साधनदीपिका/दशमकक्षा

विकिस्रोतः तः
← नवमकक्षा साधनदीपिका
दशमकक्षा
[[लेखकः :|]]

(१०)
दशमकक्षा

(Bऋष्१.१.१०१७)
तत्रादौ सुष्ठु वैशिष्ट्यमस्याः कथयितुं स्फुटम् ।
लक्षणं क्रियते भक्तेरुत्तमायाः सतां मतम् ॥

तद्यथा
अन्याभिलाषिताशून्यं ज्ञानकर्माद्य्अनावृतम् ।
आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा ॥

यथा श्रीनारदपञ्चरात्रे
सर्वोपाधिविनिर्मुक्तं तत्परत्वेन निर्मलम् ।
हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते ॥

श्रीभागवतस्य तृतीयस्कन्धे च (३.२९.१११३)
लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् ।
अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥
सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥
स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः ।
येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते ॥
सालोक्येत्यादिपद्यस्थभक्तोत्कर्षणिरूपणम् ।
भक्तेर्विशुद्धताव्यक्त्या लक्षणे पर्यवस्यति ॥

क्लेषघ्नी शुभदा मोक्षलघुताकृत्सुदुर्लभा ।
सान्द्रानन्दविशेषात्मा श्रीकृष्णाकर्षिणी च सा ॥

(Bऋष्१.१.४४४७)
अग्रतो वक्ष्यमाणायास्त्रिधा भक्तेरनुक्रमात् ।
द्विशः षड्भिः पदैरेतन्माहात्यं परिकीर्तितम् ॥
किं च
स्वल्पापि रुचिरेव स्याद्भक्तितत्त्वावबोधिका ।
युक्तिस्तु केवला नैव यदस्या अप्रतिष्ठता ॥
तत्र प्राचीनैरप्युक्तम्
यत्नेनापादितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥

(ऋष्१.२.१२)
सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ॥
तत्र साधनभक्तिः
कृतिसाध्या भवेत्साध्यभावा सा साधनाभिधा ।
नित्यसिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥

(ऋष्१.२.५७)
वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥
तत्र वैधी
यत्र रागानवाप्तत्वात्प्रवृत्तिरुपजायते ।
शासनेनैव शास्त्रस्य सा वैधी भक्तिरुच्यते ॥

यथ, द्वितीये (२.१.६)
तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेछताभयम् ॥

तत्र अधिकारी (ऋष्१.२.१५१६)
यः केनाप्यतिभाग्येन जातश्रद्धोऽस्य सेवने ।
नातिसक्तो न वैराग्यभागस्यामधिकार्यसौ ॥

यथैकादशे (११.२०.२८)
यदृच्छया मत्कथादौ जातश्रद्धोऽस्तु यः पुमान् ।
न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥

अथ रागानुगा (ऋष्१.२.२७०)
विराजन्तीमभिव्यक्तां व्रजवासी जनादिषु ।
रागात्मिकामनुसृता या सा रागानुगोच्यते ॥

टीकाभिव्यक्तं सुव्यक्तं यथा स्यात्तथा व्रजवासिजनादिषु विराजन्तीं
रागात्मिकां भक्तिमनुसृता या भक्तिः । या रागानुगा उच्यते इति योजना । व्रज
वासिजनादिष्वित्यत्र जनपदेन मनुष्यमात्रं बोधितम् । आदिपदेन पशु
पक्ष्य्आदयो गृह्यन्ते । अतएवोक्तं

त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं
यत्गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् । इति ।

विराजन्तीमिति विशेषेण राजमानाम्, न तु धामान्तरपरिवारभक्तिवदैश्वर्य
ज्ञानादिनाभिभूताम् । अनुसृतेत्यत्रानुसरणं नित्यसिद्धव्रजवासिजनभाव
चेष्टानुगमनात्मकानुकरणम् । तच्च श्रीकृष्णप्रेष्ठानुगतनिष्ठं तद्
एवानुगत्यमिति फलितार्थः । तच्च तद्अनुगतत्वे सति तादृशकायवाङ्
मानसीयसेवाकर्तृत्वं चेति ।

श्रीकृष्णप्रेष्ठाधीनत्वं यथैकादशे (११.३.२१)
तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥

टीका चोत्तमं श्रेयो जिज्ञासुः । शाब्दे ब्रह्मणि वेदाख्ये निष्णातं, अन्यथा
संशयनिरासकत्वायोग्यत्वाद्धेतोः । परे ब्रह्मणि अपरोक्षानुभवे च
निष्णातम् । अन्यथा यतो बोधसंचाराभावात् । परे ब्रह्मणि निष्णातत्वे
द्योतकमाह उपशमाश्रयमिति ।

तत्रैव श्रीमद्उद्धवं प्रति श्रीभगवान् (११.१०.१२)

आचार्योऽरणिराद्यः स्यादन्तेवास्युत्तरारणिः ।
तत्सन्धानं प्रवचनं विद्यासन्धिः सुखावहः ॥

टीकाद्योऽधरः । तत्सन्धानं च तयोर्मध्यमं मन्थनकाष्ठां
प्रवचनमुपदेशः । विद्या शास्त्रोत्थं ज्ञातम् । तत्र सन्धौ भवोऽग्निरिव ।
तथा च श्रुतिःआचार्यं पूर्वरूपः अन्तेवास्युत्तररूपः इत्यादि । अतएव तद्
विज्ञानार्थं स गुरुमेवाभिगच्छेतिति । आचार्यवान् पुरुषो वेद इति । नैषा तर्केण
मतिरापनेया इत्यादि च ।

तथा श्रीकृष्णप्रेष्ठगुरुसंसर्गेणैव तद्भावोत्पत्तिः स्यात् । नान्यथेति
भावः । अतएव श्रीभागवते (११.१७.२७)

आचार्यं मां विजानीयान्नावमन्येत कर्हिचित् ।
न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥

नित्यसिद्धस्य भावस्य प्राकट्यं हृदि साध्यता (ऋष्१.२.२) इति नित्यसिद्धस्य
भावस्य साधकभक्तानां हृदि स्वयं प्रकटनं साध्यता । तत्तद्भावादि
माधुर्ये श्रुते धीर्यदपेक्षते (ऋष्१.२.२९२) इत्याश्रयिष्यमाणे गुरौ तद्
भावमाधुर्यं सुतरां दृश्यते । एतादृशे श्रीकृष्णरूपगुरौ दृष्टे सति
लोभः स्वतः एव उत्पद्यते । यथा (ऋष्१.२.२४१)

दृग्अम्भोभिर्धौतः पुलकपतली मण्डिततनुः
स्खलन्नन्तःफुल्लो दधदतिपृथुं वेपथुमपि ।
दृशोः कक्षां यावन्मम स पुरुषः कोऽप्युपययौ
न जाते किं तावन्मतिरिह गृहे नाभिरमते ॥

अथ श्रवणगुरुभजनशिक्षागुर्वोः प्रायिकमेकत्वमिति । यथा तथैवाह
श्रीभक्तिसन्दर्भे (२०६)

तत्र भागवतान् धर्मान् शिक्षेद्गुर्व्आत्मदैवतः ।
अमाययानुवृत्त्या यैस्तुष्येदात्मात्मदो हरिः ॥ (भागवतम् ११.२.२१) इति ।

तत्रैव भगवान् देवः ।

शिक्षागुरोरप्यावश्यकत्वमाह श्रीदशमे (१०.८७.३३)

विजितहृषीकवायुभिरदान्तमनस्तुरगं
य इह यतन्ति यन्तुमतिलोलमुपायखिदः ।
व्यसनशतान्विताः समवहाय गुरोश्चरणं
वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥

टीकाये गुरोश्चरणं समवहाआनाश्रित्यातिलोलमदान्तमदमितं मन एव
तुरगं दुर्गमसाम्याद्विजितैरिन्द्रियैः प्राणैश्च यन्तुं भगवद्
अन्तर्मुखीकर्तुं प्रयतन्ते । ते उपायखिदस्तेषु तेषूपायेषु खिद्यन्ते । अतो
व्यसनशतान्विता भवन्ति । अतएव इह संसारसमुद्रे सन्ति तिष्ठन्ति दुःखम्
एव प्राप्नुवन्तीत्यर्थः । जलधौ अकृतकर्णधरा अस्वीकृतनाविका वणिजो यथा
तद्वत् ।

श्रीगुरुप्रदर्शितभगवद्भक्तिभजनप्रकारेण भगवद्धर्मज्¸इआने
सति तत्कृपया व्यसनानभिभूतौ च सत्यां शीघ्रमेव मनो निश्चलं भवतीति
भावः ।

अथ ब्रह्मवैवर्ते
गुरुभक्त्या स मिलति स्मरणात्सेव्यते बुधैः ।
मिलितोऽपि न लभ्यते जीवैरहमिकापरैः ॥

अतएव नारदपञ्चरात्रे तत्पूजनस्यावश्यकत्वमुक्तं, यथा

वैष्णवं ज्ञानवक्तारं यो विद्याद्विष्णुवद्गुरुम् ।
पूजयेद्वाङ्मनःकायैः स शास्त्रज्ञः स वैष्णवः ॥
श्लोकपादस्य वक्तापि यः पूज्यः स सदैव हि ।
किं पुनर्भगवद्विष्णोः स्वरूपं वितनोति यः ॥ इत्यादि ।

तस्मात्श्रीगुरोरावश्यकत्वम् । तच्चरणावलम्बनं विना प्रेमोत्पत्तिर्न
भवतीति निष्कर्षार्थः ।

श्रीरघुनाथदासगोस्वामिपादेनोक्तमनःशिक्षायां, यथा

शचीसूनुं नन्दीश्वरपतिसुतत्वे गुरुवरं
मुकुन्दप्रेष्ठत्वे स्मर इत्यादि ।

कालिकापुराणे श्यामारहस्ये

मधुलोभाद्यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ।
ज्ञानलोभात्तथा शिष्यो गुरोर्गुर्व्अन्तरं व्रजेत् ॥

स्तवावल्यां च (मनःशिक्षा ३,१२)

यदीच्छेरावासं व्रजभुवि सरागं प्रतिजनुर्
युवद्वन्द्वं तच्चेत्परिचर्तिउमारादभिलषेः ।
स्वरूपं श्रीरूपं सगणमिह तस्याग्रजमपि
स्फुटं प्रेम्णा नित्यं स्मर नम तदा त्वं शृणु मनः ॥

सयूथः श्रीरूपानुग इह भवन् गोकुलवने
जनो राधाकृष्णातुलभजनरत्नं स लभते ॥

(विलापकुसुमाञ्जली, १४)

यद्अवधि मम काचिन्मञ्जरी रूपपूर्वा
व्रजभुवि बत नेत्रद्वन्द्वदीप्तिं चकार ।
तद्अवधि तव वृन्दारण्यराज्ञि प्रकामं
चरणकमललाक्षासन्दिदृक्षा ममाभूत् ॥ इति ।

अत एतादृशानुगत्यं विना श्रीनन्दनन्दनस्य तथाविधस्वरूपप्राप्तिर्न
भवति तत्रापि श्रीरूपानुगत्यं विना श्रीराधाकृष्णातुलभजनरत्नं न
लभत इति निष्कर्षार्थः ।

प्रसङ्गाताचार्यलक्षणं, यथा वायुपुराणे

आचिनोति यः शास्त्रार्थान् स्वाचारैः स्थापयत्यपि ।
स्वयमाचरते यस्मात्तस्मादाचार्य उच्यते ॥

यथा विष्णुस्मृतौ (ःBV १.४५४६)
परिचर्यायशोलाभलिप्सुः शिष्याद्गुरुर्नहि ।
कृपासिन्धुः सुसम्पूर्णः सर्वसत्त्वोपकारकः ॥
निःस्पृहः सर्वतः सिद्धः सर्वविद्याविशारदः ।
सर्वसंशयसंछेत्ता नालसो गुरुराहृतः ॥

गौतमीये
न जपो नार्चनं नैव ध्यानं नापि विधिक्रमः ।
केवलं सततं कृष्णचरणाम्भोजभाविनाम् ॥ इति ।

किं च
नायिकानां च सर्वासां मध्या श्रेष्ठतमा मता ।
प्रायः सर्वरसोत्कर्षो मध्यायामेव युज्यते ॥ इत्यादि ।

दर्शितमेव । किं चत्वदीयतामदीयतामध्ययोर्मध्ये मदीयता श्रेष्ठा


इयं श्रीकृष्णलीला च श्रेष्ठा सर्वप्रदायिका ।
न दातव्या न प्रकाश्या जने त्वनधिकारिणि ॥

तथा हि (पाद्मे)
मां च गोपय येन स्यात्सृष्टिरेषोत्तरोत्तरा । इति ।

श्रीभागवते प्रथमस्कन्धे (१.१.८) ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम्
अप्युत इति बृहद्गौतमीये च ।
इति श्रीमद्राधागोविन्ददेवसेवाधिपतिश्रीहरिदासगोस्वामीचरणानुजीवि
श्रीराधाकृष्णदासोदीरिता भक्तिसाधनदीपिकादशमकक्षा सम्पूर्ण ।

श्रीसाधनदीपिका समाप्ता ।
श्रीश्रीमद्गुरवे समर्पितमस्तु ।

"https://sa.wikisource.org/w/index.php?title=साधनदीपिका/दशमकक्षा&oldid=330408" इत्यस्माद् प्रतिप्राप्तम्