सङ्गीतरत्नाकरः/स्वरगताध्यायः
दिखावट
- प्रथमः स्वरगताध्यायः
- तत्रादिमं पदार्थसंग्रहाख्यं प्रकरणम्
- ब्रह्मग्रन्थिजमारुतानुगतिना चित्तेन हृत्पङ्कजे
- सूरीणामनु रञ्जकः श्रुतिपदं योऽयं स्वयं राजते ।
- यस्माद् ग्रामविभागवर्णरचनाऽलङ्कारजातिक्रमो
- वन्दे नादतनुं तमुद्धुरजगद्गीतं मुदे शङ्करम् १
- अस्ति स्वस्तिगृहं वंशः श्रीमत्काश्मीरसंभवः ।
- ऋषेर्वृषगणाज्जातः कीर्त्तिक्षालितदिङ्मुखः २
- यज्वभिर्धर्मधीधुर्यैर्वेदसागरपारगैः ।
- यो द्विजेन्द्रैरलञ्चक्रे ब्रह्मभिर्भूगतैरिव ३
- तत्राभूद्भास्करप्रख्यो भास्करस्तेजसां निधिः ।
- अलङ्कर्तुं दक्षिणाशां यश्चक्रे दक्षिणाऽयनम् ४
- तस्याभूत्तनयः प्रभूतविनयः श्रीसोढलः प्रौढधी-
- र्येन श्रीकरणप्रवृद्धविभवं भूवल्लभं भिल्लमम् ।
- आराध्याखिललोकशोकशमनीकीर्त्तिः समासादिता
- जैत्रे जैत्रपदं न्यधायि महती श्रीसिङ्घणे श्रीरपि ५
- एकः क्ष्मावलये क्षितीश्वरमिलन्मौलीन्द्रनीलावलि-
- प्रोदञ्चद्द्युतिचित्रिताङ्घ्रिनखरश्रेणिर्नृपालाग्रणीः ।
- श्रीमत्सिङ्घणदेव एव विजयी यस्य प्रतापानलो
- विश्वव्याप्यपि दन्दहीति हृदयान्येव द्विषामुद्धुरः ६
- तं प्रसाद्य सुधीधुर्यो गुणिनं गुणरागिणम् ।
- गुणग्रामेण यो विप्रानुपकारैरतीतृपत् ७
- ददौ न किं न किं जज्ञौ न दधौ कां च सम्पदम् ।
- कं धर्मं विदधौ नैष न बभौ कैर्गुणैरयम् ८
- तस्माद्दुग्धाम्बुधेर्जातः शार्ङ्गदेवः सुधाकरः ।
- उपर्युपरि सर्वान्यः सुदौदार्यस्फुरत्करः ९
- कृतगुरुपदसेवः प्रीणिताशेषदेवः
- कलितसकलशास्त्रः पूजिताशेषपात्रः ।
- जगति विततकीर्त्तिर्मन्मथोदारमूर्तिः
- प्रचुरतरविवेकः शार्ङ्गदेवोऽयमेकः १०
- नानास्थानेषु संभ्रान्ता परिश्रान्ता सरस्वती ।
- सहवासप्रिया शश्वद्विश्राम्यति तदालये ११
- स विनोदैकरसिको भाग्यवैदग्ध्यभाजनम् ।
- धनदानेन विप्राणामार्तिं संहृत्य शाश्वतीम् १२
- जिज्ञासूनां च विद्याभिर्गदार्तानां रसायनैः ।
- अधुनाऽखिललोकानां तापत्रयजिहीर्षया १३
- शाश्वताय च धर्माय कीर्त्त्यै निःश्रेयसाप्तये ।
- आविष्करोति संगीतरत्नाकरमुदारधीः १४
- सदाशिवः शिवा ब्रह्मा भरतः कश्यपो मुनिः ।
- मतङ्गो याष्टिको दुर्गाशक्तिः शार्दूलकोहलौ १५
- विशाखिलो दत्तिलश्च कम्बलोऽश्वतस्तथा ।
- वायुर्विश्वावसू रम्भाऽर्जुनो नारदतुम्बुरू १६
- आञ्जनेयो मातृगुप्तो रावणो नन्दिकेश्वरः ।
- स्वातिर्गणो बिन्दुराजः क्षेत्रराजश्च राहुलः १७
- रुद्रटो नान्यभूपालो भोजभूवल्लभस्तथा ।
- परमर्दी च सोमेशो जगदेकमहीपतिः १८
- व्याख्यातारो भारतीये लोल्लटोद्भटशङ्कुकाः ।
- भट्टाभिनवगुप्तश्च श्रीमत्कीर्त्तिधरः परः १९
- अन्ये च बहवः पूर्वे ये संगीतविशारदाः ।
- अगाधबोधमन्थेन तेषां मतपयोनिधिम् २०
- निर्मथ्य श्रीशार्ङ्गदेवः सारोद्धारमिमं व्यधात् ।
- गीतं वाद्यं तथा नृत्तं त्रयं संगीतमुच्यते २१
- मार्गो देशीति तद् द्वेधा तत्र मार्गः स उच्यते ।
- यो मार्गितो विरिञ्च्याद्यैः प्रयुक्तो भरतादिभिः २२
- देवस्य पुरतः शंभोर्नियताभ्युदयप्रदः ।
- देशे देशे जनानां यद्रुच्या हृदयरञ्जकम् २३
- गीतं च वादनं नृत्तं तद्देशीत्यभिधीयते ।
- नृत्तं वाद्यानुगं प्रोक्तं वाद्यं गीतानुवर्ति च २४
- अतो गीतं प्रधानत्वादत्रादावभिधीयते ।
- सामवेदादिदं गीतं संजग्राह पितामहः २५
- गीतेन प्रीयते देवः सर्वज्ञः पार्वतीपतिः ।
- गोपीपतिरनन्तोऽपि वंशध्वनिवशं गतः २६
- सामगीतिरतो ब्रह्मा वीणाऽऽसक्ता सरस्वती ।
- किमन्ये यक्षगन्धर्वदेवदानवमानवाः २७
- अज्ञातविषयास्वादो बालः पर्यङ्किकागतः ।
- रुदन्गीतामृतं पीत्वा हर्षोत्कर्षं प्रपद्यते २८
- वनेचरस्तृणाहारश्चित्रं मृगशिशुः पशुः ।
- लुब्धो लुब्धकसङ्गीते गीते यच्छति जीवितम् २९
- तस्य गीतस्य माहाऽऽत्म्यं के प्रशंसितुमीशते ।
- धर्मार्थकाममोक्षाणामिदमेवैकसाधनम् ३०
- तत्र स्वरगताध्याये प्रथमे प्रतिपाद्यते ।
- शरीरं नादसंभूतिः स्थानानि श्रुतयस्तथा ३१
- ततः शुद्धाः स्वराः सप्त विकृता द्वादशाप्यमी ।
- कुलानि जातयो वर्णा द्वीपान्याषं च दैवतम् ३२
- छन्दांसि विनियोगाश्च स्वराणां श्रुतिजातयः ।
- ग्रामाश्च मूर्छनास्तानाः शुद्धाः कूटाश्च संख्यया ३३
- प्रस्तारः खण्डमेरुश्च नष्टोद्दिष्टप्रबोधकः ।
- स्वरसाधारणं जातिसाधारणमतः परम् ३४
- काकल्यन्तरयोः सम्यक्प्रयोगो वर्णलक्षणम् ।
- त्रिषष्टिरप्यलङ्कारास्त्रयोदशविधं ततः ३५
- जातिलक्ष्म ग्रहांशादि कपालानि च कम्बलम् ।
- नानाविधा गीतयश्चेत्येतावान्वस्तुसंग्रहः ३६
- अथ रागविवेकाख्येऽध्याये वक्ष्यामहे क्रमात् ।
- ग्रामरागांश्चोपरागान्रागान्भाषा विभाषिकाः ३७
- ततोऽप्यन्तरभाषाश्च रागाङ्गाण्यखिलान्यपि ।
- भाषाऽङ्गाण्यप्युपाङ्गानि क्रियाङ्गाणि च तत्त्वतः ३८
- ततः प्रकीर्णकाध्याये तृतीये कथयिष्यते ।
- वागेयकारो गान्धर्वः स्वरादिर्गायनस्तथा ३९
- गायनी गुणदोषाश्च तयोः शब्दभिदास्तथा ।
- गुणदोषाश्च शब्दस्य शारीरं तद्गुणास्तथा ४०
- तद्दोषा गमकः स्थाया आलप्तिर्वृन्दलक्षणम् ।
- ततः प्रबन्धाध्याये तु धातवोऽङ्गानि जातयः ४१
- प्रबन्धानां द्विधा सूडः शुद्धश्छायालगस्तथा ।
- आलिक्रमप्रबन्धाश्च सूडस्था आलिसंश्रयाः ४२
- विप्रकीर्णास्ततश्छायालगसूडसमाश्रिताः ।
- गीतस्था गुणदोषाश्च वक्ष्यन्ते शार्ङ्गसूरिणा ४३
- तालाध्याये पञ्चमे तु मार्गतालाः कलास्तथा ।
- पाता मार्गाश्च चत्वारस्तथा मार्गकलाऽष्टकम् ४४
- गुरुलघ्वादिमानं चैककलत्वादयो भिदाः ।
- पादभागास्तथा मात्रास्ताले पातकलाविधिः ४५
- अङ्गुलीनां च नियमो भेदा युग्मादयस्तथा ।
- परिवर्तो लयास्तेषां यतयो गीतकानि च ४६
- छन्दकादीनि गीतानि तालाङ्गनिचयस्तथा ।
- गीताङ्गानि च वक्ष्यन्ते देशीतालाश्च तत्त्वतः ४७
- निःशङ्कशार्ङ्गदेवेन तालानां प्रत्ययास्तथा ।
- षष्ठे नानाविधं वाद्यमध्याये कथयिष्यते ४८
- सप्तमे नर्तनं नानारसभावाः क्रमेण च ।
- इति प्रथमे स्वराध्याये पदार्थसंग्रहाख्यमादिमं प्रकरणम् १
- अथ द्वितीयं पिण्डोत्पत्तिप्रकरणम् ।
- गीतं नादात्मकं वाद्यं नादव्यक्त्या प्रशस्यते ।
- तद्द्वयानुगतं नृत्तं नादाधीनमतस्त्रयम् १
- नादेन व्यज्यते वर्णः पदं वर्णात्पदाद्वचः ।
- वचसो व्यवहारोऽयं नादाधीनमतो जगत् २
- आहतोऽनाहतश्चेति द्विधा नादो निगद्यते ।
- सोऽयं प्रकाशते पिण्डे तस्मात्पिण्डोऽभिधीयते ३
- अस्ति ब्रह्म चिदानन्दं स्वयंज्योतिर्निरञ्जनम् ।
- ईश्वरं लिङ्गमित्युक्तमद्वितीयमजं विभुः ४
- निर्विकारं निराकारं सर्वेश्वरमनश्वरम् ।
- सर्वशक्ति च सर्वज्ञम् तदंशा जीवसंज्ञकाः ५
- अनाद्यविद्योपहिता यथाऽग्नेर्विस्फुलिङ्गकाः ।
- दार्वाद्युपाधिसंभिन्नास्ते कर्मभिरनादिभिः ६
- सुखदुःखप्रदैः पुण्यपापरूपैर्नियन्त्रिताः ।
- तत्तज्जातियुतं देहमायुर्भोगं च कर्मजम् ७
- प्रतिजन्म प्रपद्यन्ते तेषामस्त्यपरं पुनः ।
- सूक्ष्मं लिङ्गशरीरम् तदामोक्षादक्षयं मतम् ८
- सूक्ष्मभूतेन्द्रियप्राणावस्थात्मकमिदं विदुः ।
- जीवानामुपभोगाय जगदेतत्सृजत्यजः ९
- स आत्मा परमात्मा च विश्रान्त्यै संहरत्यथ ।
- तदेतत्सृष्टिसंहारं प्रवाहानादि संमतम् १०
- ते जीवा नात्मनो भिन्ना भिन्नं वा नात्मनो जगत् ।
- शक्त्या सृजन्नभिन्नौऽसौ सुवर्णं कुण्डलादिव ११
- सृजत्यविद्ययेत्यन्ये यथा रज्जुर्भुजङ्गमम् ।
- आत्मनः पूर्वमाकाशस्ततो वायुस्ततोऽनलः १२
- अनलाज्जलमेतस्मात्पृथिवी समजायत ।
- महाभूतान्यमून्येषा विराजो ब्रह्मणस्तनुः १३
- ब्रह्म ब्रह्माणमसृजत्तस्मै वेदान्प्रदाय च ।
- भौतिकं वेदशब्देभ्यः सर्जयामास तेन तत् १४
- तदाज्ञयासृजद् ब्रह्मा मनसैव प्रजापतीन् ।
- तेभ्यस्तु रैतसी सृष्टिः शरीराणां निरूप्यते १५
- स्वेदोद्भेदजराय्वण्डहेतुभेदाच्चतुर्विधम् ।
- देहं यूकादिनः स्वेदादुद्भेदात्तु लतादिनः १६
- जरायोर्मानुषादीनामण्डात्तु विहगादिनः ।
- तत्र नादोपयोगित्वान्मानुषं देहमुच्यते १७
- क्षेत्रज्ञः स्थित आकाश आकाशाद्वायुमागतः ।
- वायोर्षूमं ततश्चाभ्रमभ्रान्मेघेऽवतिष्ठते १८
- आहुत्याप्यायितो ग्रस्तरसो ग्रीष्मे च भानुभिः ।
- भानुर्मेघे धनरसं निधत्ते तं वलाहकः १९
- यदा वर्षति वर्षेण सह जीवस्तदा भुवः ।
- वनस्पत्योषधीर्जाताः संक्रामत्यविलक्षितः २०
- ताभ्योऽन्नं जातमन्नं तत्पुरुषैः शुक्लतां गतम् ।
- शुद्धार्तवाया योषाया निषिक्तं स्मरमन्दिरे २१
- सहार्तवेन शुद्धं चेद्गर्भाशयगतं भवेत् ।
- जीवकर्मप्रेरितं तद् गर्भमारभते तदा २२
- द्रवत्वं प्रथमे मासि कललाख्यं प्रजायते ।
- द्वितीये तु घनः पिण्डः पेशीषद्धनमर्बुदम् २३
- पुंस्त्रीनपुंसकानां स्युः प्रागवस्थाः क्रमादिमाः ।
- तृतीये त्वङ्कुराः पञ्च कराङ्घ्रिशिरसो मताः २४
- अङ्गप्रत्यङ्गभागाश्च सूक्ष्माः स्युर्युगपत्तदा ।
- विहाय श्मश्रुदन्तादीञ्जन्मानन्तरसंभवान् २५
- एषा प्रकृतिरन्या तु विकृतिः संमता सताम् ।
- चतुर्थे व्यक्तता तेषां भावानामपि जायते २६
- पुंसां शौर्यादयो भावा भीरुत्वाद्यास्तु योषिताम् ।
- नपुंसकानां संकीर्णा भवन्तीति प्रचक्षते २७
- मातृजं चास्य हृदयं विषयानभिकाङ्क्षति ।
- अतो मातुर्मनोऽभीष्टं कुर्याद्गर्भसमृद्धये २८
- तां च द्विहृदयां नारीमाहुर्दौहृविनीं बुधाः ।
- अदानाद्दोहदानां स्युर्गर्भस्य व्यङ्गतादयः २९
- मातुर्यद्विषयालाभस्तदार्तो जायते सुतः ।
- गर्भः स्यादर्थवान्भोगी दोहदाद्राजदर्शने ३०
- अलङ्कारेषु ललितो धर्मिष्ठस्तापसाश्रमे ।
- देवतादर्शने भक्तो हिंस्रो भुजगदर्शने ३१
- गोधाशने तु निद्रालुर्बली गोमांसभक्षणे ।
- माहिषे शुकरक्ताक्षं लोमशं सूयते सुतम् ३२
- प्रबुद्धं पञ्चमे चित्तं मांसशोणितपुष्टता ।
- षष्ठेऽस्थिस्नायुनखरकेशरोमविविक्तता ३३
- बलवर्णौ चोपचितौ सप्तमे त्वङ्गपूर्णता ।
- पाल्यन्तरितहस्ताभ्यां श्रोत्ररन्ध्रे पिधाय सः ३४
- उद्विग्नो गर्भसंवासादास्ते गर्भाशयान्वितः ।
- स्मरन्पूर्वानुभूताः स नानाजातीश्च यातनाः ३५
- मोक्षोपायमभिध्यायन्वर्ततेऽभ्यासतत्परः ।
- अष्टमे त्वक्स्मृती स्यातामोजश्चैतच्च हृद्भवम् ३६
- शुद्धमापीतरक्तं च निमित्तं जीविते मतम् ।
- पुनरम्बां पुनर्गर्भं चञ्चलं तत्प्रधावति ३७
- अतो जातोऽष्टमे मासि न जीवत्योजसोज्झितः ।
- किंचित्कालमवस्थानं संस्कारात्खण्डिताङ्गवत् ३८
- समयः प्रसवस्य स्यान्मासेषु नवमादिषु ।
- मातू रसवहां नाडीमनुबद्धा पराऽभिधा ३९
- नाभिस्थनाडी गर्भस्य मात्राहाररसावहा ।
- कृताञ्जलिर्ललाटेऽसौ मातृपृष्ठमभि स्थितः ४०
- अध्यास्ते संकुचद्गात्रो गर्भं दक्षिणपार्श्वगः ।
- वामपार्श्वस्थिता नारी क्लीबं मध्यस्थितं मतम् ४१
- क्रियतेऽधःशिराः सूतिमारुतैः प्रबलैस्ततः ।
- निःसार्यते रुजद्गात्रो यन्त्रच्छिद्रेण बालकः ४२
- जातमात्रस्य तस्याथ प्रवृत्तिः स्तन्यगोचरा ।
- प्राग्जन्मबोधसंस्काराविति जीवस्य नित्यता ४३
- भावाः स्युः षड्विधास्तस्य मातृजाः पितृजास्तथा ।
- रसजा आत्मजाः सत्त्वसंभवाः सात्म्यजास्तथा ४४
- मृदवः शोणितं मेदो मज्जा प्लीहा यकृद् गुदम् ।
- हृन्नाभीत्येवमाद्यास्तु भावा मातृभवा मताः ४५
- श्मश्रुलोमकचाः स्नायुसिराधमनयो नखाः ।
- दशनाः शुक्लमित्याद्याः स्थिराः पितृसमुद्भवाः ४६
- शरीरोपचयो वर्णो वृद्धिः सुप्तिर्बलं स्थितिः ।
- अलोलुपत्वमुत्साह इत्यादीन्रसजान्विदुः ४७
- इच्छा द्वेषः सुखं दुःखं धर्माधर्मौ च भावना ।
- प्रयत्नो ज्ञानमायुश्चेन्द्रियाणीत्यात्मजा मताः ४८
- ज्ञानेन्द्रियाणि श्रवणं स्पर्शनं दर्शनं तथा ।
- रसनं घ्राणमित्याहुः पञ्च तेषां तु गोचराः ४९
- शब्दः स्पर्शस्तथा रूपं रसो गन्ध इति क्रमात् ।
- वाक्कराङ्घ्रिगुदोपस्थानाहुः कर्मेन्द्रियाणि तु ५०
- वचनादानगमनविसर्गरतयः क्रमात् ।
- क्रियास्तेषां मनो बुद्धिरित्यन्तःकरणद्वयम् ५१
- सुखं दुःखं च विषयौ विज्ञेयौ मनसः क्रिया ।
- स्मृतिभ्रान्तिविकल्पाद्या धियोऽध्यवसितिर्मता ५२
- ब्रह्मयोनीनीन्द्रियाणि भौतिकान्यपरे जगुः ।
- सत्त्वाख्यमन्तःकरणं गुणभेदात्त्रिधा मतम् ५३
- सत्त्वं रजस्तम इति गुणाः सत्त्वात्तु सात्त्विकात् ।
- आस्तिक्यशुद्धधर्मैकरुचिप्रभूतयो मताः ५४
- सत्त्वात्तु राजसाद्भावाः कामक्रोधमदादयः ।
- निद्राऽऽलस्यप्रमादार्तिवञ्चनाद्यास्तु तामसात् ५५
- प्रसन्नेन्द्रियताऽऽरोग्यानालस्याद्यास्तु सात्म्यजाः ।
- देहो भूतात्मकस्तस्मादादत्ते तद्गुणानिमान् ५६
- शब्दं श्रोत्रं सुषिरतां वैविक्त्यं सूक्ष्मबोद्धृताम् ।
- बिलं च गगनाद्वायोः स्पर्शं च स्पर्शनेन्द्रियम् ५७
- उत्क्षेपणमवक्षेपाकुञ्चने गमनं तथा ।
- प्रसारणमितीमानि पञ्च कर्माणि रूक्षताम् ५८
- प्राणापानौ तथा व्यानसमानोदानसंज्ञकान् ।
- नागं कूर्म च कृकरं देवदत्तम् धनञ्जयम् ५९
- दशेति वायुविकृतीस्तथा गृह्णाति लाघवम् ।
- तेषां मुख्यतमः प्राणो नाभिकन्दादधः स्थितः ६०
- चरत्यास्ये नासिकयोर्नाभौ हृदयपङ्कजे ।
- शब्दोच्चारणनिःश्वासोच्छ्वासकासादिकारणम् ६१
- अपानस्तु गुदे मेढ्रे कटीजङ्घोदरेषु च ।
- नाभिकन्दे वङ्क्षणयोरूरुजानुनि तिष्ठति ६२
- अस्य मूत्रपुरीषादिविसर्गः कर्म कीर्तितः ।
- व्यानोऽक्षिश्रोत्रगुल्फेषु कट्यां घ्राणे च तिष्ठति ६३
- प्राणापानधृतित्यागग्रहणाद्यस्य कर्म च ।
- समानो व्याप्य निखिलं शरीरं वह्निना सह ६४
- द्विसप्ततिसहस्रेषु नाडीरन्ध्रेषु संचरन् ।
- भुक्तपीतरसान्सम्यगानयन्देहपुष्टिकृत् ६५
- उदानः पादयोरास्ते हस्तयोरङ्गसन्धिषु ।
- कर्मास्य देहोन्नयनोत्क्रमणादि प्रकीर्तितम् ६६
- त्वगादिधातूनाश्रित्य पञ्च नागादयः स्थिताः ।
- उद्गारादि निमेषादि क्षुतप्रभृति च क्रमात् ६७
- तन्द्राप्रभृति शोफादि तेषां कर्म प्रकीर्तितम् ।
- अग्नेस्तु लोचनं रूपं पित्तं पाकं प्रकाशताम् ६८
- अमर्षं तैक्ष्ण्यमूष्माणमोजस्तैजश्च शूरताम् ।
- मेधावितां तथादत्ते जलात्तु रसनं रसम् ६९
- शैत्यं स्नेहं द्रवं स्वेदं मूत्रादि मृदुतामपि ।
- भूमेर्घ्राणेन्द्रियं गन्धं स्थैर्यं धैर्यं च गौरवम् ७०
- श्मश्रुकेशानखं दन्तानस्थ्याद्यन्यच्च कर्कशम् ।
- वातादिधातुप्रकृतिर्व्योमादिप्रकृतिस्तथा ७१
- सप्तधा सात्त्विको यश्च ब्रह्मेन्द्रयमविग्रहः ।
- वारुणश्चाथ कौबेर आर्षो गान्धर्वविग्रहः ७२
- राजसः षड्विधो यश्च पैशाचो राक्षसस्तथा ।
- आसुरः शाकुनः सार्पः प्रेतदेहस्तथा परः ७३
- तामसस्त्रिविधो यश्च पशुमत्स्याङ्घ्रिपाकृतिः ।
- तेषां लक्ष्माणि न ब्रूमो ग्रन्थविस्तरकातराः ७४
- पिण्डस्याहुः षडङ्गानि शिरः पादौ करौ तथा ।
- मध्यं चेति अथ वक्ष्यन्ते प्रत्यङ्गान्यखिलान्यपि ७५
- त्वचः सप्त कलाः सप्त स्नायुश्लेष्मजरायुभिः ।
- छन्नाः कोशाग्निभिः पक्वास्ता धातूनन्तरान्तरा ७६
- सीमभूताश्च धातूनां काष्ठसारोपमा मताः ।
- आद्या मांसधरा मांसे सिरा धमनयस्तथा ७७
- स्नायुस्रोतांसि रोहन्ति पङ्के पङ्कजकन्दवत् ।
- असृङ्मेदः श्लेष्मशकृत्पित्तशुक्लधराः पराः ७८
- त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।
- सप्त स्युस्तत्र चोक्ता त्वग्रक्तं जाठरवह्निना ७९
- पक्वाद्भवेदन्नरसादेवं रक्तादिभिः परे ।
- स्वस्वकोशाग्निना पक्वैर्जन्यन्ते धातवः क्रमात् ८०
- रक्तश्लेष्मामपित्तानां पक्वस्य मरुतस्तथा ।
- मूत्रस्य चाश्रयाः सप्त क्रमादाशयसंज्ञकाः ८१
- गर्भाशयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरे ।
- प्रसन्नाभ्यां कफासृग्भ्यां हृदयं पङ्कजाकृति ८२
- सुषिरं स्यादधोवक्त्रं यकृत्प्लीहान्तरस्थितम् ।
- एतच्च चेतनस्थानं तदस्मिंस्तमसावृते ८३
- निमीलति स्वपित्यात्मा जागर्ति विकसत्यपि ।
- द्वेधा स्वप्नसुषुप्तिभ्यां स्वापो बाह्येन्द्रियाणि चेत् ८४
- लीयन्ते हृदि जागर्ति चित्तं स्वप्नस्तदोच्यते ।
- मनश्चेल्लीयते प्राणे सुषुप्तिः स्यात्तदात्मनः ८५
- स्वमपीतः परात्मानं स्वपित्यात्मेत्यतो मतः ।
- श्रवणे नयने नासे वदनं गुदशेफसी ८६
- बहिर्मलवहानि स्युर्नव स्रोतांसि देहिनाम् ।
- स्त्रीणां त्रीण्यधिकानि स्युः स्तनयोर्द्वे भगेऽसृजः ८७
- अस्थिस्नायुसिरामांसस्थानि जालानि षोडश ।
- षट् कूर्चाः करयोरङ्घ्र्योः कन्धरायां च मेहने ८८
- पार्श्वयोः पृष्ठवंशस्य चतस्रो मांसरज्जवः ।
- सीवन्यः पञ्च शिरसि द्वे जिह्वालिङ्गयोर्मते ८९
- चतुर्दशाष्टादश वा संमता अस्थिराशयः ।
- अस्थ्नां शरीरे संख्या स्यात्षष्टियुक्तं शतत्रयम् ९०
- वलयानि कपालानि रुचकास्तरुणानि च ।
- नलकानीति तान्याहुः पञ्चधास्थीनि सूरयः ९१
- त्रीण्येवास्थिशतान्यत्र धन्वन्तरिरभाषत ।
- द्वे शते त्वस्थिसन्धीनां स्यातामत्र दशोत्तरे ९२
- कोरकाः प्रतरास्तुन्नाः सीवन्यः स्युरुलूखलाः ।
- सामुद्गा मण्डलाः शङ्खावर्ता वायसतुण्डकाः ९३
- इत्यष्टधा समुद्दिष्टा मुनीन्द्रैरस्थिसन्धयः ।
- पेशीस्नायुसिरासन्धिसहस्रद्वितयं मतम् ९४
- नव स्नायुशतानि स्युश्चतुर्धा स्नायवो मताः ।
- प्रतानवत्यः सुषिराः कण्डराः पृथुलास्तथा ९५
- बन्धनैर्बहुभिर्बद्धा भूरिभारक्षमा भवेत् ।
- नौरम्भसि यथा स्नायुशतबद्धा तनुस्तथा ९६
- पञ्च पेशीशतान्याहुः शरीरस्थानि सूरयः ।
- अधिका विंशतिः स्त्रीणां तत्र स्युः स्तनयोर्दश ९७
- यौवने ताः प्रवर्धन्ते दश योनौ तु तत्र च ।
- द्वे अन्तः प्रसृते बाह्ये द्वे तिस्रो गर्भमार्गगाः ९८
- शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्ताऽत्र तृतीयके ।
- आवर्ते गर्भशय्याऽस्ति पित्तपक्वाशयान्तरे ९९
- रोहिताभिधमत्स्यस्य सदृशी तत्र पेशिका ।
- शुक्रार्तवप्रवेशिन्यस्तिस्रः प्रच्छादिका मताः १००
- सिराधमनिकानां तु लक्षाणि नवविंशतिः ।
- सार्धानि स्युर्नवशती षट्पञ्चाशद्युता तथा १०१
- दश मूलसिरा ओजोवाहिन्यो हृदयाश्रयाः ।
- द्व्यङ्गुलं चाङ्गुलदलं यवं यवदलं तथा १०२
- गत्वा द्रुमदलस्येव सीवन्यः प्रतता यदा ।
- भिद्यन्ते तास्तदा सप्त शतानि परिसंख्यया १०३
- तासु जिह्वास्थिते द्वे द्वे वाग्रसज्ञानकारणे ।
- घ्राणे गन्धवहे द्वे द्वे मेषोन्मेषकृतौ दृशोः १०४
- श्रोत्रयोः शब्दवाहिन्यौ तासु द्वे शार्ङ्गिणोदिते ।
- धमन्यो रसवाहिन्यश्चतुर्विंशतिरीरिताः १०५
- कुल्याभिरिव केदारास्ताभिर्देहोऽभिवर्धते ।
- एताः प्रतिष्ठिता नाभ्यां चक्रनाभावरा इव १०६
- ऊर्ध्वं दश दशाधस्ताच्चतस्रस्तिर्यगायताः ।
- ऊर्ध्वगा हृदयं प्राप्ताः प्रतायन्ते पृथक् त्रिधा १०७
- वातं पित्तं कफं रक्तं रसं द्वे द्वे विमुञ्चतः ।
- शब्दं रूपं रसं गन्धं द्वे द्वे तत्रावगच्छतः १०८
- द्वे द्वे च भाषणं घोषं स्वापं बोधं च रोदनम् ।
- कुर्वाते द्वे नरे शुक्लं स्तन्यं तु स्रवतः स्त्रियाम् १०९
- अधोगता अपि त्रेधा पृथक्पक्वाशयस्थिताः ।
- प्रवर्तयन्ति तत्राद्या दश वातादि पूर्ववत् ११०
- अन्नं भुक्तं धमन्यौ द्वे वहतोऽम्बुसमाश्रयात् ।
- तोयं मूत्रं बलं द्वे द्वे नारीणामार्तवं त्विमे १११
- विमुञ्चतो द्वे स्रोतांसि द्वे स्थूलान्त्रान्विते शकृत् ।
- स्वेदं समर्पयन्त्यष्टौ तिरश्च्यो बहुधा मताः ११२
- रोमकूपेषु सन्त्यासां मुखानि स्वेदमुक्तये ।
- प्रवेशयन्ति चाभ्यङ्गलेपादिप्रभवान्रसान् ११३
- जीवस्थानानि मर्माणि शतं सप्तोत्तरं विदुः ।
- सार्धकोटित्रयं रोम्णां श्मश्रुकेशास्त्रिलक्षकाः ११४
- स्रोतःसिराश्मश्रुकेशैः सह रोम्णां तु कोटयः ।
- चतुःपञ्चाशदाख्याताः सप्तषष्ट्या च सार्धया ११५
- लक्षाणां संहितामानं जलादेरधुनोच्यते ।
- दशाञ्जलि जलं ज्ञेयं रसस्याञ्जलयो नव ११६
- रक्तस्याष्टौ पुरीषस्य सप्त स्युः श्लेष्मणस्तु षट् ।
- पित्तस्य पञ्च चत्वारो मूत्रस्याञ्जलयस्त्रयः ११७
- वसाया मेदसो द्वौ तु मज्ज्ञ एकोऽञ्जलिर्मतः ।
- अर्धाञ्जलिः शिरोमज्जा श्लेष्मसारो बलं तथा ११८
- इति प्रत्यङ्गसंक्षेपो विस्तरस्त्विह तत्त्वतः ।
- अस्मद्विरचितेऽध्यात्मविवेके वीक्ष्यतां बुधैः ११९
- गुदलिङ्गान्तरे चक्रमाधाराख्यं चतुर्दलम् ।
- परमः सहजस्तद्वदानन्दो वीरपूर्वकः १२०
- योगानन्दश्च तत्र स्यादैशानादिवले फलम् ।
- अस्ति कुण्डलिनी ब्रह्मशक्तिराधारपङ्कजे १२१
- आब्रह्मरन्ध्रमृजुतां नीतेयममृतप्रदा ।
- स्वाषिष्ठानं लिङ्गमूले षट्पत्रं चक्रमस्य च १२२
- पूर्वादिषु दलेष्वाहुः फलान्येतान्यनुक्रमात् ।
- प्रश्रयः क्रूरता गर्वनाशो मूर्च्छा ततः परम् १२३
- अवज्ञा स्यादविश्वासः कामशक्तेरिदं गृहम् ।
- नाभौ दशदलं चक्रं मणिपूरकसंज्ञितम् १२४
- सुषुप्तिरत्र तृष्णा स्यादीर्ष्या पिशुनता तथा ।
- लज्जा भयं घृणा मोहः कषायोऽथ विषादिता १२५
- क्रमात्पूर्वादिपत्रे तु स्याद्भानुभवनं च तत् ।
- हृदयेऽनाहतं चक्रं शिवस्य प्रणवाकृतेः १२६
- पूजास्थानं तदिच्छन्ति दलैर्द्वादशभिर्युतम् ।
- लौल्यप्रणाशः प्रकटो वितर्कोऽप्यनुतापिता १२७
- आशा प्रकाशश्चिन्ता च समीहा समता ततः ।
- क्रमेण दम्भो वैकल्यं विवेकोऽहंकृतिस्तथा १२८
- फलान्येतानि पूर्वादिदलस्थस्यात्मनो जगुः ।
- कण्ठेऽस्ति भारतीस्थानं विशुद्धिः षोडशच्छदम् १२९
- तत्र प्रणव उद्गीथो हुंफड् वषडथ स्वधा ।
- स्वाहा नमोऽमृतं सप्त स्वराः षड्जादयो विषम् १३०
- इति पूर्वादिपत्रस्थे फलान्यात्मनि षोडश ।
- ललनाख्यं घण्टिकायां चक्रं द्वादशपत्रकम् १३१
- मदो मानस्ततः स्नेहः शोकः स्वेदश्च लुब्धता ।
- अरतिः संभ्रमश्चोर्मिः श्रद्धातोषोपरोधिताः १३२
- फलानि ललनाचक्रे स्युः पूर्वादिदलेष्विति ।
- भ्रूमध्ये त्रिदलं चक्रमाज्ञासंज्ञं फलानि तु १३३
- आविर्भावाः सत्त्वरजस्तमसां क्रमतो मताः ।
- ततोऽप्यस्ति मनश्चक्रं षड्दलं तत्फलानि तु १३४
- स्वप्नो रसोपभोगश्च घ्राणं रूपोपलम्भनम् ।
- स्पर्शनं शब्दबोधश्च पूर्वादिषु दलेष्विति १३५
- ततोऽपि षोडशदलं सोमचक्रमितीरितम् ।
- दलेषु षोडशस्वस्य कलाः षोडश संस्थिताः १३६
- कृपा क्षमार्जवं धैर्यं वैराग्यं धृतिसंमदौ ।
- हास्यं रोमाञ्चनिचयो ध्यानाश्रु स्थिरता ततः १३७
- गाम्भीर्यमुद्यमोऽच्छत्वमौदार्यैकाग्रते क्रमात् ।
- फलान्युद्यन्ति जीवस्य पूर्वादिदलगामिनः १३८
- चक्रं सहस्रपत्रं तु ब्रह्मरन्ध्रे सुधाधरम् ।
- तत्सुधासारधाराभिरभिवर्धयते तनुम् १३९
- अनाहतदले पूर्वेऽष्टमे चैकादशे तथा ।
- द्वादशे च स्थितो जीवो गीतादेः सिद्धिमृच्छति १४०
- चतुर्थषष्ठदशमैर्दलैर्गीतादि नश्यति ।
- विशुद्धेरष्टमादीनि दलान्यष्टौ श्रितानि तु १४१
- दद्युर्गीतादिसंसिद्धिं षोडशं तद्विनाशकम् ।
- दशमैकादशे पत्रे ललनायां तु सिद्धिदे १४२
- नाशकं प्रथमं तुर्यं पञ्चमं च दलं विदुः ।
- ब्रह्मरन्ध्रस्थितो जीवः सुधया संप्लुतो यथा १४३
- तुष्टो गीतादिकार्याणि सप्रकर्षाणि साधयेत् ।
- एषां शेषेषु पत्रेषु चक्रेष्वन्येषु च स्थितः १४४
- जीवो गीतादिसंसिद्धिं न कदाचिदवाप्नुयात् ।
- आधाराद् द्व्यङ्गुलादूर्ध्व मेहनाद् द्व्यङ्गुलादधः १४५
- एकाङ्गुलं देहमध्यं तप्तजाम्बूनदप्रभम् ।
- तत्रास्तेऽग्निशिखा तन्वी चक्रात्तस्मान्नवाङ्गुले १४६
- देहस्य कन्दोऽस्त्युत्सेधायामाभ्यां चतुरङ्गुलः ।
- ब्रह्मग्रन्थिरिति प्रोक्तं तस्य नाम पुरातनैः १४७
- तन्मध्ये नाभिचक्रं तु द्वादशारमवस्थितम् ।
- लूतेव तन्तुजालस्था तत्र जीवो भ्रमत्ययम् १४८
- सुषुम्णया ब्रह्मरन्ध्रमारोहत्यवरोहति ।
- जीवः प्राणसमारूढो रज्ज्वां कोह्लाटिको यथा १४९
- सुषुम्णां परितो नाड्यः कन्दादाब्रह्मरन्ध्रतः ।
- कन्दीकृत्य स्थिताः कन्दं शाखाभिस्तन्वते तनुम् १५०
- ताश्च भूरितरास्तासु मुख्याः प्रोक्ताश्चतुर्दश ।
- सुषुम्णेडा पिङ्गला च कुहूरथ सरस्वती १५१
- गान्धारी हस्तिजिह्वा च वारुणी च यशस्विनी ।
- विश्वोदरा शङ्खिनी च ततः पूषा पयस्विनी १५२
- अलम्बुसेति तत्राद्यास्तिस्रो मुख्यतमा मताः ।
- सुषुम्णा तिसृषु श्रेष्ठा वैष्णवी मुक्तिमार्गगा १५३
- कन्दमध्ये स्थिता तस्या इडा सव्येऽथ दक्षिणे ।
- पिङ्गलेडापिङ्गलयोश्चरतश्चन्द्रभास्करौ १५४
- क्रमात्कालगतेर्हेतू सुषुम्णा कालशोषिणी ।
- सरस्वती कुहूश्चास्ते सुषुम्णायास्तु पार्श्वयोः १५५
- इडायाः पृष्ठपूर्वस्थे गान्धारीहस्तिजिह्विके ।
- क्रमात्पूषायशस्विन्यौ पिङ्गलापृष्ठपूर्वयोः १५६
- विश्वोदरा मध्यदेशे स्यात्कुहूहस्तिजिह्वयोः ।
- मध्ये कुहूयशस्विन्योर्वारुणी सस्थिता मता १५७
- पूषासरस्वतीमध्यमधिशेते पयस्विनी ।
- गान्धारिकासरस्वत्योर्मध्ये वसति शङ्खिनी १५८
- अलम्बुसा कन्दमध्ये तत्रेडापिङ्गले क्रमात् ।
- सव्यदक्षिणनासाऽन्तं कुहूरामेहनं पुरः १५९
- सरस्वत्यूर्ध्वमाजिह्वं गान्धार्याः पृष्ठतः स्थिता ।
- आवामनेत्रमासव्यपादाङ्गुष्ठं तु संस्थिता १६०
- हस्तिजिह्वा सर्वगा तु वारुण्यथ यशस्विनी ।
- आङ्गुष्ठाद्दक्षिणाङ्घ्रिस्था देहे विश्वोदराऽखिले १६१
- शङ्खिनी सव्यकर्णान्तं पूषा त्वायाम्यनेत्रतः ।
- पयस्विनी तु वितता दक्षिणश्रवणावधि १६२
- अलम्बुसा पायुमूलमवष्टभ्य व्यवस्थिता ।
- एवंविधे तु देहेऽस्मिन्मलसंचयसंवृते १६३
- प्रसाधयन्ति धीमन्तो भुक्तिं मुक्तिमुपायतः ।
- तत्र स्यात्सगुणाद्ध्यानाद्भुक्तिर्मुक्तिस्तु निर्गुणात् १६४
- ध्यानमेकाग्रचित्तैकसाध्यं न सुकरं नृणाम् ।
- तस्मादत्र सुखोपायं श्रीमन्नादमनाहतम् १६५
- गुरूपदिष्टमार्गेण मुनयः समुपासते ।
- सोऽपि रक्तिविहीनत्वान्न मनोरञ्जको नृणाम् १६६
- तस्मादाहतनादस्य श्रुत्यादिद्वारतोऽखिलम् ।
- गेयं वितन्वतो लोकरञ्जनं भवभञ्जनम् १६७
- उत्पत्तिमभिघास्यामस्तथा श्रुत्यादिहेतुताम् ।
- इति प्रथमे स्वराध्याये द्वितीयं पिण्डोत्पत्तिप्रकरणम् २
- अथ तृतीयं नादस्थानश्रुतिस्वरजातिकुलदैवतर्षिच्छन्दोरसप्रकरणम्
- चैतन्यं सर्वभूतानां विवृत्तं जगदात्मना ।
- नादब्रह्म तदानन्दमद्वितीयमुपास्महे १
- नादोपासनया देवा ब्रह्मविष्णुमहेश्वराः ।
- भवन्त्युपासिता नूनं यस्मादेते तदात्मकाः २
- आत्मा विवक्षमाणोऽयं मनः प्रेरयते मनः ।
- देहस्थं वह्निमाहन्ति स प्रेरयति मारुतम् ३
- ब्रह्मग्रन्थिस्थितः सोऽथ क्रमादूर्ध्वपथे चरन् ।
- नाभिहृत्कण्ठमूर्धास्येष्वाविर्भावयति ध्वनिम् ४
- नादोऽतिसूक्ष्मः सूक्ष्मश्च पुष्टोऽपुष्टश्च कृत्रिमः ।
- इति पञ्चाभिधा धत्ते पञ्चस्थानस्थितः क्रमात् ५
- नकारं प्राणनामानं दकारमनलं विदुः ।
- जातः प्राणाग्निसंयोगात्तेन नादोऽभिधीयते ६
- व्यवहारे त्वसौ त्रेधा हृदि मन्द्रोऽभिधीयते ।
- कण्ठे मध्यो मूर्ध्नि तारो द्विगुणश्चोत्तरोत्तरः ७
- तस्य द्वाविंशतिर्भेदाः श्रवणाच्छ्रुतयो मताः ।
- हृद्यूर्ध्वनाडीसंलग्ना लाड्यो द्वाविंशतिर्मताः ८
- तिरश्च्यस्तासु तावत्यः श्रुतयो मारुताहतेः ।
- उच्चोच्चतरतायुक्ताः प्रभवन्त्युत्तरोत्तरम् ९
- एवं कण्ठे तथा शीर्षे श्रुतिद्वाविंशतिर्मता ।
- व्यक्तये कुर्महे तासां वीणाद्वन्द्वे निदर्शनम् १०
- द्वे वीणे सदृशौ कार्ये यथा नादः समो भवेत् ।
- तयोर्द्वाविंशतिस्तन्त्र्यः प्रत्येकं तासु चादिमा ११
- कार्या मन्द्रतमध्वाना द्वितीयोच्चध्वनिर्मनाक् ।
- स्यान्निरन्तरता श्रुत्योर्मध्ये ध्वन्यन्तराश्रुतेः १२
- अधराधरतीव्रास्तास्तज्जो नादः श्रुतिर्मतः ।
- वीणाद्वये स्वराः स्थाप्यास्तत्र षड्जश्चतुःश्रुतिः १३
- स्थाप्यस्तन्त्र्यां तुरीयायामृषभस्त्रिश्रुतिस्ततः ।
- पञ्चमीतस्तृतीयायां गान्धारो द्विश्रुतिस्ततः १४
- अष्टमीतो द्वितीयायां मध्यमोऽथ चतुःश्रुतिः ।
- दशमीतश्चतुर्थ्यां स्यात्पञ्चमोऽथ चतुःश्रुतिः १५
- चतुर्दशीतस्तुर्यायां धैवतस्त्रिश्रुतिस्ततः ।
- अष्टादश्यस्तृतीयायां निषादो द्विश्रुतिस्ततः १६
- एकविंश्या द्वितीयायां वीणैकाऽत्र ध्रुवा भवेत् ।
- चलवीणा द्वितीया तु तस्यां तन्त्रीस्तु सारयेत् १७
- स्वोपान्त्यतन्त्रीमानेयास्तस्यां सप्त स्वरा बुधैः ।
- ध्रुववीणास्वरेभ्योऽस्यां चलायां ते स्वरास्तदा १८
- एकश्रुत्यपकृष्टाः स्युरेवमन्याऽपि सारणा ।
- श्रुतिद्वयलयादस्यां चलवीणागतौ गनी १९
- ध्रुववीणोपगतयो रिधयोर्विशतः क्रमात् ।
- तृतीयस्यां सारणायां विशतः सपयो रिधौ २०
- निगमेषु चतुर्थ्यां तु विशन्ति समपाः क्रमात् ।
- श्रुतिद्वाविंशतावेवं सारणानां चतुष्ट्यात् २१
- ध्रुवाश्रुतिषु लीनायामियत्ता ज्ञायते स्फुटम् ।
- अतः परम् तु रक्तिध्नं न कार्यमपकर्षणम् २२
- श्रुतिभ्यः स्युः स्वराः षड्जर्षभगान्धारमध्यमाः ।
- पञ्चमो धैवतश्चाथ निषाद इति सप्त ते २३
- तेषां संज्ञाः सरिगमपधनीत्यपरा मताः ।
- श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः २४
- स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते ।
- ननु श्रुतिश्चातुर्थ्यादिरस्त्वेवं स्वरकारणम् २५
- त्र्यादीनां तत्र पूर्वासां श्रुतीनां हेतुता कथम् ।
- ब्रूमस्तुर्यातृतीयादिः श्रुतिः पूर्वाऽभिकाङ्क्षया २६
- निर्धार्यतेऽतः श्रुतयः पूर्वा अप्यत्र हेतवः ।
- दीप्तायता च करुणा मृदुर्मध्येति जातयः २७
- श्रुतीनां पञ्च तासां च स्वरेष्वेवं व्यवस्थितिः ।
- दीप्तायता मृदुर्मध्या षड्जे स्यादृषभे पुनः २८
- संस्थिता करुणा मध्या मृदुर्गान्धारके पुनः ।
- दीप्तायते मध्यमे ते मृदुमध्ये च संस्थिते २९
- मृदुर्मध्यायताख्या च करुणा पञ्चमे स्थिता ।
- करुणा चायता मध्या धैवते सप्तमे पुनः ३०
- दीप्ता मध्येति तासां च जातीनां ब्रूमहे भिदाः ।
- तीव्रा रौद्री व्रजिकोग्नेत्युक्ता दीप्ता चतुर्विधा ३१
- कुमुद्वत्यायता याऽस्याः क्रोधा चाथ प्रसारिणी ।
- संदीपनी रोहिणी च भेदाः पञ्चेति कीर्तिताः ३२
- दयावती तथालापिन्यथ प्रोक्ता मदन्तिका ।
- त्रयस्ते करुणाभेदा मृदोर्भेदचतुष्टयम् ३३
- मन्दा च रतिका प्रीतिः क्षितिर्मध्या तु षड्विधा ।
- छन्दोवती रञ्जनी च मार्जनी रक्तिका तथा ३४
- रम्या च क्षोभिणीत्यासामथ ब्रूमः स्वरस्थितिम् ।
- तीव्राकुमुद्वतीमन्दाच्छन्दोवत्यस्तु षड्जगाः ३५
- दयावती रञ्जनी च रक्तिका चर्षभे स्थिताः ।
- रौद्री क्रोधा च गान्धारे वज्रिकाऽथ प्रसारिणी ३६
- प्रीतिश्च मार्जनीत्येताः श्रुतयो मध्यमाश्रिताः ।
- क्षिती रक्ता च संदीपन्यालापिन्यपि पञ्चमे ३७
- मदन्ती रोहिणी रम्येत्येतास्तिस्रस्तु धैवते ।
- उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती ३८
- ते मन्द्रमध्यताराख्यस्थानभेदात्त्रिधा मताः ।
- त एव विकृतावस्था द्वादश प्रतिपादिताः ३९
- च्युतोऽच्युतो द्विधा षड्जो द्विश्रुतिविकृतो भवेत् ।
- साधारणे काकलीत्वे निषादस्य च दृश्यते ४०
- साधारणे श्रुतिं षाड्जीमृषभः संश्रितो यदा ।
- चतुःश्रुतित्वमायाति तदैको विकृतो भवेत् ४१
- साधारणे त्रिश्रुतिः स्यादन्तरत्वे चतुःश्रुतिः ।
- गान्धार इति तद्भेदौ द्वौ निःशङ्केन कीर्तितौ ४२
- मध्यमः षड्जवद्द्वेधाऽन्तरसाधारणाश्रयात् ।
- पञ्चमो मध्यमग्रामे त्रिश्रुतिः कैशिके पुनः ४३
- मध्यमस्य श्रुतिं प्राप्य चतुःश्रुतिरिति द्विधा ।
- धैवतो मध्यमग्रामे विकृतः स्याच्चतुःश्रुतिः ४४
- कैशिके काकलीत्वे च निषादस्त्रिचतुःश्रुतिः ।
- प्राप्नोति विकृतौ भेदौ द्वाविति द्वादश स्मृताः ४५
- तैः शुद्धैः सप्तभिः सार्धं भवन्त्येकोनविंशतिः ।
- मयूरचातकच्छागक्रौञ्चकोकिलदर्दुराः ४६
- गजश्च सप्त षड्जादीन्क्रमादुच्चारयन्त्यमी ।
- चतुर्विधाः स्वरा वादी संवादी च विवाद्यपि ४७
- अनुवादी च वादी तु प्रयोगे बहुलः स्वरः ।
- श्रुतयो द्वादशाष्टौ वा ययोरन्तरगोचराः ४८
- मिथः संवादिनौ तौ स्तो निगावन्यविवादिनौ ।
- रिधयोरेव वा स्यातां तौ तयोर्वा रिधावपि ४९
- शेषाणामनुवादित्वं वादी राजाऽत्र गीयते ।
- संवादी त्वनुसारित्वादस्यामात्योऽभिधीयते ५०
- विवादी विपरीतत्वाद्धीरैरुक्तौ रिपूपमः ।
- गीवणिकुलसंभूताः षड्जगान्धरमध्यमाः ।
- पञ्चमः पितृवंशोत्थो रिधावृषिकुलोद्भवौ ५२
- निषादोऽसुरवंशोत्थो ब्राह्मणाः समपञ्चमाः ।
- रिधौ तु क्षत्त्रियौ ज्ञेयौ वैश्यजाती निगौ मतौ ५३
- शूद्रावन्तरकाकल्यौ स्वरौ वर्णास्त्विमे क्रमात् ।
- पद्माभः पिञ्जरः स्वर्णवर्णः कुन्दप्रभोऽसितः ५४
- पीतः कर्वुर इत्येषां जन्मभूमीरथ ब्रुवे ।
- जम्बूशाककुशक्रौञ्च शाल्मलीश्वेतनामसु ५५
- द्वीपेषु पुष्करे चैते जाताः षड्जादयः क्रमात् ।
- बह्निर्वेधाः शशाङ्कश्च लक्ष्मीकान्तश्च नारदः ५६
- ऋषयो ददृशुः पञ्च षड्जादींस्तुम्बुरुर्धनी ।
- बह्निब्रह्मसरस्वत्यः शर्वश्रीशगणेश्वराः ५७
- सहस्रांशुरिति प्रोक्ताः क्रमात्षड्जादिदेवताः ।
- क्रमादनुष्टुब्गायत्त्री त्रिष्टुप्च बृहती ततः ५८
- पङ्क्तिरुष्णिक्च जगतीत्याहुश्छन्दांसि सादिषु ।
- सरी वीरेऽद्भुते रौद्रे धो बीभत्से भयानके ५९
- कायौ गनी तू करुणे हास्यशृङ्गारयोर्मपौ ।
- इति प्रथमे स्वराध्याये तृतीयं नादस्थानश्रुतिस्वरप्रकरणम् ३
- अथ चतुर्थं ग्राममूर्च्छनाक्रमतानप्रकरणम्
- ग्रामः स्वरसमूहः स्यान्मूर्च्छनाऽऽदेः समाश्रयः ।
- तौ द्वौ धरातले तत्र स्यात्षड्जग्राम आदिमः १
- द्वितीयो मध्यमग्रामस्तयोर्लक्षणमुच्यते ।
- षड्जग्रामः पञ्चमे स्वचतुर्थश्रुतिसंस्थिते २
- स्वोपान्त्यश्रुतिसंस्थेऽस्मिन्मध्यमग्राम इष्यते ।
- यद्वा धस्त्रिश्रुतिः षड्जे मध्यमे तु चतुःश्रुतिः ३
- रिमयोः श्रुतिमेकैकां गान्धारश्चेत्समाश्रितः ।
- पश्रुतिं धो निषादस्तु धश्रुतिं सश्रुतिं श्रितः ४
- गान्धारग्राममाचष्ट तदा तं नारदो मुनिः ।
- प्रवर्तते स्वर्गलोके ग्रामोऽसौ न महीतले ५
- षड्जः प्रधानमाद्यत्वादमात्याधिक्यतस्तथा ।
- ग्रामे स्यादविलोपित्वान्मध्यमस्तु पुरःसरः ६
- एतत्कुलप्रसूतत्वाद् गन्धारोऽप्यग्रणीर्दिवि ।
- क्रमाद् ग्रामत्रये देवा ब्रह्मविष्णुमहेश्वराः ७
- हेमन्तग्रीष्मवर्षासु गातव्यास्ते यथाक्रमम् ।
- पूर्वाह्णकाले मध्याह्नेऽपराह्णेऽभ्युदयार्थिभिः ८
- क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् ।
- मूर्च्छनेत्युच्यते ग्रामद्वये ताः सप्त सप्त च ९
- षड्जे तूत्तरमन्द्रादौ रजनी चोत्तरायता ।
- शुद्धषड्जा मत्सरीकृदश्वक्रान्ताभिरुद्गता १०
- मध्यमे स्यात्तु सौवीरी हारिणाश्वा ततः परम् ।
- स्यात्कलोपनता शुद्धमध्या मार्गो च पौरवी ११
- हृष्यकेति
- अथ तासां तु लक्षणं प्रतिपाद्यते ।
- मध्यस्थानस्थषड्जेन मूर्च्छनारभ्यतेऽग्रिमा १२
- अधस्तनैनिषादाद्यैः षडन्या मूर्च्छनाः क्रमात् ।
- मध्यमध्यममारभ्य सौवीरी मूर्च्छना भवेत् १३
- षडन्यास्तदधोऽधःस्थस्वरानारभ्य तु क्रमात् ।
- षड्जस्थानस्थितैर्न्याद्यैरजन्याद्याः परे विदुः १४
- हारिणाश्वादिका गाद्यैर्मध्यमस्थानसंस्थितैः ।
- षड्जादीन्मध्यमादींश्च तदूर्ध्वं सारयेत्क्रमात् १५
- चतुर्धा ताः पृथक् शुद्धाह् काकलीकलितास्तथा ।
- सान्तरास्तद्द्वयोपेताः षट्पञ्चाशदितीरिताः १६
- श्रुतिद्वयं चेत्षड्जस्य निषादः संश्रयेत्तदा ।
- स काकली मध्यमस्य गान्धारस्त्वन्तरः स्वरः १७
- यस्यां यावतिथौ षड्जमध्यमौ ग्रामयोः क्रमात् ।
- मूर्च्छना तावतिथ्येव सा निःशङ्केन कीर्तिता १८
- प्रथमादिस्वरारम्भादेकैका सप्तधा भवेत् ।
- तासूच्चार्यान्त्यस्वरांस्तान्पूर्वानुच्चारयेत्क्रमात् १९
- ते क्रमास्तेषु संख्या स्याद् द्वानवत्या शतत्रयम् ।
- यक्षरक्षोनारदाब्जभवनागाश्विपाशिनः २०
- षड्जग्रामे मूर्च्छनानामेताः स्युर्देवताः क्रमात् ।
- ब्रह्मेन्द्रवायुगन्धर्वसिद्धद्रुहिणभानवः २१
- स्युरिमा मध्यमग्राममूर्च्छनादेवताः क्रमात् ।
- तासामन्यानि नामानि नारदो मुनिरब्रवीत् २२
- मुर्च्छनोत्तरवर्णाऽऽद्या षड्जग्रामेऽभिरुद्गता ।
- अश्वक्रान्ता च सौवीरी हृष्यका चोत्तरायता २३
- रजनीति समाख्याता ऋषीणां सप्त मूर्च्छनाः ।
- आप्यायनी विश्वकृता चन्द्रा हेमा कपर्दिनी २४
- मैत्री चान्द्रमसी पित्र्या मध्यमे मूर्च्छना इमाः ।
- नन्दा विशाला सुमुखी चित्रा चित्रवती सुखा २५
- आलापा चेति गान्धारग्रामे स्युः सप्त मूर्च्छनाः ।
- ताश्च स्वर्गे प्रयोक्तव्या विशेषात्तेन नोदिताः २६
- तानाः स्युर्मूर्च्छनाः शुद्धाः षाडवौडुवितीकृताः ।
- षड्जगाः सप्त हीनाश्चेत्क्रमात्सरिपसप्तमैः २७
- तदाऽष्टाविंशतिस्ताना मध्यमे सरिगोज्झिताः ।
- सप्त क्रमाद्यदा तानाः स्युस्तदा त्वेकविंशतिः २८
- एते चैकोनपञ्चाशदुभये षडवा मताः ।
- सपाभ्यां द्विश्रुतिभ्यां च रिपाभ्यां सप्त वर्जिताः २९
- षड्जग्रामे पृथक्ताना एकविंशतिरौडुवाः ।
- रिधाभ्यां द्विश्रुतिभ्याम् च मध्यमग्रामगास्तु ते ३०
- हीनाश्चतुर्दशैव स्युः पञ्चत्रिंशत्तु ते युताः ।
- सर्वे चतुरशीतिः स्युर्मिलिताः षाडवौडुवाः ३१
- असम्पूर्णाश्च सम्पूर्णा व्युत्क्रमोच्चारितस्वराः ।
- मूर्च्छनाः कूटतानाः स्युः तत्सङ्ख्यामभिदध्महे ३२
- पूर्णाः पञ्च सहस्राणि चत्वारिंशद्युतानि तु ।
- एकैकस्यां मूर्च्छनायां कूटतानाः सह क्रमैः ३३
- षट्पञ्चाशन्मूर्च्छनास्थाः पूर्णाः कूटास्तु योजिताः ।
- लक्षद्वयं सहस्राणि द्व्यशीतिर्द्वे शते तथा ३४
- चत्वारिंशच्च सङ्ख्याता अथापूर्णान्प्रचक्ष्महे ।
- एकैकान्त्यान्त्यविरहाद्भेदाः षट् षट्स्वरादयः ३५
- एकस्वरोऽत्र निर्भेदोऽप्युक्तो नष्टादिसिद्धये ।
- क्रमा अकूटतानत्वेऽप्युक्तास्तेषूपयोगिनः ३६
- स्युः षाडवानां विंशत्या सह सप्त शतानि तु ।
- औडुवानां तु विंशत्या सहितं शतमिष्यते ३७
- चतुःस्वराणां कूटानां चतुर्विशतिरीरिताः ।
- त्रिस्वराः षड् द्विस्वरौ द्वावेकस्त्वेकस्वरो मतः ३८
- आर्चिको गाथिकश्चाथ सामिकोऽथ स्वरान्तरः ।
- एकस्वरादितानानां चतुर्णामभिधा इमाः ३९
- उक्ताः शुद्धादिभेदेन निगयुक्ताश्चतुर्विधाः ।
- तयोरेकैकहीनास्तु द्वेधा मूलक्रमा मताः ४०
- षड्जाद्यौ मध्यमाद्यौ च चत्वारः स्युर्द्विधा द्विधा ।
- चतुर्धान्ये दशेत्यष्टाचत्वारिंशदमी क्रमाः ४१
- संविशतिः सप्तशती प्रागुक्ता गुणिता क्रमैः ।
- चतुस्त्रिंशत्सहस्राणि षष्ट्या पञ्च शतानि च ४२
- इति षाडवसङ्ख्या स्यात् अथ पञ्चस्वरान्ब्रुवे ।
- गाद्यौ धाद्यौ निषादाद्यौ चतुर्भेदाः षडौडुवाः ४३
- आष्टावन्ये द्विधेत्येवं चत्वारिंशदिमे क्रमाः ।
- सविंशतौ शते तैश्च गुणितेऽष्टौ शतानि तु ४४
- चत्वारि च सहस्राणि सङ्ख्या पञ्चस्वरेष्विति ।
- चतुःस्वरेषु न्याद्यौ द्वौ चतुर्धा द्वादशापरे ४५
- क्रमा द्विधेति द्वात्रिंशच्चतुर्विंशतिताडिता ।
- शतानि सप्ताष्टषष्ट्या स्याच्चतुःस्वरसंमितिः ४६
- त्रिस्वरेषु तु माद्यौ द्वावभेदौ द्वादशापरे ।
- द्विधा षड्विंशतिरिति क्रमास्ते षड्भिराहताः ४७
- षट्पञ्चाशच्छतं च स्युः द्विस्वरेषु पुनर्द्विधा ।
- रिगधन्यादयोऽष्टौ स्युः शुद्धास्तदितरे क्रमाः ४८
- द्वाविंशतिस्ते तु चतुश्चत्वारिंशद् द्विताडिताः ।
- एकस्वरास्त्वभेदत्वान्मौला एव चतुर्दश ४९
- षड्जादेः शुद्धमध्याया भेदकं पञ्चमं विना ।
- चतुःस्वरे क्रमद्वन्द्वेऽष्टाचत्वारिंशदीरिताः ५०
- तानास्त्रिस्वरयोस्त्वेते द्वादश द्वस्वरे द्वयम् ।
- एक एकस्वरस्ते त्रिषष्टिरौत्तरमन्द्रकैः ५१
- पुनरुक्ता मतास्तानैर्न्यादिमार्गीक्रमाः पुनः ।
- पञ्चस्वरा ये चत्वारस्तत्तानानां चतुःशती ५२
- अशीत्यभ्यधिका चातुःस्वरी षण्णवतिर्भवेत् ।
- द्वादश त्रिस्वरद्वन्द्वे चत्वारो द्विस्वरद्वये ५३
- एक एकस्वरस्तानस्तेषां पञ्चशती त्वियम् ।
- त्रिनवत्या युता तानैरभिन्ना रजनीगतैः ५४
- धैवतादेस्तु पौरव्याश्चत्वारह् षट्स्वराः क्रमात् ।
- तत्तानानां तु साशीतिः शताष्टाविंशतिर्मता ५५
- औडुवानां चतुर्णां प्रागुक्ता सङ्ख्या चतुःस्वरौ ।
- त्रिस्वरौ द्विस्वरावेकस्वरः प्रागुक्तसङ्ख्यकाः ५६
- पञ्चविंशतिसंयुक्ता चतुस्त्रिंशच्छती त्वियम् ।
- तानानां सदृशाकारा स्यात्तानैरौत्तरायतैः ५७
- इत्येकाशीतिसंयुक्तं सहस्राणां चतुष्टयम् ।
- तानानां पुनरुक्तानां पूर्णापूर्णैः सह क्रमैः ५८
- अपनीयेत चेदेषा कूटतानमितिर्भवेत् ।
- लक्षत्रयं सप्तदश सहस्राणि शतानि च ५९
- नवत्रिंशद्युतानीति ज्ञानोपायोऽत्र कथ्यते ।
- अङ्कानेकादिसप्तान्तानूर्ध्वमूर्ध्वं लिखेत्क्रमात् ६०
- हते पूर्वेण पूर्वेण तेषु चाङ्के परे परे ।
- एकस्वरादिसङ्ख्या स्यात्क्रमेण प्रतिमूर्च्छनम् ६१
- क्रमं न्यस्य स्वरः स्थाप्यः पूर्वः पूर्वः परादधः ।
- स चेदुपरि तत्पूर्वः पुरस्तूपरिवर्तिनः ६२
- मूलक्रमक्रमात्पृष्ठे शेषाः प्रस्तार ईदृशः ।
- सप्ताद्येकान्तकोष्ठानामधोऽधः सप्त पङ्क्तयः ६३
- तास्वाद्यायामाद्यकोष्ठे लिखेदेकं परेषु खम् ।
- वेद्यतानस्वरमितान्न्यस्येत्तेष्वेव लोष्टकान् ६४
- प्राक्पङ्क्त्यन्त्याङ्कसंयोगमूर्ध्वाधःस्थितपङ्क्तिषु ।
- शून्यादधो लिखेदेकं तं चाधोऽधः स्वकोष्ठकान् ६५
- कोष्ठसङ्ख्यागुणं न्यस्येत्खण्डमेरुरयं मतः ।
- स्वरान्मूलक्रमस्यान्त्यात्पूर्वं यावतिथः स्वरः ६६
- उद्दिष्टान्त्यस्तावतिथे कोष्ठेऽधो लोष्टकं क्षिपेत् ।
- लोष्टचालनमन्त्यात्स्यात्त्यक्त्वा लब्धं क्रमो भवेत् ६७
- लोष्टाक्रान्ताङ्कसंयोगादुद्दिष्टस्य मितिर्भवेत् ।
- यैरङ्कैर्नष्टसंख्या स्यान्मौलैकाङ्कसमन्वितैः ६८
- तेषु लोष्टं क्षिपेन्मूले लोष्टस्थानमितं भवेत् ।
- नष्टतानस्वरस्थानम् ततो यावतिथे पदे ६९
- अधःक्रमादस्ति लोष्टः स्वरस्तावतिथो भवेत् ।
- क्रमान्तिमस्वरात्पूर्वो लब्धत्यागादि पूर्ववत् ७०
- तानस्वरमितोर्ध्वाधःपङ्क्तिगान्त्याङ्कमिश्रणात् ।
- एकस्वरादितानानां संख्या संजायते क्रमात् ७१
- अथात्र शुद्धतानानां नामानि व्याहरामहे ।
- अग्निष्टोमोऽत्यग्निष्टोमो वाजपेयश्च षोडशी ७२
- पुण्डरीकोऽश्वमेधश्च राजसूयस्ततः परः ।
- इति स्युः षड्जहीनानां सप्त नामान्यनुक्रमात् ७३
- स्विष्टकृद्बहुसौवर्णो गोसवश्च महाव्रतः ।
- विश्वजिद्ब्रह्मयज्ञश्च प्राजापत्यस्तु सप्तमः ७४
- क्रमाद्षभहीनानां तानानामभिधा इमाः ।
- अश्वक्रान्तो रथक्रान्तो विष्णुक्रान्तस्ततः परः ७५
- सूर्यक्रान्तो गजक्रान्तो वलभिन्नागपक्षकः ।
- इति पञ्चमहीनानां संज्ञाः सप्त क्रमान्मताः ७६
- चातुर्मास्योऽथ संस्थाऽऽख्यः शस्त्रश्चोक्थश्चतुर्थकः ।
- सौत्रामणी तथा चित्रा सप्तमस्तूद्भिदाह्वयः ७७
- संज्ञा निषादहीनानां षाडवानामिमाः क्रमात् ।
- सावित्री चार्धसावित्री सर्वतोभद्रसंज्ञकः ७८
- आदित्यानामयनश्च गवामयननामकः ।
- सर्पाणामयनः षष्ठः सप्तमः कौणपायनः ।
- नामानि षड्जहीनानां तानानामिति मेनिरे ७९
- अग्निचिद् द्वादशाहश्चोपांशुः सोमाभिधस्ततः ।
- अश्वप्रतिग्रहो वर्हिरथाभ्युदयसंज्ञकः ८०
- ऋषभेण विहीनानामिति नामानि मन्वते ।
- सर्वस्वदक्षिणो दीक्षा सोमाख्यः समिदाह्वयः ८१
- स्वाहाकारस्तनूनपात्ततो गोदोहनो मतः ।
- इति गान्धारहीनानां क्रमात्संज्ञाः प्रचक्षते ८२
- इडा पुरुषमेधश्च श्येनो वज्र इषुस्ततः ।
- अङ्गिराः कङ्क इत्येताः सपहीनाभिधाः क्रमात् ८३
- ज्योतिष्टोमस्ततो दर्शो नान्द्याख्यः पौर्णमासकः ।
- अश्वप्रतिग्रहो रात्रिः सौभरः सप्तमः स्मृतः ८४
- एता निषादगान्धारहीनानामभिधाः क्रमात् ।
- सौभाग्यकृच्च कारीरी शान्तिकृत्पुष्टिकृत्तथा ८५
- वैनतेयोच्चाटनौ च वशीकरणसंज्ञकः ।
- पञ्चमर्षभहीनानां तानानामभिधा इमाः ८६
- त्रैलोक्यमोहनो वीरः कन्दर्पबलशातनः ८७
- शङ्खचूडो गजच्छायो रौद्राख्यो विष्णुविक्रमः ।
- तानानां रिधहीनानां नामान्येतान्यनुक्रमात् ८८
- भैरवः कामदाख्यश्चावभृथोऽष्टकपालकः ।
- स्विष्टकृच्च वषट्कारो मोक्षदः सप्तमो मतः ८९
- संज्ञा निषादगान्धारहीनानामिति संमताः ।
- यद्यज्ञनामा यस्तानस्तस्य तत्फलमिष्यते ९०
- गान्धर्वे मूर्च्छनास्तानाः श्रेयसे श्रुतिचोदिताः ।
- गाने स्थानस्य लाभेन ते कूटाश्चोपयोगिनः ९१
- साधारणं भवेद् द्वेधा स्वरजातिविशेषणात् ।
- स्वरसाधारणं तत्र चतुर्धा परिकीर्तितम् १
- काकल्यन्तरषड्जैश्च मध्यमेन विशेषणात् ।
- साधारणः काकली हि भवेत्षड्जनिषादयोः २
- साधारण्यमतस्तस्य यत्तत्साधारणं विदुः ।
- अन्तरस्यापि गमयोरेवं साधारणं मतम् ३
- प्रयोज्यौ षड्जमुच्चार्य काकलीधैवतौ क्रमात् ।
- एवम् मध्यममुच्चार्य प्रयुञ्जीतान्तरर्षभौ ४
- षड्जकाकलिनौ यद्वोच्चार्य षड्जं पुनर्व्रजेत् ।
- तत्परान्यतमं चैवं मध्यमं चान्तरस्वरम् ५
- प्रयुज्य मध्यमो ग्राह्यस्तत्परान्यतमोऽथ वा ।
- अल्पप्रयोगः सर्वत्र काकली चान्तरः स्वरः ६
- निषादो यदि षड्जस्य श्रुतिमाद्यां समाश्रयेत् ।
- ऋषभस्त्वन्तिमां प्रोक्तं षड्जसाधारणं तदा ७
- मध्यमस्यापि गपयोरेवं साधारणं मतम् ।
- साधारणं मध्यमस्य मध्यमग्रामगं ध्रुवम् ८
- साधारणे कैशिके ते केशाग्रवदणुत्वतः ।
- ते एव कैश्चदुच्येते ग्रामसाधारणे बुधैः ९
- एकग्रामोद्भवास्वेकांशासु जातिषु यद्भवेत् ।
- समानं गानमार्यास्तज्जातिसाधारणं जगुः १०
- जातिसाधारणं केचिद्रागानेव प्रचक्षते ।
- गानक्रियोच्यते वर्णः स चतुर्धा निरूपितः ।
- स्थाय्यारोह्यवरोही च संचारीत्यथ लक्षणम् १
- स्थित्वा स्थित्वा प्रयोगः स्यादेकस्यैव स्वरस्य यः ।
- स्थायी वर्णः स विज्ञेयः परावन्वर्थनामकौ २
- एतत्संमिश्रणाद्वर्णः संचारी परिकीर्तितः ।
- विशिष्टं वर्णसन्दर्भमलङ्कारं प्रचक्षते ३
- तस्य भेदास्तु बहवस्तत्र स्थायिगतान्ब्रुवे ।
- येषामाद्यन्तयोरेकः स्वरस्ते स्थायिवर्णगाः ४
- प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्तसंज्ञकः ।
- ततः प्रसन्नमध्यः स्यात्पञ्चमः क्रमरेचितः ५
- प्रस्तारोऽथ प्रसादः स्यात्सप्तैते स्थायिनि स्थिताः ।
- मन्द्रः प्रकरणेऽत्रे स्यान्मूर्च्छनाप्रथमः स्वरः ६
- स एव द्विगुणस्तारः पूर्वः पूर्वोऽथ वा भवेत् ।
- मन्द्रः परस्ततस्तारः प्रसन्नो मृदुरित्यपि ७
- मन्द्रस्तारस्तु दीप्तः स्यान्मन्द्रो बिन्दुशिरा भवेत् ।
- ऊर्ध्वरेखाशिरस्तारो लिपौ त्रिर्वचनात्प्लुतः ८
- मन्द्रद्वयात्परे तारे प्रसन्नादिरुदीरितः ।
- सं सं स॑ । १
- तद्वैलोम्य प्रसन्नान्तः
- स॑ सं सं । २
- प्रसन्नद्वयमध्यगे ९
- दीप्ते प्रसन्नाद्यन्तः स्यात्
- सं स॑ सं । ३
- तारयोर्मध्यगे पुनः ।
- मन्द्रे प्रसन्नमध्याख्यमलङ्कारं विदो विदुः १०
- स॑ सं स॑ । ४
- आद्यन्तयोर्मूर्च्छनादिश्चेत्स्वरोऽन्तर्द्वितीयकः ।
- सैका कलाऽथ चेन्मध्ये स्तस्तृतीयचतुर्थकौ ११
- सा द्वितीया पञ्चमाद्यास्त्रयोऽन्तश्चेत्कला परा ।
- एवं कलात्रयेणोक्तोऽलङ्कारः क्रमरेचितः १२
- संरिसं संगमसं संपधनिसं । ५
- दीप्तान्तश्चेत्प्रतिकलं प्रस्तारः सोऽभिधीयते ।
- संरिस॑ संगमस॑ संपधनिस॑ । ६
- तारमन्द्रविपर्यासात्तं प्रसादं प्रचक्षते १३
- स॑रिसं स॑गमसं स॑पधनिसं । ७
- स्यातां विस्तीर्णनिष्कषौ बिन्दुरभ्युच्चयः परः ।
- हसितप्रेङ्खिताक्षिप्तसन्धिप्रच्छादनास्तथा १४
- उद्गीतोद्वाहितौ तद्वत्त्रिवर्णो वेणिरित्यमी ।
- द्वादशारोहिवर्णस्थालङ्काराः परिकीर्तिताः १५
- मूर्च्छनादेः स्वराद्यत्र क्रमेणारोहणं भवेत् ।
- स्थित्वा स्थित्वा स्वरैर्दीर्घैः स विस्तीर्णोऽभिधीयते १६
- सा री गा मा पा धा नी । १
- ह्रस्वैः स्वरैः स निष्कर्षो द्विर्द्विरुक्तैर्निरन्तरैः ।
- सस रिरि गग मम पप धध निनि । २
- त्रिश्चतुर्वा स्वरोच्चारे गात्रवर्णमिमं विदुः १७
- ससस रिरिरि गगग ममम धधध निनिनि ।
- सससस रिरिरिरि गगगग मममम पपपप धधधध निनिनिनि । २
- निष्कर्षस्यैव भेदौ द्वौ केचिदेतौ बभाषिरे ।
- प्लुतं ह्रस्वं प्लुतं ह्रस्वं प्लुतं ह्रस्वं प्लुतं स्वरम् १८
- कुर्वन्क्रमाद्यदारोहेत्तदा विन्दुरर्यं मतः ।
- स३
- रि ग३
- म् प३
- ध नि३
- । ३
- एकान्तरस्वरारोहमाहुरभ्युच्चयं बुधाः १९
- सगपनि । ४
- यत्रैकोत्तरवृद्धाभिरावृत्तिभिरुदीरिताः ।
- आरुह्यन्ते स्वराः प्राह हसितं तं शिवप्रियः २०
- स रिरि गगग मममम पपपपप धधधधधध निनिनिनिनिनिनि । ५
- स्वरद्वयं समुच्चार्य पूर्वं पूर्वयुतं परम् ।
- यदान्दोलितमारोहेत्प्रेङ्खितोऽसौ क्रमोऽथ वा २१
- सरि रिग गम मप पध धनि । ६
- एकान्तरं स्वरयुगं तादृक्पूर्वयुतं परम् ।
- क्रमादारोहति यदा तदाक्षिप्तं प्रचक्षते २२
- सग गप पनि । ७
- त्रिस्वराद्या कलान्ये च पूर्वपूर्वानित्मादिमे ।
- कले स्तस्त्रिस्वरे यत्र सन्धिप्रच्छादनस्तु सः २३
- सरिग गमप पधनि ।
- यदाद्याद्यस्त्रिरावृत्तः कलयोस्त्रिस्वरात्मनोः ।
- तदोद्गीतः
- सससरिग मममपध । ९
- मध्यमेन तादृशोद्वाहितो मतः २४
- सरिरिरिग मपपपध । १०
- अन्त्यस्य तु त्रिरावृत्तौ त्रिवर्णं वर्णयन्त्यमुम् ।
- सरिगगग मपधधध । ११
- त्रयाणां तु त्रिरावृत्तौ पृथग्वेणिरुदीरितः २५
- ससस रिरिरि गगग ममम पपप धधध । १२
- अवरोहक्रमादेते द्वादशाप्यवरोहिणि ।
- मन्द्रादिर्मन्द्रमध्यश्च मन्द्रान्तः स्यादतः परम् २६
- प्रस्तारश्च प्रसादोऽथ व्यावृत्तस्खलितावपि ।
- परिवर्ताक्षेपबिन्दूद्वाहितोर्मिसमास्तथा २७
- प्रेङ्खनिष्कूजितश्येनक्रमोद्घट्टितरञ्जिताः ।
- संनिवृत्तप्रवृत्तोऽथ वेणुश्च ललितस्वरः २८
- हुङ्कारो ह्रादमानश्च ततः स्यादवलोकितः ।
- स्युः सञ्चारिण्यलङ्काराः पञ्चविंशतिरित्यमी २९
- त्रिस्वराऽद्या कलैकैकमन्द्रत्यागेन चापराः ।
- त्रिस्वराश्चेत्कला मन्द्राद्या मन्द्रादिस्तदा भवेत् ३०
- सगरि रिमग गपम मधप पनिध १
- ताः कला मन्द्रमध्यान्ताः क्रमाच्चेदपरौ तदा ।
- मन्द्रमध्यो यथा
- गसरि मरिग पगम धमप निपध । २
- मन्द्रान्तो यथा
- रिगस गमरि मपग पधम धनिप । ३
- त्याक्तान्तरं स्वरयुगं त्याक्तादारभ्यते पुनः ३१
- युगं तादृक्समारोहेत्तया प्रस्तार उच्यते ।
- सग रिम गप मध पनि । ४
- पूर्वः पूर्वः परस्योर्ध्वाधोवर्ती क्रियते स्वरः ३२
- यदा तदा प्रसादं तमाह श्रीकरणेश्वरः ।
- सरिस रिगरि गमग मगम पधप धनिध ।
- चतुःस्वरा कला तत्राद्यात्तृतीयं द्वितीयकात् ३३
- तुर्यं गत्वाऽदिमं गच्छेदेवमेकैकहानतः ।
- चतुःस्वराः परा यत्र स व्यावृत्तः स्मृतो बुधैः ३४
- सगरिमस रिमगपरि मपमधग मधपनिम्
- कलां प्रयुज्य मन्द्रादेर्द्विरुक्तोर्ध्वस्वरान्विताम् ।
- अवरुह्येत चेदेष स्खलिताख्यस्तदा भवेत् ३५
- सगरिममरिगस रिमगपपगमरि गपमधधमपग
- मधपनिनिपधम । ७
- स्वरं द्वितीयमुज्झित्वा त्रिस्वराऽऽद्या कला यदि ।
- त्यक्तादारभ्य तादृश्योऽन्यास्तदा परिवर्तकः ३६
- सगम रिमप गपध मधनि । ८
- त्रिस्वराश्चेत्कलाः पूर्वपूर्वत्यागोर्ध्वसंक्रैः ।
- तदाऽऽक्षेपः
- सरिग रिगम गमप मपद्य पद्यनि ।
- अथ बिन्दुः स यत्र प्लुतमधः स्वरम् ३७
- कृत्वाग्निवत्परं स्पृष्ट्वाधः स्पर्शेनाखिलाः कलाः ।
- स३
- रिस रि३
- गरि ग३
- मग म३
- पम प३
- धप ध३
- निध । १०
- कलायां त्रीन्स्वरान्गीत्वाऽवरुह्यैकं पराः कलाः ३८
- यत्रैकैकोज्झिता गीतास्तद्वदुद्वाहितस्तु सः ।
- सरिगरि रिगमग गमपम मपधप पधनि । ११
- मूर्च्छनादेः स्वरात्तुर्यं प्लुतीकृत्याद्यमेत्य च ३९
- तुर्यगाने कलैकैकहानाद्यत्रापरास्तथा ।
- स ऊर्मिः स्यात्
- सम३
- सम रिप३
- रिप गध३
- गध मनि३
- मनि ।
- स तु समः कला यत्र चतुः स्वराः ४०
- तुल्यारोहावरोहैकैकहानादपरास्तथा ।
- सरिगममगरिस रिगमपपमगरि गमपधधपमग
- मपधनिनिधपम । १३
- कला गतागतवती द्विस्वरैकैकहानतः ४१
- यत्रान्यास्तादृशः स स्यात्प्रेङ्खः
- सरिरिस रिगगरि गममग मपपम पधधप धनिनिध । १४
- निष्कूजितः पुनः ।
- प्रसादस्य कलां गीत्वा तत्कलादेस्तृतीयकम् ४२
- गत्वाद्यगानाद्भवति
- सरिसगस रिगरिमरि गमगपग मपमधम वधपनिप । १५
- श्येनः संवादियुग्मकैः ४३
- क्रमात्सरिगमाद्यैः स्यात्
- सप रिध गनि मस ।
- कला द्वित्रिचतुःस्वराः ।
- आद्यस्वराद्यास्तिस्रः स्युर्द्वितीयाद्यादयस्तथा ४४
- यत्रासौ क्रम इत्युक्तः
- सरिसरिगसरिगम रिगरिगमरिगमप गमगमपगमपध
- मपमपधमपधनि । १७
- स तूद्घट्टित उच्यते ।
- यत्र स्वरद्वयं गीत्वा पञ्चमाच्चुतरः स्वरान् ४५
- अवरोहेत्कला गायेत्तथैकैकोज्झनात्पराः ।
- सरिपमगरि रिगधपमग गमनिधपम । १८
- दिरुक्ता यदि मन्द्रान्ता मन्द्रादेः स्युः कलास्तदा ४६
- रञ्जितः
- सगरिसगरिस रिमगरिमगरि गपमगपमग मधपमधपम
- पनिधपनिधप । १३
- अथ भवेदेष संनिवृत्तप्रवृत्तकः ।
- यत्राद्यपञ्चमौ गीत्वा तुर्यात्त्रीनवरोहति ४७
- क्रमात्कला सा यत्रान्यास्तद्वदेकैकहानतः ।
- सपमगरि रिधपमग गनिधपम । २०
- यत्राद्यः स्याद् द्विर्द्वितीयचतुर्थकतृतीयकाः ४८
- सकृत्कलान्याश्चैकैकहानाद्वेणुरसौ मतः ।
- ससरिमग रिरिगपम गगमधप ममपनिध । २१
- गीत्वाद्यौ द्वौ चतुर्थं च यस्यां ताववरोहति ४९
- सा कलान्याश्च तादृश्यो यत्रासौ ललितस्वरः ।
- सरिमरिस रिगपगरि गमधमग मपनिपम । २२
- आदिमेन कला यत्र द्विस्वराद्या गतागतैः ५०
- स्वरैरेकोत्तरं वृद्धैः स हुङ्कारो निगद्यते ।
- सरिस सरिगरिस सरिगमगरिस सरिगमपमगरिस
- सरिगमपधपमगरिस सरिगमपधनिधपमगरिस २३
- ह्रादमाने प्रसन्नान्ता मन्द्रादेस्तु कला मताः ५१
- सगरिस रिमगरि गपमग मधपम पनिधप २४
- यदारोहेऽवरोहे च स्वद्वितीयं परित्यजेत् ।
- चतुःस्वरा समाला तदा स्यादवलोकितः ५२
- सगममरिस रिमपपगरि गपधधमग मधनिनपम २५
- एवं सञ्चार्यलङ्कारा आरोहेण प्रदर्शिताः ।
- एतानेवावरोहेण प्राह श्रीकरणाग्रणीः ५३
- अन्येऽपि सप्तालंकारा गीतज्ञैरुपदर्शिताः ।
- तारमन्द्रप्रसन्नश्च मन्द्रतारप्रसन्नकः ५४
- आवर्तकः सम्प्रदानो विधूतोऽप्युपलोलकः ।
- उल्लासितश्चेति तेषामधुना लक्ष्म कथ्यते ५५
- कलास्तेषां द्वितीयाद्याः पूर्वैकैकप्रहाणतः ।
- अष्टमस्वरपर्यन्तमारुह्याद्यं व्रजेद्यदि ५६
- तारमन्द्रप्रसन्नोऽयमलङ्कारस्तदोच्यते ।
- संरिगमपधनिस॑सं १
- मन्द्रादष्टममुत्प्लुत्य सप्तकस्यावरोहणे ५७
- मन्द्रतारप्रशन्नाख्यमाह माहेश्वरोत्तमः ।
- संस॑निधपमगरिसं २
- आद्यं द्वितीयमाद्यं च द्विर्द्विर्गीत्वा द्वितीयकम् ५८
- सकृदाद्यं यत्कलायां गायेदावर्तकस्तु सः ।
- ससरिरिससरिस रिरिगगरिरिगरि गगममगगमग
- ममपपममपम पपधधपपधप धधनिनिधधनिध ३
- एतस्यैव कलाऽन्त्यौ द्वौ स्वरौ संत्यज्य गीयते ५९
- यदा तदा सम्प्रदानमलंकारं विदुर्दुधाः ।
- ससरिरिसस रिरिगगरिरि गगममगग ममपपमम पपधधपप
- धधनिनिधध ४
- युग्ममेकान्तरितयोस्त्यक्तादप्येवमेव चेत् ६०
- द्विर्द्विः प्रयुज्येत तदा विधूतो बुधसंमतः ।
- सगसग रिमरिम गपगप मधमध पनिपनि ५
- कलायामाद्ययोर्युग्मं चेत्तृतीयद्वितीययोः ६१
- द्विर्द्विः प्रयुज्यते तज्ज्ञैरुपलोलस्तदोच्यते ।
- सरिसरिगरिगरि रिगरिगमगमग गमगमपमपम
- मपमपधपधप पधपधनिधनिध ६
- द्विर्गीत्वाऽऽद्यं तृतीयं च प्रथमं च तृतीयकम् ६२
- सकृद्गायेद्यत्कलायां तमुल्लासितमूचिरे ।
- ससगसग रिरिमरिम गगपगप ममधमध पपनिपनि ७
- इति प्रसिद्धालङ्कारास्त्रिषष्टिरुदिता मया ६३
- अनन्तत्वात्तु ते शास्त्रे न सामस्त्येन कीर्तिताः ।
- रक्तिलाभः स्वरज्ञानं वर्णाङ्गानां विचित्रता ६४
- इति प्रयोजनान्याहुरलङ्कारनिरूपणे ।
- इति प्रथमे स्वरगताध्याये षष्ठं वर्णालङ्कारप्रकरणम् ६
- अथ सप्तमं जातिप्रकरणम्
- शुद्धाः स्युर्जातयः सप्त ताः षड्जादिस्वराभिधाः ।
- षड्ज्यार्षभी च गान्धारी मध्यमा पञ्चमी तथा १
- धैवती चाथ नैषादी शुद्धतालक्ष्म कथ्यते ।
- यासाम् नामस्वरो न्यासोऽपन्यासोऽशो ग्रहस्तथा २
- तारन्यासविहीनास्ताः पूर्णाः शुद्धाभिधा मताः ।
- विकृता न्यासवर्जैतल्लक्ष्महीना भवन्त्यभूः ३
- सम्पूर्णत्वग्रहांशापन्यासेष्वेकैकवर्जनात् ।
- भवन्ति भेदाश्चत्वारो द्वयोस्त्यागे तु षण्मताः ४
- त्यागे त्रयाणां चत्वार एकस्त्यक्ते चतुष्टये ।
- भेदाः पञ्चदशैवेते षड्ज्याः सद्भिर्निरूपिताः ५
- तत्राष्टौ पूर्णताहीनाः सप्त त्वितरवर्जिताः ।
- द्विधा स्युः पूर्णताहीनाः षडवौडुवभेदतः ६
- अतोऽष्टावधिका आर्षभ्यादिष्वौडुवजातिषु ।
- अतस्त्रयोविंशतिधा षट्सु प्रत्येकमीरिताः ७
- विकृतानां तु संसर्गाज्जाता एकादश स्मृताः ।
- स्यात्षड्जकैशिकी षड्जोदीच्यवाषड्जमध्यमा ८
- गान्धारोदीच्यवा रक्तगान्धारी कैशिकी तथा ।
- मध्यमोदीच्यवा कार्मारवी गान्धारपञ्चमी ९
- तथाऽऽन्ध्री नन्दयन्तीति तद्धेतूनधुना ब्रुवे ।
- षाड्जीगान्धारिकायोगाज्जायते षड्जकैशिकी १०
- षाड्जिकामध्यमाभ्यां तु जायते षड्जमध्यमा ।
- गान्धारीपञ्चमीभ्यां तु जाता गान्धारपञ्चमी ११
- गान्धार्यार्षभिकाभ्यां तु जातिरान्ध्री प्रजायते ।
- षाड्जी गान्धारिका तद्वद्धैवती मिलितास्त्विमाः १२
- षड्जोदीच्यवतीं जातिं कुर्युः कार्मारवीं पुनः ।
- उत्पादयन्ति नैषादीपञ्चम्यार्षभिका युताः १३
- नन्दयन्तीं तु गान्धारीपञ्चम्यार्षभिका युताः ।
- गान्धारी धैवती षड्जी मध्यमेति युतास्त्विमाः १४
- गान्धारोदीच्यवां कुर्युर्मध्यमोदीच्यवां पुनः ।
- एता एव विना षड्ज्या पञ्चम्या सह कुर्वते १५
- कुर्युस्ता रक्तगान्धारॐ नैषादी च न धैवती ।
- आर्षभीं धैवतीं त्यक्त्वा पञ्चभ्यः कैशिकी भवेत् १६
- चतस्रः षड्जशब्दिन्यो नैषादी धैवती तथा ।
- आर्षभो चेति सप्तैताः षड्जग्रामस्य जातयः १७
- शेषाः स्युर्मध्यमग्रामे पूर्णत्वाद्यधुनोच्यते ।
- कार्मारव्यथ गान्धारपञ्चमी षड्जकैशिकी १८
- मध्यमोदीच्यवेत्येता नित्यपूर्णाः प्रकीर्तिताः ।
- षड्जी च नन्दयन्त्यान्ध्री गान्धारोदीच्यवेत्यमूः १९
- सम्पूर्णषाडवाः प्राह चतस्रः काश्यपो मुनिः ।
- दशावशिष्टाः सम्पूर्णषाडवौडुविता मताः २०
- पञ्चमीमध्यमाषड्जमध्यमाख्यासु जातिषु ।
- स्वरसाधारणं प्रोक्तं मुनिभिर्भरतादिभिः २१
- अंशेषु समपेष्वेतद्यथास्वनियमाद्भवेत् ।
- एतदल्पनिगास्वाहुः कम्बलाश्चतरादयः २२
- अल्पद्विश्रुतिके रागभाषादावपि तन्मतम् ।
- निगयोरंशयोः षड्जमध्यमायां न तद्भवेत् २३
- विकृता एव तत्रापि स्वरसाधारणाश्रयाः ।
- एकांशा नन्दयन्ती च मध्यमोदीच्यवा तथा २४
- गान्धारपञ्चमीत्येतास्तिस्रो द्व्यंशास्तु धैवती ।
- गान्धारोदीच्यवा वाथ पञ्चमीत्युदिता इमाः २५
- नैषाद्यार्षभिकाषड्जकैशिक्यस्त्र्यंशिका मताः ।
- आन्ध्रोकार्मारवीषड्जोदीच्यवाश्चतुरंशिकाः २६
- पञ्चांशा रक्तगान्धारी गान्धारी मध्यमा तथा ।
- षाड्जीत्येताश्चतस्रः स्युः षडंशैकैव कैशिकी २७
- सप्तांशा सूरिभिः षड्जमध्यमा परिकीर्तिता ।
- इति त्रिषष्टिरंशाः स्युर्जातिष्वष्टादशस्विमे २८
- ग्रहांशतारमन्द्राश्च न्यासापन्यासकौ तथा ।
- अपि संन्यासविन्यासौ बहुत्वं चाल्पता ततः २९
- एतान्यन्तरमार्गेण सह लक्ष्माणि जातिषु ।
- षाडवोडुविते क्वापीत्येवमाहुस्त्रयोदश ३०
- गीतादिनिहितस्तत्र स्वरो ग्रह इतीरितः ।
- तत्रांशग्रहयोरन्यतरोक्तावुभयग्रहः ३१
- यो रक्तिव्यञ्जको गेये यत्संवाद्यनुवादिनौ ।
- विदार्यां बहुलौ यस्मात्तारमन्द्रव्यवस्थितिः ३२
- यः स्वयं यस्य संवादी चानुवादी स्वरोऽपरः ।
- न्यासापन्यासविन्याससंन्यासग्रहतां गतः ३३
- प्रयोगे बहुलः स स्याद्वाद्यंशो योग्यतावशात् ।
- बहुलत्वं प्रयोगेषु व्यापकं त्वंशलक्षणम् ३४
- मध्यमे सप्तकेंऽशः स्यात्तस्मात्तारस्थितात्परान् ।
- स्वरांश्चतुर आरोहेदेष तारावधिः परः ३५
- अर्वाक्तु कामचारः स्यात्तारे लुप्तोऽपि गण्यते ।
- आतारषड्जमारोहो नन्दयन्त्यां प्रकीर्तितः ३६
- मध्यस्थानस्थितादंशादामन्द्रस्थांशमाव्रजेत् ।
- आमन्द्रन्यासमथवा तदधःस्थरिधावपि ३७
- एषा मन्द्रगतेः सीमा ततोऽर्वाक्कामचारिता ।
- गीते समाप्तिकृन्न्यास एकविंशतिधा च सः ३८
- षाड्ज्यादीनां तु सप्तानां न्यासः स्यान्नामकृत्स्वरः ।
- द्वौ नामकारिणौ षड्जमध्यमायां तु तौ मतौ ३९
- उदीच्यवात्रयं मान्तं निपगान्ता तु कैशिकी ।
- कार्मारवी पञ्चमान्ता गान्ताः पञ्चापराः स्मृताः ४०
- अपन्यासस्वरः स स्याद्यो विदारीसमापकः ।
- कार्मारव्यां च नैषाद्यामान्ध्रीमध्यमयोस्तथा ४१
- आर्षभ्यां च स्वरा येंऽशास्तेऽपन्यासाः प्रकीर्तिताः ।
- उदीच्यवानां त्रितयेऽपन्यासौ षड्जधैवतौ ४२
- मध्यमो रक्तगान्धार्यां गान्धार्यां षड्जपञ्चमौ ।
- सनिपाः षड्जकैशिक्यां पञ्चम्यां निरिपाः स्मृताः ४३
- रिपौ गान्धारपञ्चम्यां षड्ज्यां गान्धारपञ्चमौ ।
- धैवत्यां रिमधाः प्रोक्ता नन्दयन्त्यां मपौ मतौ ४४
- रिवर्ज्याः षट् च कैशिक्यां सप्तापीत्यूचिरे परे ।
- सप्तस्वरापन्यासां तु भाषन्ते षड्जमध्यमाम् ४५
- अत्र येंऽशा अपन्यासास्ते स्युरेकोनविंशतिः ।
- सप्तत्रिंशत्परे ते च षट्पञ्चाशत्तु संयुताः ४६
- कैशिक्यां सप्तपक्षे तान्सप्तपञ्चाशतं विदुः ।
- अंशाविवादी गीतस्याद्यविदारीसमाप्तिकृत् ४७
- संन्यासॐऽशाविवाद्येव विन्यासः स तु कथ्यते ।
- यो विदारीभागरूपपदप्रान्तेऽवतिष्ठते ४८
- अलङ्घनात्तथाऽभ्यासाद्बहुत्वं द्विविधं मतम् ।
- पर्यायांशे स्थितं तच्च वादिसंवादिनोरपि ४९
- अल्पत्वं च द्विधा प्रोक्तमनभ्यासाच्च लङ्खनात् ।
- अनभ्यासस्त्वनंशेषु प्रायो लोप्येष्वपोष्यते ५०
- ईषत्स्पर्शो लङ्घने स्यात्प्रायस्तल्लोप्यगोचरम् ।
- उशन्ति तदनंशेऽपि क्वचिद्गीतविशारदाः ५१
- न्यासादिस्थानमुज्झित्वा मध्ये मध्येऽल्पतायुजाम् ।
- स्वराणां या विचित्रस्वकारिण्यंशादिसंगतिः ५२
- अनभ्यासैः क्वचित्क्वापि लङ्घनैरेव केवलैः ।
- कृता साऽन्तरमार्गः स्यात्प्रायो विकृतजातिषु ५३
- षडवन्ति प्रयोगं ये स्वरास्ते षडवा मताः ।
- षट्स्वरं तेषु जातत्वाद्गीतं षाडवमुच्यते ५४
- वान्ति यान्त्युडवोऽत्रेति व्योमोक्तमुडुवं बुधैः ।
- पञ्चमं तच्च भूतेषु पञ्चसंख्या तदुद्भवा ५५
- औडुवी साऽस्ति येषां च स्वरास्ते त्वौडुवा मताः ।
- ते संजाता यत्र गीते तदौडुवितमुच्यते ५६
- तत्सम्बन्धादौडुवं च पञ्चस्वरमिदं विदुः ।
- क्रमादल्पाल्पतरते षाडवौडुवकारिणोः ५७
- सम्पूर्णत्वदशायां स्तः पञ्चम्यां तु विपर्ययः ।
- वचनं विधिरप्राप्ताविहाल्पत्वबहुत्वयोः ५८
- परिसंख्या द्वयोः प्राप्तावेकस्यातिशयाय यत् ।
- अथ प्रत्येकमेतासां जातीनां लक्ष्म कथ्यते ५९
- षाड्ज्यामंशाः स्वराः पञ्च निषादर्षभवर्जिताः ।
- निलोपात्षाडवं सोऽत्र पूर्णत्वे काकली क्वचित् ६०
- सगयोः सधयोश्चात्र संगतिर्बहुलस्तु गः ।
- गान्धारेंऽशे न नेर्लोपो मूर्च्छना धैवतादिका ६१
- त्रिधा तालः पञ्चपाणिरत्र चैककलादिकः ।
- क्रमान्मार्गाश्चित्रवृत्तिदक्षिणा गीतयः पुनः ६२
- मागधी संभाविता च पृथुलेति क्रमादिमाः ।
- नैष्क्रामिकध्रुवायां च प्रथमे प्रेक्षणे स्मृतः ६३
- विनियोगो द्वादशात्र कला अष्टलघुः कला ।
- अस्यां षाड्ज्यां षड्जो न्यासः । गान्धारपञ्चमावपन्यासौ ।
- वराटी दृश्यते । अस्याः प्रस्तारः
- षाड्जी
- १
- २
- ५
- ६
- ७
- ८
- ९
- १०
- ११
- १२
- तं भवललाटनयनाम्बुजाधिकं नगसूनुप्रणयकेलिसमुद्भवम् ।
- सरसकृततिलकपङ्कानुलेपनं प्रणमामि कामदेहेन्धनानलम् ॥
- आर्षभ्यां तु त्रयॐऽशाः स्युर्निषादर्षभधैवताः ६४
- द्विश्रुत्योः संगतिः शेषैर्लङ्घनं पञ्चमस्य च ।
- षाडवं षड्जलोपेन सपलोपादिहौडुवम् ६५
- मूर्च्छना पञ्चमादिश्च तालश्चच्चत्पुटो मतः ।
- अष्टौ कला भवन्तीह विनियोगस्तु पूर्ववत् ६६
- अस्यामार्षभ्यामृषभो न्यासः । अंशा एवापन्यासाः । देशोमधुकयौ
- दृश्येते । अस्याः प्रस्तारः
- २
- आर्षभी
- री गा सा रिग मा रिम गा रिरि १
- गु ण लो ०
- च ना ०
- धि
- री री निध निध गा रिम मा पनि २
- क म न ०
- न्त म म र
- मा धा नी धा पा पा सा गा ३
- म ज र म ०
- ०
- क्ष य
- नी धनि री गरि सध॑ गरि री री ४
- म जे ०
- ०
- ०
- ०
- यं ०
- री मा गरि सधं सस रि रिग मम ५
- प्र ण ०
- मा ०
- ०
- मि दिव्य
- निध पा री री रिप गरि सधं सा ६
- म णि द ०
- र्प णा ०
- म
- रिस रिस रिग रिग मा मा मा गरि ७
- ल नि के ०
- ०
- ०
- तं ०
- पा नि री मा गरि तधं गरि गरि ८
- भ व म मे ०
- ०
- ०
- यं
- मुणलोचनाधिकमनन्तममरमजरमक्षयमजेयम् ।
- प्रणमामि दिव्यमणिदर्पणामलनिकेतं भवममेयम् ॥
- पञ्चांशा रिधवर्ज्याः स्युर्गान्धार्यां संगतिः पुनः ।
- न्यासांशाम्यां तदन्येषां त्रैदतादृषभं व्रजेत् ६७
- रिलोपरिधलोपाभ्यां षाडवौडुविते क्रमात् ।
- पञ्चमः षाडवद्वेषी निसमध्यमपञ्चमाः ६८
- अंशा द्विषन्त्यौडुवितं कलाः षोडश कीर्तिताः ।
- मूर्च्छना धैवतादिः स्यात्तालश्चच्चत्पुटो मतः ६९
- विनियोगो ध्रुवागाने तृतीयप्रेक्षणे भवेत् ।
- अस्यां गान्धार्यां गान्धारो न्यासः । पड्जपञ्चमावपन्यासौ ।
- गान्धारपञ्चमदेशीवेलावल्यो दृश्यन्ते । अस्याः प्रस्तारः --
- गान्धारी ३
- गा गा सा नीं सा गा गा गा १
- ए ०
- ०
- ०
- तं ०
- ०
- ०
- गा गम पा पा धप मा निध निस॑ २
- र ज नि व धू ०
- मु ख
- निध पनि मा मपरि गा गा गा गा ३
- वि ०
- ०
- भ्र म ०
- दं ०
- गा गम पा पा धप मा निध निस॑ ४
- नि शा म य व रो ०
- रु
- निध पनि मा मपरि मा गा मा सा ५
- त व मु ख वि ला ०
- स
- गा सा गा गा गा गम गा गा ६
- व पु श्चा रु ०
- म म ल
- गा गम पा पा धप मा निध निस॑ ७
- मृ दु कि र ण ०
- ०
- ०
- निध पनि मा मपरि गा गा गा गा ८
- म मृ त भ वं ०
- ०
- ०
- री गा मा पध री गा सा सा ९
- र ज त गि रि शि ख र
- नीं नीं नीं नीं नीं नीं नीं नीं १०
- म णि श क ल शं ०
- ख
- गा गम पा पा धप मा निध निस॑ ११
- व र यु व ति दं ०
- त
- निध पनि मा मपरि गा गा गा गा १२
- पं ०
- क्ति नि भं ०
- ०
- ०
- नी नी पा नो गा मा गा सा
- प्र ण मा ०
- मि प्र ण य
- गा सा गा गा गा गम गा गा १४
- र ति क ल ह र व नु
- गा पा मा मा निध निस॑ निध पनि
- दं ०
- ०
- ०
- ०
- ०
- ०
- ०
- मा परिग गा गा गा गा गा गा
- श शि ०
- ०
- नं ०
- ०
- ०
- एतं रजनिवधूमुखविभ्रमदं निशामय वरोरु
- भवमुस्रविलासवपुश्चारुममलमृदुकिरणममृतभवम् ।
- रजतगिरिशिखरमणिशकलशङ्खवरयुवतिदन्तपङ्क्तिनिभं
- प्रणमामि प्रणयरतिकलहरवनुदं शशिनम् ॥
- पञ्चांशा मध्यमायां स्युरगान्धारनिषादकाः ७०
- षड्जमध्यमबाहुल्यं गान्धारोऽल्पोऽत्र षाडवम् ।
- गलोपान्निगलोपेन त्वौडुवं स्यात्कलाष्टकम् ७१
- ऋषभादिर्मूर्च्छना स्यात्तालश्चच्चत्पुटो मतः ।
- विनियोगो ध्रुवागाने द्वितीयप्रेक्षणे भवेत् ७२
- अस्यां मध्यमायां मध्यमो न्यासः । अंशा एवापन्यासाः ।
- चोक्षषाडवदेश्यान्धाल्यो दृश्यन्ते । अस्याः प्रस्तारः--
- मध्यमा ४
- मा मा मा मा पा धनि नी धप १
- पा ०
- ०
- तु भ व मू ०
- मा पम मा सा मा गा री री २
- र्ध जा ०
- ०
- न न ०
- ०
- पा मा रिम गम मा मा मा मा ३
- कि री ट ०
- ०
- ०
- ०
- ०
- मा॑ निष निस॑ निध पम पघ मा मा
- म णि द ०
- र्प ०
- णं ०
- नीं नीं री री नीं री री पा
- गौ ं! री ०
- क र प ०
- नीं मप मा मा सा सा सा सा ६
- ल्ल वां ०
- ०
- गु लि ०
- सु
- ग॑ नी सा॑ गा॑ धप मा धनि सा॑ ७
- ते ०
- ०
- ०
- ०
- ०
- जि तं
- पा सा॑ पा निधप मा मा मा मा
- सु कि र ०
- णं ०
- ०
- ०
- पातु भवमूर्धजाननकिरीटमणिदर्पणम् ।
- गौरीकरपल्लवाङ्गुलिसुतेजितं सुकिरनम् ४
- रिपावंशौ तु पञ्चम्यां सगमाः स्वल्पका मताः ।
- रिमयोः संगतिर्गच्छेत्पूर्णत्वे गान्निषादकम् ७३
- क्रमाद्गेन निगाभ्यां च षाडवौडुवता मता ।
- ऋषभॐऽशस्त्वौडुवितं द्वेष्ट्यष्टौ च कला मताः ७४
- मुर्च्छनादि तु पूर्वावत्प्रेक्षणं तु तृतीयकम् ।
- अस्यां पञ्चम्यां पञ्चमो न्यासः । ऋषभपञ्चममिषादा
- अपन्पासाः । चोक्षपञ्चमदेश्यान्षाल्यो दृश्यन्ते । अस्याः प्रस्तारः--
- पञ्चमी ५
- पा धनि नी नी मा नी मा पा १
- ह रं मू ०
- र्घ जा ०
- न
- गा गा सा सा मां मां पां पां २
- नं म हे ०
- श म म र
- पां पां धां नीं नीं नी गा सा ३
- प ति बा ०
- हु स्तं ०
- भ
- पा मा धा नी निध पा पा पा ४
- न म नं ०
- तं ०
- ०
- ०
- पा पा री॑ री॑ री॑ री॑ री॑ री॑ ५
- प्र ण मा ०
- मि पु रु ष
- मां निंग सा सध नी नीं नी नी ६
- मु ख प द्म ०
- ल ०
- क्ष्मी
- सा॑ सा॑ सा॑ मा पा पा पा पा
- ह र मं ०
- बि का ०
- प
- धा मा धा नी पा पा पा पा
- ति म जे ०
- यं ०
- ०
- ०
- हरं मूर्धजाननं महेशममरपतिबाहुस्तम्भनमनन्तम् ।
- तं प्रणमामि पुरुषमुखपद्मलक्ष्मीहरमम्बिकापतिमजेमम् ॥
- स्तो धैवत्यां रिधावंशौ लङ्घ्यावारोहिणौ सपौ ७५
- पलोपात्षाडवं प्रोक्तमौडुवं सपलोपतः ।
- ऋषभादिर्मूर्च्छना स्यात्तालो मार्गश्च गीतयः ७६
- विनियोगश्च षाड्जीवत्कला द्वादश कीर्तिताः ।
- अस्यां धैवत्यां धैवतो न्यासः । ऋषभमध्यमधैवता अपन्यासाः ।
- चोक्षकैशिकदेशीसिंहल्यो दृश्यन्ते । अस्याः प्रस्तारः--
- धैवती ६
- धा धा निध पध मा मा मा मा
- त रु णा ०
- म लें ०
- दु
- धा धा निध निस॑ सा॑ सा॑ सा॑ सा॑ २
- म णि भू ०
- षि ता ०
- म
- सध धा पा मध धा निध धनि धा ३
- ल शि रो ०
- ०
- ०
- जं ०
- सा सा रिग रिग सा रिग सा सा ४
- भु ज गा ०
- धि पै ०
- क
- धां धां नीं पां धां पां मां मां ५
- कुं ०
- ड ल वि ला ०
- स
- घां धां पां मंधं धां निंधं धंनिं धां
- कृ त शो ०
- ०
- ०
- भं ०
- धा धा निस॑ निस॑ निध पा पा पा
- न ग सू ०
- नु ल ०
- क्ष्मी
- रिग सा सा सा नीं नीं नीं नीं ८
- दे हा ०
- ०
- र्ध मि ०
- श्रि
- सा रिग रिग सा नीं सा धां धां ९
- त श री ०
- ०
- ०
- रं ०
- रीं गंरिं मंगं मां मां मां मां मां १०
- प्र ण मा ०
- मि भू ०
- त
- नी नी धा धा पा रिग सा रिग ११
- गी ०
- तो ०
- प हा ०
- र
- पा धा सा मा धा नी धा धा १२
- प रि तु ०
- ०
- ०
- ष्टं ०
- तरुणामलेन्दुमणिभूषितामलशिरोजं
- भुजगाधिपैककुण्डलविलासकृतशोभम् ।
- नगसूनुलक्ष्मीदेहार्धमिश्रितशरीरं
- प्रणमामि भूतगीतोपहारपरितुष्टम् ॥
- नैषाद्यां निरिगा अंशा अनंशाबहुलाः स्मृताः ७७
- षाडवौडुवलङ्घ्याः स्युः पूर्वावद्विनियोजनम् ।
- चच्चत्पुटः षोडशात्र कला गादिश्च मूर्च्छना ७८
- अस्यां नैषाद्यां निषादो न्यासः । अंशा एवापन्यासाः । चोक्ष-
- साधारितदेशीवेलावल्यो दृश्यन्ते । अस्याः प्रस्तारः--
- नैषादी ७
- नी नी नी नी सा॑ धा नी नी १
- तं ०
- सु र वं ०
- दि त
- पा मा सा धां नीं नीं नीं नीं २
- म हि ष म हा ०
- सु र
- सा सा गा गा नी नी धा नी
- म थ न मु मा ०
- प तिं
- सा॑ सा॑ धा नी नी नी नी नी
- भो ०
- ग यु तं ०
- ०
- ०
- सा सा गा गा मां मां मां मां ५
- न ग सु त का ०
- मि नी
- नीं पां धां पां मां मां मां मां ६
- दि ०
- व्य वि शे ०
- ष क
- री॑ गा॑ सा॑ सा॑ री॑ गा॑ नी नी ७
- सू ०
- च क शु भ न ख
- नी नी पा धनि नी नी नी नी
- द ०
- र्प ण कं ०
- ०
- ०
- सा सा गा सा मा मा मा मा ९
- अ हि मु ख म णि ख चि
- मां मां मां मां नीं धां मां मां १०
- तो ०
- ज्ज्व ल नू ०
- पु र
- धा धा नी नी री गा मां मां ११
- बा ल ०
- भु जं ग ०
- म
- मां मां पां धां नीं नीं नीं नीं १२
- र व क लि तं
- पां पां नीं नीं री री री री १३
- द्रु त म भि व्र जा ०
- मि
- री मा मा मा री गा सा सा १४
- श र ण म निं ०
- दि त
- धा मा री गा सा धा नी नी १५
- पा ०
- द यु ग पं ०
- क
- पा॑ मा॑ री॑ गा॑ नी नी नी नी
- ज वि ला ०
- सं ०
- ०
- ०
- तं सुरवन्दितमहिषमहासुरमथनमुमापतिं भोगयुतं
- नगसुतकामिनीदिव्यविशेषकसूचकशुभनखदर्पणकम् ।
- अहिमुखमणिखचितोज्ज्वलनूपुरबालभुजंगमरवकलितं
- द्रुतमभिव्रजामि शरणमनिन्दितपादयुगपङ्कजविलासम् ७
- अंशाः स्युः षड्जकैशिक्यां षड्जगान्धारपञ्चमाः ।
- ऋषभे मध्यमेऽल्पत्वं धनिषादौ मनाग्बहू ७९
- चच्चत्पुटः षोडशास्यां कलाः स्युर्विनियोजनम् ।
- प्रावेशिक्यां ध्रुवायां स्यात्प्रेक्षणे तु द्वितीयके ८०
- अस्यां षड्जकैशिक्यां गान्धारो न्यासः । षड्जनिषादपञ्चमा
- अपन्यासाः । प्रागुक्ता गान्धारपञ्चमहिन्दोलकदेशीवेलावल्यो दृश्यन्ते ।
- अस्याः प्रस्तारः --
- षड्जकैशिकी
- सा सा मां पां गरि मग मा मा १
- दे ०
- ०
- ०
- ०
- ०
- ०
- ०
- मा मा मा मा सां सां सां सां २
- वं ०
- ०
- ०
- ०
- ०
- ०
- ०
- धा धा पा पा धा धा री रिम
- अ स क ल श शि ति ल
- री री नीं नीं नीं नीं नीं नीं ४
- कं ०
- ०
- ०
- ०
- ०
- ०
- ०
- धा धा पा धनि मा मा पा पा ५
- द्वि र द ग तिं ०
- ०
- ०
- धा धा पा धनि धा धा पा पा ६
- नि पु ण प्र तिं ०
- ०
- ०
- सा सा सा सा सा सा सा सा ७
- मु ०
- ग्ध ०
- मु खां ०
- बु
- धा धा पा धा धनि धा धा धा ८
- रु ह दि ०
- व्य कां ०
- तिं
- सा सा सा रिग सा रिग धा धा ९
- ह र मं ०
- बु दो ०
- द
- मा धा पा पा धा धा नी नी १०
- धि नि ना ०
- दं ०
- ०
- ०
- री री गा सा सां सां सां गां ११
- अ च ल व र सू ०
- नु
- धां रिंसं रीं संरिं रीं सां सां सां १२
- दे ०
- हा ०
- र्ध मि ०
- श्रि
- सा सरि री सरि री सा सा सा १३
- त श री ०
- रं ०
- ०
- ०
- मा मा मा मा निध पध मा मा १४
- प्र ण मा ०
- मि तम हं ०
- नी नी पा पम पा पम पध रिग १५
- अ नु प म मु ख क म
- गा गा गा गा गा गा गा गा १६
- लं ०
- ०
- ०
- ०
- ०
- ०
- ०
- देवमसकलशशितिलकं द्विरदगतिं
- निपुणमतिं मुग्धमुखाम्बुरुहदिव्यकान्तिम् ।
- हरमम्बुदोदधिनिनादमचलवरसूनुदेहार्धमिश्रितशरीरं
- प्रणमामि तमहमनुपममुखकमलम् ॥
- अंशाः समनिधाः षड्जोदीच्यवायां प्रकीर्तिताः ।
- मिथश्च संगतास्ते स्युर्मन्द्रगान्धारभूरिता ८१
- षड्जर्षभौ भूरितारौ रिलोपात्षाडवं मतम् ।
- औडुवं रिपलोपेन धैवतेंऽशे न षाडवम् ८२
- षाड्जीवद्गीतितालादि गान्धारादिश्च मूर्च्छना ।
- द्वितीये प्रेक्षणे गाने ध्रुवायां विनियोजनम् ८३
- अस्यां षड्जोदीच्यवायां मध्यमो न्यासः । षड्जधैवतावपन्यासौ ।
- अस्याः प्रस्तारः--
- षड्जोदीच्यवा ९
- सा सा सा सा मां मां गां गां १
- शै ०
- ०
- ०
- ले ०
- ०
- ०
- गा मा पा मा गा मा मा धा २
- श ०
- सू ०
- ०
- ०
- ०
- नु
- सा सा मा गा पा पा नी धा ३
- शै ०
- ले ०
- श सू ०
- नु
- धा नी सा सा धा नी पा मा ४
- प्र ण य ०
- प्र सं ०
- ग
- गां सा सा सा सा सा सा गां ५
- स वि ला ०
- स खे ०
- ल
- धा धा पा धा पा नी धा धा ६
- न वि नो ०
- ०
- ०
- दं ०
- सा गां गां गां गां गां सा सा ७
- अ ०
- धि ०
- क ०
- ०
- ०
- नी धा पा धा पा धा धा धा ८
- मु ०
- र्खे ०
- ०
- ०
- ०
- दु
- सा॑ सा॑ मा गा पा पा नी धा ९
- अ धि क ०
- मु र्खे ०
- दु
- धा नी सा॑ सा॑ धा नी पा मा १०
- न य नं ०
- न मा ०
- मि
- गां सा सा सा सा सा सा गां ११
- दे ०
- वा ०
- सु रे ०
- श
- धा धा पा धा मा॑ मा॑ मा॑ मा॑ १२
- त व रु चि रं
- शैलेऽक्षराभ्यां प्रथमा द्वितीया तु शसूनुना ।
- तैः पञ्चभिस्तृतीया स्यात्सप्तमी त्वधिकाक्षरैः ८४
- मुखेन्दुनाऽष्टमी त्वस्यां षड्भिस्तैर्नवमी कला ।
- शैलेशसूनुप्रणयप्रसङ्गसविलासखेलनविनोदम् ।
- अधिकमुखेन्दुनयनं नमामि देवासुरेश तव रुचिरम् ॥
- अंशाः सप्त स्वराः षड्जमध्यमायां मिथश्च ते ८५
- संगच्छन्ते निरल्पॐऽशाद्गादृते वादितां विना ।
- निलोपनिगलोपाभ्यां षाडवौडुविते मते ८६
- षाडवौडुवयोः स्यातां दिश्रुती तु विरोधिनौ ।
- गीतितालकलाऽऽदीनि षाड्जीवन्मूर्च्छना पुनः ८७
- मध्यमादिरिह ज्ञेया पूर्वावद्विनियोजनम् ।
- अस्यां षड्जमध्यमायां षड्जमध्यमौ न्यासौ । सप्त स्वरा
- अपन्यासाः । अस्याः प्रस्तारः--
- षड्जमघ्यमा १०
- मा गा सग पा धप मा निध निम १
- र ज नि व धू ०
- मु ख
- मा॑ मा॑ सा॑ रिंग॑ म॑ग॑ निध पध पा
- वि ला ०
- स लो ०
- ०
- च
- मा गा री गा मा मा सा सा ३
- नं ०
- ०
- ०
- ०
- ०
- ०
- ०
- मा मगम मा मा निध पध पम गमम ४
- प्र वि क सि त कु मु द
- धा पध परि रिग मग रिग सधस सा ५
- द ल फे न सं ०
- ०
- नि
- निध सा री मगम मा मा मा मा ६
- भं ०
- ०
- ०
- ०
- ०
- ०
- ०
- मां मां मंगंमं मंधं धंपं पंधं पंमं गंमंगं ७
- का ०
- मि ज न न य न
- धा पध परि रिग मग रिग सधस ता ८
- हृ द या भि नं ०
- ०
- दि
- मा मा धनि धस धप मप पा पा ९
- नं ०
- ०
- ०
- ०
- ०
- ०
- ०
- मां मंगंमं मां निंधं पंधं पंमंगं गां मां १०
- प्र ण मा ०
- मि दे वं ०
- धा पध परि रिग मग रिग सधस सा ११
- कु मु दा धि वा ०
- ०
- सि
- निध सा री मगम मा मा मा मा १२
- नं ०
- ०
- ०
- ०
- ०
- ०
- ०
- रजनिवधूमुखविलासलोचनं
- प्रविकसितकुमुददलफेनसंनिभम् ।
- कामिजननयनहृदयाभिनन्दिनं
- प्रणमामि देवं कुमुदाधिवासिनम् ॥
- गान्धारोदीच्यवायां तु द्वावंशौ षड्जमध्यमौ ८८
- रिलोपात्षाडवं ज्ञेयं पूर्णत्वेंऽशेतराल्पता ।
- अल्पा निधपगान्धाराः षाडवत्वे प्रकीर्तिताः ८९
- रिधयोः संगतिर्ज्ञेया धैवतादिश्च मूर्च्छना ।
- तालश्चच्चत्पुटो ज्ञेयः कलाः षोडश कीर्तिताः ९०
- विनियोगो ध्रुवागाने चतुर्थप्रेक्षणे मतः ।
- अस्यां गान्धारोदीच्यवायां मध्यमो न्यासः । षड्जधैवताव-
- पन्यासौ । अस्याः प्रस्तारः--
- गान्धारोदीच्यवा ११
- सा सा पा मा पा धप पा मा १
- सौ ०
- ०
- ०
- ०
- ०
- ०
- ०
- धा पा मा मा सा सा सा सा २
- भ्य
- धा नी सा सा मा मा पा पा ३
- गौ ०
- री ०
- मु खां ०
- बु
- नी नी नी नी नी नी नी नी ४
- रु ह दि ०
- व्य ति ल क
- मा मा धा निस नी नी नी नी ५
- प रि चुं ०
- बि ता ०
- र्चि
- मा पा मा परिग गा गा सा सा ६
- त सु पा ०
- दं ०
- ०
- ०
- गा भग पा पध मा धनि पा पा ७
- प्र वि क सि त हे ०
- म
- री गा सा सध नी नी धा धा ८
- क म ल नि भं ०
- ०
- ०
- गा रिग सा सनि गा रिग सा सा ९
- अ ति रु चि र कां ०
- ति
- सा सा सा मा मनि धनि नी नी १०
- न ख द ०
- र्प णा ०
- म
- मा॑ पा॑ मा॑ प॑रि॑ग॑ गा॑ गा॑ सा॑ सा॑ ११
- ल नि के ०
- तं ०
- ०
- ०
- गा॑ सा॑ गा॑ सा॑ मा॑ पा॑ मा॑ प॑रि॑ग॑ १२
- भ न सि ज श री र
- गा॑ मा॑ गा॑ सा॑ गा॑ गा॑ गा॑ सा॑ १३
- ता ०
- ०
- ड नं ०
- ०
- ०
- नी॑ नी॑ पा॑ धा॑ नी॑ गा॑ गा॑ गा॑ १४
- प्र ण मा ०
- मि गौ ०
- री
- नी॑ नी॑ धा॑ पा॑ धा॑ पा॑ मा॑ पा॑ १५
- च र ण यु ग म नु प
- धा॑ पा॑ सा॑ सा॑ मा॑ मा॑ मा॑ मा॑ १६
- मं ०
- ०
- ०
- ०
- ०
- ०
- ०
- सौम्यगौरीमुखाम्बुरुहदिव्यतिलकपरिचुम्बितार्चितसुपादं
- प्रविकसितहेमकमलनिभम् ।
- अतिरुचिरकान्तिनखदर्पणामलनिकेतं
- मनसिजशरीरताडनं प्रणमामि गौरीचरणयुगमनुपमम् ॥
- अंशाः स्यू रक्तगान्धार्यां पञ्च धर्षभवर्जिताः ९१
- रिमतिक्रम्य सगयोः कार्ये संनिधिमेलने ।
- रिलोपरिधलोपाभ्यां षाडवौडुवमिष्यते ९२
- बहुत्वं निधयोरंशः पञ्चमो द्वेष्टि षाडवम् ।
- द्विषन्त्यौडुवितं षड्जनिमपाः संगतौ सगौ ९३
- पञ्चपाण्यादि षाड्जीवदृषभादिस्तु मूर्च्छना ।
- तृतीयप्रेक्षणगतध्रुवायां विनियोजनम् ९४
- अस्यां रक्तगान्धार्यां गान्धारो न्यासः । मध्यमोऽपन्यासः । अस्याः
- प्रस्तारः
- रक्तगान्धारी १२
- पा नी सा सा गा सा पा नी १
- तं ०
- बा ०
- ल र ज नि
- सा॑ सा॑ पा पा मा मा गा गा २
- क र ति ल क भू ०
- ष
- मा पा धा पा मा पा धप मग
- ण वि भू ०
- ०
- ०
- ०
- ०
- मा मा मा मा मा मा मा मा
- तिं ०
- ०
- ०
- ०
- ०
- ०
- ०
- धां नीं पां मंपं धां नीं पां पां ५
- ०
- मां पां मां धंनिं पां पां पां पां ६
- ०
- री गा मा पा पा पा मा पा
- प्र ण मा ०
- मि गौ ०
- री
- री गा॑ मा॑ पा॑ पा॑ पा॑ मा॑ पा॑ ८
- व द ना ०
- र विं ०
- ०
- पा पा पा पा शा पा पा पा ९
- द
- री गा सा सा री गा गा गा १०
- प्री ०
- ति क रं ०
- ०
- ०
- गा॑ गा पा॑ ध॑म॑ धा॑ नि॑ध॑ पा॑ पा॑ ११
- ०
- मा॑ पा॑ मा॑ प॑रि॑ग॑ गा॑ ग॑ गा॑ गा॑ १२
- ०
- तं बालरजनिकरतिलकभूषणविभूतिम् ।
- प्रणमामि गौरीवदनारविन्दप्रीतिकरम् ॥
- कैशिक्यामृषभान्येंऽशा निधावंशौ यदा तदा ।
- न्यासः पञ्चम एव स्यादन्यदा द्विश्रुती मतौ ९५
- अन्ये तु निगपान्न्यासान्निधयोरंशयोर्विदुः ।
- रिलोपरिधलोपेन षाडवौडुवितं मतम् ९६
- रिरल्पो निपबाहुल्यमंशानां संगतिर्मिथः ।
- षाडवौडुविते द्विष्टः क्रमात्पञ्चमधैवतौ ९७
- षाड्जीवत्पञ्चपाण्यादि गान्धारादिस्तु मुर्च्छना ।
- पञ्चमप्रेक्षणगतध्रुवायां विनियोजनम् ९८
- अस्यां कैशिक्यां गान्धारपञ्चमनिषादा न्यासाः । रिवर्ज्याः षट्
- सप्त वा स्वरा अपन्यासाः । अस्याः प्रस्तारः--
- कैशिकी १३
- पा धनि पा धनि गा गा गा गा १
- के ०
- ली ०
- ह ०
- त ०
- पा पा मा निध निध पा पा पा २
- का ०
- म त नु ०
- ०
- ०
- धा नी सा॑ सा री री री री ३
- वि ०
- भ्र म वि ला ०
- सं
- सा सा सा री गा मा मा मा ४
- ति ल क यु तं ०
- ०
- ०
- मां धां नीं धां मां धां मां पां ५
- मू ०
- र्धो ०
- र्ध्व वा ०
- ल
- गा री सा धनि री री री री ६
- सो ०
- म नि भं ०
- ०
- ०
- गा री सा सा धा धा मा मा ७
- मु ख क म लं ०
- ०
- ०
- गा गा गा मा मा निधनि नी नी ८
- अ स म ०
- हा ०
- ट ०
- गा गा नी नी गा गा गा गा ९
- क स रो ०
- जं ०
- ०
- ०
- गा॑ गा॑ नी॑ नी॑ नी॑ध॑ पा॑ पा॑ पा॑ १०
- हृ दि सु ख दं ०
- ०
- ०
- मा॑ पा॑ मा॑ पा॑ पा॑ पा॑ मा॑ मा॑ ११
- प्र ण मा ०
- मि लो च ०
- सा॑ मा॑ गा॑ नि॑ध॑नि॑ नी॑ नी॑ मा॑ गा॑ १२
- न वि शे ०
- षं ०
- ०
- ०
- केलीहतकामतनुविभ्रमविलासं तिलकयुतं मूर्धोर्ध्वबालसोमनिभम् ।
- मुखकमलमसमहाटकसरोजं हृदि सुखदं प्रणमामि लोचनविशेषम् ॥
- पञ्चमांशा सदा पूर्णा मध्यमोदीच्यवा मता ।
- लक्ष्म शेषं विजानीयाद् गान्धारोदीच्यवागतम् ९९
- मूर्च्छना मध्यमादिः स्यात्तालश्चच्चत्पुटो मतः ।
- चतुर्थस्य प्रेक्षणस्य ध्रुवायां विनियोजनम् १००
- अस्यां मध्यमोदीच्यवायां मध्यमो न्यासः । अस्याः प्रस्तारः --
- मध्यमोदीच्यवा १४
- पा धनि नी नी मा पा नी पा १
- दे ०
- हा ०
- र्ध रू ०
- प
- री री री गा सा रिग गा गा २
- म ति कां ०
- ति म म ल
- नी नी नी नी नी नी नी नी ३
- म म लें ०
- दु कं ०
- द
- नी नी घप मा निध निध पा पा ४
- कु मु द नि भं ०
- ०
- ०
- पा पा री री री री री री ५
- चा ०
- मी ०
- क रां ०
- बु
- मा रिग सा सधं नीं नीं नीं नीं ६
- रु ह दि ०
- ०
- व्य कां ति
- मा पा नी सा पा पा गा गा ७
- प्र व र ग ण पू ०
- जि
- गा पां मां निंधं नीं नीं सा सा ८
- त म जे ०
- यं ०
- ०
- ०
- पां पां मां धंनिं पां पां पां पां
- सु रा भि ष्टु त म नि ल
- मां पां मां रिग गा गा गा गा १०
- म नो ज ०
- व ०
- मं बु
- गा पा मा पा नी नी नी नी ११
- दो ०
- द धि नि ना ०
- द
- मा पा मा परिग गा गा गा गा १२
- म ति हा ०
- सं ०
- ०
- ०
- गा गा॑ गा॑ गा॑ मा॑ नि॑ध॑ नी॑ नी॑
- शि वं शां ०
- त म सु र
- नी नी धप मा निध निध पा पा १४
- च मू म थ नं ०
- ०
- ०
- री गा॑ सा॑ सा॑ मा॑ नि॑ध॑नि॑ नी॑ नी॑
- वं ०
- दे ०
- त्रै लो क्य ०
- नी॑ नी॑ धा॑ पा धा॑ पा॑ मा॑ मा॑ १६
- न त च र णं ०
- ०
- ०
- देहार्धरूपमतिकान्तिममलममलेन्दुकुन्दकुमुदनिभं
- चामीकराम्बुरुहदिव्यकान्तिप्रवरगणपूजितमजेयम् ।
- सुराभिष्टुतमनिलमनोजवमम्बुदोदधिनिनादमतिहासं
- शिवं शान्तमसुरचमूमथनं वन्दे त्रैलोक्यनतचरणम् ॥
- कार्मारव्यां भवन्त्यंशा निषादरिपधैवताः ।
- बहवोऽन्तरमार्गत्वादनंशाः परिकीर्तिताः १०१
- गान्धारोऽत्यन्तबहुलः सर्वांशस्वरसंगतिः ।
- चच्चत्पुटः षोडशात्र कलाः षड्जादिमूर्च्छना १०२
- पञ्चमस्य प्रेक्षणस्य ध्रुवायां विनियोजनम् ।
- अस्यां कार्मारव्यां पञ्चमो न्यासः । अंशा एवापन्यासाः । अस्याः
- प्रस्तारः--
- कार्मारवी १५
- री री री री री री री री १
- तं ०
- स्था ०
- णु ल लि त
- मा गा सा गा सा नी नी नी २
- वा ०
- मां ०
- ग स ०
- क्त
- नीं मां नीं मां पां पां गा गा ३
- म ति ते ०
- जः प्र स र
- गा पा मा पा नी नी नी नी ४
- सौ ०
- धां ०
- शु कां ०
- ति
- री॑ गा॑ सा॑ नी॑ री॑ गा॑ री॑ मा॑
- फ णि प ति मु खं ०
- ०
- री गा री सा नी धनि पा पा ६
- उ रो वि पु ल सा ०
- ग
- मा॑ पा मा॑ त॑रि॑ग॑ गा गा गा गा ७
- र नि के ०
- तं ०
- ०
- ०
- री री गा सम मा मा पा पा ८
- सि त पं ०
- न गें ०
- द्र
- मा पा मा परिग ग गा गा गा ९
- म ति कां ०
- तं ०
- ०
- ०
- धा नी पा मा धा नी सा सा १०
- ष ०
- ण्मु ख वि नो ०
- द
- मी नी नी नी नी नी नी नी ११
- क र प ०
- ल्ल वां ०
- गु
- मां मां धां नीं सनिनि धा पा पा
- लि वि ला ०
- स की ०
- न
- मा पा मा परिग गा गा गा गा १३
- न वि नो ०
- दं ०
- ०
- ०
- नी नी पा धनि गा गा गा गा १४
- प्र ण मा ०
- मि दे ०
- व
- सा॑ री॑ गा॑ सा॑ नी॑ नी॑ नी॑ नी॑ १५
- य ०
- ज्ञो ०
- प वी ०
- त
- नी॑ नी॑ धा॑ धा॑ पा॑ पा॑ पा॑ पा॑ १५
- कं ०
- ०
- ०
- ०
- ०
- ०
- ०
- तं स्थाणुललितवामाङ्गसक्तमतितेजः-प्रसरसौधांशुकान्ति-फणिपति-
- मुखमुरोविपुलसागरनिकेतं सितपन्नगेन्द्रमतिकान्तम् ।
- षण्मुखविनोदकरपल्लवाङ्गुलिविलासकीलनविनोदं
- प्रणमामि देवयज्ञोपवीतकम् ॥
- अंशो गान्धारपञ्चम्यां पञ्चमः संगतिः पुनः १०३
- कर्तव्याऽत्रापि गान्धारीपञ्चम्योरिव भूरिभिः ।
- चच्चत्पुटः षोडशात्र कला गादिश्च मूर्च्छना १०४
- तुर्यप्रेक्षणसम्बन्धिध्रुवागाने नियोजनम् ।
- अस्यां गान्धारपञ्चम्यां गान्धारो न्यासः । ऋषभपञ्चमावपन्यासौ ।
- अस्याः प्रस्तारः--
- गान्धारपञ्चमी १६
- पा मप मध नी धप मा धा नी १
- कां ०
- ०
- ०
- ०
- ०
- ०
- ०
- सनिनि धा पा पा पा पा पा पा २
- ०
- ०
- तं ०
- ०
- ०
- ०
- ०
- धा नी सा सा मा मा पा पा ३
- वा ०
- मै ०
- क दे ०
- श
- नी नी नी नी नी नी नी नी ४
- प्रें ०
- खो ०
- ल मा ०
- न
- नी नी धप मा निध निध पा पा ५
- क म ल नि भं ०
- ०
- ०
- पा पा री री री री री री ६
- व र सु र भि कु सु म
- मा रिग सा सध नी नी नी नी ७
- गं ०
- धा ०
- धि वा ०
- सि
- नी नी सा॑ रि॑स॑ री॑ री। री॑ री॑ ८
- त म नो ०
- ज्ञ ०
- ०
- ०
- नी गा सा निग सा नीं नीं नीं ९
- न ग रा ०
- ज सू ०
- नु
- नीं मां नीं मां पां पां गा गा १०
- र ति रा ०
- ग र भ स
- गा पां मां पां नीं नीं नीं नीं ११
- के ०
- ली ०
- कु च ०
- ग्र
- मा पा मा परिग गा गा गा गा १२
- ह ली लं ०
- तं ०
- ०
- ०
- नीं नीं पां धां नीं गा गा गा १३
- प्र ण मा ०
- मि दे ०
- वं
- नीं नीं नीं नीं नीं नीं नीं नीं १४
- चं ०
- द्रा ०
- र्ध मं ०
- डि
- मां मां धां नीं सनिनि धा पा पा १५
- त वि ला ०
- सकी ल ०
- ०
- मा पा मा परिग गा गा गा गा १६
- न वि नो ०
- दं ०
- ०
- ०
- कान्तं वामैकदेशप्रएङ्खोलमानकमलनिभं वरसुरभिकुसुमगन्धाधि-
- वासितमनोज्ञनगराजसूनुरतिरागरभसकेलीकुचग्रहलीलम् ।
- तं प्रणमामि देवं चन्दार्धमण्डितविलासकीलनविनोदम् ॥
- आन्ध्र्यामंशा निरिगपा रिगयोर्निधयोस्तया १०५
- संगतिर्न्यासपर्यन्तमंशानुक्रमतो व्रजेत् ।
- षाडवं षड्जलोपेन मध्यमादिस्तु मूर्च्छना १०६
- पूर्वावत्तु कलातालविनियोगाः प्रकीर्तिताः ।
- अस्यामान्ध्र्यां गान्धारो न्यासः । अंशा एवापन्यासाः । अस्याः
- प्रस्तारः--
- आन्ध्री १७
- गा री री री री री री री
- त रु णें ०
- दु कु सु म
- री गा री गा री री री री २
- ख चि त ज टं ०
- ०
- ०
- री री गा गा री री मा मा ३
- त्रि दि व न दी स लि ल
- री गा सा धनि नीं नीं नीं नीं ४
- धौ ०
- त मु खं ०
- ०
- ०
- नीं री नीं रीं धंनिं धंनिं पां पां ५
- न ग सू ०
- नु प्र ण यं
- मां पां मां रिग गा गा गा गा ६
- वे ०
- द नि धिं ०
- ०
- ०
- री री गा सस मा मा पा पा ७
- प रि णा ०
- हि तु हि न
- मां पां मां रिग गा गा गा गा ८
- शै ०
- ल गृ हं ०
- ०
- ०
- धां नीं गा गा गा गा गा गा ९
- अ मृ त भ वं ०
- ०
- ०
- पा पा मा रिग गा गा गा गा १०
- गु ण र हि तं ०
- ०
- ०
- नी नी नी नी री री री री ११
- त म व नि र वि श शि
- री री गा नी सा सा नी नी १२
- ज्व ल न ज ल प व न
- पा॑ पा॑ मा॑ रि॑ग॑ गा॑ गा॑ गा॑ गा॑ १३
- ग ग न त नुं ०
- ०
- ०
- री॑ री। गा॑ स॑म॑ मा॑ मा॑ पा॑ पा॑ १४
- श र णं ०
- व्र जा ०
- मि
- मा॑ मा॑ नीं नीं सा॑ री॑ गा॑ पा॑ १५
- शु भ म ति कृ त नि ल
- रि॑ग॑ गा॑ गा॑ गा॑ गा॑ गा॑ गा॑ गा॑ १६
- यं ०
- ०
- ०
- ०
- ०
- ०
- ०
- तरुणेन्दुकुसुमखचितजटं त्रिदिवनदीसलिलधौतमुखं
- नगसूनुप्रणयं वेदनिधिं परिणाहितुहिनशैलगृहम् ।
- अमृतभवं गुणरहितं तमवनिरविशशिज्वलनजलपवनगगनतनुं
- शरणं व्रजामि शुभमतिकृतनिलयम् ॥
- नन्दयन्त्यां पञ्चमॐऽशो गान्धारस्तु ग्रहः स्मृतः १०७
- कैश्चित्तु पञ्चमः प्रोक्तो ग्रहोऽस्यां गीतवेदिभिः ।
- मन्द्रर्षभस्य बाहुल्यं षाडवं षड्जलोपतः १०८
- हृष्यका मूर्च्छना तालः पूर्वावद् द्विगुणाः कलाः ।
- विनियोगो ध्रुवागाने प्रथमप्रेक्षणे भवेत् १०९
- अस्यां नन्दयन्त्यां गान्धारो न्यासः । मध्यमपञ्चमावपन्यासौ
- अस्याः प्रस्तारः--
- नन्दयन्ती १८
- गा गा गा गा पा पा धप मा १
- सौ ०
- ०
- ०
- ०
- ०
- ०
- ०
- धा धा धा धा धा नी सनिनि धा २
- ०
- पां पां पां पां पां पां पां पां ३
- म्यं ०
- ०
- ०
- ०
- ०
- ०
- ०
- धां नीं मां पां गां गां गां गां
- वे ०
- दां ०
- ग वे ०
- द
- मा री गा गा गा गा गा गा ५
- क र क म ल यो ०
- निं
- मा मा पा पा धा निध पा पा ६
- त मो र जो वि व ०
- ०
- धा नी मा पा गा गा गा गा ७
- र्जि तं ०
- ०
- ०
- ०
- ०
- ०
- गम पा पा पा मा मा गा गा ८
- हरं ०
- ०
- ०
- ०
- ०
- ०
- ०
- धा नी मा पा गा गा गा गा ९
- भ व ह र क म ल गृ
- मा मा मा मा मा मा मा मा १०
- हं ०
- ०
- ०
- ०
- ०
- ०
- ०
- री गा मा पा पम पा पा नी ११
- शि वं शां ०
- तं सं ०
- नि
- रीं रीं रीं रीं पां पां मां मां १२
- वे ०
- श न म पू ०
- र्वं
- धां नीं सनिंनिं धां पां पां पां पां १३
- भू ष ०
- ण ली ०
- लं
- धां नीं मां पां गां गां गां गां १४
- उ र गे ०
- श भो ०
- ग
- गा पा पा पा धा मा गा मा १५
- भा ०
- सु र शु भ पृ थु
- धा धा नी धा पा पा पा पा १६
- लं ०
- ०
- ०
- ०
- ०
- ०
- ०
- री गा मा पा पम पा पा नी १७
- अ च ल प ति सू नु
- रीं रीं रीं रीं पां पां पां पां १८
- क र पं ०
- क जा ०
- म
- पा पा पा पा धा मा मा मा १९
- ल वि ला ०
- स की ०
- ल
- नीं पां गां गमं गां गां गां गां २०
- न वि नो ०
- दं ०
- ०
- ०
- रीं रीं गां गां मां मां मां मां २१
- स्फ टि क म णि र ज त
- नी पा नी मा नी धा पा पा २२
- सि त न व दु कू ०
- ल
- सा॑ सा॑ धनि धा पा पा पा पा २३
- क्षी ०
- रोद ०
- सा ०
- ०
- ग
- मा पा मा परिग गा गा सा॑ सा॑ २४
- र नि का ०
- शं ०
- ०
- ०
- री री गा गा मा मा पा पा २५
- अ ज शि रः क पा ०
- ल
- री री री गा मा रिग मा मा २६
- पृ थु भा ०
- ०
- ज ०
- नं
- मा नी पा नी गा गा गा गा २७
- वं ०
- दे ०
- सु ख ०
- दं
- मा मा पा पा धा धनि निध मा २८
- ह र दे ०
- ह म म ल
- धा धा सा नी धा नी पा पा २९
- म धु सू ०
- द न ०
- सु
- री॑ री॑ री॑ री॑ मा पा धा मा ३०
- ते ०
- जो ०
- धि क ०
- सु
- नी नी नी नी धा पा मा मा ३१
- ग ति यो ०
- ०
- ०
- ०
- ०
- मा परिग गा गा गा गा गा गा ३२
- ०
- ०
- निं ०
- ०
- ०
- ०
- ०
- सौम्यं वेदाङ्गवेदकरकमलयोनिं तमोरजोविवर्जितं हरं
- भवहरकमलगृहं शिवं शान्तं सन्निवेशनमपूर्वं
- भूषणलीलमुरगेशभोगभासुरशुभपृथुलम् ।
- अचलपतिसूनुकरपङ्कजामलविलासकीलनविनोदं
- स्फटिकमणिरजतसितनवदुकूलक्षीरोदसागरनिकाशम् ।
- अजशिरःकपालपृथुभाजनं वन्दे सुखदं
- हरवेहममलमधुसूदनसुतेजोऽधिकसुगतियोनिम् ॥
- अनुक्ताविह तालः स्यात्त्रिधैवैककलादिकः ।
- मार्गाः क्रमाच्चित्रवृत्तिदक्षिणा गीतयः पुनः ११०
- मागधी संभाविता च पृथुलेत्युविताः क्रमात् ।
- योक्तास्माभिः कलासंख्या सा दक्षिणपथे स्थिता १११
- वार्त्तिके द्विगुणा ज्ञेया सैव चित्रे चतुर्गुणा ।
- सर्वजातिषु जानीयादंशस्वरगतं रसम् ११२
- दृश्यन्ते जन्यरागांशास्तज्ज्ञैर्जनकजातिषु ।
- ब्रह्मप्रोक्तपदैः सम्यक्प्रागुक्ताः शङ्करस्तुतो ११३
- अपि ब्रह्महणं पापाज्जातयः प्रपुनन्त्यमूः ।
- ऋचो यजूंषि सामानि क्रियन्ते नान्यथा यथा ११४
- तथा सामसमुद्भूता जातयो वेदसंमिताः ।
- इति प्रथमे स्वराध्याये जातिलक्षणाख्यं सप्तमं प्रकरणं समाप्तम् ७
- अथाष्टमं गीतिप्रकरणम्
- शुद्धजातिसमुद्भूतकपालान्यधुना ब्रुवे ।
- रागा जनकजातीनां तत्कपालेषु संमिताः १
- षड्जो ग्रहॐऽशोऽपन्यासो गो न्यासोऽतिबहू गनी ।
- अल्पा रिपनिधा लङ्घ्यो रिः कला द्वादशोदिताः २
- यस्मिन्षाड्जीकपालं तद् गदितं गीतवेदिभिः ।
- यत्रर्षभॐऽशोऽपन्यासो मोऽन्तो गनिपधाल्पता ३
- सोऽत्यल्पोऽष्टकलं तत्स्यात्कपालं त्वार्षभीगतम् ।
- मध्यमॐऽशो ग्रहो न्यासोऽपन्यासो धैवतो बहुः ४
- यत्राल्पाः सरिगा लोपाद्रिपयोरौडुवं भवेत् ।
- तद्गान्धारीकपालं स्यात्कलाष्टकविनिर्मितम् ५
- मध्यमॐऽशो निरिगपाः स्वल्पा यत्र कला नव ।
- तन्मध्यमाकपालं स्यादिति निःशङ्कसम्मतम् ६
- ऋषभांशं सग्रहं च निधषड्जगमाल्पकम् ।
- कपालं पञ्चमीजातिजातमष्टकलं विदुः ७
- अत्यल्पर्षभगान्धारं पन्यासं मधभूरि च ।
- षाड्ज्या इव कपालं तद्धैवत्याः सकलाष्टकम् ८
- ग्रहांशन्यासषड्जं च रिगाल्पमतिभूरिभिः ।
- निधमैरष्टकलकं स्यान्नैषादीकपालकम् ९
- इति सप्त कपालानि गायन्ब्रह्मोदितैः पदैः ।
- स्वरैश्च पार्वतीकान्तस्तुतौ कल्याणभाग्भवेत् १०
- यत्र ग्रहॐऽशोऽपन्यासः पञ्चमो बहुलस्तु रिः ।
- सो न्यासो मधगान्धारास्त्वल्पास्तत्कम्बलं मतम् ११
- पञ्चमीजातिसञ्जातमल्पताबहुतावशात् ।
- स्वराणां बहवो भेदास्तस्य पूर्वैरुदीरिताः १२
- प्रीतः कम्बलगानेन कम्बलाय वरं ददौ ।
- पुरा पुरारिरद्यापि प्रीयते तैरतः शिवः १३
- कपालानां क्रमाद्ब्रूमो ब्रह्मप्रोक्तां पदावलीम् ।
- झण्टुं झण्टुं १
- खट्वाङ्गधरं २
- दंष्ट्राकरालं ३
- तडित्सदृशजिह्वं ४
- हौ हौ हौ हौ हौ हौ हौ हौ ५
- बहुरूपवदनं
- धनघोरनादं ६
- हौ हौ हौ हौ हौ हौ हौ हौ ७
- ऊँ ऊँ ह्रां
- रौं हौं हौं हौं हौं ८
- नृमुण्डमण्डितम् ९
- हूं हूं कह कह हूं हूं १०
- कृतविकटमुखम् ११
- नमामि देवं भैरवम् १२
- इति षाड्जीकपालपदानि १
- झण्टुं झण्टुं खट्वाङ्गधरम् १
- दंष्ट्राकरालम् २
- तडित्सदृशजिह्वम् ३
- हौ हौ हौ हौ हौ हौ हौ हौ ४
- वरसुरभिकुसुम ५
- चर्चितगात्रम् ६
- कपालहस्तम् ७
- नमामि देवम् ८
- इत्यार्षभीकपालपदानि २
- चलत्तरङ्ग १
- भङ्गुरम् २
- अनेकरेणु ३
- पिञ्जरंसु ४
- रासुरैः सुसेवितं पु ५
- नातु जाह्न ६
- वीजलम् मां बिन्दुभिः ८
- इति गान्धारीकपालपदानि ३
- शूलकपालः १
- पाणित्रिपुरविनाशि २
- शशाङ्कधारिणम् ३
- त्रिनयनत्रिशूलम् ४
- सततमुमया सहि ५
- तं वरदम् ६
- हौ हौ हौ हौ हौ हौ हौ हौ ७
- हौ हौ हौ हौ हौ हौ हौ हौ ८
- नैमि महादेवम् ९
- इति मध्यमाकपालपदानि ४
- जय विषमनयन १
- मदनतनुदहन २
- वरवृषभगमन ३
- त्रिपुरवहन ४
- नतसकलभुवन ५
- सितकमलवदन ६
- भव मे भयहरण ७
- भवशरणम् ८
- इति पञ्चमीकपालपदानि ५
- अग्निज्वाला १
- शिखावली २
- मांसशोणित ३
- भोजिनि । सर्वाहारि ५
- णि निर्मांसे ६
- चर्ममुण्डे ७
- नमोऽस्तु ते ८
- इति धैवतीकपालपदानि ६
- सरसग चर्मपटम् १
- भीमभुजंगमानद्धजटम् २
- कह-
- कहहुंकृतिविकृतमुखम् ३
- नम तं शिवं हरमजितम् ४
- चण्ड-
- तुण्डमजेयम् ५
- कपालमण्डितमुकुटम् ६
- कामदर्पविध्वंसकरम् ७
- नम तं हरं परमशिवम् ८
- इति नैषादीकपालपदानि ७
- इति सप्त कपालपदानि ॥
- वर्णाद्यलङ्कृता गानक्रिया पदलयान्विता १४
- गीतिरित्युच्यते सा च बुधैरुक्ता चतुर्विधा ।
- मागधी प्रथमा ज्ञेया द्वितीया चार्धमागधी १५
- संभाविता च पृथुलेत्येतासां लक्ष्म चक्ष्महे ।
- गीत्वा कलायामाद्यायां विलम्बितलयं पदम् १६
- द्वितीयायां मध्यलयं तत्पदान्तरसंयुतम् ।
- सतृतीयपदे ते च तृतीयस्यां द्रुते लये १७
- इति त्रिरावृत्तपदां मागधॐ जगदुर्बुधाः ।
- यथा-
- मा गा मा धा
- दे ०
- वं ०
- धनि धनि सनि धा
- दे वं रु द्रं
- रिग रिग मग रिस
- देवं रुद्रं वं दे
- पूर्वयोः पदयोरर्धे चरमे द्विर्यदोदिते १८
- तदाऽर्धमागधीं प्राहुः
- यथा--
- मा री गा सा
- दे ०
- वं ०
- सा सा धा नी
- वं रु द्रं ०
- पा धा पा मा
- द्रं वं दे ०
- द्विरावृत्तपदां परे ।
- यथा--
- मा मा मा मा
- दे ०
- वं ०
- धा सा धा नी
- दे वं रु द्रं
- पा निध मा मा
- रु द्रं वं दे
- संक्षेपितपदा भूरिगुरुः संभाविता मता १९
- यथा--
- धा मा मा रि ग
- भ ०
- क्त्या ०
- ०
- री गा सा सा
- दे ०
- वं ०
- नी धा सा नी
- रु ०
- द्रं ०
- धा नी मा मा
- वं ०
- दे ०
- भूरिलघ्वक्षरपदा पृथुला संमता सताम् ।
- यथा--
- मा गा री गा
- सु र न त
- सा धनि धा धा
- ह र प द
- धा सा धा नी
- यु ग लं ०
- पा निधप मा मा
- प्र ण म त
- यद्वा यथाक्षरे युग्मे गुर्वोः प्रथमयोर्यदा २०
- एकैकं चित्रमार्गादि प्रयुज्य चगणात्मकम् ।
- मात्राभिरष्टभिर्युक्तं दक्षिणे ध्रुवकादिभिः २१
- प्रयुज्यते तदा गीतिर्मागधीत्यभिधीयते ।
- तृतीयं लघु युग्मस्य च्छगणार्धयुतं यदा २२
- आद्याम्यामन्तिमाभ्यां च मात्राभ्यां संप्रयुज्यते ।
- ततः प्लुतं सार्धगणयुक्तं कृत्वा प्रयुज्यते २३
- ध्रुवकादिभिरष्टाभिर्द्विरुक्तान्त्यद्वयेन च ।
- तदार्धमागधी ते द्वे तद्वत्तालान्तरेष्वपि २४
- संभाविता भूरिगुरुर्द्विकले वार्तिके पथि ।
- चतुष्कले भूरिलघुर्दक्षिणे पृथुला मता २५
- इति प्रथमे स्वरगताध्यायेऽष्टमं गीतिप्रकरणम् ८
- इति श्रीमदनवद्य-विद्याविनोद-श्रीकरणाधिपति-श्रीसोढलदेवनन्दननिःशङ्कश्रीशार्ङ्गदेवविरचिते संगीतरत्नाकरे स्वरगताध्यायः प्रथमः ।