सदस्यसम्भाषणम्:Mahalakshmi Prasanna

विकिस्रोतः तः
Jump to navigation Jump to search

नमस्ते, विकिस्रोतसि व्यवस्थाविषये अधिकम् अवधानं दातव्यमस्ति । अस्माभिः ये ग्रन्थाः स्थाप्यन्ते तेषां पठनाय अधिकानि सौलभ्यानि कल्पनीयानि सन्ति । मुख्यपृष्ठादीनि संरक्षणीयानि सन्ति । एतानि कार्याणि समीचीनतया निर्वोढुं सक्रियप्रबन्धनस्य आवश्यकता वर्तते । एतद्धिया द्वाभ्यां प्रशासनाधिकारनिमित्तम् आवेदनं कृतं वर्तते । अधो निर्दिष्टे पृष्ठे भवतः अभिप्रायं हस्ताङ्कनपूर्वकं प्रकटयतु इति निवेदनम् ।

-शुभा (सम्भाषणम्) ०६:०७, १६ जनवरी २०१६ (UTC)

द्विदिवसीयविकिस्रोतःकार्यशाला[सम्पाद्यताम्]

          
Wikisource-logo-sa.svg

द्विदिवसीयविकिस्रोतःकार्यशाला २०१६
नमस्ते Mahalakshmi Prasanna !

संस्कृतविकिस्रोतःप्रकल्पः बहुभिः अपेक्ष्यमाणः अन्तर्जालाधारितश्च ग्रन्थालयः। संस्कृतसाहित्यमन्दाकिनी विकिस्रोतसि प्रवाहनीया इत्यतः सर्वैः सम्पादकैः भगीरथप्रयासः करणीयः। विकिस्रोतसः व्यवस्था, अत्रत्या साध्यता च यदि सुष्ठु अवगम्येत तर्हि अल्पेनैव कालेन अधिकं साधयितुं शक्नुयाम । एतदर्थं संस्कृतविकिस्रोतसि अद्यत्वे ये कार्यरताः सन्ति, ये च कार्यरताः भवितुमिच्छन्ति तेभ्यः दिनद्वयात्मिका काचित् कार्यशाला आयोजयिष्यते बेङ्गलूरुनगरस्थेन संस्कृतविकिगणेन । कार्यशाला एप्रिल्-मासस्य ९, १० दिनाङ्कयोः बेङ्गलूरुनगरे भविष्यति । कार्यशालायाः अस्याः उद्देशः - सदस्यानां सम्पादनकौशलवर्धनम् । इमां कार्यशालां प्रति भवतां हार्दं स्वागतम् ।

  • प्रतिभागिनाम् आवासभोजनादिव्यवस्था नि:शुल्कं कल्प्यते व्यवस्थापकगणेन ।

-शुभा (सम्भाषणम्) ०९:१८, १९ मार्च २०१६ (UTC)