सदस्यसम्भाषणम्:Vishvas vasuki

विकिस्रोतः तः
Jump to navigation Jump to search

हरिःॐ विश्वास् महोदय,विकिस्रोते अहं प्रबन्धकः अस्मि। विकिस्रोतस्य निरीक्षणा कार्यं मम आद्य कर्तव्यः अस्ति। अत एव एतत् कार्यं कुर्वन् अस्मि। अभिरामः ०४:२८, १९ अक्टोबर् २०११ (UTC)

द्विदिवसीयविकिस्रोतःकार्यशाला[सम्पाद्यताम्]

          
Wikisource-logo-sa.svg

द्विदिवसीयविकिस्रोतःकार्यशाला २०१६
नमस्ते Vishvas vasuki !

संस्कृतविकिस्रोतःप्रकल्पः बहुभिः अपेक्ष्यमाणः अन्तर्जालाधारितश्च ग्रन्थालयः। संस्कृतसाहित्यमन्दाकिनी विकिस्रोतसि प्रवाहनीया इत्यतः सर्वैः सम्पादकैः भगीरथप्रयासः करणीयः। विकिस्रोतसः व्यवस्था, अत्रत्या साध्यता च यदि सुष्ठु अवगम्येत तर्हि अल्पेनैव कालेन अधिकं साधयितुं शक्नुयाम । एतदर्थं संस्कृतविकिस्रोतसि अद्यत्वे ये कार्यरताः सन्ति, ये च कार्यरताः भवितुमिच्छन्ति तेभ्यः दिनद्वयात्मिका काचित् कार्यशाला आयोजयिष्यते बेङ्गलूरुनगरस्थेन संस्कृतविकिगणेन । कार्यशाला एप्रिल्-मासस्य ९, १० दिनाङ्कयोः बेङ्गलूरुनगरे भविष्यति । कार्यशालायाः अस्याः उद्देशः - सदस्यानां सम्पादनकौशलवर्धनम् । इमां कार्यशालां प्रति भवतां हार्दं स्वागतम् ।

  • प्रतिभागिनाम् आवासभोजनादिव्यवस्था नि:शुल्कं कल्प्यते व्यवस्थापकगणेन ।

-शुभा (सम्भाषणम्) ०७:३६, १९ मार्च २०१६ (UTC)

मान्ये नाहं पारयाम्यागन्तुममेरिकावासी। मेलनमस्तु वां सफलम्। 🙏 Vishvas vasuki (सम्भाषणम्) १५:०४, १९ मार्च २०१६ (UTC)

अनुक्रमणिका:ADictionaryOfSanskritGrammarByMahamahopadhyayaKashinathVasudevAbhyankar.djvu[सम्पाद्यताम्]

Hi, This would be better on the English Wikisource. Regards, Yann (सम्भाषणम्) १५:४२, १३ अप्रैल २०१६ (UTC)

साधूक्तम् - किन्तु द्वित्राऽपि स्यादिति ममाभिप्रायः। Vishvas vasuki (सम्भाषणम्) १६:०६, १३ अप्रैल २०१६ (UTC)

संस्कृतव्याकरणकोषस्य सम्पादनविषये[सम्पाद्यताम्]

महोदय, भवता मेघायाः सम्भाषणपुटे लिखितम् अवलोकितवती (सा सद्यः कार्यविरता अस्ति)। तत्रत्यानि सर्वाणि सम्पादनानि अस्माकं गणेनैव साधितानि - प्रत्येकं पुटमुद्घाट्य कृतानि । अधुना विन्यासकरणविषये अपि कश्चन कार्यकर्ता किंचित् तन्त्रांशस्य सज्जीकरणे प्रयासरतः अस्ति । (ग्रन्थस्य सर्वेषां पुटानां ocr परिवर्तनं युगपत् यथा शक्येत तथा तन्त्रांशः सिद्धः इति श्रुतम् । नावलोकितम्...) तद्भवति चेत् इतोपि सौलभ्याय भवति । -शुभा (सम्भाषणम्) ०७:००, २० अक्तूबर २०१६ (UTC)

अनुक्रमणिकापुटावली[सम्पाद्यताम्]

अस्याम् आवल्यां सर्वे ग्रन्थाः यथा दृश्येरन् तन्निमित्तं किं करणीयमित्येतत् तु विचारणियमेव । सर्वेषाम् आवलिः अत्र उपलभ्यते । - शुभा (सम्भाषणम्) ०९:१२, २० अक्तूबर २०१६ (UTC)

कौशिकसूत्रम्[सम्पाद्यताम्]

भवतः कृतस्य कौशिकगृह्यसूत्र पृष्ठे परिवर्तनानि कृतानि भवन्ति। नामधेयमपि परिवर्तितः। संस्कृतलेखनस्य शुद्धता एवं अन्यानि परिवर्तनानि द्रष्टव्यानि सन्ति। - puranastudy 2-12-17

साधु, यथोचितं शोधयतु। Vishvas vasuki (सम्भाषणम्) १८:५८, १२ दिसम्बर २०१७ (UTC)

Share your experience and feedback as a Wikimedian in this global survey[सम्पाद्यताम्]

WMF Surveys, १८:३५, २९ मार्च २०१८ (UTC)

Reminder: Share your feedback in this Wikimedia survey[सम्पाद्यताम्]

WMF Surveys, ०१:३३, १३ अप्रैल २०१८ (UTC)

Your feedback matters: Final reminder to take the global Wikimedia survey[सम्पाद्यताम्]

WMF Surveys, ००:४३, २० अप्रैल २०१८ (UTC)

शतपथब्राह्मणे भाषिकसूत्राणि[सम्पाद्यताम्]

यदा भवान् शतपथे मुख्यपृष्ठे भाषिकसूत्राणां उल्लेखं करोषि, तदा भाषिकसूत्रशब्दः पर्याप्तं न भवति। अस्य शीर्षकः 'ब्राह्मणेषु स्वरनियमाः' भवितुमर्हति, न भाषिकसूत्राः। Puranastudy (सम्भाषणम्) ००:५७, ८ अक्तूबर २०१९ (UTC)puranastudy

विपिनमहाशय नमस्काराः। ब्राह्मणस्वरसम्बन्धीनि भाषिकसूत्राणीति वैदिकेषु मादृशेषु सुविख्यातम्, पुनर्वचनस्यापेक्षा नास्ति। तथापि भवान् "ब्राह्मणेषु स्वरनियमाः - भाषिकसूत्राणि" इति लिखति चेन् नास्त्य् अस्मदाक्षेपः। Vishvas vasuki (सम्भाषणम्) ०१:३४, ८ अक्तूबर २०१९ (UTC)

शौनकसंहिता[सम्पाद्यताम्]

श्रीवासुकिमहाभागः, यथा अथर्ववेदः ३.५ पृष्ठोपरि सायणभाष्येण स्पष्टमस्ति, शौनकसंहितातः ये मन्त्राः अत्र आरोपिताः सन्ति, तेषु अनुदात्त चिह्नमेव दृष्टिगोचरं भवति, न उदात्तचिह्नं। कारणं नाहं जानामि। Puranastudy (सम्भाषणम्) ०८:२५, ८ एप्रिल् २०२० (UTC)puranastudy

विश्वासोऽहं वासुकिपुत्रः। न वासुकिः। :-) https://i.imgur.com/8F1q2AR.png इत्येवम् मह्यं दृश्यते। भवते कुतो न दृश्यत इति नाहं जानामि। तत्र सायणभाष्ये त्रैस्वर्ययुक्तः पाठो दृश्यत इति नाज्ञासिषम्! कुतः गूगलन्वेषणे ऽपि न दृग्गोचरताम् आयाति!? चित्रमेतत्। समुदायद्वारे सूचयिष्यामि। Vishvas vasuki (सम्भाषणम्) १२:३८, ८ एप्रिल् २०२० (UTC)
आह् अवगतम् - सस्वरमन्त्रा ऽधुनैव भवता योजिता इति हेतुना गूगलन्वेषणे नायाति। Vishvas vasuki (सम्भाषणम्) १४:२६, ८ एप्रिल् २०२० (UTC)

विशेष वर्णानि[सम्पाद्यताम्]

संस्कृतविकिसोर्से ये विशेष वर्णानि उपलब्धाः सन्ति, ते न पर्याप्ताः। ꣳ , ᳲ, ꣲ इत्यादि वर्णाः न सन्ति। तेषां युनिकोड किं अस्ति, इदमपि न ज्ञायते।

Puranastudy (सम्भाषणम्) ०५:५०, १५ एप्रिल् २०२० (UTC) puranastudy

मह्यं त्वेवं सम्यगेव दृश्यते - https://i.imgur.com/z0sLNe5.pngVishvas vasuki (सम्भाषणम्) ०७:१७, १५ एप्रिल् २०२० (UTC)

Indic Wikisource Proofreadthon[सम्पाद्यताम्]

Sorry for writing this message in English - feel free to help us translating it

सामवेदः[सम्पाद्यताम्]

वासुकिवर्यः,

सामवेदस्य नवीनपुटे सम्प्रति आयताः एव दृश्यन्ते। सम्यक् दर्शनं केन प्रकारेण संभवमस्ति। नोटा अक्षरमुखाः अपि स्थापिताः सन्ति।

Puranastudy (सम्भाषणम्) ०१:५१, १९ एप्रिल् २०२० (UTC)puranastudy

https://support.mozilla.org/en-US/kb/change-fonts-and-colors-websites-use इत्यनुसरतु। अथवा पाठम् अनुकृत्य (copy कृत्वा) भवतः सङ्गणके कस्याञ्चित् सञ्चिकायां स्थापयित्वा पश्यतु। Vishvas vasuki (सम्भाषणम्) ०१:५६, १९ एप्रिल् २०२० (UTC)


विश्वासवर्यः,

मम कार्यं सामवेदस्य ऊहगानस्य टंकणमस्ति। अक्षराणामुपरि अंकानां स्थापनाय कुंजीपटलस्य किं वैशिष्ट्यं अपेक्षितं अस्ति। भवान् जानासि चेत्, सूच्यताम्। सम्प्रति यः उपायः अस्ति, तस्मिन् न्यूमेरिक कीबोर्डस्य व्यवहारं अस्ति। किन्तु अस्मिन् पद्धत्यां 43233 आदि अंकानां पुनः पुनः स्थापनं क्लिष्टं प्रतीयते।

Puranastudy (सम्भाषणम्) २२:१०, १९ एप्रिल् २०२० (UTC)puranastudy

https://sites.google.com/site/bhashaime/ इत्यस्योपयोगः स्यात् परिहारः। स्वयं न जानामि। Vishvas vasuki (सम्भाषणम्) ०२:४६, २० एप्रिल् २०२० (UTC)

माध्यन्दिनसंहिता[सम्पाद्यताम्]

विश्वासवर्यः,

माध्यन्दिनसंहितायां अध्यायाः २०, २३, २५, ३१, ४० अनुपलब्धाः सन्ति। यदि संभवमस्ति, प्रपूरय।

Puranastudy (सम्भाषणम्) १२:४९, २२ एप्रिल् २०२० (UTC)puranastudy

तथा कृतम्। प्राक्तनपाठे ऽन्येऽपि लोपास् तत्र तत्रासन्। अधुना परिष्कृतम्। सूचनयोपकृतोऽहम्। Vishvas vasuki (सम्भाषणम्) ११:५६, २३ एप्रिल् २०२० (UTC)
"https://sa.wikisource.org/w/index.php?title=सदस्यसम्भाषणम्:Vishvas_vasuki&oldid=231600" इत्यस्माद् प्रतिप्राप्तम्