सम्भाषणम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्)

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

@Shubha: @Sayant Mahato: @Surekha Kamath:
शुभासायन्तसुरेखामहोदयाः
कालिदासकृतिमासे मया अस्य पुस्तकस्य पुटविन्यासः प्रथमपठनं च क्रियते इति उक्तम् आसीत् । तच्च कार्यम् समाप्तम् । पूर्वमेव सूचितं यत् अस्मिन् पुस्तके मुद्रणं बहु स्पष्टं नास्तीति । यथाशक्ति मुद्रणं दृष्ट्वा शुद्धपाठस्य पठने प्रयासः कृतः । तथापि द्वित्रस्थलेषु अक्षराणि ऊहितुं न शक्तानि तत्र {{अस्पष्टं मुद्रणम्}} इति फलकं सृष्ट्वा स्थापितवान् । अस्य पुस्तकस्य द्वितीयपरिष्कारं यदि कोऽपि चिकीर्षति तर्हि तस्य एतन्मुद्रणस्य पठने क्षमता स्यात् । तादृशः एव तत्र योज्यते चेत् साफल्यं भवेत् ।
कालिदासकृतिमासे अवश्यं समापनीयानि त्वरया करणीयानि वा कार्याणि सन्ति चेत् सूचयितुम् अर्हन्ति । धन्यवादाः ।Soorya Hebbar (चर्चा) १७:२४, १७ जुलै २०२० (UTC)[उत्तर दें]