सदस्यः:Amulya Nagaraj
दिखावट
अहिंसा परमो धर्मः
सर्वेषु एव धर्मेषु अहिंसायाः अतीव महत्वमं वर्णितम् अस्ति। क अपि एतादृशः धर्मः नास्ति यत्र अहिंसायाहः महत्वं प्रतिपादितम् न स्यात्। कस्य अपि जीव विशेषस्य पीडनं दुःखदानं वा हिंसा भवति। हिंसा त्रिविधा भवति - मनसा, वचसा, कर्मणा च। न केवलं प्राणिनां वध एव हिंसा नोच्यते अपितु मनसा पराहिता-चिन्तनम्, वाचा कटु शब्दानां प्रयोगः अपि हिंसा एव परिगण्यते। एतासां त्रिविध हिंसानां निवृत्तिः एव अहिंसा भवति। आदिकविः वाल्मीकिः हिंसा कारणात् एव शोकाकुलः अभवत्। तस्य शोकः एव श्लोकत्वरूपेण प्रस्तुतः जातः येन आदिकाव्यस्य वाल्मीकिरामायणम् सृष्टिः अभवत्। न केवलं वेदादिषु अपितु जैन-बौद्धदि ग्रंथेषु अहिंसायाः अनिवार्यत्वम् उपदिश्यते। श्रीमद् भगवद्गीता श्रीकृष्ण महाभागेन दैवी सम्पद् गुणेषु अहिंसा प्रथमा एव उपादिष्टा। अहिंसा एव यथार्थ धर्मः। महात्मा गौतमबुद्धा अहिंसायाः प्रबल प्रचारकः च अस्ति। तस्यापि पञ्चसिद्धान्तेषु अहिंसा प्रथमः सिद्धान्तः अस्ति। महात्मा बुद्धवत् जैनतीर्थकर महावीरेण अपि अहिंसा सत्यम् अपरिग्रहम्, अस्तेयम्, ब्रह्मचर्यम् च इमे सिद्धांताः स्वीक्रुताः। बौद्ध धर्म पारायणः सम्राट् अशोकः अहिंसायाः अनुयायी आसीत्। महात्मा महात्म गान्धि तु सत्य अहिंसायोः लोकसेवायाः चावतारः आसीत्। अहिंसा श्हास्त्रेणैव भीताः आंगलीयाः भारत देशं परित्यज्य स्वदेशम् अगछ्न्। अनेन एव शास्त्रेण भारतीयाः भारत देशं स्वतंत्र देशम् अकुर्वन्।
अस्माकं दैनिक जीवने अपि अहिंसायाः महति उपयोगिता वर्तते। धनधान्य प्राप्त्यर्थ पशूनां हिंसा पूर्णतः त्याज्या। पशवः अपि मानवेषु स्नेहं प्रकटयणन्ति। एवम् अहिंसा स गुणः येन विश्वबन्धुत्वं विश्वप्रेमम् च संभाव्यंते। वस्तुतः तु अहिंसा दिव्य गुणः अस्ति। अहिंसायाः प्रसारेण कुत्रापि कलहः न भविष्यति। 'अहिंसा परमो धर्मः' इति तु सार्वत्रिकः नियमः।