सर्वसिद्धान्तसङ्ग्रहः/प्रकरणम् ४ (बौद्धपक्षप्रकरणम्)

विकिस्रोतः तः
← प्रकरणम् ३ (आर्हतपक्षप्रकरणम्) सर्वसिद्धान्तसङ्ग्रहः
प्रकरणम् ४ (बौद्धपक्षप्रकरणम्)
[[लेखकः :|]]

(४)
अथ बौद्धपक्षप्रकरणं,
माध्यमिकमतम्

बौद्धाः क्षपणकाचार्यप्रणीतमपि साम्प्रतम् ।
पक्षं प्रतिक्षिपन्त्यत्र लोकायितमतं यथा ॥१॥
चतुर्णां मतभेदेन बौद्धशास्त्रं चतुर्विधम् ।
अधिकारानुरूपेण तत्र तत्र प्रवर्तकम् ॥२॥
ज्ञानमेव हि सा बुद्धिर्न चान्तःकरणं मतम् ।
जानाति बुध्यते चेति पर्यायत्वप्रयोगतः ॥३॥
त्रयाणां बौद्धानां बुद्धिरस्त्यविवादतः ।
बौद्धार्थोऽस्ति द्वयोरेव विवादोऽन्यत्र तद्यथा ॥४॥
प्रत्यक्षसिद्धं बाह्यार्थमसौ वैभाषिकोऽब्रवीत।
बुद्ध्याकारानुमेयोऽर्थो बाह्यः सौत्रान्तिकोदितः ॥५॥
बुद्धिमात्रं वदत्यत्र योगाचारो न चापरम् ।
नास्ति बुद्धिरपीत्याह वादी माध्यमिकः किल ॥६॥
न सन्नासन्न सदसन्न चोभयाभ्यां विलक्षणम् ।
चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥७॥
यदसत्कारणैस्तन्न जायते शशशृङ्गवत।
सतश्चोत्पत्तिरिष्टा चेज्जनितं जनयेदयम् ॥८॥
एकस्य सदसद्भावो वस्तुनो नोपपद्यते ।
एकस्य सदसद्भ्योऽपि वैलक्षण्यं न युक्तिमत।
चतुष्कोटिविनिर्मुक्तं शून्यं तत्त्वमिति स्थितम् ॥९॥
जातिर्जातिमती भिन्ना न वेत्यत्र विचार्यते ।
भिन्ना चेत्सा च गृह्येत व्यक्तिभ्योऽङ्गुलवत्पृथक॥१०॥
अविचारितसंसिद्धा व्यक्तिः सा पारमाणुकी ।
स्वरूपं परमाणूनां वाच्यं वैशेषिकादिभिः ॥११॥
षट्केन युगपद्योगात्परमाणोः षडंशता ।
षण्णां समानदेशत्वात्पिण्डः स्यादणुमात्रकः ॥१२॥
ब्राह्मणत्वादिजातिः किं वेदपाठेन जन्यते ।
संस्कारैर्वा द्वयेनाथ तत्सर्वं नोपपद्यते ॥१३॥
वेदपाठेन चेत्कश्चित्शूद्रो देशान्तरं गतः ।
सम्यक्पठितवेदोपि ब्राह्मणत्वमवाप्नुयात॥१४॥
सर्वसंस्कारयुक्तोऽत्र विप्रो लोके न दृश्यते ।
चत्वारिंशत्तु संस्कारा विप्रस्य विहिता यतः ॥१५॥
एकसंस्कारयुक्तश्चेद्विप्रः स्यादखिलो जनः ।
जातिव्यक्त्यात्मकोऽर्थोऽत्र नास्त्येवातो निरूप्यते ॥१६॥
विज्ञानमपि नास्त्यत्र ज्ञेयाभावे समुत्थिते ।
अतो माध्यमिको वक्ति सर्वशून्यं विचारितम् ॥१७॥

—ओ)०(ओ—

(५)
अथ योगाचारमतम्

अत्र माध्यमिकेनोक्तं शून्यत्वं शून्यवादिना ।
निरालम्बनवादी तु योगाचारो निरस्यति ॥१॥
त्वयोक्तसर्वशून्यत्वे प्रमाणं शून्यमेव ते ।
अतो वादेऽधिकारस्ते न परेणोपपद्यते ॥२॥
स्वपक्षस्थापनं तद्वत्परपक्षस्य दूषणम् ।
कथं करोत्यत्र भवान्विपरीतं वदेन्न किम् ॥३॥
अविभागो हि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥४॥
मानमेयफलाद्युक्तं ज्ञानदृष्ट्यनुसारतः ।
अधिकारिषु जातेषु तत्त्वमप्युपदेक्ष्यति ॥५॥
बुद्धिस्वरूपमेकं हि वस्त्वस्ति परमार्थतः ।
प्रतिमानस्य नानात्वान्न चैकत्वं विहन्यते ॥६॥
परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ
कुणपं कामिनी भक्ष्यमिति तिस्रो विकल्पना ॥७॥
अथाप्येकैव सा बाला बुद्धितत्त्वं तथैव नः ।
तदन्यद्यत्तु जात्यादि तन्निराक्रियतां त्वया ॥८॥
क्षणिका बुद्धिरेका तु त्रिधा भ्रान्तैर्विकल्पिता ।
स्वयंप्रकाशतत्त्वज्ञैर्मुमुक्षुभिरुपास्यते ॥९॥

—ओ)०(ओ—

(६)
अथ सौत्रान्तिकमतम्

विज्ञानमात्रमत्रोक्तं योगाचारेण धीमता ।
ज्ञानं ज्ञेयं विना नास्ति बाह्यार्थोऽप्यस्ति तेन नः ॥१॥
नीलपीतादिभिश्चित्रैर्बुद्ध्याकारैरिहान्तरैः ।
सौत्रान्तिकमते नित्यं बाह्यार्थस्त्वनुमीयते ॥२॥
क्षीणानि चक्षुरादीनि रूपादिष्वेव पञ्चसु ।
न षष्ठमिन्द्रियं तस्य ग्राहकं विद्यते बहिः ॥३॥
षडंशत्वं त्वयापाद्य परमाणोर्निराकृतिः ।
युक्तस्तेनापि बाह्यार्थो न चेद्ज्ञानं न सम्भवेत॥४॥
आकाशधातुरस्माभिः परमाणुरितीरितः ।
स च प्रज्ञाप्तिमात्रं स्यान्न च वस्त्वन्तरं मतम् ॥५॥
सर्वे पदार्थाः क्षणिका बुद्ध्याकारविजृम्भिता ।
इदमित्येव भावास्तेऽप्याकारानुमिताः सदा ॥६॥
विषयत्वविरोधस्तु क्षणिकत्वेऽपि नास्ति नः ।
विषयत्वं हि हेतुत्वं ज्ञानाकारार्पणक्षमम् ॥७॥

—ओ)०(ओ—

(७)
अथ वैभाषिकमतम्

सौत्रान्तिकमतादल्पभेदो वैभाषिके मते ।
प्रत्यक्षत्वं तु बाह्यस्य क्वचिदेवानुमेयता ॥१॥
पूर्वापरानुभावेन पुञ्जीभूताः सहस्रशः ।
परमाणव एवात्र बाह्यार्थघनवत्स्थिताः ॥२॥
दूरादेव वनं पश्यन्गत्वा तस्यान्तिकं पुनः ।
न वनं पश्यति क्वापि वल्लीवृक्षातिरेकतः ॥३॥
मृदो घटत्वमायान्ति कपालत्वं तु ते घटाः ।
कपालानि च चूर्णत्वं ते पुनः परमाणुताम् ॥४॥
चतुर्णामपि बौद्धानामैक्यमध्यात्मनिर्णये ।
व्यावहारिकभेदेन विवदन्ते परस्परम् ॥५॥
बुद्धितत्त्वे स्थिता बौद्धा बुद्धिवृत्तिर्द्विधा मता ।
ज्ञानाज्ञानात्मिका चेति तत्र ज्ञानात्मिका निजा ॥६॥
मूलाज्ञाननिमित्तान्या स्कन्धायतनधातुजा ।
प्रपञ्चजातमखिलं शरीरं भुवनात्मकम् ॥७॥
पञ्चस्कन्धा भवन्त्यत्र द्वादशायतनानि च ।
सर्वेषामपि बौद्धानां तथाष्टादश धातवः ॥८॥
ज्ञानसंस्कारसंज्ञानां वेदनारूपयोरपि ।
समूहः स्कन्धशब्दार्थः तत्तत्सन्ततिवाचकः ॥९॥
ज्ञानसन्ततिरेवात्र विज्ञानस्कन्ध उच्यते ।
संस्कारस्कन्ध इत्युक्तो वासनानां तु संहतिः ॥१०॥
सुखदुःखात्मिका बुद्धिस्तथापेक्षात्मिका च सा ।
वेदनास्कन्ध इत्युक्तः संज्ञास्कन्धस्तु नाम यत॥११॥
रूपस्कन्धो भवत्यत्र मूर्तिभूतस्य संहतिः ।
रूपस्योपचयः स्तम्भकुम्भादिरणुकल्पितः ॥१२॥
पृथिव्याः स्थैर्यरूपादि द्रवत्वादि भवेदपाम् ।
उष्णत्वं तेजसो धातोर्वायुधातोस्तु शीतता ॥१३॥
एषां चतुर्णां धातूनां वर्णगन्धरसौजसाम् ।
पिण्डाज्जाताः पृथिव्याद्याः परमाणुचया अमी ॥१४॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं प्रत्ययपञ्चकम् ।
वाक्पादपाणिपाय्वादि ज्ञेयं कारकपञ्चकम् ॥१५॥
सामुदायिकचैतन्यं बुद्धिः स्यात्करणं मनः ।
कल्पितं भ्रान्तदृष्ट्यैव शरीरभुवनात्मकम् ॥१६॥
बौद्धशास्त्रप्रमेयं तु प्रमाणं द्विविधं मतम् ।
कल्पनापोढमभ्रान्तं प्रत्यक्षं कल्पना पुनः ॥१७॥
नामजातिगुणद्रव्यक्रियारूपेण पञ्चधा ।
लिङ्गदर्शनतो ज्ञानं लिङ्गिन्यत्रानुमानता ॥१८॥
चतुर्विधं यदज्ञानं प्रमाणाभ्यां निवर्तते ।
नष्टे चतुर्विधेऽज्ञाने मूलाज्ञानं निवर्तते ॥१९॥
मूलाज्ञाननिवृत्तौ च विशुद्धज्ञानसन्ततिः ।
शुद्धबुद्ध्यविशेषो हि मोक्षो बुद्धमुनीरितः ॥२०॥

उत्पत्तिस्थितिभङ्गदोषरहितां सर्वाशयोन्मूलिनीं
ग्राहोत्सर्गवियोगयोगजनितां नाभावभावान्विताम् ।
तामन्तद्वयवर्जितां निरुपमामाकाशवन्निर्मलां
प्रज्ञां पारमितां धनस्य जननीं शृण्वन्तु बुद्ध्यर्थिनः ॥२१॥

अतिस्तुतिपरैरुक्तो यस्तु वैशेषिकादिभिः ।
ईश्वरो नेष्यतेऽस्माभिः स निराक्रियतेऽधुना ॥२२॥
हेयोपादेयमर्थं च मोक्षोपायं च वेत्ति यः ।
स एव नः प्रमाणं स्यान्न सर्वज्ञस्त्वयेरितः ॥२३॥
दूरं पश्यतु वा मा वा तत्त्वमिष्टं प्रपश्यतु ।
प्रमाणं दूरदर्शी चेद्वयं गृध्नानुपास्महे ॥२४॥
देशे पिपीलिकादीनां सङ्ख्याज्ञः कश्चिदस्ति किम् ।
सर्वकर्तृत्वमीशस्य कथितं नोपपद्यते ॥२५॥
यदि स्यात्सर्वकर्तासावधर्मेऽपि प्रवर्तयेत।
अयुक्तं कारयन्लोकान्कथं युक्ते प्रवर्तयेत॥२६॥
उपेक्षैव च साधूनां युक्तासाधौ क्रिया भवेत।
न क्षतक्षारविक्षेपः साधूनां साधुचेष्टितम् ॥२७॥
ईश्वरेणैव शास्त्राणि सर्वाण्यधिकृतानि चेत।
कथं प्रमाणं तद्वाक्यं पूर्वापरपराहतम् ॥२८॥
कारयेद्धर्ममात्रं चेदेकशास्त्रप्रवर्तकः ।
कथं प्रादेशिकस्यास्य सर्वकर्तृत्वमुच्यते ॥२९॥
ईशः प्रयोजनाकाङ्क्षी जगत्सृजति वा न वा ।
काङ्क्षते चेदसम्पूर्णो नो चेन्नैव प्रवर्तते ॥३०॥
प्रवर्तते किमीशस्ते भ्रान्तवन्निष्प्रयोजने ।
छागादीनां पुरीषादेर्वर्तुलीकरणेन किम् ॥३१॥
क्रीडार्थेयं प्रवृत्तिश्चेत्क्रीडते किं नु बालवत।
अजस्रं क्रीडतस्तस्य दुःखमेव भवत्यलम् ॥३२॥
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रम् एव वा ॥३३॥
तप्तलौहाभितापाद्यैरीशेनाल्पसुखेच्छुना ।
प्राणिनो नरके कष्टे बत प्राणैर्वियोजिता ॥३४॥
वरप्रदाने शक्तश्चेत्ब्रह्महत्यादिकारिणे ।
स्वर्गं दद्यात्स्वतन्त्रः स्यान्नरकं सोमयाजिने ॥३५॥
कर्मानुगुणदाता चेदीशः स्यादखिलो जनः ।
दाने स्वान्तन्त्र्यहीनः सन्सर्वेशः कथमुच्यते ॥३६॥
एवं नैयायिकाद्युक्तसर्वज्ञेशनिराक्रिया ।
हेयोपादेयमात्रज्ञो ग्राह्यो बुद्धमुनिस्ततः ॥३७॥
चैत्यं वन्देत चैत्याद्या धर्मा बुद्धागमोदिताः ।
अनुष्ठेया न यागाद्या वेदाद्यागमचोदिताः ॥३८॥
क्रियायां देवतायां च योगे शून्यपदे क्रमात।
वैभाषिकादयो बौद्धाः स्थिताश्चत्वार एव ते ॥३९॥

—ओ)०(ओ—

(८)
अथ वैशेषिकपक्षः

नास्तिकान्वेदबाह्यांस्तु बौद्धलोकायतार्हतान।
निराकरोति वेदार्थवादी वैशेषिकोऽधुना ॥१॥
वेदमार्गपरिभ्रष्टा विशिष्टाः परदर्शने ।
बौद्धादयो विशिष्टास्ते न भवन्ति द्विजाः पुनः ॥२॥
अतो बुद्धादिभिर्नित्यं वेदब्राह्मणनिन्दया ।
आत्मवञ्चकता कष्टा सर्वत्राघोषिता भुवि ॥३॥
प्रमाणमेव वेदाः स्युः सर्वेश्वरकृतत्वतः ।
स एव कर्मफलदो जीवानां पारिशेष्यतः ॥४॥
जीवा वा जीवकर्माणि प्रकृतिः परमाणवः ।
नेशते ह्यत्र जीवानां तत्तत्कर्मफलार्पणे ॥५॥
जीवाः कर्मफलावाप्तौ शक्ताश्चेत्स्वसुखे रताः ।
अप्रार्थैतानि दुःखानि वारयन्तु प्रयत्नतः ॥६॥
अशक्तान्यत्र कर्माणि जीवानां स्वफलार्पणे ।
अचेतनत्वादगतेः स्वर्गादिफलभूमिषु ॥७॥
नाचेतनत्वात्प्रकृतेः फलदातृत्वसम्भवः ।
अचेतनाः फलं दातुमशक्ताः परमाणवः ॥८॥
कालोऽप्यचेतनस्तेषां न हि कर्मफलप्रदः ।
अतोऽन्यः फलदो लोके भवत्येभ्यो विलक्षणः ॥९॥
स तु प्राणिविशेषांश्च देशानपि तदाश्रयान।
जानन्सर्वज्ञ एवेष्टो नान्ये बौद्धादिसंमताः ॥१०॥
अजानन्प्राणिनो लोके हेयोपादेयमात्रवित।
प्रादेशिको न सर्वज्ञो नास्मदादिविलक्षणः ॥११॥
वेदैकदेशं दृष्ट्वा तु कारीरी वृष्टिबोधकम् ।
अदृष्टयोश्च विश्वासः कार्यः स्वर्गापवर्गयोः ॥१२॥
कारीरीष्ट्युक्तवृष्टिश्च द्रष्टव्यादृष्टनिर्णये ।
ज्योतिःशास्त्रोक्तकालस्य ग्रहणं तन्निदर्शनम् ॥१३॥
दृष्टैकदेशप्रामाण्यं यत्तूक्तं सौगतादिभिः ।
तच्च वेदादपहृतं सर्वलोकप्रतारकैः ॥१४॥
मन्त्रव्याकरणं दृष्ट्वा मन्त्रा विरचिताः पुनः ।
लिपिसंमिश्रजातास्ते सिद्धमन्त्रास्तथा कृताः ॥१५॥
बौद्धागमेभ्यो दृष्टार्था न हृता वैदिकैः क्वचित।
वेदस्यैव षडङ्गानि यतः शिक्षादिकानि वै ॥१६॥
नान्यागमाङ्गता तेषां न क्वाप्युक्ता परैरपि ।
अतो वेदबलीयस्त्वं नास्तिकागमसञ्चयात॥१७॥
षट्पदार्थपरिज्ञानान्मोक्षं वैशेषिका विदुः ।
तदन्तर्गत एवेशो जीवाः सर्वमिदं जगत॥१८॥
द्रव्यं गुणस्तथा कर्म सामान्यं यत्परापरम् ।
विशेषः समवायश्च षट्पदार्था इहेरिताः ॥१९॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
दिक्कालात्ममनांसीति नव द्रव्याणि तन्मते ॥२०॥
पृथिवी गन्धवत्यापः सरसास्तेजसः प्रभा ।
अनुष्णाशीतसंस्पर्शो वायुः शब्दगुणं नभः ॥२१॥
दिक्पूर्वापरधीलिङ्गा कालः क्षिप्रचिरागतः ।
आत्माहंप्रत्ययात्सिद्धो मनोऽन्तःकरणं मतम् ॥२२॥
अयोगमन्ययोगं च मुक्ता द्रव्याश्रिता गुणाः ।
चतुर्विम्शतिधा भिन्ना गुणास्तेऽपि यथाक्रमात॥२३॥
शब्दः स्पर्शो रसो रूपं गन्धसंयोगवेगताः ।
सङ्ख्याद्रवत्वसंस्कारपरिमाणविभागताः ॥२४॥
प्रयत्नसुखदुःखेच्छाबुद्धिद्वेषपृथक्कृताः ।
परत्वं चापरत्वं च धर्माधर्मौ च गौरवम् ॥२५॥
इमे गुणाश्चतुर्विम्शत्यथ कर्म च पञ्चधा ।
प्रसाराकुञ्चनोत्क्षेपा गत्यवक्षेपणे इति ॥२६॥
परं चापरमित्यत्र सामान्यं द्विविधं मतम् ।
परं सत्तादि सामान्यं द्रव्यत्वाद्यपरं मतम् ॥२७॥
परस्परविवेकोऽत्र द्रव्याणां यैस्तु गम्यते ।
विशेषा इति ते ज्ञेया द्रव्यमेव समाश्रिताः ॥२८॥
सम्बन्धः समवायः स्यात्द्रव्याणां तु गुणादिभिः ।
षट्पदार्था इमे ज्ञेयास्तन्मयं सकलं जगत॥२९॥
तेषां साधर्म्यवैधर्म्यज्ञानं मोक्षस्य साधनम् ।
द्रव्यान्तर्गत एवात्मा भिन्नो जीवपरत्वतः ॥३०॥
देवा मनुष्यास्तिर्यञ्चो जीवास्त्वन्यो महेश्वरः ।
तदाज्ञप्तक्रियां कुर्वन्मुच्यतेऽन्यस्तु बध्यते ॥३१॥
श्रुतिस्मृतीतिहासाद्यं पुराणं भारतादिकम् ।
ईश्वराज्ञेति विज्ञेया न लङ्घ्या वैदिकैः क्वचित॥३२॥
त्रिधा प्रमाणं प्रत्यक्षमनुमानागमाविति ।
त्रिभिरेतैः प्रमाणैस्तु जगत्कर्तावगम्यते ॥३३॥
तस्मात्तदुक्तकर्माणि कुर्यात्तस्यैव तृप्तये ।
भक्त्यैवावर्जनीयोऽसौ भगवान्परमेश्वरः ॥३४॥
तत्प्रसादेन मोक्षः स्यात्करणोपरमात्मकः ।
करणोपरमे त्वात्मा पाषाणवदवस्थितः ॥३५॥
दुःखसाध्यः सुखोच्छेदी दुःखोच्छेदवदेव नः ।
अतः संसारनिर्विण्णो मुमुक्षुर्मुच्यते जनः ॥३६॥
पश्चान्नैयायिकस्तर्कैः साधयिष्यति नः शिवम् ।
नातिभिन्नं मतं यस्मादावयोर्वेदवादिनोः ॥३७॥

—ओ)०(ओ—

(९)
अथ नैयायिकपक्षः

नैयायिकस्य पक्षोऽथ सङ्क्षेपात्प्रतिपाद्यते ।
यत्तर्करक्षितो वेदो ग्रस्तः पाषण्डदुर्जनैः ॥१॥
अक्षपादः प्रामाणादिषोडशार्थप्रबोधनात।
जीवानां मुक्तिमाचष्टे प्रमाणं च प्रमेयता ॥२॥
निर्णयः संशयोऽन्यश्च प्रयोजननिदर्शने ।
सिद्धान्तावयवौ तर्को वादो जल्पो वितण्डता ॥३॥
हेत्वाभासं छलं जातिर्निग्रहस्थानमित्यपि ।
प्रत्य्क्षमनुमानाख्यमुपमानागमाविति ॥४॥
चत्वार्यत्र प्रमाणानि नोपमानं तु कस्यचित।
प्रत्यक्षमस्मदादीनामस्त्यन्यद्योगिनामपि ॥५॥
पश्यन्ति योगिनः सर्वमीश्वरस्य प्रसादतः ।
स्वभावेनेश्वरः सर्वं पश्यति ज्ञानचक्षुषा ॥६॥
यत्नेनापि न जानन्ति सर्वेशं मांसचक्षुषः ।
ईश्वरं साधयत्येतदनुमानमिति स्फुटम् ॥७॥
भूर्भूधरादिकं सर्वं सर्ववित्कर्तृपूर्वकम् ।
कार्यत्वाद्वटवच्चेति जगत्कर्तानुमीयते ॥८॥
कार्यत्वमप्यसिद्धं चेत्क्ष्मादेः सावयवत्वतः ।
घटकुड्यादिवच्चेति कार्यत्वमपि साध्यते ॥९॥
दृष्टान्तसिद्धदेहादेर्धर्माधर्मप्रसङ्गतः ।
न विशेषविरोधोऽत्र वाच्यो भट्टादिभिः क्वचित॥१०॥
उत्कर्षसमजातित्वात्सम्यग्दोषो न तादृशः ।
कार्यत्वमात्रात्कर्तृत्वमात्रमेवान्मीयते ॥११॥
दृष्टान्तस्थविशेषैस्त्वं विरोधं यदि भाषसे ।
धूमेनाग्न्यनुमानस्य ह्यभावोऽपि प्रसज्यते ॥१२॥
अशरीरोऽपि कुरुते शिवः कार्यमिहेच्छया ।
देहानपेक्षो देहं स्वं यथा चेष्टयते जनः ॥१३॥
इच्छाज्ञानप्रयत्नाख्या महेश्वरगुणास्त्रयः ।
शरीररहितेऽपि स्युः परमाणुस्वरूपवत॥१४॥
कार्यं क्रियां विना नात्र सा क्रिया यत्नपूर्विका ।
क्रियात्वात्साध्यतेऽस्माभिरस्मदादिक्रिया यथा ॥१५॥
सर्वज्ञीयक्रियोद्भूतक्ष्मादिकार्योपपत्तिभिः ।
ईश्वरासत्त्वमुक्तं यन्निरस्तं पारिशेष्यतः ॥१६॥
यथा वैशेषिकेणेशः पारिशेष्येण साधितः ।
तत्तर्कोऽत्रानुसन्धेयः समानं शास्त्रमावयोः ॥१७॥
कालकर्मप्रधानादेरचैतन्यात्शिवोऽपरः ।
अल्पज्ञत्वात्तु जीवानां ग्राह्यः सर्वज्ञ एव सः ॥१८॥
सर्वज्ञेशप्रणीतत्वाद्वेदप्रामाण्यमिष्यते ।
स्मृत्यादीनां प्रमाणत्वं तन्मूलत्वेन सिध्यति ॥१९॥
श्रौतं स्मार्तं च यत्कर्म यथावदिह कुर्वताम् ।
स्वर्गापवर्गौ स्यातां हि नैव पाषण्डिनां क्वचित॥२०॥
त्रैयम्बकादिभिर्मन्त्रैरपि देवो महेश्वरः ।
अनुष्ठानोपयुक्तार्थस्मारकैः प्रतिपाद्यते ॥२१॥
कारीरीष्ट्यर्थवृष्ट्यादि दृष्ट्वा स्वर्गापवर्गयोः ।
विश्वासोऽदृष्टयोः कार्यः करणाद्यैः अञ्चितः ॥२२॥
अप्रमाणमशेषं च शास्त्रं बुद्धादिकल्पितम् ।
स्यादनाप्तप्रणीतत्वादुन्मत्तानां यथा वचः ॥२३॥
बीजप्ररोहरक्षायै वृतिः कण्टकिनी यथा ।
वेदार्थतत्त्वरक्षार्थं कृता तर्कमयी वृतिः ॥२४॥
प्रमाणानुग्राहकस्तर्कः स कथात्रयसंयुतः ।
वादो जल्पो वितण्डेति तिस्र एव कथा मताः ॥२५॥
आचार्येण तु शिष्यस्य वादस्तत्त्वबुभुत्सया ।
जयः पराजयो नात्र तौ तु जल्पवितण्डयोः ॥२६॥
वादो तु प्रतिवादी च प्राश्निकस्य सभापतिः ।
चत्वार्यङ्गानि जल्पस्य वितण्डायास्तथैव च ॥२७॥
सदुत्तरापरिज्ञानात्पराजयभये सति ।
जयेच्छलेन जात्या वा प्रतिवादो तु वादिनाम् ॥२८॥
छलं जातिं ब्रुवाणस्य निग्रहस्थानमीरयेत।
निग्रहस्थानमित्युक्तं कथाविच्छेदकारकम् ॥२९॥
तत्रोपचारसामान्यवाक्पूर्वं त्रिविधं छलम् ।
चतुर्वेदविदित्युक्ते कस्मिंश्चिद्वादिना द्विजे ।
किमत्र चित्रं ब्राह्मण्ये चतुर्वेदज्ञतोचिता ॥३०॥
एवं सामान्यदृष्ट्या तु दूषिते प्रतिवादिना ।
वेदवाक्यैरनेकान्तं निग्रहस्थानमप्यथ ॥३१॥
नववस्त्रो बटुश्चेति वाद्युक्ते तत्र वाक्छलम् ।
कुतोऽस्य नव वासांसीत्याचक्षाणस्य निग्रहः ॥३२॥
तात्पर्यवैपरीत्येन कल्पितार्थस्य बाधनम् ।
स्वस्य व्याघातकं वाक्यं दूषणक्षममेव वा ।
उत्तरं जातिरित्याहुः चतुर्विंशतिभेदभाक॥३३॥
चतुर्विंशतिजातीनां प्रयोक्तुः प्रतिवादिनः ।
वक्तव्यं निग्रहस्थानमसदुत्तरवादिनः ॥३४॥
यथा साधर्म्यवैधर्म्यात्समोतकर्षापकर्षतः ।
वर्ण्यावर्ण्यविकल्पाश्च प्राप्त्यप्राप्तीति साध्यताः ॥३५॥
प्रसङ्गप्रतिदर्शनानुपपत्तिश्च संशयः ।
अर्थापत्त्यविशेषौ च हेतुप्रकरणाह्वयौ ॥३६॥
कार्योपलब्ध्यनुपलब्धिनित्यानित्याश्च जातयः ।
साम्यापादकहेतुत्वात्समताजातयो मताः ।
सदुत्तरापरिज्ञाने स्यादेकान्तपराजयः ॥३७॥
एवं जल्पवितण्डाभ्यां वेदबाह्यान्निरस्य तु ।
वेदैकविहितं कर्म कुर्यादीश्वरतृप्तये ॥३८॥
तत्प्रसादाप्तयोगेन मुमुक्षुर्मोक्षमाप्नुयात।
नित्यानन्दानुभूतिः स्यान्मोक्षे तु विषयादृते ॥३९॥
वरं वृन्दावने रम्ये शृगालत्वं वृणोम्यहम् ।
वैशेषिकोक्तमोक्षात्तु सुखलेशविवर्जितात॥४०॥
यो वेदविहितैर्यज्ञैरीश्वरस्य प्रसादतः ।
मूर्च्छामिच्छति यत्नेन पाषाणवदवस्थितिम् ॥४१॥
मोक्षो हि हरिभक्त्याप्तयोगेनेति पुरोदितः ।
अष्टावङ्गानि योगस्य यमोऽथ नियमस्तथा ॥४२॥
आसनं पवनायामः प्रत्याहारोऽथ धारणम् ।
ध्यानं समाधिरित्येवं तत्साङ्ख्यो विस्तरिष्यति ॥४३॥

—ओ)०(ओ—

(१०)
अथ प्रभाकरपक्षः

प्रभाकरगुरोः पक्षः सङ्क्षेपादथ कथ्यते ।
तुष्टाव पूर्वमीमांसामाचार्यस्पर्धयापि यः ॥१॥
वेदैकविहितं कर्म मोक्षदं नापरं गुरोः ।
बध्यते स हि लोकस्तु यः काम्यप्रतिषिद्धकृत॥२॥
विध्यर्थवादमन्त्रैश्च नामधेयैश्चतुर्विधः ।
वेदो विधिप्रधानोऽयं धर्माधर्मावबोधकः ॥३॥
आत्मा ज्ञातव्य इत्यादिविधयस्त्वारुणे स्थिताः ।
यथावदात्मनां तत्र बोधं विदधते स्फुटम् ॥४॥
बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः ।
नानाभूतः प्रतिक्षेप्त्रमर्थज्ञानेषु भासते ॥५॥
घटं जानाम्यहं स्पष्टमित्यत्र युगपत्त्रयम् ।
घटो विषयरूपेण कर्ताहंप्रत्ययागतः ।
स्वयंप्रकाशरूपेण ज्ञानं भाति जनस्य हि ॥६॥
करणोपरमान्मुक्तिमाह वैशेषिको यथा ।
दुःसहासारसंसारसागरोत्तरणोत्सुकः ॥७॥
प्रयत्नसुखदुःखेच्छाधर्माधर्मादिनाशतः ।
पाषाणवदवस्थानमात्मनो मुक्तिमिच्छति ॥८॥
दुःखसाध्यसुखोच्छेदो दुःखोच्छेदवदिष्यते ।
नित्यानन्दानुभूतिश्च निर्गुणस्य न चेष्यते ॥९॥
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
अन्यः सन्न्यासिनां मार्गो जाघटीति न कर्मिणाम् ॥१०॥
तस्मात्यागादयो धर्माः कर्तव्या विहिता यतः ।
अन्यथा प्रत्यवायः स्यात्कर्मण्येवाधिकारिणाम् ॥११॥
कर्ममात्रैकशरणाः श्रेयः प्राप्स्यन्त्यनुत्तमम् ।
न देवता चतुर्थ्यन्तविनियोगादृते परा ॥१२॥
वेदबाह्यान्निराकृत्य भट्ट्.एणैर्गते पथि ।
चक्रे प्रभाकरः शास्त्रं गुरुः कर्माधिकारिणाम् ॥१३॥

—ओ)०(ओ—

(११)
अथ भट्टाचार्यपक्षः

बौद्धादिनास्तिकध्वस्तवेदमार्गं पुरा किल ।
भट्टाचार्यः कुमारांशः स्थापयामास भूतले ॥१॥
त्यक्त्वा काम्यनिषिद्धे द्वे विहिताचरणान्नरः ।
शुद्धान्तःकरणो ज्ञानी परं निर्वाणं ऋच्छति ॥२॥
काम्यकर्माणि कुर्वाणैः काम्यकर्मानुरूपतः ।
जनित्वैवोपभोक्तव्यं भूयः काम्यफलं नरैः ॥३॥
कृमिकीटादिरूपेण जनित्वा तु निषिद्धकृत।
निषिद्धफलभोगौ स्यादधोऽधो नरकं व्रजेत॥४॥
अतो विचार्य विज्ञेयौ धर्माधर्मौ विपश्चिता ।
चोदनैकप्रमाणौ तौ न प्रत्यक्षादिगोचरौ ॥५॥
विध्यर्थवादमन्त्रैश्च नामधेयैश्चतुर्विधः ।
वेदो विधिप्रधानोऽयं धर्माधर्मावबोधकः ॥६॥
निवर्तकं निषिद्धाद्यत्पुंसां धर्मप्रवर्तकम् ।
वाक्यं तच्चोदना वेदे लिड्लोट्तव्यादिलाञ्छितम् ॥७॥
निषिद्धनिन्दकं यत्तु विहितार्थप्रशंसकम् ।
वाक्यमत्रार्थवादः स्याद्विध्यंशत्वात्प्रमाणकम् ॥८॥
कर्माङ्गभूता मन्त्राः स्युरनुष्ठेयप्रकाशकाः ।
यागादेर्नामभूतानि नामधेयानि हि श्रुतौ ॥९॥
आत्मा ज्ञातव्य इत्यादिविधयस्त्वारुणेषु ये ।
बोधं विदधते ब्रह्मण्यात्मनां परमात्मनि ॥१०॥
दूषयन्त्यनुमानाभ्यां बौद्धा वेदमपि स्फुटम् ।
तन्मूललब्धधर्मादेरपलापस्तु सिध्यति ॥११॥
वेदोऽप्रमाणं वाक्यत्वाद्रथ्यापुरुषवाक्यवत।
अथानाप्तप्रणीतत्वादुन्मत्तानां यथा वचः ॥१२॥
तदयुक्तमिमौ हेतू भवेतामप्रयोजकौ ।
वाक्यत्वमात्राद्वेदस्य न भवत्यप्रमाणता ॥१३॥
अनाप्तपुरुषोक्तत्वं हेतुस्ते न प्रयोजकः ।
स्यादनाप्तोक्ततामात्रादप्रामाण्यं न च श्रुतेः ॥१४॥
नित्यवेदस्य चानाप्तप्रणीतत्वं न दुष्यति ।
विप्रलम्भादयो दोषा विद्यन्ते पुंगिरां सदा ॥१५॥
वेदस्यापौरुषेयत्वाद्दोषाशङ्कैव नास्ति नः ।
वेदस्यापौरुषेयत्वं केचिन्नैयायिकादयः ॥१६॥
दूषयन्तीश्वरोक्त।अत्वान्मन्यमानाः प्रमाणताम् ।
पौरुषेयो भवेद्वेदो वाक्यत्वाद्भारतादिवत॥१७॥
सर्वेश्वरप्रणीतत्वे प्रामाण्यमपि सुस्थितम् ।
प्रामाण्यं विद्यते नेति पौरुषेयेषु युज्यते ॥१८॥
वेदे वक्तुरभावाच्च तद्वार्तापि सुदुर्लभा ।
वेदस्य नित्यता प्रोक्ता प्रामाण्येनोपयुज्यते ॥१९॥
सर्वेश्वरप्रणीतत्वं प्रामाण्यस्यैव कारणम् ।
तदयुक्तं प्रमाणेन केनात्रेश्वरकल्पना ॥२०॥
स यद्यागमकल्पः स्यान्नित्योऽनित्यः किमागमः ।
नित्यश्चेत्तं प्रतीशस्य केयं कर्तृत्वकल्पना ॥२१॥
अनित्यागमपक्षे स्यादन्योऽन्याश्रयदूषणम् ।
आगमस्य प्रमाणत्वमीश्वरोक्त्येश्वरस्ततः ॥२२॥
आगमात्सिध्यतीत्येवमन्योऽन्याश्रयदूषणम् ।
स्वत एव प्रमाणत्वमतो वेदस्य सुस्थिरम् ॥२३॥
धर्माधर्मौ च वेदैकगोचरावित्यपि स्थितम् ।
ननु वेदं विना साक्षात्कारामलकवत्स्फुटम् ॥२४॥
पश्यन्ति योगिनो धर्मं कथं वेदैकमानता ।
तदयुक्तं न योगी स्यादस्मदादिविलक्षणः ॥२५॥
सोऽपि पञ्चेन्द्रियैः पश्यन्विषयं नातिरिच्यते ।
प्रत्यक्षमनुमानाख्यमुपमानमनन्तरम् ॥२६॥
अर्थापत्तिरभावश्च न धर्मं बोधयन्ति वै ।
तत्तदिन्द्रिययोगेन वर्तमानार्थबोधकम् ॥२७॥
प्रत्यक्षं न हि गृह्णाति सोऽप्यतीतमनागतम् ।
धर्मेण नित्यसम्बन्धिरूपस्याभावतः क्वचित॥२८॥
नानुमानमपि व्यक्तं धर्माधर्मावबोधकम् ।
धर्मादिसदृशाभावादुपमानमपि क्वचित॥२९॥
सादृश्यग्राहकं नैव धर्माधर्मावबोधकं
सुखस्य कारणं धर्मो दुःखस्याधर्म इत्यपि ॥३०॥
अर्थापत्त्यात्र सामान्यमात्रे ज्ञाने न दुष्यति ।
सामान्यमननुष्ठेयं किं चातीतं तदा भवेत॥३१॥
यागादयो ह्यनुष्ठेया विशेषा विधिचोदिताः ।
अभावाख्यं प्रमाणं न पुण्यापुण्यप्रकाशकम् ॥३२॥
प्रमाणपञ्चकाभावे तत्सदा वर्तते यतः ।
वेदैकगोचरौ तस्माद्धर्माधर्माविति स्थितम् ॥३३॥
वेदैकविहितं कर्म मोक्षदं नापरं ततः ।
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ॥३४॥
नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया ।
आत्मा ज्ञातव्य इत्यादिविधिभिः प्रतिपादिते ॥३५॥
जीवात्मनां प्रबोधस्तु जायते परमात्मनि ।
प्रत्याहारादिकं योगमभ्यस्यन्विहितक्रियः ॥३६॥
मनः करणकेनात्मा प्रत्यक्षेणावसीयते ।
भिन्नाभिन्नात्मकस्त्वात्मा गोवत्सदसदात्मनः ॥३७॥
जीवरूपेण भिन्नोऽपि त्वभिन्नः पररूपतः ।
असत्स्यात्जीवरूपेण सद्रूपः पररूपतः ॥३८॥
शावलेयादिगोष्वेव यथा गोत्वं प्रतीयते ।
परमात्म त्वनुस्यूतवृत्तिर्जीवेऽपि बुध्यताम् ॥३९॥
त्रैयाम्बिकादिभिर्मन्त्रैः पूज्यो ध्येयो मुमुक्षुभिः ।
ध्यात्वैवारोपिताकारं कैवल्यं सोऽधिगच्छति ॥४०॥
परानन्दानुभूतिः स्यान्मोक्षे तु विषयादृते ।
विषयेषु विरक्ताः स्युर्नित्यानन्दानुभूतितः ।
गच्छन्त्यपुनरावृत्तिं मोक्षमेव मुमुक्षवः ॥४१॥

—ओ)०(ओ—

(१२)
अथ साङ्ख्यपक्षः

साङ्ख्यदर्शनसिद्धान्तः सङ्क्षेपादथ कथ्यते ।
साङ्ख्यशास्त्रं द्विधाभूतं सेश्वरं च निरीश्वरम् ॥१॥
चक्रे निरीश्वरं साङ्ख्यं कपिलोऽन्यत्पतञ्जलिः ।
कपिलो वासुदेवः स्यादनन्तः स्यात्पतञ्जलिः ॥२॥
ज्ञानेन मुक्तिं कपिलो योगेनाह पतञ्जलिः ।
योगी कपिलपक्षोक्तं तत्त्वज्ञानमपेक्षते ॥३॥
श्रुतिस्मृतीतिहासेषु पुराणे भारतादिके ।
साङ्ख्योक्तं दृश्यते स्पष्टं तथा शैवागमादिषु ॥४॥
व्यक्ताव्यक्तविवेकेन पुरुषस्यैव वेदनात।
दुःखत्रयनिवृत्तिः स्यादेकान्तात्यन्ततो न्èणम् ॥५॥
दुःखमाध्यात्मिकं चाधिभौतिकं चाधिदैविकम् ।
आध्यात्मिकं मनोदुःखं व्याधयः पिटकादयः ॥६॥
आधिभौतिकं दुःखं स्यात्कीतादिप्राणिसम्भवम् ।
वर्षातपादिसम्भूतं दुःखं स्यादाधिदैविकम् ॥७॥
एकान्तात्यन्ततो दुःखं निवर्तेतात्मवेदनात।
उपायान्तरतो मोक्षः क्षयातिशयसंयुतः ॥८॥
न चौषधैर्न यागाद्यैः स्वर्गादिफलहेतुभिः ।
त्रैगुण्यविषयैर्मोक्षः तत्त्वज्ञानादृते परैः ॥९॥
पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तादिकानि यः ।
वेत्ति तस्यैव विस्पष्टमात्मज्ञानं भविष्यति ॥१०॥
पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे वसेत।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥११॥
पञ्चविंशतितत्त्वानि पुरुषः प्रकृतिर्महान।
अहङ्कारश्च शब्दश्च स्पर्शरूपरसास्तथा ॥१२॥
गन्धः श्रोत्रं त्वक्च चक्षुर्जिह्वा घ्राणं च वागपि ।
पाणिः पादस्तथा पायुरुपस्थश्च मनस्तथा ॥१३॥
पृथिव्यापस्तथा तेजो वायुराकाशमित्यपि ।
सर्वं हि प्रकृतेः कार्यं नित्यैका प्रकृतिर्जडा ॥१४॥
प्रकृतेस्त्रिगुणावेशादुदासीनोऽपि कर्तृवत।
स चेतनावत्तद्योगात्सर्गः पङ्ग्वन्धयोगवत॥१५॥
प्रकृतिर्गुणसाम्यं स्याद्गुणाः सत्त्वं रजस्तमः ।
सत्त्वोदये सुखं प्रीतिः शान्तिर्लज्जाङ्गलाघवम् ।
क्षमा धृतिरकार्पण्यं दमो ज्ञानप्रकाशनम् ॥१६॥
रजोगुणोदये लोभः सन्तापः कोपविग्रहौ ।
अभिमानो मृषावादः प्रवृत्तिर्दम्भ इत्यपि ॥१७॥
तमोगुणोदये तन्द्रो मोहो निद्राङ्गगौरवम् ।
आलस्यमप्रबोधश्च प्रमादश्चैवमादयः ॥१८॥
व्यासाभिप्रेतसिद्धान्ते वक्ष्येऽहं भारते स्फुटम् ।
त्रैगुण्यविततिं सम्यग्विस्तरेण यथातथम् ॥१९॥
प्रकृतेः स्यान्महांस्तस्मादहङ्कारस्ततोऽप्यभूत।
तन्मात्राख्यानि पञ्च स्युः सूक्ष्मभूतानि तानि हि ॥२०॥
शब्दः स्पर्शस्तथा रूपं रसो गन्ध इतीरिताः ।
खवाय्वग्न्यम्बुपृथ्व्यः स्युः सूक्ष्मा एव न चापरे ॥२१॥
पटः स्याच्छुक्लतन्तुभ्यः शुक्ल एव यथा तथा ।
त्रिगुणानुगुणं तस्मात्तत्त्वसृष्टिरपि त्रिधा ॥२२॥
सत्त्वात्मकानि सृष्टानि तेभ्यो ज्ञानेन्द्रियाण्यथ ।
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमित्यत्र पञ्चकम् ।
तैः शब्दस्पर्शरूपाणि रसगन्धौ प्रवेत्त्यसौ ॥२३॥
रजोगुणोद्भवानि स्युस्तेभ्यः कर्मेन्द्रियाण्यथ ।
वाक्पाणिपादसंज्ञानि पायूपस्थौ तथैव च ॥२४॥
वचनादानगमनविसर्गानन्दकर्म च ।
मनोऽन्तःकरणाख्यं स्यात्ज्ञेयमेकादशेन्द्रियम् ॥२५॥
तमोगुणोद्भवान्येभ्यो महाभूतानि जज्ञिरे ।
पृथिव्यापस्तथा तेजो वायुराकाश इत्यपि ॥२६॥
पञ्चविंशतितत्त्वानि प्रोक्तान्येतानि वै मया ।
एतान्येव विशेषेण ज्ञातव्यानि गुरोर्मुखात॥२७॥
आत्मानः प्रलये लीनाः प्रकृतौ सूक्ष्मदेहिनः ।
गुणकर्मवशाद्ब्रह्मस्थावरान्तस्वरूपिणः ॥२८॥
प्रकृतौ सूक्ष्मरूपेण स्थितमेवाखिलं जगत।
अभिव्यक्तं भवत्येव नासदुत्पत्तिरिष्यते ॥२९॥
असदुत्पत्तिपक्षे च शशशृङ्गादि सम्भवेत।
असत्तैलं तिलादौ चेत्सिकताभ्योऽपि तद्भवेत॥३०॥
जनितं जनयेच्चेति यस्तु दोषस्त्वयेरितः ।
अभिव्यक्तिमते न स्यादभिव्यञ्जककारणैः ॥३१॥
आत्मानो बहवः साध्या देहे देहे व्यवस्थिताः ।
एकश्चेद्युगपत्सर्वे म्रियेरन्सम्भवन्तु वा ॥३२॥
पश्येयुर्युगपत्सर्वे पुंस्येकस्मिन्प्रपश्यति ।
अतः स्यादात्मनानात्वमद्वैतं नोपपद्यते ॥३३॥
आत्मा ज्ञातव्य इत्यादिविधिभिः प्रतिपादितः ।
निवृत्तिरूपधर्मः स्यान्मोक्षदोऽन्यः प्रवर्तकः ॥३४॥
अग्निष्टोमादयो यज्ञाः काम्याः स्युर्विहिता अपि ।
प्रवृत्तिधर्मास्ते ज्ञेया यतः पुंसां प्रवर्तकाः ॥३५॥
धर्मेणोर्ध्वगतिः पुंसामधर्मात्स्यादधोगतिः ।
ज्ञानेनैवापवर्गः स्यादज्ञानाद्बध्यते नरः ॥३६॥
ब्रह्मार्पणतया यज्ञाः कृतास्ते मोक्षदा यदि ।
अयज्ञत्वप्रसङ्गः स्यान्मन्त्रार्थस्यान्यथाकृते ॥३७॥
तस्माद्यागादयो धर्माः संसारेषु प्रवर्तकाः ।
निषिद्धेभ्योऽपि कर्तव्याः पुंसां सम्पत्तिहेतवः ॥३८॥

—ओ)०(ओ—

(१३)
अथ पतञ्जलिपक्षः

अथ सेश्वरसाङ्ख्यस्य वक्ष्ये पक्षं पतञ्जलेः ।
पतञ्जलिरनन्तः स्याद्योगशास्त्रप्रवर्तकः ॥१॥
पञ्चविंशतितत्त्वानि पुरुषं प्रकृतेः परम् ।
जानतो योगसिद्धिः स्याद्योगाद्दोषक्षयो भवेत॥२॥
पञ्चविंशतितत्त्वानि पुरुषं प्रकृतिर्महान।
अहङ्कारश्च तन्मात्रा विकाराश्चापि षोडश ।
महाभूतानि चेत्येतदृषिणैव सुविस्तृतम् ॥३॥
ज्ञानमात्रेण मुक्तिः स्यादित्यालस्यस्य लक्षणम् ।
ज्ञानिनोऽपि भवत्येव दोषैर्बुद्धिभ्रमः क्वचित॥४॥
गुरूपदिष्टविद्यातो नष्टाविद्योऽपि पूरुषः ।
देहदर्पणदोषांस्तु योगेनैव विनाशयेत॥५॥
सम्यग्ज्ञातो रसो यद्वद्गुडादेर्नानुभूयते ।
पित्तज्वरयुतैस्तस्माद्दोषानेव विनाशयेत॥६॥
गुरूपदिष्टविद्यस्य विरक्तस्य नरस्य तु ।
दोषक्षयकरस्तस्माद्योगादन्यो न विद्यते ॥७॥
अव्दियोपात्तकर्तृत्वात्कामात्कर्माणि कुर्वते ।
ततः कर्मविपाकेन जात्यायुर्भोगसम्भवः ॥८॥
पञ्चक्लेशास्त्वविद्या च रागद्वेषौ तदुद्भवौ ।
अस्मिताभिनिवेशौ च तत्राविद्यैव कारणम् ॥९॥
आत्मबुद्धिरविद्या स्यादनात्मनि कलेवरे ।
पञ्चभूतात्मको देहो देही त्वात्मा ततोऽपरः ॥१०॥
तज्जन्यपुत्रपौत्रादिसन्तानेऽपि ममत्वधीः ।
अविद्या देहभोग्ये वा गृहक्षेत्रादिके तथा ॥११॥
नष्टाविद्योऽथ तन्मूलरागद्वेषविवर्जितः ।
मुक्तये योगमभ्यस्येदिहामुत्रफलास्पृहः ॥१२॥
चित्तवृत्तिनिरोधे स्याद्योगः स्वस्मिन्व्यवस्थितिः ।
वृत्तयो नात्र वर्ण्यन्ते क्लिष्टाक्लिष्टविभेदिताः ॥१३॥
क्रियायोगं प्रकुर्वीत साक्षाद्योगप्रवर्तकम् ।
क्रियायोगस्तपो मन्त्रजपो भक्तिर्दृढेश्वरे ॥१४॥
क्लेशकर्मविपाकादिशून्यः सर्वज्ञ ईश्वरः ।
स कालेनानवच्छेदाद्ब्रह्मादीनां गुरुर्मतः ॥१५॥
तद्वाचकः स्यात्प्रणवस्तज्जपो वाच्यभावनम् ।
योगान्तरायनाशः स्यात्तेन प्रत्यङ्मनो भवेत॥१६॥
आलस्यं व्याधयस्तीव्राः प्रमादस्त्यानसंशयः ।
अनवस्थितचित्तत्वमश्रद्धा भ्रान्तिदर्शनम् ॥१७॥
दुःखानि दौर्मनस्यं च विषयेषु च लोलता ।
श्वासप्रश्वासदोषौ च देहकम्पो निरङ्कुशः ।
इत्येवमादयो दोषा योगविघ्नाः स्वभावतः ॥१८॥
ईश्वरप्रणिधानेन तस्माद्विघ्नान्विनाशयेत।
मैत्र्यादिभिर्मनःशुद्धिं कुर्याद्योगस्य साधनम् ॥१९॥
मैत्रीं कुर्यात्सुधीलोके करुणां दुःखिते जने ।
धर्मेऽनुमोदनं कुर्यादुपक्षामेव पापिनाम् ॥२०॥
भगवत्क्षेत्रसेवा च सज्जनस्य च सङ्गतिः ।
भगवच्चरिताभ्यासो भावना प्रत्यगात्मनः ॥२१॥
इत्येवमादिभिर्यत्नैः संशुद्धं योगिनो मनः ।
शक्तं स्यादतिसूक्ष्माणां महतामपि भावने ॥२२॥
योगाङ्गकारणाद्दोषे नष्टे ज्ञानप्रकाशनम् ।
अष्टावङ्गानि योगस्य यमोऽथ नियमस्तथा ॥२३॥
आसनं पवनायामः प्रत्याहारोऽथ धारणा ।
ध्यानं समाधिरित्येवं तानि विस्तरतो यथा ॥२४॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
यमाः पञ्च भवन्त्येते जात्याद्यनुगुणा मताः ॥२५॥
नियमाः शौचसन्तोषतपोमन्त्रेशसेवनाः ।
यमस्य नियमस्यापि सिद्धौ वक्ष्ये फलानि च ॥२६॥
अहिंसायाः फलं तस्य सन्निधौ वैरवर्जनम् ।
सत्यादमोघवाक्त्वं स्यादस्तेयाद्रत्नसङ्गतिः ॥२७॥
ब्रह्मचर्याद्वीर्यलाभो जन्मधीरपरिग्रहात।
शौचात्स्वाङ्गेऽजुगुप्सा स्याद्दुर्जनस्पर्शवर्जनम् ॥२८॥
सत्त्वशुद्धिः सौमनस्यमैकात्मेन्द्रियवश्यते ।
आत्मदर्शनयोग्यत्वं मनःशौचफलं भवेत॥२९॥
अनुत्तमसुखावाप्तिः सन्तोषाद्योगिनो भवेत।
इन्द्रियाणां तु कायस्य सिद्धिः स्यात्तपसः फलम् ॥३०॥
इन्द्रियस्य तु सिद्ध्या स्याद्दूरालोकादिसम्भवः ।
कायसिद्ध्याणिमादि स्यात्तस्य दिव्यशरीरिणः ॥३१॥
जपेन देवताकर्षः समाधिस्त्वीशसेवया ।
आसनं स्यात्स्थिरसुखं द्वन्द्वनाशस्ततो भवेत॥३२॥
पद्मभद्रमयूराख्यैर्वीरस्वस्तिककुक्कुटैः ।
आसनैर्योगशास्त्रोक्तैरासितव्यं च योगिभिः ॥३३॥
प्राणापाननिरोधः स्यात्प्राणायामस्त्रिधा हि सः ।
कर्तव्यो योगिनो तेन रेचपूरककुम्भकैः ॥३४॥
रेचनाद्रेचको वायोः पूरणात्पूरको भवेत।
सम्पूर्णकुम्भवत्स्थानादचलः स तु कुम्भकः ॥३५॥
प्राणायामश्चतुर्थः स्याद्रेचपूरककुम्भकान।
हित्वा निजस्थितिर्वायोरविद्यापापनाशिनी ॥३६॥
इन्द्रियाणां च चरतां विषयेभ्यो निवर्तनम् ।
प्रत्याहारो भवेत्तस्य फलमिन्द्रियवश्यता ॥३७॥
चित्तस्य देशबन्धः स्याद्धारणा द्विविधा हि सा ।
देशबाह्यान्तरत्वेन बाह्यः स्यात्प्रातिमादिकः ॥३८॥
देशाभ्यन्तरो ज्ञेयो नाभिचक्रहृदादिकः ।
चित्तस्य बन्धनं तत्र वृत्तिरेव न चापरम् ॥३९॥
नाभिचक्रादिदेशेषु प्रत्यय्स्यैकतानता ।
ध्यानं समाधिस्तत्रैव त्वात्मनः शून्यवत्स्थितिः ॥४०॥
धारणादित्रये त्वेकविषये पारिभाषिकी ।
संज्ञा संयम इत्येषा त्रयोच्चारणलाघवात॥४१॥
योगिनः संयमजयात्प्रज्ञालोकः प्रवर्तते ।
संयमस्य तु कर्तव्यो विनियोगोऽत्र भूमिषु ॥४२॥
पञ्चभ्योऽपि यमादिभ्यो धारणादित्रयं भवेत।
अन्तरङ्गं हि निर्बीजसमाधिः स्यात्ततः परम् ॥४३॥
अजित्वा त्वपरां भूमिं नारोहेद्भूमिमुत्तराम् ।
अजित्वारोहणे भूमेर्योगिनः स्युरुपद्रवाः ॥४४॥
हिक्काश्वासप्रतिश्यायकर्णदन्ताक्षिवेदनाः ।
मूकताजडताकासशिरोरोगज्वरास्त्विति ॥४५॥
यस्येश्वरप्रसादेन योगो भवति तस्य तु ।
न रोगाः सम्भवत्येते येऽधरोत्तरभूमिजाः ॥४६॥
एक एवाखिलो धर्मो बाल्यकौमारयौवनैः ।
वार्धकेन तु कालेन परिणामाद्विनश्यति ॥४७॥
पराग्भूतस्य यातीडापिङ्गलाभ्यामहर्निशम् ।
कालस्तं शमयेत्प्रत्यगभियातः सुषुम्णया ॥४८॥
मुक्तिमार्गः सुषुम्णा स्यात्कालस्तत्र हि वञ्चितः ।
चन्द्रादित्यात्मकः कालस्तयोर्मार्गद्वयं स्फुटम् ॥४९॥
क्षीरात्समुद्धृतं त्वाज्यं न पुनः क्षीरतां व्रजेत।
पृथक्कृतो गुणेभ्यस्तु भूयो नात्मा गुणी भवेत॥५०॥
यथा नीता रसेन्द्रेण धातवः शातकुम्भताम् ।
पुनरावृत्तये न स्युस्तद्वदात्मापि योगिनाम् ॥५१॥
नाडीचक्रगतिर्ज्ञेया योगमभ्यस्यतां सदा ।
सुषुम्णा मध्यवंशास्थिद्वारेण तु शिरोगता ॥५२॥
इडा च पिङ्गला घ्राणप्रदेशे सव्यदक्षिणे ।
इडा चन्द्रस्य मार्गः स्यात्पिङ्गला तु रवेस्तथा ॥५३॥
कुहूरधोगता लिङ्गं वृषणं पायुमप्यसौ ।
विश्वोदरा धारणा च सव्येतरकरी क्रमात॥५४॥
सव्येतराङ्गी विज्ञेयौ हस्तिजिह्वा यशस्विनी ।
सरस्वती तु जिह्वा स्यात्सुषुम्नापृष्ठनिर्गता ॥५५॥
तत्पार्श्वयोः स्थितौ कर्णौ शङ्खिनी च पयस्विनी ।
गान्धारी सव्यनेत्रं स्यान्नेत्रं पूषा च दक्षिणम् ॥५६॥
ज्ञानकर्मेन्द्रियाणि स्युर्नाड्यः कण्ठाद्विनिःसृताः ।
नाड्यो हि योगिनां ज्ञेयाः सिरा एव न चापराः ॥५७॥
प्राणादिवायुसञ्चारो नाडीष्वेव यथा तथा ।
ज्ञातव्यो योगशास्त्रेषु तद्व्यापारश्च दृश्यताम् ॥५८॥
योगी तु संयमस्थाने संयमात्सर्वविद्भवेत।
पूर्वजातिपरिज्ञानं संस्कारे संयमाद्भवेत॥५९॥
हस्त्यादीनां बलानि स्युर्हस्त्यादिस्थानसंयमात।
मैत्र्यादि लभते योगी मैत्र्यादिस्थानसंयमात॥६०॥
चन्द्रे स्यात्संयमात्तस्य तारकाव्यूहवेदनम् ।
ध्रुवे तद्गतिविज्ञानं सूर्ये स्याद्भुवनेषु धीः ॥६१॥
कायव्यूहपरिज्ञानं नाभिचक्रे तु संयमात।
क्षुत्पिपासानिवृत्तिः स्यात्कण्ठकूपे तु संयमात॥६२॥
कूर्मनाड्यां भवेत्स्थैर्यमूर्ध्वज्योतिषि सिद्धधीः ।
जिह्वाग्रे रससंवित्स्यान्नासाग्रे गन्धवेदनम् ॥६३॥
अभ्यासादनिशं तस्माद्देहकान्तिः शुभाकृतिः ।
क्षुदादिविनिवृत्तिश्च जायते वत्सरार्धतः ॥६४॥
संवत्सरेण विविधा जायन्ते योगसिद्धयः ।
यथेष्टचरितं ज्ञानमतीताद्यर्थगोचरम् ॥६५॥
स्वदेहेन्द्रियसंशुद्धिर्जरामरणसङ्क्षयः ।
वैराग्येण निवृत्तिः स्यात्संसारे योगिनोऽचिरात॥६६॥
अणिमाद्यष्टकं तस्य योगसिद्धस्य जायते ।
तेन मुक्तिविरोधो न शिवस्येव यथा तथा ॥६७॥
अणिमा लघिमा चैव महिमा प्राप्तिरीशिता ।
प्राकाम्यं च तथेशित्वं वशित्वं यत्र कामदम् ॥६८॥

—ओ)०(ओ—

(१४)
अथ वेदव्यासपक्षः

सर्वशास्त्राविरोधेन व्यासोक्तो भारते द्विजैः ।
गृह्यते साङ्ख्यपक्षाद्धि वेदसारोऽथ वैदिकैः ॥१॥
पुरुषः प्रकृतिश्चेति द्वयात्मकमिदं जगत।
परः शयानस्तन्मात्रपुरे तु पुरुषः स्मृतः ॥२॥
तन्मात्राः सूक्ष्मभूतानि प्रायस्ते त्रिगुणाः स्मृताः ।
प्रकृतिर्गुणसाम्यं स्याद्गुणाः सत्त्वं रजस्तमः ॥३॥
बन्धः पुंसो गुणावेशो मुक्तिर्गुणाविवेकधीः ।
गुणस्वभावैरात्मा स्यादुत्तमो मध्यमोऽधमः ॥४॥
उत्तमः सात्त्विकः श्लेष्मप्रकृतिः स जलात्मकः ।
राजसो मध्यमो ह्यात्मा स पित्तप्रकृतिर्मतः ॥५॥
अधमस्तामसो वातप्रकृतिर्यत्तमो मरुत।
सत्त्वं शुक्लं रजो रक्तं धूम्रं कृष्णं तमो मतम् ॥६॥
जलाग्निपवनात्मानः शुक्लरक्तासितास्ततः ।
तत्तदाकारचेष्टाद्यैर्लक्ष्यन्ते सात्त्विकादयः ॥७॥
प्रियङ्गुदुर्वाशस्त्राब्जहेमवर्णः कफात्मकः ।
गूढास्थिबन्धः सुस्निग्धपृथुवक्षा बृहत्तमः ॥८॥
गम्भीरो मांसलः सौम्यो गजगामी महामनाः ।
मृदङ्गनादो मेधावी दयालुः सत्यवागृजुः ॥९॥
क्षुत्तृड्दुःखपरिक्लेशैरतप्तो घर्मतस्तथा ।
अनेकपुत्रभृत्याढ्यो भूरिशुक्लो रतिक्षमः ॥१०॥
धर्मात्मा मितभाषी च निष्ठुरं वक्ति न क्वचित।
बाल्येऽप्यरोदनोऽलोलो न बुभूक्षार्दितो भृशम् ॥११॥
भूङ्क्तेऽल्पं मधुरं कोष्णं तथापि बलवानसौ ।
अप्रतीकारतो वैरं चिरं गूढं वहत्यसौ ॥१२॥
धृतिर्बुद्धिः स्मृतिः प्रीतिः सुखं लज्जाङ्गलाघवम् ।
आनृण्यं समतारोग्यमकार्पण्यमचापलम् ॥१३॥
इष्टापूर्तविशेषाणां क्रतूनामविकत्थनम् ।
दानेन चानुग्रहणमस्पृहा च परार्थतः ॥१४॥
सर्वभूतदया चेति गुणैर्ज्ञेयोऽत्र सात्त्विकः ।
रजोगुणपरिच्छेद्यो राजसोऽत्र यथा जनः ॥१५॥
रजः पित्तं तदेवाग्निरग्निस्तत्पित्तजस्तु वा ।
तीव्रतृष्णो बुभुक्षार्तः पैत्तिकोऽमितभोजनः ॥१६॥
पिङ्गकेशोऽल्परोमा च ताम्रवक्त्राङ्घ्रिहस्तकः ।
घर्मासहिष्णुरुष्णाङ्गः स्वेदनः पूतिगन्धयुक॥१७॥
स्वस्थो विरेचनादेवं मृदुकोष्ठोऽतिकोपनः ।
शूरः सुचरितो मानी क्लेशभीरुश्च पण्डितः ॥१८॥
माल्यानुलेपनादीच्छुरतिस्वच्छोज्ज्वलाकृतिः ।
अल्पशुक्लोऽल्पकामश्च कामिनीनामनीप्सितः ॥१९॥
बाल्येऽपि पलितं धत्ते रक्तरोमाथ नीलिकाम् ।
बली साहसिको भोगी सम्प्राप्तविभवः सदा ॥२०॥
भुङ्क्तेऽतिमधुरं चार्द्रं भक्ष्यं कट्वम्लनिस्पृहः ।
नात्युष्णभोजी पानीयमन्तरा प्रचुरं पिबन॥२१॥
नेत्रं तन्वल्पपक्ष्मास्य भवेच्छीतजलप्रियः ।
कोपेनार्काभितापेन रागमाशु प्रयाति च ॥२२॥
अत्यागित्वमकारुण्यं सुखदुःखोपसेवनम् ।
अहङ्कारादसत्कारश्चिन्ता वैरोपसेवनम् ॥२३॥
परभार्यापहरणं ह्रीनाशोऽनार्जवं त्विति ।
राजसस्य गुणाः प्रोक्तास्तामसस्य गुणा यथा ॥२४॥
अधर्मस्तामसो ज्ञेयस्तामसो वातिको जनः ।
अधन्यो मत्सरो चोरः प्राकृतो नास्तिको भृशम् ॥२५॥
दीर्घस्फुटितकेशान्तः कृशः कृष्णोऽतिलोमशः ।
अस्निग्धविरलस्थूलदन्तो धूसरविग्रहः ॥२६॥
चञ्चलास्य धृतिर्बुद्धिश्चेष्टा दृष्टिर्गतिः स्मृतिः ।
सौहार्दमस्थिरं तस्य प्रलापोऽसङ्गतः सदा ॥२७॥
बह्वाशी मृगयाशीलो मलिष्ठः कलहप्रियः ।
शीतासहिष्णुश्चपलो दोषधीर्जर्जरस्वरः ॥२८॥
सन्नसक्तचलालापो गीतवाद्यरतः सदा ।
मधुराद्युपभोगी च भक्ष्यपक्वाम्लसस्पृहः ॥२९॥
अल्पपित्तकफः प्रेक्ष्योऽस्वल्पनिद्रोऽल्पजीवनः ।
एवमादिगुणैर्ज्ञेयस्तामसो वातिको जनः ॥३०॥
पञ्चभूतगुणान्वक्ष्ये त्रैगुण्यान्नातिभेदिनः ।
जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः ।
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते ॥३१॥
त्वक्च मांसं तथास्थीनि मज्जा स्नायुश्च पञ्चमः ।
इत्येतदिह सङ्घातं शरीरे पृथिवीमयम् ॥३२॥
तेजो ह्यग्निस्तथा क्रोधश्चक्षुरुष्मा तथैव च ।
अग्निर्जरयते यच्च पञ्चाग्नेयाः शरीरिणः ॥३३॥
श्रोत्रं घ्राणं तथाप्यञ्च हृदयं कोष्ठमेव च ।
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः ॥३४॥
श्लेष्मा पित्तमथ खेदो वसा शोणितमेव च ।
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥३५॥
प्राणात्प्रणीयते देही व्यानाद्व्यायच्छते तथा ।
गच्छत्यपानोऽधश्चैव समानो हृद्यवस्थितः ॥३६॥
उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते ।
इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम् ॥३७॥
इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च ।
निर्हारी सङ्गतः स्निग्धो रुक्षो विशद एव च ।
एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः ॥३८॥
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः ॥३९॥
ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रो ऽथ वृत्तवान् ।
शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा ॥४०॥
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदुदारुणः ।
एवं षोडशविस्तारो ज्योतीरूपो गुणः स्मृतः ॥४१॥
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ।
तथा खरो मृदू रूक्षो लघुर्गुरुतरोऽपि च ।
एव्ग्द्वादशविस्तारो वायव्यो गुण उच्यते ॥४२॥
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा ।
धैवतो निषधश्चैव सप्तैते शब्दजा गुणाः ॥४३॥
आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह ।
अव्याहतैश्चेतयते न वेत्ति विषमस्थितैः ॥४४॥
आप्याय्यन्ते च ते नित्यं धातवस्तैस्तु पञ्चभिः ।
आपोऽग्निर्मरुतश्चैव नित्यं जाग्रति देहिषु ॥४५॥
चतुर्व्यूहात्मको विष्णुश्चतुर्धैवाकरोज्जगत।
ब्रह्मक्षत्रियविट्शूद्रांश्चतुर्वर्णान्गुणात्मकान॥४६॥
विप्रः शुक्लो नृपो रक्तः पीतो वैश्योऽन्त्यजोऽसितः ।
विस्तृत्य धर्मशास्त्रे हि तेषां कर्म समीरितम् ॥४७॥
एकस्मिन्नेव वर्णे तु चातुर्वर्ण्ये गुणात्मकम् ।
मोक्षधर्मेऽधिकारित्वसिद्धये मुनिरभ्यधात॥४८॥
स कर्मदेवतायोगज्ञानकाण्डेष्वनुक्रमात।
प्रवर्तयति तत्कर्मपरिपाकक्रमं विदन॥४९॥
ऋजवः शुद्धवर्णाभाः क्षमावन्तो दयालवः ।
स्वधर्मनिरता ये स्युस्ते द्विजेषु द्विजातयः ॥५०॥
कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः ।
त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजा क्षत्रतां गताः ॥५१॥
गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः ।
स्वधर्मान्नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः ॥५२॥
हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः ।
कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः ॥५३॥
समयाचारनिःशेषकृत्यभेदैर्विमोहयन।
मोक्षदो विष्णुरेव स्याद्देवदैतेयरक्षसाम् ॥५४॥
चतुर्भिर्जन्मभिर्मुक्तिर्द्वेषेण भजतस्तव ।
भवेदिति वरो दत्तः पुण्डरीकाय विष्णुना ॥५५॥
रजःसत्त्वतमोमार्गैस्तदात्मानः स्वकर्मभिः ।
प्राप्यते विष्णुरेवैको देवदैत्यनिशाचरैः ॥५६॥
ब्रह्मविष्णुहराख्याभिः सृष्टिस्थितिलयानपि ।
हरिरेव करोत्येको रजःसत्त्वतमोवशात॥५७॥
सात्त्विकास्त्रिदशाः सर्वे त्वसुरा राजसा मताः ।
तामसा राक्षसा शीलप्रकृत्याकृतिवर्णतः ॥५८॥
धर्मः सुराणां पक्षः स्यादधर्मोऽसुररक्षसाम् ।
पिशाचादेरधर्मः स्यादेषां लक्ष्म रजस्तमः ॥५९॥
ईश्वराज्ज्ञानमन्विच्छेच्छ्रियमिच्छेद्धुताशनात।
आरोग्यं भास्करादिच्छेन्मोक्षमिच्छेज्जनार्दनात॥६०॥
यस्मिन्पक्षे तु यो जातः सुरो वाप्यसुरोऽपि वा ।
स्वधर्म एव तस्य स्यादधर्मेऽप्यत्र धर्मवित॥६१॥
वेदत्रयोक्ता ये धर्मास्तेऽनुष्ठेयास्तु सात्त्विकैः ।
अधर्मोऽथर्ववेदोक्तो राजसैस्तामसैः श्रितः ॥६२॥
विष्णुक्रमणपर्यन्तो योगोऽस्माकं यथा तथा ।
राजसैस्तामसैर्ब्रह्मरुद्राविज्यौ तु तद्गुणौ ॥६३॥
निजधर्मपथायाताननुगृह्णात्यसौ हरिः ।
मुच्यते निजधर्मेण परधर्मो भयावहः ॥६४॥
एक एव परो विष्णुः सुरासुरनिशाचरान।
त्रिगुणानुगुणं नित्यमनुगृह्णाति लीलया ॥६५॥

—ओ)०(ओ—

(१५)
अथ वेदान्तपक्षः

वेदान्तशास्त्रसिद्धान्तः सङ्क्षेपादथ कथ्यते ।
तदर्थप्रवणाः प्रायः सिद्धान्ताः परवादिनाम् ॥१॥
ब्रह्मार्पणकृतैः पुण्यैर्ब्रह्मज्ञानाधिकारिभिः ।
तत्त्वमस्यादिवाक्यार्थो ब्रह्म जिज्ञास्यते बुधैः ॥२॥
नित्यानित्यविवेकित्वमिहामुत्रफलास्पृहा ।
शमो दमो मुमुक्षुत्वं यस्य तस्याधिकारिता ॥३॥
तत्त्वमस्येव नान्यस्त्वं तच्छब्दार्थः परेश्वरः ।
त्वंशब्दार्थो पुरोवर्ती तिर्यङ्मर्त्यादिकोऽपरः ॥४॥
तादात्म्यमसि शब्दार्थो ज्ञेयस्तत्त्वंपदार्थयोः ।
सोऽयं पुरुष इत्यादि वाक्ये तादात्म्यवन्मतः ॥५॥
स्यान्मतं तत्त्वमस्यादिवाक्यं सिद्धार्थबोधनात।
कथं प्रवर्तकं पुंसां विधिरेव प्रवर्तकः ॥६॥
आत्मा ज्ञातव्य इत्यादिविधिभिः प्रतिपादिताः ।
यजमानाः प्रशस्यन्ते तत्त्ववादैरिहारुणैः ॥७॥
बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः ।
नानाभूतः प्रतिक्षेत्रमर्थवित्तिषु भासते ॥८॥
व्यर्थातो ब्रह्मजिज्ञासा वाक्यस्यान्यपरत्वतः ।
अत्र ब्रूमः समाधानं न लिङेव प्रवर्तकः ॥९॥
इष्टसाधनताज्ञानादपि लोकः प्रवर्तते ।
पुत्रस्ते जात इत्यादौ विधिरूपो न तादृशः ॥१०॥
आत्मा ज्ञातव्य इत्यादिविधयस्त्वारुणे स्थिताः ।
बोधं विदधते ब्रह्मण्यज्ञानाद्भ्रान्तचेतसाम् ॥११॥
स्यादेतत्काम्यकर्माणि प्रतिसिद्धानि वर्जयन।
विहितं कर्म कुर्वाणः शुद्धान्तःकरणः पुमान।
स्वयमेव भवेज्ज्ञानी गुरुवाक्यानपेक्षया ॥१२॥
तदयुक्तं न विज्ञानं कर्मभिः केवलैर्भवेत।
गुरुप्रसादजन्यं हि ज्ञानमित्युक्तमारुणैः ॥१३॥
प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शक्तितः ।
कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥१४॥
प्रत्यक्प्रवणबुद्धेस्तु ब्रह्मज्ञानाधिकारिणः ।
स्यादेव ब्रह्मजिज्ञासा तत्त्वमस्यादिभिर्गुरोः ॥१५॥
तत्त्वमस्यादि वाक्यौघो व्याख्यातो हि पुनः पुनः ।
गुर्वनुग्रहहीनस्य नात्मा सम्यक्प्रकाशते ॥१६॥
आत्माविद्यानिमित्तोत्थः प्रपञ्चः पाञ्चभौतिकः ।
निवर्तते यथा तुच्छं शरीरभुवनात्मकम् ।
तथा ब्रह्मविवर्तं तु विज्ञेयमखिलं जगत॥१७॥
वेदान्तोक्तात्मविज्ञानविपरीतमतिस्तु या ।
आत्मन्यविद्या सानादिः स्थूलसूक्ष्मात्मना स्थिता ॥१८॥
आत्मनः खं ततो वायुर्वायोरग्निस्ततो जलम् ।
जलात्पृथिव्यभूद्भूमेर्व्रीह्याद्यौषधयोऽभवन॥१९॥
औषधिभ्योऽन्नमन्नात्तु पुरुषः पञ्चकोशवान।
अपञ्चीकृततन्मात्रः सूक्ष्मभूतात्मको जनः ।
स्थूलीभवती तद्भेदस्तिर्यङ्नरसुरात्मकः ॥२०॥
धर्माधिक्ये तु देवत्वं तिर्यक्त्वं स्यादधर्मतः ।
तयोः साम्ये मनुष्यत्वमिति त्रेधा तु कर्मभिः ॥२१॥
त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ।
सप्तान्नपरिणामाः स्युः पुंस्त्रीत्वमपि न स्वतः ॥२२॥
शुक्राधिक्ये पुमान्गर्भे रक्ताधिक्ये वधूस्तथा ।
नपुंसकं तयोः साम्ये मातुः सञ्जायते सदा ॥२३॥
मज्जास्थिस्नायवः शुक्राद्रक्तात्त्वङ्मांसशोणिताः ।
षट्कोशाख्यं भवेदेतत्पितुर्मातुस्त्रयं त्रयम् ॥२४॥
बुभुक्षा च पिपासा च शोकमोहौ जरामृतौ ।
षडूर्मयः प्राणबुद्धिदेहेषु स्याद्द्वयं द्वयम् ॥२५॥
आत्मत्वेन भ्रमन्त्यत्र वादिनः कोशपञ्चके ।
अन्नप्राणमनोज्ञानमयाः कोशास्तथात्मनः ॥२६॥
आनन्दमयकोशश्च पञ्चकोशा इतीरिताः ।
मयङ्विकारे विहित इत्यानन्दमयोऽभ्यसन॥२७॥
गृह्णात्यन्नमयात्मानं देहं लोकायतः खलु ।
देहैः परिमितं प्राणमयमारहता विदुः ॥२८॥
विज्ञानमयमात्मानं बौद्धा गृह्णन्ति नापरम् ।
आनन्दमयमात्मानं वैदिकाः केचिदूचिरे ॥२९॥
अहंकारात्मवादी तु प्राह प्रायो मनोमयम् ।
कर्तृत्वादिभिरस्पृष्टो ग्राह्य अन्यथाविन्मते ॥३०॥
कर्तृत्वं कर्मकाण्डस्थैर्देवताकाण्डमाश्रितैः ।
अवश्याश्रयणीयं हि नान्यथा कर्म सिध्यति ॥३१॥
वसन्ते ब्राह्मणोऽत्राग्नीनादधीतेति वै विधौ ।
देहो वात्मविशिष्टो वा कोऽधिकारी तु कर्मणि ॥३२॥
अचेतनत्वाद्देहस्य स्वर्गकामाद्यसम्भवात।
न जाघटीति कर्तृत्वं नाशित्वात्तत्र कर्मणि ॥३३॥
आत्मनो ब्राह्मणत्वादिजातिरेव न विद्यते ।
जातिवर्णाश्रमावस्थाविकारेभ्योऽपि सोऽपरः ॥३४॥
विशिष्टो नापरः कश्चिद्विद्यते देहदेहिनोः ।
अतः काल्पनिकः कर्ता विज्ञेयस्तत्र कर्मणि ॥३५॥
नेति नेत्युच्यमाने तु पञ्चकोशे क्रमेण यः ।
भासते तत्परं ब्रह्म स्यादविद्या ततोऽन्यथा ॥३६॥
आत्मस्वरूपमाच्छाद्य विक्षेपान्सा करोत्यलम् ।
अहङ्काराख्यविक्षेपः कामात्कर्मफलं सदा ॥३७॥
मूलभूतोऽखिलभ्रान्तेर्बिभ्राणो दुःखसन्ततिम् ।
व्यवहारान्करोत्युच्चैः सर्वान्लौकिकवैदिकान।
मातृमानप्रमेयादिभिन्नान्सर्वस्य सत्यवत॥३८॥
निष्क्रियस्य त्वसङ्गस्य चिन्मात्रस्यात्मनः खलु ।
स्वतो न व्यवहारोऽयं सम्भवत्यनपेक्षिणः ॥३९॥
जडश्चेतत्यहङ्कारश्चैतन्याध्यासनाद्ध्रुवम् ।
अन्यवस्त्वन्तराध्यासादात्मान्यत्वेन भासते ॥४०॥
इदमंशो द्विधाभूतस्तत्र प्राणः क्रियाश्रयः ।
ज्ञानाधारोऽपरो बुद्धिर्मन इत्यंश ईरितः ॥४१॥
तस्य चेष्टादयोऽपीष्टाः प्राणाद्याः पञ्च वायवः ।
करणाद्याः क्रियाभेदवागादिद्वारकास्तथा ।
द्विधान्तःकरणं बुद्धिर्मनः कार्यवशादिह ॥४२॥
आत्मैव केवलः साक्षादहंबुद्धौ तु भाति चेत।
कृशोऽस्मीति मतौ भाति केवलो नेति तद्वद ॥४३॥
कृशादयोऽत्र दृश्यत्वान्नात्मधर्मा यथा मताः ।
मुखादयोऽपि देहस्था नात्मधर्मास्तथैव च ॥४४॥
मातृमानप्रमेयेभ्यो भिन्न आत्मात्मविन्मते ।
तथैव चोपपाद्यः स्यान्निरस्य परवादिनः ॥४५॥
अनात्मा विषयश्चेति प्रतिपाद्यो न कस्यचित।
घटोऽहमिति कस्यापि प्रतिपत्तेरभावतः ॥४६॥
रूपादिमत्त्वाद्दृश्यत्वाज्जडत्वाद्भौतिकत्वतः ।
अन्नवच्चादनीयत्वात्श्वादेर्नात्मा कलेवरम् ॥४७॥
देहतो व्यतिरेकेण चैतन्यस्य प्रकाशनात।
अतस्त्वन्नमयो देहो नात्मा लोकायतेरितः ॥४८॥
प्राणोऽप्यात्मा न वायुत्वाज्जडत्वाद्बाह्यवायुवत।
इन्द्रियाणि न चात्मा स्यात्करणत्वात्प्रदीपवत॥४९॥
चञ्चलत्वान्मनो नात्मा सुषुप्तौ तदसम्भवात।
सुखे पर्यवसानां च सुखमेवात्मविग्रहः ॥५०॥
धत्तेऽन्नमयमात्मानं प्राणः प्राणं मनो मनः ।
सच्चिदानन्दगोविन्दपरमात्म वहत्यसौ ॥५१॥
यदा बाह्येन्द्रियैरात्मा भुङ्क्तेऽर्थान्स्वपराङ्मुखान।
तदा जाग्रदवस्था स्यादात्मनो विश्वसंज्ञिता ॥५२॥
बाह्येन्द्रियगृहीतार्थान्मनोमात्रेण वै यदा ।
भुङ्क्ते स्वप्नांस्तदा ज्ञेया तैजसाख्या परात्मनः ॥५३॥
अविद्यातिमिरग्रस्तमनस्यात्मन्यवस्थिते ।
सुषुप्त्यवस्था विज्ञेया प्राज्ञाख्यानन्दसंज्ञिता ॥५४॥
स्वापेऽपि तिष्ठति प्राणो मृतभ्रान्तिनिवृत्तये ।
अन्यथा श्वादयोऽश्नन्ति संस्करिष्यन्ति वानले ॥५५॥
स्वापेऽप्यानन्दसद्भावो भवत्येवोत्थितो यतः ।
सुखमस्वाप्समित्येवं परामृशति वै स्मरन॥५६॥
स्यान्मतं विषयाभावान्न तद्विषयजं सुखम् ।
वैद्यत्वान्न निजं तेन दुःखाभावे सुखभ्रमः ।
प्रतियोगिन्यदृष्टेऽपि सर्वाभावोऽपि गृह्यते ॥५७॥
यतोऽन्यस्मै पुनः पृष्टः सर्वाभावं प्रभाषते ।
न्यायेनानेन भावानां ज्ञानाभावोऽनुभूयते ॥५८॥
अत्र ब्रूमः समाधानं दुःखाभावो न गृह्यते ।
प्रबुद्धेनेति सुप्तस्य नाज्ञानं प्रति साक्षिता ॥५९॥
प्रतियोग्यग्रहात्स्वापे दुःखस्य प्रतियोगिता ।
अभावाख्यं प्रमाणं तु नास्ति प्राभाकरे मते ॥६०॥
नैयायिकमतेऽभावः प्रत्यक्षान्नातिरिच्यते ।
सुखदुःखादिनिर्मुक्तेर्मोक्षे पाषाणवत्स्थितम् ।
आत्मानं प्रवदन्वादी मूर्खः किं न वदत्यसौ ॥६१॥
स्थितमज्ञानसाक्षित्वं नित्यानन्दत्वमात्मनः ।
वदत्यत्रात्मनानात्वं देहेषु प्रतिवादिनः ॥६२॥
एकश्चेति सर्वभूतेषु पुंसि कस्मिन्मृते सति ।
सर्वे म्रियेरन्जायेरन्जाते कुर्युश्च कुर्वति ॥६३॥
एवं विरुद्धधर्मा हि दृश्यन्ते सर्वजन्तुषु ।
अतः सर्वशरीरेषु नानात्वं चात्मनां स्थितम् ॥६४॥
विरुद्धधर्मदृष्ट्यैव पुंसां भेदस्त्वयेरितः ।
विरुद्धधर्मा दृष्टा क्व देहे वात्मनि वा वद ॥६५॥
देहे चेद्देहनानात्वं सिद्धं किं तेन चात्मनि ।
चिद्रूपात्मनि भेदश्चेत्पुंस्येकस्मिन्प्रसज्यते ॥६६॥
एकस्येन्दोरपां पात्रेष्वनेकत्वं यथा तथा ।
अनेकदेहेष्वेकात्मप्रतिभासस्तथा मतः ॥६७॥
आत्मान्यः पञ्चकोशेभ्यः षड्भावेभ्यः षडूर्मितः ।
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितः ॥६८॥
एकः सकलदेहेषु निर्विकारो निरञ्जनः ।
नित्योऽकर्ता स्वयंज्योतिर्विभुर्भोगविवर्जितः ॥६९॥
ब्रह्मात्मा निर्गुणः शुद्धो बोधमात्रतनुः स्वतः ।
अविद्योपाधिकः कर्ता भोक्ता रागादिदूषितः ॥७०॥
अहङ्कारादिदेहान्तः कलुषीकृतविग्रहः ।
यथोपाधिपरिच्छिन्नो बन्धकाष्टकवेष्टितः ।
ब्रह्मादिस्थावरान्तेषु भ्रमन्कर्मवशानुगः ॥७१॥
कर्मणा पितृलोकादि निषिद्धैर्नरकादिकम् ।
विद्यया ब्रह्मसायुज्यं तद्धीनः क्षुद्रतां गतः ॥७२॥
एक एव परो जीवः स्वकल्पितजगत्त्रयः ।
बन्धमुक्तादिभेदश्च स्वप्नवद्घटनामियात॥७३॥
अथवा बहवो जीवाः संसाराज्ञानभागिनः ।
अनादित्वादविद्याया अन्योन्याश्रयता नहि ॥७४॥
व्यष्टिदेहादिदं युक्तं द्वयमित्यपरं मतम् ।
समष्टिदृष्ट्या त्वेकत्वं व्यष्टिदृष्ट्या त्वनेकता ॥७५॥
साक्षी सद्वारनिर्द्वारसम्बन्धानां जडात्मनाम् ।
विज्ञानाज्ञानरूपेण सदा सर्वज्ञतां गतः ॥७६॥
मायामात्रः सुषुप्त्यादौ स्वचिताज्ञानकञ्चुकः ।
जन्मान्तरानुभूतानामपि संस्मरणक्षमः ॥७७॥
तत्प्रापकवशादत्र तारतम्यविशेषभाक।
अवस्थापञ्चकातीतः प्रमाता ब्रह्मविन्मतः ॥७८॥
प्रसाधनमित्येव मानसामान्यलक्षणम् ।
तत्परिच्छेदभेदेन तदेवं द्विविधं मतम् ॥७९॥
निवर्तकमविद्याया इति वा मानलक्षणम् ।
सशेषाशेषभेदेन तदेवं द्विविधं मतम् ।
तत्त्वमस्यादि वाक्योत्थमशेषाज्ञानबाधकम् ॥८०॥
प्रत्यक्षमनुमानाख्यमुपमानं तथागमः ।
अर्थापत्तिरभावश्च प्रमाणानि षडेव हि ॥८१॥
व्यावहारिकनामानि भवन्त्येतानि नात्मनि ।
स्वसंवेद्योऽप्रमेयोऽपि लक्ष्यते वाङ्मनोऽतिगः ॥८२॥
हिरण्यगर्भपक्षस्तु वेदान्तान्नातिभिद्यते ।
आनन्दः पुरुषोऽज्ञानं प्रकृतिस्तन्मते मता ॥८३॥
ज्ञानं द्विधा स्थितं प्रत्यक्परागिति हि भेदतः ।
आनन्दाभिमुखं प्रत्यग्बाह्यार्थाभिमुखं पराक॥८४॥
आत्माज्ञानविवर्तः स्याद्भूततन्मात्रपञ्चकम् ।
तन्मात्रपञ्चकाज्जातमन्तःकरणपञ्चकम् ॥८५॥
मनोबुद्धिरहङ्कारश्चित्तं ज्ञातृत्वमित्यपि ।
पार्थिवः स्यादहङ्कारो ज्ञातृत्वमवकाशजम् ॥८६॥
करणद्वयमेतत्तु कर्तृत्वेनावभासते ।
बुद्धिः स्यात्तैजसी चित्तमाप्यं स्याद्वायुजं मनः ॥८७॥
भूम्याद्येकैकभूतस्य विज्ञेयं गुणपञ्चकम् ।
अहङ्कारो भुवः प्राणो घ्राणं गन्धश्च पायुना ॥८८॥
चित्तापानौ तथा जिह्वा रसोपस्थावपां गुणाः ।
बुद्ध्युदानौ तथा चक्षूरूपपादास्तु तैजसाः ॥८९॥
मनो वायोर्व्यानचर्मस्पर्शाः पाणिर्गुणास्तथा ।
ज्ञातृत्वं च समानश्च श्रोत्रं शब्दश्च वाक्खजाः ॥९०॥
एकैकसूक्ष्मभूतेभ्यः पञ्च पञ्चापरे गुणाः ।
अस्थि चर्म तथा मांसं नाडी रोमाणि भूगुणाः ॥९१॥
मूत्रं श्लेष्मा तथा रक्तं शुक्रं मज्जा त्वपां गुणाः ।
निद्रा तृष्णा क्षुधा ज्ञेया मैथुनालस्यमग्निजा ॥९२॥
प्रचालस्तरणारोहैर्वायोरुत्थानरोधने ।
कामक्रोधौ लोभभये मोहो व्योमगुणास्तथा ॥९३॥
उक्तोऽवधूतमार्गश्च कृष्णेनैवोद्धवं प्रति ।
श्रीभागवतसंज्ञे तु पुराणे दृश्यते हि सः ॥९४॥
सर्वदर्शनसिद्धान्तान्वेदान्तास्तानिमान्क्रमात।
श्रुत्वार्थवित्सुसंक्षिप्तान्तत्त्वतः पण्डितो भुवि ॥९५॥

।। शङ्कराचार्यविरचितः सर्वसिद्धान्तसङ्ग्रहः समाप्तः।।