सदस्यसम्भाषणम्:K N Namratha
प्रियसंस्कृतबन्धो,K N Namratha अत्र ते हार्दं स्वागतम् । नमांसि च ।
विकिस्रोतः आधुनिकतन्त्रज्ञानचालितः कश्चित् स्वतन्त्रः पुस्तकालयः । संस्कृतं तु एका प्राचीना समृद्धा च भाषा या सार्वकालिका अपि । अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यं एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीन शब्दान् संस्कृतात् एव ग्रह्णन्ति । भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तनपरम्परया प्रभावितं भवति।
अतः समृद्धायाः संवृद्धायाः च संस्कृतभषायाः विस्तारः भारतीय वाङ्मयस्य उन्नतिः भवेत्। अत एव संस्कृतस्य ज्ञानसमुद्रे विहर्तुम् अन्येषां सर्वेषामपि अवकाशः भवतु इति धिया अत्र संस्कृतविकिस्रोतसि अपि संस्कृतं प्रवेशितम् ।
विकिस्रोतसि ग्रन्थानाम् उत्तारणावसरे कार्यनिर्वहणावसरे यदि भवतः/भवत्याः मनसि संस्कृतभाषायाः विषये काचित् समस्या वा कश्चन संशयः वा उद्भवति तदा अन्यैः योजकैः सह परिचर्चां कर्तुं शक्नोति। संभाषणपुटेषु परिचयं सन्देशं प्रश्नं चिन्तनं वा लेखनात् पश्चात् स्वहस्ताक्षरान् अवश्यमेव योजयतु। तदर्थं भवान्/भवती ''~~~~'' इति लिखतु, पृष्ठस्य रक्षणपश्चात् हस्ताक्षरं स्वयमेव उदेति । सङ्गच्छध्वम् । संवदध्वम् । सं वो मनांसि.......
आशास्महे यत् विकिस्रोतसः सान्निध्ये अस्माकं साहचर्ये च भवान्/भवती सानन्दं सेवताम् ।अभिरामः १०:५३, २७ दशम्बर् २०११ (UTC)
Message added ०९:४५, २७ दशम्बर् २०११ (UTC). You can remove this notice at any time by removing the {{Talkback}} or {{Tb}} template.
अभिरामः ०९:४५, २७ दशम्बर् २०११ (UTC)
द्विदिवसीयविकिस्रोतःकार्यशाला[सम्पाद्यताम्]
![]() |
संस्कृतविकिस्रोतःप्रकल्पः बहुभिः अपेक्ष्यमाणः अन्तर्जालाधारितश्च ग्रन्थालयः। संस्कृतसाहित्यमन्दाकिनी विकिस्रोतसि प्रवाहनीया इत्यतः सर्वैः सम्पादकैः भगीरथप्रयासः करणीयः। विकिस्रोतसः व्यवस्था, अत्रत्या साध्यता च यदि सुष्ठु अवगम्येत तर्हि अल्पेनैव कालेन अधिकं साधयितुं शक्नुयाम । एतदर्थं संस्कृतविकिस्रोतसि अद्यत्वे ये कार्यरताः सन्ति, ये च कार्यरताः भवितुमिच्छन्ति तेभ्यः दिनद्वयात्मिका काचित् कार्यशाला आयोजयिष्यते बेङ्गलूरुनगरस्थेन संस्कृतविकिगणेन । कार्यशाला एप्रिल्-मासस्य ९, १० दिनाङ्कयोः बेङ्गलूरुनगरे भविष्यति । कार्यशालायाः अस्याः उद्देशः - सदस्यानां सम्पादनकौशलवर्धनम् । इमां कार्यशालां प्रति भवतां हार्दं स्वागतम् ।
- प्रतिभागिनाम् आवासभोजनादिव्यवस्था नि:शुल्कं कल्प्यते व्यवस्थापकगणेन ।