संन्यासोपनिषत्

विकिस्रोतः तः
Jump to navigation Jump to search
उपनिषद्


संन्यासोपनिषत्

संन्यासोपनिषद्वेद्यं संन्यासिपटलाश्रयम् ।
सत्तासामान्यविभवं स्वमात्रमिति भावये ॥

ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण
मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ अथातः संन्यासोपनिषदं व्याख्यास्यामो
योऽनुक्रमेण संन्यस्यति स संन्यस्तो भवति । कोऽयं संन्यास
उच्यते कथं संन्यस्तो भवति । य आत्मानं क्रियाभिर्गुप्तं करोति
मातरं पितरं भार्यां पुत्रान्बन्धूननुमोदयित्वा ये
चास्यर्त्विजस्तान्सर्वांश्च पूर्ववत्प्राणित्वा वैश्वानरेष्टिं
निर्वपेत्सर्वस्वं दद्याद्यजमानस्य गा ऋत्विजः सर्वैः पात्रैः
समारोप्य यदाहवनीये गार्हपत्ये वान्वहार्यपचने
सभ्यावसथ्योश्च प्राणापानव्यानोदानसमानान्सर्वान्सर्वेषु
समारोपयेत् । सशिखान्केशान्विसृज्य यज्ञोपवीतं च्हित्त्वा पुत्रं
दृष्ट्वा त्वं यज्ञस्त्वं सर्वमित्यनुमन्त्रयेत् ।
यद्यपुत्रो भवत्यात्मानमेवेमं ध्यात्वाऽनवेक्षमाणः
प्राचीमुदीचिं वा दिशं प्रव्रजेच्च । त्रिषु वर्णेषु
भिक्षाचर्यं चरेत् । पाणिपात्रेणानाशनं कुर्यात् ।
औषधवदहनमाचरेत् । औषधवदशनं प्राश्नीयात् ।
यथालाभमश्नीयात्प्राणसन्धारणार्थं यथा मेदोवृद्धिर्न
जायते । कृशो भूत्वा ग्राम एकरात्रं नगरे पञ्चरात्रं
चतुरोमासान्वार्षिकान्ग्रामे वा नगरे वापि वसेत् ।
विशीर्णवस्त्रं वल्कलं वा प्रतिगृह्णीयानान्यत्प्रतिगृह्णीयाद्यद्यशक्तो
भवति क्लेशतस्तप्यते तप इति । यो वा एवं क्रमेण संन्यस्यति यो वा
एवं पश्यति किमस्य यज्ञोपवीतं कास्य शिखा कथं वास्योपस्पर्शनमिति ।
तं होवाचेदमेवास्य तद्यज्ञोपवीतं यदात्मध्यानं विद्या शिखा
नीरैः सर्वत्रावस्थितैः कार्यं निर्वर्तयन्नुदरपात्रेण जलतीरे निकेतनम् ।
ब्रह्मवादिनो वदन्त्यस्तमित आदित्ये कथं वास्योपस्पर्शनमिति ।
तान्होवाच यथाहनि तथा रात्रौ नास्य नक्तं न दिवा तदप्येतदृषिणोक्तम् ।
संकृद्दिवा हैवास्मै भवति य एवंविद्वानेतेनात्मानं संधत्ते ॥
इति प्रथमोऽध्यायः ॥ १॥

ॐ चत्वारिंषत्संस्कारसंपन्नः सर्वतो
विरक्तश्चित्तशुद्धिमेत्याशासूयेर्ष्याहंकारं
दग्ध्वा साधनचतुष्टयसंपन्न एव संन्यस्तुमर्हति ।
संन्यासं निश्चयं कृत्वा पुनर्न च करोति यः ।
स कुर्यात्कृच्च्ह्रमात्रं तु पुनः संन्यस्तुमर्हति ।, १॥
संन्यासं पातयेद्यस्तु पतितं न्यासयेत्तु यः ।
संन्यासविघ्नकर्ता च त्रीनेतान्पतितान्विदुः ॥ २॥ इति॥

अथ षण्डः पतितोऽङ्गविकलः स्त्रैणो बधिरोऽर्भको मूकः
पाषण्डश्चक्री लिङ्गी कुष्ठी वैखानसहरद्विजौ
भृतकाध्यापकः शिपिविष्टोऽनग्निको नास्तिको वैराग्यवन्तोऽप्येते
न संन्यासार्हाः । संन्यस्ता यद्यपि महावाक्योपदेशे नाधिकारिणः ॥
आरूढपतितापत्यं कुनखी श्यावदन्तकः ।
क्षीबस्तथाङ्गविकलो नैव संन्यस्तुमर्हति ॥ ३॥

संप्रत्यवसितानां च महापातकिनां तथा ।
व्रात्यानामभिशस्तानां संन्यासं न कारयेत् ॥ ४॥

व्रतयज्ञतपोदानहोमस्वाध्यायवर्जितम् ।
सत्यशौचपरिभ्रष्टं संन्यासं न कारयेत् ॥ ५॥

एते नार्हन्ति संन्यासमातुरेण विना क्रमम् ।

ॐ भूः स्वाहेति शिखामुत्पाट्य यज्ञोपवीतं
बहिर्न निवसेत् । यशो बलं ज्ञानं वैराग्यं
मेधां प्रयच्च्हेति यज्ञोपवीतं च्हित्त्वा ॐ भूः
स्वाहेत्यप्सु वस्त्रं कटिसूयं च विसृज्य संन्यस्तं
मयेति त्रिवारमभिमन्त्रयेत् ।
संन्यासिनं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः ।
एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्च्हति ॥ ६॥

षष्टिं कुलान्यतीतानि षष्टिमागामिकानि च ।
कुलान्युद्धरते प्राज्ञः संन्यस्तमिति यो वदेत् ॥ ७॥

ये च सन्तानजा दोषा ये दोषा देहसंभवाः ।
प्रैषाग्निर्निर्दहेत्सर्वांस्तुषारिन्निव काञ्चनम् ॥ ८॥

सखा मा गोपायेति दण्डं परिग्रहेत् ।
दण्डं तु वाणवं सौम्यं सत्वचं समपर्वकम् ।
पुण्यस्थलसमुत्पन्नं नानाकल्मषशोधितम् ॥ ९॥

अदग्धमहतं कीटैः पर्वग्रन्थिविराजितम् ।
नासादघ्नं शिरस्तुल्यं भ्रुवोर्वा बिभृयाद्यतिः ॥ १०॥

दण्डात्मनोस्तु संयोगः सर्वथा तु विधीयते ।
न दण्डेन विना गच्च्हेदिषुक्षेपत्रयं बुधः ॥ ११॥

जगज्जीवनं जीवनाधारभूतं माते मामन्त्रयस्व सर्वसौम्येति
कमण्डलुं परिगृह्य योगपट्टाभिषिक्तो भूत्वा यथासुखं विहरेत् ॥
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज ॥ १२॥

वैराग्यसंन्यासी ज्ञानसंन्यासी ज्ञानवैराग्यसंन्यासी
कर्मसंन्यासीति चातुर्विध्यमुपागतः । तद्यथेति दृष्टानुश्रविक
विषयवैतृष्ण्यमेत्य प्राक्पुण्यकर्मविशेषात्संन्यस्तः
स वैराग्यसंन्यासी । शास्त्रज्ञानात्पापपुण्यलोकानुभवश्रवणा
त्प्रपञ्चोपरतो देहवासनां शास्त्रवासनां लोकवासनां त्यक्त्वा
वमनान्नमिव प्रवृत्तिं सर्वं हेयं मत्वा साधनचतुष्टयसंपन्नो
यः संन्यस्यति स एव ज्ञानसंन्यासी । क्रमेण सर्वमभ्यस्य सर्वमनुभूय
ज्ञानवैराग्याभ्यां स्वरूपानुसन्धानेन देहमात्रावशिष्टः संन्यस्य
जातरूपधरो भवति स ज्ञानवैराग्यसंन्यासी । ब्रह्मचर्यं समाप्य
गृही भूत्वा वानप्रस्थाश्रममेत्य वैराग्याभावेऽप्याश्रमक्रमानुसारेण
यः संन्यस्यति स कर्मसंन्यासी । स संन्यासः षड्विधो भवति
कुटीचकबहूदकहंसपरमहंसतुरीयातीतावधूताश्चेति । कुटीचकः
शिखायज्ञोपवीति दण्डकमण्डलुधरः कौपीनशाटीकन्थाधरः
पितृमातृगुर्वाराधनपरः पिठरखनित्रशिक्यादिमात्रसाधनपर
एकत्रान्नादनपरः श्वेतोर्ध्वपुण्ड्रधारी त्रिदण्डः । बहूदकः शिखादिकन्थाधर
स्त्रिपुण्ड्रधारी कुटीचकवत्सर्वसमो मधुकरवृत्त्याष्टकवलाशी ।
हंसो जटाधारी त्रिपुण्ड्रोर्ध्वपुण्ड्रधारी असंक्लृप्तमाधूकरान्नाशी
कौपीनखण्डतुण्डधारी । परमहंसः शिखायज्ञोपवीतरहितः पञ्चगृहेषु
करपात्री एककौपीनधारी शाटीमेकामेकं वैणवं दण्डमेकशाटीधरो वा
भस्मोद्धृलनपरः सर्वत्यागी तुरीयातीतो गोमुखवृत्त्या फलाहारी अन्नाहारी
चेद्गृहत्रये देहमात्रावशिष्टो दिगंबरः कुणपवच्च्हरीन्वृत्तिकः ।
अवधूतस्त्वनियमः पतिताभिशस्तवर्जनपूर्वकं सर्ववर्णेष्वजगरवृत्त्याहारपरः स्वरूपानुसन्धानपरः ।
जगत्तावदिदं नाहं सवृक्षतृणपर्वतम् । यद्बाह्यं
जडमत्यन्तं तत्स्यां कथमहं विभुः ॥ १३॥

कालेनाल्पेन विलयी देहो नाहमचेतनः ।
जडया कर्णशष्कुल्या कल्पमानक्षणस्थया ॥ १४॥

शून्याकृतिः शून्यभवः शब्दो नाहमचेतनः ।
त्वचा क्षणविनाशिन्या प्राप्योऽप्राप्योऽयमन्यथा ॥ १५॥

चित्प्रसादोपलब्धात्मा स्पर्शो नाहमचेतनः ।
लब्धात्मा जिह्वया तुच्च्हो लोलया लोलसत्तया ॥ १६॥

स्वल्पस्यन्दो द्रव्यनिष्ठो रसो नाहमचेतनः ।
दृश्यदर्शनयोर्लीनं क्षयिक्षणविनाशिनोः ॥ १७॥

केवले द्रष्टरि क्षीणं रूपं नाहमचेतनम् ।
नासया गन्धजडया क्षयिण्या परिकल्पितः ॥ १८॥

पेलवो नियताकारो गन्धो नाहमचेतनः ।
निर्ममोऽमननः शान्तो गतपञ्चेन्द्रियभ्रमः ॥ १९॥

शुद्धचेतन एवाहं कलाकलनवर्जितः ।
चैत्यवर्जितचिन्मात्रमहमेषोऽवभासकः ॥ २०॥

सबाह्याभ्यन्तरव्यापी निष्कलोऽहं निरञ्जनः ।
निर्विकल्पचिदाभास एक आत्मास्मि सर्वगः ॥ २१॥

मयैव चेतनेनेमे सर्वे घटपटादयः ।
सूर्यान्ता अवभास्यन्ते दीपेनेवात्मतेजसा ॥ २२॥

मयैवैताः स्फुरन्तीह विचित्रेन्द्रियवृत्तयः ।
तेजसान्तःप्रकाशेन यथाग्निकणपङ्क्तयः ॥ २३॥

अनन्तानन्दसंभोगा परोपशमशालिनी ।
शुद्धेयं चिन्मयी दृष्टिर्जयत्यखिलदृष्टिषु ॥ २४॥

सर्वभावान्तरस्थाय चैत्यमुक्तचिदात्मने ।
प्रत्यक्चैतन्यरूपाय मह्यमेव नमो नमः ॥ २५॥

विचित्राः शक्तयः स्वच्च्हाः समा या निर्विकारया ।
चिता क्रियन्ते समया कलाकलनमुक्तया ॥ २६॥

कालत्रयमुपेक्षित्र्या हीनायाश्चैत्यबन्धनैः ।
चितश्चैत्यमुपेक्षित्र्याः समतैवावशिष्यते ॥ २७॥

सा हि वाचामगम्यत्वादसत्तामिव शाश्वतीम् ।
नैरात्मसिद्धात्मदशामुपयातैव शिष्यते ॥ २८॥

ईहानीहामयैरन्तर्या चिदावलिता मलैः ।
सा चिन्नोत्पादितुं शक्ता पाशबद्धेव पक्षिणी ॥ २९॥

इच्च्हाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः ।
धराविवरमग्नानां कीटानां समतां गताः ॥ ३०॥

आत्मनेऽस्तु नमो मह्यमविच्च्हिन्नचिदात्मने ।
परामृष्टोऽस्मि लब्धोऽस्मि प्रोदितोऽस्म्यचिरादहम् ।
उद्धृतोऽस्मि विकल्पेभ्यो योऽस्मि सोऽस्मि नमोऽस्तु ते ॥ ३१॥

तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं चिदात्मने ।
नमस्तुभ्यं परेशाय नमो मह्यं शिवाय च ॥ ३२॥

तिष्ठन्नपि हि नासीनो गच्च्हन्नपि न गच्च्हति ।
शान्तोऽपि व्यवहारस्थः कुर्वन्नपि न लिप्यते ॥ ३३॥

सुलभश्चायमत्यन्तं सुज्ञेयश्चाप्तबन्धुवत् ।
शरीरपद्मकुहरे सर्वेषामेव षट्पदः ॥ ३४॥

न मे भोगस्थितौ वाञ्च्हा न मे भोगविसर्जने ।
यदायाति तदायातु यत्प्रयाति प्रयातु तत् ॥ ३५॥

मनसा मनसि च्च्हिन्ने निरहंकारं गते ।
भावेन गलिते भावे स्वस्थस्तिष्ठामि केवलः ॥ ३६॥

निर्भावं निरहंकारं निर्मनस्कमनीहितम् ।
केवलास्पन्दशुद्धात्मन्येव तिष्ठति मे रिपुः ॥ ३७॥

तृष्णारज्जुगणं च्हित्वा मच्च्हरीरकपञ्जरात् ।
न जाने क्व गतोड्डीय निरहंकारपक्षिणी ॥ ३८॥

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।
यः समः सर्वभूतेषु जीवितं तस्य शोभते ॥ ३९॥

योऽन्तःशीतलया बुद्ध्या रागद्वेषविमुक्तया ।
साक्षिवत्पश्यतीदं हि जीवितं तस्य शोभते ॥ ४०॥

येन सम्यक्परिज्ञाय हेयोपादेयमुज्झता ।
चित्तस्यान्तेऽर्पितं चित्तं जीवितं तस्य शोभते ॥ ४१॥

ग्राह्यग्राहकसंबन्धे क्षीणे शान्तिरुदेत्यलम् ।
स्थितिमभ्यागता शान्तिर्मोक्षनामाभिधीयते ॥ ४२॥

भ्रष्टबीजोपमा भूयो जन्माङ्कुअरविवर्जिता ।
हृदि जीवद्विमुक्तानां शुद्धा भवति वासना ॥ ४३॥

पावनी परमोदारा शुद्धसत्त्वानुपातिनी ।
आत्मध्यानमयी नित्या सुषुप्तिस्थेव तिष्ठति ॥ ४४॥

चेतनं चित्तरिक्तं हि प्रत्यक्चेतनमुच्यते ।
निर्मनस्कस्वभावत्वान्न तत्र कलनामलम् ॥ ४५॥

सा सत्यता सा शिवता सावस्था पारमात्मिकी ।
सर्वज्ञता सा संतृप्तिर्नतु यत्र मनः क्षतम् ॥ ४६॥

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
निरस्तमननानन्दः संविन्मात्रपरोऽस्म्यहम् ॥ ४७॥

मलं संवेद्यमुत्सृज्य मनो निर्मूलयन्परम् ।
आशापाशानलं च्हित्त्वा संविन्मात्रपरोऽस्म्यहम् ॥ ४८॥

अशुभाशुभसंकल्पः संशान्तोऽस्मि निरामयः ।
नष्टेष्टानिष्टकलनः संमात्रपरोस्म्यहम् ॥ ४९॥

आत्मतापरते त्यक्त्वा निर्विभागो जगत्स्थितौ ।
वज्रस्तंभवदात्मानमवलंब्य स्थिरोऽस्म्यहम् ॥ ५०॥

निर्मलायां निराशायां स्वसंवित्तौ स्थितोऽस्म्यहम् ।
ईहितानीहितैर्मुक्तो हेयोपादेयवर्जितः ॥ ५१॥

कदान्तस्तोषमेष्यामि स्वप्रकाशपदे स्थितः ।
कदोपशान्तमननो धरणीधरकन्दरे ॥ ५२॥

समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना ।
निरंशध्यानविश्रान्तिमूकस्य मम मस्तके ॥ ५३॥

कदा तार्णं करिष्यन्ति कुलायं वनपुत्रिकाः ।
संकल्पपादपं तृष्णालतं च्हित्त्वा मनोवनम् ॥ ५४॥

विततां भुवमासाद्य विहराभि यथासुखम् ।
पदं तदनु यातोऽस्मि केवलोऽस्मि जयाम्यहम् ॥ ५५॥

निर्वाणोऽस्मि निरीहोऽस्मि निरंशोऽस्मि निरीप्सितः ।
स्वच्च्हतोर्जितता सत्ता हृद्यता सत्यता ज्ञता ॥ ५६॥

आनन्दितोपशमता सदा प्रमुदितोदिता ।
पूर्णतोदारता सत्या कान्तिसत्ता सदैकता ॥ ५७॥

इत्येवं चिन्तयन्भिक्षुः स्वरूपस्थितिमञ्जसा ।
निर्विकल्पस्वरूपज्ञो निर्विकल्पो बभूव ह ॥ ५८॥

आतुरो जीवति चेत्क्रमसंन्यासः कर्तव्यः ।
न शूद्रस्त्रीपतितोदक्या संभाषणम् ।
न यतेर्देवपूजनोत्सवदर्शनम् ।
तस्मान्न संन्यासिन एष लोकः ।
आतुरकुटीचकयोर्भूलोकभुवर्लोकौ ।
बहूदकस्य स्वर्गलोकः ।
हंसस्य तपोलोकः । परमहंसस्य सत्यलोकः ।
तुरीयातीतावधूतयोः स्वात्मन्येव कैवल्यं
स्वरूपानुसन्धानेन भ्रमरकीटन्यायवत् ।
स्वरूपानुसन्धानव्यतिरिक्तान्यशास्त्राभ्यास
उष्ट्रकुंकुमभारवद्व्यर्थः । न योगशास्त्रप्रवृत्तिः ।
न सांख्यशास्त्राभ्यासः । न मन्त्रतन्त्रव्यापारः ।
नेतरशास्त्रप्रवृत्तिर्यतेरस्ति । अस्ति चेच्च्हवालंकारव
त्कर्माचर विद्यादूरः ।
न परिव्राण्नामसंकीर्तनपरो यद्यत्कर्म करोति तत्तत्फलमनुभवति ।
एरण्डतैलफेनवत्सर्वं परित्यजेत् । न देवताप्रसादग्रहणम् ।
न बाह्यदेवाभ्यर्चनं कुर्यात् । स्वव्यतिरिक्तं सर्वं त्यक्त्वा
मधुकरवृत्त्याहारमाहरन्कृशीभूत्वा मेदोवृद्धिमकुर्वन्विहरेत् ।
माधूकरेण करपात्रेणास्यपात्रेण वा कालं नयेत् ।
आत्मसंमितमाहारमाहरेदात्मवान्यतिः ।
आहारस्य च भागौ द्वौ तृतीयमुदकस्य च ।
वायोः संचरणार्थाय चतुर्थमवशेषयेत् ॥५९॥

भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेत्क्वचित् ।
निरीक्षन्ते त्वनुद्विग्नास्तद्गृहं यत्नतो व्रजेत् ॥ ६०॥

पञ्चसप्तगृहाणां तु भिक्षामिच्च्हेत्क्रियावताम् ।
गोदोहमात्रमाकाङ्क्षेन्निष्क्रान्तो न पुनर्व्रजेत् ॥ ६१॥

नक्ताद्वरश्चोपवास उपवासादयाचितः ।
अयाचिताद्वरं भैक्ष्यं तस्मात्भैक्षेण वर्धयेत् ॥ ६२॥

नैव सव्यापसव्येन भिक्षाकाले विशेद्गृहान् ।
नातिक्रामेद्गृहं मोहाद्यत्र दोषो न विद्यते ॥ ६३॥

श्रोत्रियान्नं न भिक्षेत श्रद्धाभक्तिबहिष्कृतम् ।
व्रात्यस्यापि गृहे भिक्षेच्च्ह्रद्धाभक्तिपुरस्कृते ॥ ६४॥

माधूकरमसंक्लृप्तं प्राक्प्रणीतमयाचितम् ।
तात्कालिकं चोपपन्नं भैक्षं पञ्चविधं स्मृतम् ॥ ६५॥

मनःसंकल्परहितांस्त्रीन्गृहान्पञ्च सप्त वा ।
मधुमक्षिकवत्कृत्वा माधूकरमिति स्मृतम् ॥ ६६॥

प्रातःकाले च पूर्वेद्युर्यद्भक्तैः प्राथितं मुहुः ।
तद्भैक्षं प्राक्प्रणीतं स्यात्स्थितिं कुर्यात्तथापि वा ॥ ६७॥

भिक्षाटनसमुद्योगाद्येन केन निमन्त्रितम् ।
अयाचितं तु तद्भैक्षं भोक्तव्यं च मुमुक्षुभिः ॥ ६८॥

उपस्थानेन यत्प्रोक्तं भिक्षार्थं ब्राह्मणेन तत् ।
तात्कालिकमिति ख्यातं भोक्तव्यं यतिभिस्तदा ॥ ६९॥

सिद्धमन्नं यदानीतं ब्राह्मणेन मठं प्रति ।
उपपन्नमिति प्राहुर्मुनयो मोक्षकाङ्क्षिणः ॥ ७०॥

चरेन्माधूकरं भैक्षं यतिर्म्लेच्च्हकुलादपि ।
एकान्नं नतु भुञ्जीत बृहस्पतिसमादपि ।
याचितायाचिताभ्यां च भिक्षाभ्यां कल्पयेत्स्थितम् ॥ ७१॥

न वायुः स्पर्शदोषेण नाग्निर्दहनकर्मणा ।
नापो मूत्रपुरीषाभ्यां नान्नदोषेण मस्करी ॥ ७२॥

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
कालेऽपराह्णे भूयिष्ठे भिक्षाचरणमाचरेत् ॥ ७३॥

अभिशतं च पतितं पापण्डं देवपूजकम् ।
वर्जयित्वा चरेद्भैक्षं सर्ववर्णेषु चापदि ॥ ७४॥

घृतं स्वमूत्रसदृशं मधु स्यात्सुरया समम् ।
तैलं सूकरमूत्रं स्यात्सूपं लशुनसंमितम् ॥ ७५॥

माषापूषादि गोमांसं क्षीरं मूत्रसमं भवेत् ।
तस्मात्सर्वप्रयत्नेन घृतादीन्वर्जयेद्यतिः ।
घृतसूपादिसंयुक्तमन्नं नाद्यात्कदाचन ॥ ७६॥

पात्रमस्य भवेत्पाणिस्तेन नित्यं स्थितिं नयेत् ।
पाणिपात्रश्चरन्योगी नासकृद्भैक्षमाचरेत् ॥ ७७॥

आस्येन तु यदाहारं गोवन्मृगयते मुनिः ।
तदा समः स्यात्सर्वेषु सोऽमृतत्वाय कल्पते ॥ ७८॥

आज्यं रुधिरमिव त्यजेदेकत्रान्नं पललमिव
गन्धलेपनमशुद्धलेपनमिव क्षारमन्त्यजमिव
वस्त्रमुच्च्हिष्टपात्रमिवाभ्यङ्गं स्त्रीसङ्गमिव
मित्राह्लादकं मूत्रमिव स्पृहां गोमांसमिव
ज्ञातचरदेशं चण्डालवाटिकादिव स्त्रियमहिमिव
सुवर्णं कालकूटमिव सभास्थलं श्मशानस्थलमिव
राजधानीं कुंभीपाकमिव शवपिण्डवदेकत्रान्नं न
देवतार्चनम् । प्रपञ्चवृत्तिं परित्यय जीवन्मुक्तो भवेत् ॥
आसनं पात्रलोपश्च संचयः शिष्यसंचयः ।
दिवास्वापो वृथालापो यतेर्बन्धकराणि षट् ॥ ७९॥

वर्षाभ्योऽन्यत्र यत्स्थानमासनं तदुदाहृतम् ।
उत्कालाब्वादिपात्राणामेकस्यापीह संग्रहः ॥ ८०॥

यतेः संव्यवहराय पात्रलोपः स उच्यते ।
गृहीतस्य तु दण्डादेर्द्वितीयस्य परिग्रहः ॥ ८१॥

कालान्तरोपभोगार्थं संचयः परिकीर्तितः ।
शुश्रूषालाभपूजार्थं यशोर्थं वा परिग्रहः ॥ ८२॥

शिष्याणां नतु कारुण्याच्च्हिष्यसंग्रह ईरितः ।
विद्या दिवा प्रकाशत्वादविद्या रात्रिरुच्यते ॥ ८३॥

विद्याभ्यासे प्रमादो यः स दिवास्वाप उच्यते ।
आध्यात्मिकीं कथां मुक्त्वा भिक्षावार्तां विना तथा ॥ ८४॥

अनुग्रहं परिप्रश्नं वृथाजल्पोऽन्य उच्यते ।
एकान्नं मदमात्सर्यं गन्धपुष्पविभूषणम् ॥ ८५॥

ताम्बूलाभ्यञ्जने क्रीडा भोगाकाङ्क्षा रसायनम् ।
कत्थनं कुत्सनं स्वस्ति ज्योतिश्च क्रयविक्रयम् ॥ ८६॥

क्रियाकर्मविवादश्च गुरुवाक्यविलङ्घनम् ।
संधिश्च विग्रहो यानं मञ्चकं शुक्लवस्त्रकम् ॥ ८७॥

शुक्लोत्सर्गो दिवास्वापो भिक्षाधारस्तु तैजसम् ।
विषं चैवायुधं बीजं हिंसां तैक्ष्ण्यं च मैथुनम् ॥ ८८॥

त्यक्तं संन्यासयोगेन गृहधर्मादिकं व्रतम् ।
गोत्रादिचरणं सर्वं पितृमातृकुलं धनम् ।
प्रतिषिद्धानि चैतानि सेवमानो व्रजेदधः ॥ ८९॥

सुजीर्णोऽपि सुजीर्णासु विद्वांस्त्रीषु न विश्वसेत् ।
सुजीर्णास्वपि कन्थासु सज्जते जीर्णमम्बरम् ॥ ९०॥

स्थावरं जङ्गमं बीजं तैजसं विषमायुधम् ।
षडेतानि न गृह्णीयाद्यतिर्मूत्रपुरीषवत् ॥ ९१॥

नैवाददीत पाथेयं यतिः किंचिदनापदि ।
पक्वमापत्सु गृण्हीयाद्यावदन्नं न लभ्यते ॥ ९२॥

नीरुजश्च युवा चैव भिक्षुर्नावसथे वसेत् ।
परार्थं न प्रतिग्राह्यं न दद्याच्च कथंचन ॥ ९३॥

दैन्यभावात्तु भूतानां सौभगाय यतिश्चरेत् ।
पक्वं वा यदि वाऽपक्वं याचमानो व्रजेदधः ॥ ९४॥

अन्नपानपरो भिक्षुर्वस्त्रादीनां प्रतिग्रही ।
आविकं वानाविकं वा तथा पट्टपटानपि ॥ ९५॥

प्रतिगृह्य यतिश्चैतान्पतत्येव न संशयः ।
अद्वैतं नावमाश्रित्य जीवन्मुक्तत्वमाप्नुयात् ॥ ९६॥

वाग्दण्डे मौनमातिष्टेत्कायदण्डे त्वभोजनम् ।
मानसे तु कृते दण्डे प्राणायामो विधीयते ॥ ९७॥

कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ ९८॥

रथ्यायां बहुवस्त्राणि भिक्षा सर्वत्र लभ्यते ।
भूमिः शय्यास्ति विस्तीर्णा यतयः केन दुःखितः ॥ ९९॥

प्रपञ्चमखिलं यस्तु ज्ञानाग्नौ जुहुयाद्यतिः ।
आत्मन्यग्नीन्समारोप्य सोऽग्निहोत्री महायतिः ॥ १००॥

प्रवृत्तिर्द्विविधा प्रोक्ता मार्जारी चैव वानरी ।
ज्ञानाभ्यासवतामोतुर्वानरीभाक्त्वमेव च ॥ १०१॥

नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्च्हतः ।
जानन्नपि हि मेधावी जडवल्लोकमाचरेत् ॥ १०२॥

सर्वेषामेव पापानां सङ्घाते समुपस्थिते ।
तारं द्वादशसाहस्रमभ्यसेच्च्हेदनं हि तत् ॥ १०३॥

यस्तु द्वादशसाहस्रं प्रणवं जपतेऽन्वहम् ।
तस्य द्वादशभिर्मासैः परं ब्रह्म प्रकाशते॥ १०४॥

इत्युपनिषत् हरिः ॐ तत्सत् ॥ इति द्वितीयोऽध्यायः ॥ २॥

ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण
मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥
इति संन्यासोपनिषत्समाप्ता ॥

अधिकाध्ययनाय[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=संन्यासोपनिषत्&oldid=100480" इत्यस्माद् पुनः प्राप्तिः