श्रीसिद्धान्तसुधानिधिः/अध्यायः ३-पादः ३/आह्निकम् २
← *आह्निकम् १ | श्रीसिद्धान्तसुधानिधिः आह्निकम् २ [[लेखकः :|]] |
तृतीयाध्याये तृतीयपादे द्वितीयमाह्निकम् ।। 2 ।।
वर्तमानसामीप्ये वर्तमानवद्वा ।। 131 ।।
सामीप्यमिति स्वार्थे ष्यञिति केचित्। भाव इत्यन्ये। नचातिदेश्यप्रत्ययार्थानामेव सामीप्यसम्बन्धो नतु वर्त्तमानस्येति समासानुपपत्तिः। परम्परयोपपत्तेरिति कैयटः। एतेन भावार्थे वर्तमानशब्देन समासो न स्यात्। नहि सामीप्यस्य वर्तुमानेन सम्बन्धः। अपितु समीपेन तस्य तद्गुणत्वादिति न्यासकारो क्तमपास्तम्। षष्ठीसमासनिषेधो रूपादीनामेवेत्येके अनित्य इत्यन्ये। गुणाक्षिप्तस्य गुणिन एव निषेधः। नच वर्तमानःसामीप्यस्य गुणी किं तु भूतभविष्यन्तावित्यपरे। वत्करणं प्रकृत्यादिव्यवस्थार्थम्। अन्यथा यस्माद्दातोर्वर्तमाने यस्य प्रत्ययस्य विधानं स विशेषानुपादानादस्मादतिदेशाद्धात्वन्तरादपि स्यात्। याभ्यः प्रकृतिभ्यो येनोपाधिना प्रकृत्युपपदाभिधेयरूपेण ये प्रत्यया विहितास्ताभ्य एव प्रकृतिभ्यस्तस्मिन्नेवोपाधौ ते वर्तमानसमीपे भूते भविष्यति च भवन्तीत्यर्थविज्ञानात्। तेन पूङ्यजोर्विहितः शानन् वर्तमानसमीपेऽपि ताभ्यामेव नान्यस्मात्। तच्छीलादौ कर्तरि अलंकृञित्यादिना इष्णुजुक्तः स तादृश एव कर्तर्युपाधौ नान्यादृश इत्यादि। अन्यथा वर्तमानवदित्यतिदेशाविरोधात्। कालमात्रव्यभिचारस्यैतदर्थत्वात्। कदाआगतोऽस्ययमागच्छामि। आगमं वा। कदा गमिष्यसि यव गच्छामि गमिष्यामि वा। प्रश्नवाक्ये भूतभविष्यत्कालनिर्देश उदाहरणवाक्ये तदभिव्यक्त्यर्थः अयमित्यादिपदस्यागमनादेर्वर्तमानसामीप्यं द्योत्यम्। गमनागमनाविनाभूतप्रस्वेदपरिकरबन्धादिविशिष्टपरामर्षात्।
ननु लडेवात्रोदाह्रियते। तत्र बालडित्येव सूत्रं युक्तमिति चेन्न। एषोऽस्मि पचन् एषोऽस्मि पचमान इत्याद्यर्थत्वात्। पूङ् यजोः शानन्, ताच्छील्य वयोवचनशक्तिषु चानश्, इङ्धार्यादिभ्यः शतृप्रत्ययश्च बोध्यः। लटः शतशानचावित्यत्र वर्तमानविहितस्योपादानात्। अन्यथा लट्स्मे इत्यादिविहितस्यादेशस्य तदादेशप्रसङ्गात्। इदमारोपेणोपपत्त्या प्रत्याख्यातम्।
आशंसायां भूतवच्च ।। 132 ।।
आशंसा अभिमतार्थवाञ्छा। सा स्वरूपतो वर्तमानापि विषयस्य भविष्यत्वात्तादृश्युच्यते। अतिदेशस्य विषयभूता च। आंशसायां विषये आशेस्यमानक्रियावचनाद्धातोर्भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया भवन्ति इत्यर्थः। देवश्चेदवर्षीद्वर्षति वायमतिदेशो भूतसामान्यार्थत्वात् नतु लङ्लिटोः सामान्यातिदेशे विशेषानतिदेश इतिन्यायात्।
क्षिप्रवचने लृट् ।। 133 ।।
वचनग्रहणं स्वरूपमात्रनिरासार्थम्। पूर्वविषये लृट्। वृष्टिश्चोत्क्षिप्रमाशु वा यास्यति शीघ्रं वप्स्यामः। अनाशंसार्थ आरम्भः। निषेधमपहाय लृटो ग्रहणं लुटो विषयेऽपि लृडर्थम्। श्वः शीघ्रं वप्स्यामः।
आशंसावचने लिङ् ।। 134 ।।
आशंसार्थे उपपदे भविष्यति लिङ्। भूतवच्चेत्यस्यायमपवादः गुरुश्चेदुपेयादाशंसेऽधीयीय। आशंसे क्षिप्रमधीयीय।
नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः ।। 135 ।।
क्रियायाः सातत्ये सामीप्येच लङ्लुटौ न। अनद्यतने तयोर्विधानान्निषेधस्यापि प्रसक्तिसापेक्षस्य तद्विषयकत्वात्। यावज्जीवमन्नमदात् दास्यति वा। सामीप्यं सजातीयेनाव्यवधानम्। येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनादधीत सोमेनायष्ट। येयममावास्यागामिनी तस्यामग्नीनाधास्यते सोमेन यक्ष्यते। तिथ्यन्तरेण व्यवधानेऽपि पौर्णमास्यन्तरेणामावास्यान्तरेणचाव्यवाधानान्न दोषः।
स्यादेतत्। अनद्यतनवदित्याद्येव सूत्र्यताम्। निषेधापेक्षया लाघवात्। मैवम्। अपूर्वविधित्वापत्तौ लुङ्लृटोरन्योन्यविषये संकरप्रसङ्गात्। नच वत्करणसामर्थ्यम्. भूतभविष्यच्छद्बोपादानेन लुङ्लृटोर्विधानेऽपि अनद्यतने दृष्टत्वमस्तीति तन्मात्रेण स्वकालातिरिक्तकालेपि तत्प्रसङ्गस्य दुर्वारत्वात्। वदित्यस्य दृष्टार्थतयाप्युपपत्तेः। यथान्यासे तु वत्करणमनद्यतनविशेषविहितानामपि निषेधार्थम। प्रयोजनान्तराभावात्। नानद्यतन इत्येव सिद्धेः। तेन परोक्षे लिट् हशश्वतोर्लङ्च लट्म्मे पुरिलुङ्चास्मे इत्येतत्सूत्रविहितानामयं प्रतिषेधः। अनद्यतनप्रत्ययप्रतिषेधेन मौलैरेव विधिवाक्यैरपवादविषयमपहाय यथास्वं प्रत्यया विधीयन्ते इति न कोऽपि दोषः।
भविष्यति मर्यादावचनेऽवरस्मिन् ।। 136 ।।
अक्रियाप्रबन्धार्थोऽसामीप्यार्थश्चारम्भः। वचनसामर्थ्याच्च तयोर्निवृत्तः भविष्यति काले मर्यादोक्तावर्वाग्भागेऽनद्यतनवन्न। योऽयमध्वा गन्तव्यः पाटलिपुत्रात्तस्य यदवरं कौशाम्ब्याः तत्र सक्तून् पास्यामः।
कालविभागे चानहोरात्राणाम् ।। 137 ।।
पूर्वस्य सर्वानुवृत्तिः योगविभाग उत्तरार्थः। अनहोरात्राणामिति संबन्धसामान्ये षष्ठी। तेन यदाहोरात्राणामन्येन कालेन विभागः, अन्यस्य वाहोरात्रैः। अहोरात्राणआं वाहोरात्रैः तत्र सर्वत्र प्रतिषेध इति भाष्यकैयटयोः स्पष्टम्। योऽयं सवत्सर आगमी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे। अनहोरात्राणां किम्। योऽयं मास आगामी तस्य यदवरः पञ्चदशरात्रः तत्राध्येतास्महे। अत्र मासस्य पूर्वपञ्चदशरात्रेणावच्छेद एवविभागः।
परस्मिन् विभाषा ।। 138 ।।
पूर्वसूत्रद्वयस्यानुवृत्ति र्नत्ववरस्मिन्नित्यस्य। परस्मिन्निति विशेष्योपादानात्। अप्राप्तविभाषेयम्। योयं संवत्सर आगामी तस्य यत्परमाग्रहायव्यास्तत्राध्येष्यामहे। अध्येतास्महे वा। ननु देशविभागेऽप्ययं विधिः स्यादिति चेन्न। भविष्यति मर्यादावचनेऽवरस्मिन्ननहोरात्राणामित्येकयोगे कर्तव्ये पृथग्योगकरणेनपरस्मिन्निति सूत्रे कालविभागमात्रसबन्धस्य ज्ञापितत्वात्। तेन योऽयमध्वा गन्तव्य आपाटलिपुत्रात्तस्य यत्परं कौशम्ब्यास्तत्र सक्तून् पातास्म इति लुट्।
लिङ्निमित्तेलृङ्क्रियातिपत्तौ ।। 139 ।।
लिङो निमित्तं हेतुहेतुमद्भावादि तत्र लृङ् क्रियाया अनिष्पत्तौ गम्यमानायाम्। अत्र लृङो भविष्यत्वं हेतुहेतुमद्भावोऽतिपत्तिश्चार्थः। यस्मिन् देशे कालेवा यस्याः क्रियायाः संभवस्तदन्यत्र तत्क्रियायाः प्रसञ्जनं अतिपत्तिः। तत्र भविष्यत्वं कृत्यर्थकाख्यातस्थले कृतौ आश्रयत्वार्थकस्थलेच धात्वर्थेऽन्वेति। हेतुहेतुमद्भावश्च क्रियायां, धात्वर्थः प्रसंजने प्रकारतया, प्रथमान्तर्थश्च विशेष्यतयान्वेति। यदि वर्षसहस्रमजीविष्यं तदा पुत्रशतमजनयिष्यम्। इत्यत्र यदिशब्दस्य क्रियान्वितमनिर्द्धारणं कालविशेषश्चार्थः। द्वितीयायाव्यापकत्वनिरूढलक्षणयाऽल्यन्तसंयोगोर्थः। तथाच निर्धारितकालविशेषवृत्तिभविष्यद्धेतुसहस्रवर्षव्यापकजीवनप्रकारकसम्भावनाविशेष्योहं तत्कालीन भविष्यत्कार्थशतपुत्रकर्मकोत्पत्यनुकूलव्यापारप्रकारकसम्भवनाविशेष्य इति बोधः। इहवर्तसहस3जीवित्वस्य स्वस्मिन् बाधदशायां प्रसक्तिरेव सम्भावना। तदसत्वे संशय एवेति केचित्।
अन्येतु तत्रयोग्यतानिश्चयसत्त्वेऽपि आहार्यं शाब्दम्। अनिर्धारितकालविशेषवृत्तिभविष्यद्धेतुभूतवर्षसहस्रजीवित्ववानहम्। तत्कालीनभविष्यत्कार्यभूतपूत्रशतोत्पत्त्यनुकूलव्यापारवान् इति बोधः। यद्वा एतादृशस्थले पदार्थेपस्थिमात्रेजाते तद्बलाद्व्याप्त्यादिप्रतिसन्धाने मानस एव संशयात्मकबोधः। प्राचीनमते शब्दो नित्यो नवेत्यादिवत्। सूत्रस्य तु तादृशातिपत्तिस्थले लिङोऽसाधुत्वे तात्पर्यमित्याहुः। अपरे त्वनागतकालीनवर्षसहस्रजीवित्वाभावप्रयुक्तो मम पुत्रशतोत्पादकत्वाभाव इत्याहुः।
ननु यदि मांसमलप्स्यत तदाऽभोक्ष्यत इत्यादौ साधनस्य मांसादेरतिपत्तावपि साधनान्तरेण भोजनक्रियानिष्पत्तेः कथं लृडितिचेदत्र भाष्यम्। करणभेदेन क्रियाभेदान्मांसातिपत्तौ मांसभोजनक्रियातिपत्तिरेवेति। एतत्स्वारस्याच्चेच्छब्दस्याभावोऽर्थः तत्र भविष्यत्कालसम्बन्धित्वं चेच्छब्दसमभिव्याहृतधात्वर्थश्च विशेषणम्। अभावश्च प्रयुक्तत्वसम्बन्धेन भविष्यत्कालसम्बन्ध्यभावे तस्य प्रतियोगितयाक्रियान्तरेऽन्वयः। धात्वन्तरोक्तेरलृङर्थभभिष्यकालसम्बन्धित्वस्य भावे पुनरन्वयस्वीकारात्। तथाच भविष्यत्कालसम्बन्धी यो मांसकर्मकलाभाभावस्तत्प्रयुक्ताभावप्रतियोगिनी मांसभक्षणक्रियोति बोधः। एवमन्यत्राप्यूह्यम्।
भीतेच ।। 140 ।।
प्रथमसूत्रस्य सर्वानुवृत्तिः। उदाहरणानि। उताप्योः समर्तयोरित्यारभ्य वक्ष्यन्ते ततः प्राग्विकल्पोक्तेः।
वोताप्योः ।। 141 ।।
ओताप्योरिति च्छेदः। तत्राप्या उताप्योरिति समासः। विभक्त्यन्तमेवानुकृत्याङा समासोऽव्ययत्वाद्विभक्तेर्लुक्। उताप्योः समर्थयोरित्यतः प्राक् भूते लिङ्निमित्ते लृङ्वेत्यधिकृतं बोध्यम्। आङ्चात्र मर्यादायाम्। गर्हायां लडपिजात्वोरित्यस्य लड्विधायकत्वेन लिङ्निमित्ताभावात्। विभाषाकथमित्यभिव्याप्य उताप्योः समर्थयोरित्यतः प्राक् लिङो विधानं तत्रभूते लिङ्विकल्पो भविष्यति तु नित्यमिति फलितार्थः।
गार्हायां लडपि जात्वोः ।। 142 ।।
आभ्यां योगे लट् कालत्रये गर्हायाम्। लुङादीनां परत्वाद्बाधकोऽयम्। अपि जा यां त्यजसि गणिकामादत्से गर्हितमेतत्। गर्हितपदं तात्पर्यद्योतनार्थम्। गर्हादिविशिष्टे प्रकृत्यर्थे इति कैयटोक्तेः।
विभाषा कथमिलिङ्च ।। 143 ।।
गर्हायां कालत्रये लिङ् चाल्लट्। कथं धर्मंत्यजेः। त्यजसि वा। लिङ्विकल्पात्पक्षे कालत्रये लकाराः कथं नामात्रभवान् धर्ममत्यक्ष्यत्।
किं वृत्तेलृङ्लृटौ ।। 144 ।।
गर्हायां विभाषाया नानुवृत्तिः। कः कतरः कतमो वा हरिं निन्देत्। निन्दिष्यति वा। लृङ् प्राग्वत्।
अनक्लॉप्त्यमर्षयोरकिंवृत्तेऽपि ।। 145 ।।
गर्हायामिति निवृत्तम्। अनवक्लृप्तिरसम्भावना। अमार्षोऽक्षमा। इदं द्वयमनुवर्तते गर्हायाञ्चेति यावत्। नसम्भावयामि न मर्षये वा भवान् हरिं निन्देत्। निन्दिष्यति वा। कः कतर इत्यादि प्राग्वत्। अस्य लृटः कालत्रये विधानाद्भविष्यदर्थयोगेऽपि भविष्यदीकारविहितत्वाभावात्। लृटः सद्वेत्यादेशो नभवतीति बोध्यम्।
किं किलास्त्यर्थेषु लृट् ।। 146 ।।
निपातसमुदायोऽयं क्रोधार्थः। अस्त्यर्था अस्तिभवतिविद्यतयः। उभयं च विकल्पेनोपपदम्। लिङोऽपवादः। न श्रद्दधे नमर्षयामि वा किं किल त्वं शूद्रान्नं भोक्ष्यसे। अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि।
जातुयदोर्लिङ् ।। 147 ।।
`यदै यद्योरुपसंख्यानम्' लृडपवादः। जातु यत् यदा पदि वा त्वादृशो हरिं निदेत् नावकल्पयामि न मर्षयामि।।
यच्च यत्रयोः ।। 148 ।।
यच्च यत्र वा त्वमेवं कुर्याः नश्रद्दधे नमर्षयामि। योगविभाग उत्तरार्थः।
गर्हायां च ।। 149 ।।
अनवक्लृप्त्यमर्षयोरिति वाच्यम्। यच्च यत्रयोगे लिङेवस्यात्। यच्च यत्र वा त्वं शूद्रं याजयेः। अन्याय्यं तत्।
चित्रीकरणे च ।। 150 ।।
यच्च यत्र वा त्वं शुद्रं याजयोराश्चर्यमेतत्।
शेषेलृडयदौ ।। 151 ।।
यच्चयत्राभ्यामन्यस्मिन् उपपदे आश्चर्ये गम्ये लृट्। आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति। अयदौ किम्। आश्चर्यं यदि स भुञ्जीत अत्र यदि शब्दस्य संभावने प्रयोगात्तत्र तात्पर्य प्रतीत्या सम्भावनेऽवलमिति चेदित्यनेनैव लिङिति भाष्यम्।
उताप्योः समर्थयोर्लिङ् ।। 152 ।।
बाढमित्यर्थेऽनयोरर्थसाम्यं उत अपि वा हन्यादघं हरिः। समर्थयोः किम्। उत दण्डः पतिष्यति। अपिधास्यति द्वारम्। प्रश्न आच्छादनं चार्थः। इतः प्रभृति लिङ्निमित्ते क्रियातिपत्तौ भूतेऽपि नित्यो लृङ्।
कामप्रवेदनेऽकच्चिति ।। 153 ।।
कच्चिच्छब्दादन्यन स्वेच्छायां प्रकाश्यमानायां लिङ्। कामो मे भुञ्जीत भवान्। भवत्कर्तृकभोजनं मदिच्छाविषय इत्यर्थः। अकिच्चिति किम्। कच्चिज्जीवति। अत्रप्रश्नोऽपि कच्चित्पदस्यार्थः। तथाच मदिच्छाविषयो जीवनं जिज्ञासाविषय इत्यर्थः।
सम्भावनेऽलमितिचेत्सिद्धाप्रयोगे ।। 154 ।।
अलमर्थोऽत्र प्रौढिः। तत्प्रकारके सम्भावने गम्ये लृट् अलंशब्दः सिद्धाप्रयोगश्चेत्। विभक्तिव्यत्ययलक्ष्योऽयमर्थः। यत्प्रयोगव्यतिरेकेऽपि सोर्थो गम्यते स सिद्दाप्रयोगः। अपि गिरिं शिरसा भिन्द्यात्। सिद्धेतिकिम्। अलं कृष्णो हस्तिनं हनिष्यति।
विभाषाधातौ सम्भावनवचनेऽयदि ।। 155 ।।
सम्भावनेऽर्थे धातावुपपदे लिङ्वा नतु यद्योगे। विकल्पार्थ आरम्भः। सम्भावयामि भुञ्जीत भवान् भोक्ष्यते वा। अयदीति किम्। सम्भावयामि यद्भुञ्जीथास्त्वम्।
हेतुहेतुमतोर्लिङ् ।। 156 ।।
विभाषा स्यात् कृष्णं नमेच्चेत् सुखं यायात्। कृष्णं नंस्यति चेत् सुखं यास्यति। भविष्यत्येवेष्यते। नेह। हन्तीति पलायते। इह लक्षण हेत्वोरिति शत्रादेशो नेत्येवेति सिद्धान्तः। तथाच वार्तिकम्।
देवत्रातो गरो ग्राह इतियोगेच सद्विधिः
मिथो नैव विकल्प्यन्ते गवाक्षः शंसितव्रतः इति।
एषु नत्वलत्वाभावौ णः सदादेशाभाव अवङ् इत्वंच नित्यमेव प्रवर्तन्ते व्यवस्थितविभाषाविज्ञानादिति भावः। ननु तिङन्तवाच्यक्रियायाः क्रियान्तरे साधनत्वेनान्वयस्य भाष्यसिद्धत्वात्। अत्रकथं तयोः परस्परान्वय इतिचेत्।
अत्रकेचित्। आकाङ्क्षारूपान्वये भाष्यतात्पर्यम्। समभिव्याहारविशेषस्य नियामकत्वात्। अत्रच यच्छब्दादिसमभिव्याहारेण क्रियायाः क्रियान्तराकाङ्क्षोत्थापनम्। नतु कृष्णं नमेदित्यादौ अतो नदोष इत्याहुः।
मिश्रास्तु यो ब्राह्मणायावगुरेत्तं शतेन यातयादित्यत्र हेतुहेतुमतोर्लिङित्यनुशासनाद्यो ब्राह्मणवधोद्यमप्रागभाववान् स त दुत्तरवर्तिशतयातनावानिति बोध्यते। हेतुत्वे-पूर्ववर्तित्वे। हेतुमत्त्वे उत्तरवर्तित्वे लिङनुशासनात्। नियमश्च(यद्योगः प्राथम्य)मुत्पत्तिबललभ्य इत्याहुः।
अन्येतु नियमांशेऽपि शक्तौ नदोषः। नियतपौर्वापर्यं बोध्यते इतिमूलस्वारस्यादित्याहुः। एवंचात्रापि नियतपूर्ववृत्तिर्या कृष्णनमनक्रिया सामानाधिकरण्येन तद्विशिष्टा उत्तरवृत्तिसुखप्राप्तिक्रियेति लिङर्थविशिष्टयोः क्रिययोः सामानाधिकरण्येनैवान्वयः। नतु साधनत्वेनेति नदोष इति कैयटस्वारस्यानुसारिणः।
इच्छार्थेषु लिङ्लोटौ ।। 157 ।।
प्रैषातिसर्गप्राप्तकालेषुकृत्याश्च ।। 158 ।।
प्राप्तविषये प्रेरणं प्रैषः। अतिसर्गः कामचारानुज्ञा। स्वाध्यायोऽध्येतव्य इत्यादौ त्वप्राप्तत्वाद्विशेष्यमात्रपरत्वम्। भवता यष्टव्यम्। भवान् यजताम्। चकारः प्राप्तकाले लोटो बाधापत्त्या तदभावार्थः।
लिङ्चोर्ध्वमौहूर्तिको ।। 159 ।।
प्रैषादीनां गम्यत्वे कृत्या लिङ्चस्युः। ऊर्ध्वं मुहूर्ताद्यजेत। यजताम्। त्वया यष्टव्यम्।
स्मे लोट् ।। 160 ।।
स्मशब्दे उपपदे लोट् पूर्वविषये। ऊर्ध्वंमुहूर्ताद्यजतां स्म। लिङः कृत्यानां चापवादः।
अधीष्टेच ।। 161 ।।
अत्र गम्ये स्मे उपपदे लोट्। त्वं स्माध्यापय।
कालसमयवेलासुतुमुन् ।। 162 ।।
कालो भोक्तुम्। समयो वेला वा।
लिङ् यदि ।। 163 ।।
यच्छब्दे कालादिषु चोपपदेषु लिङ्। कालो यद्भुञ्जीत भवान्। सययो वेला वा यच्छद्बः कालाद्यन्यतरच्चेत्युपपदद्वयमत्र बोध्यम्।
अर्हे कृत्यतृचश्च ।। 164 ।।
तद्योगे कर्तरि गम्ये लिङ्च कृत्यतृचः स्युः। त्वं कन्यां वहेः। बोढुमर्होऽसीत्यर्थः। क्रेयं क्रयणार्हमित्यर्थः। स्तुतिमर्हः स्तोता। लिङा बाधो माभूदिति कृत्यतृज्विधानम्।
आवश्यकाधमर्ण्ययोर्णिनिः ।। 165 ।।
ग्रामं गमी। शतमृणं दायी। अकेनोर्भविष्पदाधमर्ण्य योरिति षष्ठी निषेधः।
कृत्याश्च ।। 166 ।।
उक्तयोरर्थयोः स्युः। योगविभाग उत्तरार्थः।
शकि लिङ्च ।। 167 ।।
शक्तौ लिङ् चात्कृत्याः। त्वंभारं वहेः। भारवहने शक्तोसीत्यर्थः। वोहुं शक्यो वोढव्यो वहनीयो वाह्यः। लिङा बाधा माभूदिति कृत्योक्तिः। नच वासरूपविधिना सिद्धिः। स्त्र्यधिकारादूर्ध्वं वासरूपविधिर्नास्तीत्यस्य ज्ञाप्यत्वात्। यद्यपि प्रैषेतिसूत्रे कृत्याश्चेत्यनेनापि तज्ज्ञापयितुं शक्यम्। तथाप्यत्र चकारमात्रेण ज्ञापयितुं शक्यम्। तत्र तु कृत्यग्रहणेन कृत्यतृज्ग्रहणेनचेति गौरवादस्यैव ज्ञापकत्वं युक्तमित्याहुः।
परिभाषा प्रयोजनान्युच्यन्ते। छात्रस्य हसितम् हसनं वेति कृत्यल्युटो विषये नपुंसके भावे घञ्न। इच्छति भोक्तुमित्यत्राशिषि लोट्न। लिङ्तु लिङ्चेतिविशिष्यदर्शनात्। ईषत्पानइत्यातो युचो विषये खल्नेति संक्षेपः। कामप्रवेदने इति वक्तव्यम्। नेह इच्छन् करोति कामप्रवेदनं स्ववृत्तीच्छाया ज्ञापनम्। इहतु कृतिहेतुरिच्छान्यवृत्तिः। तथाच लिङुच्चारयितुरिच्छायां इच्छापदस्य तात्पर्ये लिङित्यर्थः। नन्वेवं कामप्रवेदने अकच्चितीति सूत्रवेयर्थ्यम्। यत्रार्थप्रकरणादिनापि कामप्रवेदनं गम्यते तदर्थत्वात्। नचैवमप्यस्य वैयर्थ्यम् लोडर्थत्वात्। विशेषविहितेन तेन लिङो बाधो माभूदिति लिङाप्युक्तेः। नच लोट् चेत्येव निर्वाहः। चकारेण लिङोऽनुकर्षे तत्संबद्धविभाषाग्रहणस्यापि तदापत्तेः।
मीमांसकास्तु उक्तरीत्या तत्सूत्रसार्थक्यं निर्युक्तिकम्। अतोऽनेन सूत्रेण इच्छायामर्थे लिङ् विधीयते नतु इच्छार्थधातुयोगे। तेन यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् गृह्णीयात् इत्यादौ ग्रहीतुमिच्छेदित्यर्थ इत्याहुः।
(1)लिङ् च ।। 168 ।।
समानकर्कृकेषु इच्छार्थेषु उपपदेषु लिङ्। भुञ्जीयतीच्छति। समानकर्तृकेषु तुमुन्वक्ष्यते। स यथा पूर्वसूत्रेण प्राप्तं लोटं बाधते एवं लिङमपि बाधेतेति लिङ्र्थं आरम्भः। नचेह वासरूपन्यायः। क्तल्युट्तुमुन्खलर्थेषु तन्निषेधात्।
इच्छार्थेभ्योविबाषावर्तमाने ।। 169 ।।
पक्षे लट्। इच्छेत्। इच्छति। कामयेत कामयते। एतेन पाणिपीडनमहं दमयन्त्याः कामये महिमहीमिहिकांशो इतिनैषधं व्याख्यातम्।
विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् ।। 170 ।।
विधौ स्वर्गकामो यजेत। निमन्त्रणे इह भुञ्जीत भवान्। आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनं तत्। तदतिक्रमणे च निमन्त्रणीयस्य प्रत्यवायः। आमन्त्रणं कामचारानुज्ञा। यदकरणेऽपि न प्रत्यवायः। निवारणाभावव्यंजकेच्छेति यावत्। इहासीत भवान्। स्वानभिमतत्वनिरासमात्रे तात्पर्यम्। श्रोतरि पूजासन्मानव्यञ्जकेच्छाधीष्टम्। पुत्रमध्यापयेद्भवान्। एषु विधिरूपतासत्त्वेऽपि प्रपञ्चार्थं पृथगुपादानमिति कैयटादयः तथा च हरदत्तः।
न्यायव्युत्पादनार्थं वा प्रपञ्चार्थमथापि वा।
विध्यादीनामुपादानं चतुर्णामादितः कृतम्।।
अस्तिप्रवर्तनारूपमनुस्यूतं चतुर्ष्वपि।।
तत्रैव लिङ् विधातव्यः किंभेदस्य विवक्षया।
अभिधानप्रयोजिका जिज्ञासा प्रश्नः। किंभो वेदमधीयीय। उत्त तर्कम्। लाभेच्छा प्रार्थना। भोजनं लभेय। अत्र विध्यादयोऽर्थाः द्योत्या इत्येकः पक्षः। अन्यथा नाप्राप्तेषु कर्त्रादिषु विध्यादयो निर्दिश्यमानास्तेषां बाधापत्तेः। ततश्च कर्तुरनभिधानप्रसङ्गाद्विवचनबहुवचनानुपपत्तेश्च। तदर्थस्य द्वित्वादेः कर्तृकर्मान्यतरमात्रान्वयित्वात्। शबादीनामनुपपत्तेश्च।
सिद्धान्तस्तु वाच्या एवैते विध्यादिभिर्विरोधाभावात्। लः कर्माणचेत्यत्र सर्वसंग्रहार्थात् बहुवचननिर्देशाद्वोभयानुग्रहाच्च कर्त्रादयो न बाध्यन्ते इति कर्तृकर्मगतद्विबहुत्वनिबन्धनानां द्विवचनबहुवचनाना मुपपत्तेः। लडादावपि वर्तमानत्वादेरर्थविशेषस्य सर्वत्र सत्त्वेन तस्य कर्त्राद्यर्थबाधकत्वापत्त्या कर्त्रादीनामपि निरवकाशत्वाच्चेत्याकरसिद्धिः पन्थाः।
इति तृतीयस्य द्वितीयमाह्निकम्।
इति तृतीयः पादः।