सर्वसिद्धान्तसङ्ग्रहः/प्रकरणम् ३ (आर्हतपक्षप्रकरणम्)

विकिस्रोतः तः
← प्रकरणम् २ (लोकायतिकपक्षप्रकरणम्) सर्वसिद्धान्तसङ्ग्रहः
प्रकरणम् ३ (आर्हतपक्षप्रकरणम्)
[[लेखकः :|]]
प्रकरणम् ४ (बौद्धपक्षप्रकरणम्) →

(३)
अथ आर्हतपक्षप्रकरणं

लोकायतिकपक्षोऽयमाक्षेप्यः सर्ववादिनाम् ।
स्वपक्षेण क्षिपत्येष तत्पक्षं क्षपणो ऽधुना ॥१॥
अग्नेरौष्ण्यमपां शैत्यं कोकिले मधुरः स्वरः ।
इत्याद्येकप्रकारः स्यात्स्वभावो नापरः क्वचित॥२॥
कादाचित्कं सुखं दुःखं स्वभावो नात्मनो मतः ।
धर्माधर्मावतस्ताभ्यामदृष्टाविति निश्चितौ ॥३॥
अदृष्टस्यात्र दृष्टत्वं नादृष्टत्वं भवेदिति ।
त्वयोक्तदोषो न स्यान्मे तत्सिध्यत्यागमाद्यतः ॥४॥
अदृष्टमग्निमादातुं धूमं दृष्ट्वोपधावता ।
धूमेनाग्न्यनुमानं तु त्वयाप्यङ्गीकृतं ननु ॥५॥
प्रत्यक्षेणानुमानेन पश्यन्त्यत्रागमेन च ।
दृष्टादृष्टं जनाः स्पष्टमाहतागमसंस्थिताः ॥६॥
सिद्धा बद्धा नारकीया इति स्युः पुरुषास्त्रिधा ।
केचित्परमसिद्धाः स्युः केचिन्मन्त्रैर्महौषधैः ॥७॥
गुरूपदिष्टमार्गेण ज्ञानकर्मसमुच्चयात।
मोक्षो बन्धाद्विरक्तस्य जायते भुवि कस्यचित॥८॥
अर्हतामखिलं ज्ञातुं कर्मार्जितकलेवरैः ।
आवृतिर्बन्धनं मुक्तिः निरावरणतात्मनाम् ॥९॥
पुद्गलापरसंज्ञैस्तु धर्माधर्मानुगामिभिः ।
परमाणुभिराबद्धाः सर्वदेहाः सहेन्द्रियैः ॥१०॥
स्वदेहमाना ह्यात्मानो मोहाद्देहाभिमानिनः ।
क्रिमिकीटादिहस्त्यन्तदेहपञ्जरवर्तिनः ॥११॥
आत्मावरणदेहस्य वस्त्राद्यावरणान्तरम् ।
न त्वयं यदि गृह्णाति तस्यापीत्यनवस्थितिः ॥१२॥
प्राणिजातमहिंसन्तो मनोवाक्कायकर्मभिः ।
दिगम्बराश्चरन्त्येव योगिनो ब्रह्मचारिणः ॥१३॥
मयूरपिच्छहस्तास्ते कृतवीरासनादिकाः ।
पाणिपात्रेण भुञ्जाना लूनकेशाश्च मौनिनः ॥१४॥
मुनयो निर्मलाः शुद्धाः प्रणताघौघभेदिनः ।
पूजाजपपरा नित्यमाचार्यानुगतास्तदा ॥१५॥
निरावरण एवैषामीश्वरोऽनन्तशक्तिमान।
तदीयमन्त्रफलदो मोक्षमार्गोऽपि तत्कृतः ।
सर्वैर्विश्वसनीयः स्यात्स सर्वज्ञो जगद्गुरुः ॥१६॥