कुत्र कुत्रापि
छेदनादिकं कृतम् । कृत्वापि तत्र तत्रापि स्वदोषक्षमापणं कृतम् । यथा
श्रीकृष्णसन्दर्भे यदेतत्तु मया क्षुद्रतमेण तरलायितम् । श्रीलघु
वैष्णवतोषण्यां च (सर्वान्तिमे)

लीलास्तवष्टिप्पणी च सेयं वैष्णवतोषणी ।
या संक्षिप्ता मया क्षुद्रतरेणापि तद्आज्ञया ॥

अबुद्ध्या बुद्ध्या वा यदिह मयकालेखि सहसा
तथ्¸अ यद्वाच्छेदि द्वयमपि सहेरन् परमपि ।
अहो किं वा यद्यन्मनसि मम विस्फोरितमभूद्
अम्भोभिस्तन्मात्रं यदि बलमलं शङ्कितकुलैः ॥

हरिनामामृते तन्नाम स्पष्टमेवोट्टङ्कितम् । तद्यथा

हरिनामामृतसंज्ञं यदर्थमेतत्प्रकाशयामासे ।
उभयत्र मम मित्रं स भवतु गोपालदासाख्यः ॥

श्रीगोपालचम्पूमङ्गलाचरणे च (ङ्Cড়् १.५)

श्रीगोपालगणानां गोपालानां प्रमोदाय ।
भवतु समन्तादेषा नाम्ना गोपालचम्पूर्या ॥

श्रीमद्उज्ज्वलनीलमणिटीकायां च

स्वेच्छया लिखितं किञ्चित्किञ्चिदत्र परेच्छया ।
यत्पूर्वापरसम्बन्धं तत्पूर्वमपरं परम् ॥

श्रीभागवतसन्दर्भे च

तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ ।
दाक्षिणात्येन भट्टेन पुनरेतद्विविच्यते ॥॥
तस्याद्यं ग्रन्थनालेखं क्रान्तमुत्क्रान्तखण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥॥

इत्यादिकं च ।

श्रीकृष्णदासनामा ब्राह्मणो गौडीयः श्रीमज्जीवविद्याध्ययने शिष्यः, न
तु मन्त्रशिष्यः । तेषां शिष्याकरणात् । शिष्यकरणे प्रवृत्तिश्चेत्तर्हि श्रीनिवास
नरोत्तमादीनां शिष्यत्वं श्रीजीवेन कथमत्याजि । तस्मात्तेष्वप्रकटेषु
स्वाधिकारेच्छया तन्मन्त्रशिष्यत्वप्रकटनं कृष्णदासेन स्वेनैव कृतम्
। तेषां ग्रन्थेषु छेदनादि कुत्र कृतं, कुत्रापि पल्लवितम् ।

अतएव श्रीवैष्णवतोषण्य्आदिषु कुत्र कुत्रापि संशयास्पदत्वेन न सर्व
संमतम् । तस्मादेकस्याप्रामाण्येनान्यस्याप्रामाण्यमिति न्यायात्स्वकीयात्व
सिद्धान्ते सर्वेषां श्रीचैतन्यपार्षदानामसंमतत्वेन श्रीमज्जीवपादेन
तु परापेक्षाकृतेन च परकीयात्वं सर्वसंमतं मतमिति सङ्गतम् ।
इति श्रीमद्राधागोविन्ददेवसेवाधिपतिश्रीहरिदासगोस्वामीचरणानुजीवि
श्रीराधाकृष्णदासोदीरिता भक्तिसाधनदीपिकानवमकक्षा
॥९॥

"https://sa.wikisource.org/w/index.php?title=साधनदीपिका/नवमकक्षा&oldid=330407" इत्यस्माद् प्रतिप्राप्तम्