श्रीसिद्धान्तसुधानिधिः/अध्यायः ३-पादः ३/आह्निकम् १
श्रीसिद्धान्तसुधानिधिः आह्निकम् १ [[लेखकः :|]] |
आह्निकम् २ → |
तृतीयपादे प्रथममाह्निकम्।। 1 ।।
उणादयो बहुलम् ।। 1 ।।
प्रयेणैषां रूढतया प्रकृतिप्रत्ययार्थाननुगमाद्विशिष्य न व्युत्पाद्यन्ते किन्तु शास्त्रान्तरव्युत्पादितानां साधुत्वमात्रमनेनाभ्यनुज्ञायते। अत्र वार्तिकम्।
वाहुलकं नतुदृष्टेः नैगमरूढिभवं हि सुसाधु।
नाम च धातुमाह निरुक्ते व्याकरणे शकटस्य च तोकम्।
अस्यार्थः-नन्वत्र बहुलग्रहणं व्यर्थम्। उणादय इत्येतावतैव साधुत्वाभ्यनुज्ञासिद्धेः इत्याशङ्क्याह-तनुदृष्टेरिति। प्रकृतेरितिजात्यभिप्रायमेकत्वम्। तनुशब्दो भावप्रधानः प्रकृतीनामल्पत्वदर्शनात्। बहुलशब्दार्थो बह्वर्थादानम्। तथाच तत्रापठिताताभ्योऽपि प्रकृतिभ्यो उणादयो विधीयन्ते। तेन हृषेरुलच्। शंकेरपि भवति शंकुलेति। एवं बहुवचनात्तत्राविहिता अपि प्रत्ययाः तेनार्तेः पिडपिड्डौ। ऋपिडः ऋपिड्डु इति। एवं कार्याण्यपि। यथा षण्ड इत्यत्र सत्वाभावः। षत्वं वा नन्वेवं सर्वेभ्योधातुभ्यः सर्वे प्रत्यया स्युरतआह नैगमेति। निगमे छन्दसि भवाः। अणृगयनादिभ्य इत्यण्। रूढिः प्रसिद्धिः। प्रयोगस्य नियामकत्वान्नातिप्रसङ्ग इत्यर्थः। प्रकृत्यादिविभागे न व्युत्पादने आचार्यान्तरसंमतिराह-नामचेति। निरुक्तं च भूवादिसूत्र उपन्यस्तम्। शकटस्य तोकमपत्यं शाकटायन इत्यर्थः।
संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे।
कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु।।
व्योख्यातम्।
भूतेऽपि दृश्यन्ते ।। 2 ।।
नच वर्तमानाधिकारिनिवृत्त्यैवैतदुत्तरसूत्रद्वयस्यान्यथासिद्धिः। उत्सर्गतो वर्तमाने, क्वचिदेव कालान्तरे इत्यर्थात्।
भविष्यति गम्यादयः ।। 3 ।।
ग्रामं गमी गामी वा। भविष्यत्सामान्यविषयाश्चैते। विशेषविवक्षायां त्वपवाद विप्रतिषेधाल्लुट्। श्वो गन्ता ग्रामम्। वासरूपविधिना लृडपि। गमिष्यति। भविष्यति इत्यादि। भविष्यदधिकारो यावत्पुराशब्दयोगे भविष्यत्येव लटः साधुत्वार्थः। भविष्यत्कालेन वर्तमानस्य बाधात्। शब्दोपात्तकालविशेषविध्यभावे च तदप्रयोगात्। असति त्वस्मिन् भूतेऽपि लटः साधुत्वं स्यात्।
यावत्पुरानिपातयोर्लट् ।। 4 ।।
यावभ्दुङ्क्ते। पुराभुङ्क्ते। निश्चयार्थौ निपातौ। समानन्तरं भोक्ष्यते इत्यर्थः। निपातग्रहणं लक्षणप्रतिपदोक्तपरिभाषाया अनित्यत्वज्ञापनार्थम्। यावभ्दुङ्क्ते इत्यत्र पूर्वविप्रतिषेधेन लुट् तत्पर्यन्तंयावत्पुरोत्यनुवर्तनाद्वा।
विभाषा कदाकर्ह्योः ।। 5 ।।
भविष्यति वा लट् स्यात्। पक्षे लुट्च। कदाकर्हि वा भुङ्क्ते भोक्ष्यते भोक्तावा। नच कर्हिशब्दस्यानद्यतनविषयत्वात्तद्योगेल़डयुक्तः भविष्यत्सामान्ये भोक्ष्यते इति व्युत्पाद्य कर्हियोगव्याख्यानात्। नच भविष्यत्सामान्यविहित लृटो विशेषविहितेन लुटा स्वविषये बाधः। तत्रैव तदनुवृत्तेरुक्तत्वात्।
किंवृत्ते लिप्सायाम् ।। 6 ।।
लङ्वा स्यात्। कं कतरं कतमं वा त्वं भोजयसि भोजयिष्य सिभोजयितासि वा। वक्तुर्भोनेच्छात्र गम्या।
लिप्स्यमान सिद्धौ च ।। 7 ।।
लिप्स्यमानेनान्नादिना स्वर्गादेः सिद्धौ गम्यायां लड्वा। अर्किवृत्तार्थआरम्भः। यो भवतामन्नं ददाति स स्वर्गं गच्छति। यो दास्यति दाता वा स स्वर्गं यास्यति याता वा। पूर्वसूत्रे किंवृत्तग्रहणे तु सिप्स्यमानरहितायां लिप्यासायां अकिंवृत्ते लटो निवृत्त्यर्थमिति कैयटः।
लोडर्थलक्षणेच ।। 8 ।।
प्रेषादेः परिचायकेऽर्थे वर्तमानाद्धातोः भविष्यति वा लट्। कृष्णश्चेद्भुङ्क्ते त्वं गाश्चारय भोक्ष्यते भोक्ता वा।।
लिङ्चौर्ध्वमौहूर्तिके ।। 9 ।।
निपातनात्समासोत्तरपदवृद्धी। मुहूर्तानन्तरं भविष्यत्युक्तपरिचायके वर्तमानाद्धातोः लिङ्लटौ पक्षे लृड्लुटौ। मुहूर्तादुपरि उपाध्यायश्चेदागच्छेदागच्छति आगमिष्यत्यागन्ता वा अथत्वं छन्दोऽधीष्व।
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ।। 10 ।।
क्रियार्थायां क्रियायां तद्वाचके धातावुपपदे भविष्यत्यर्थे धातोरेतौ स्तः। कृष्णं द्रष्टुं याति। कृष्णं दर्शको याति। इह गमनक्रिया दर्शनार्था। अतोदृशेस्तुमुनादि। नन्वविशेषेण विहितो ण्वुल् एतद्विषयेऽपि सिद्ध एव। नचाकेनोर्भविष्यदाधमर्ण्ययोरिति भविष्यत्कालानुवादेन षष्ठीनषेधार्थं तद्विधानम्। सामान्यविहितस्यैव भविष्यदर्थकतायां तदुपपत्तेः। नच भविष्यदधिकारविहितत्वस्य तन्निषेधप्रतियोगितावच्छेदकत्वलाभार्थम्। भविष्यदर्थस्यैव तथात्वे अङ्ग यजतां लप्स्यन्तेऽस्य याजका इत्यत्र य एनं याजयिष्यन्तीति विवरणाद्भविष्यदर्थस्याप्यकस्य योगे षष्ठीनिषेधापत्तेरिति वाच्यम्। भूतार्थस्यैव याजकपदस्य लप्स्यन्त इति पदसमभिव्याहारेण भविष्यत्ताबोधकत्वात्। नच इमेऽस्य याजका इत्यादौ तदनिषेधार्थं शब्दशक्तिस्वाभाव्येव याजकपदस्य भूतविषयत्वात्। भावियाजकत्वारोपेण तद्व्यवहारात्। नच विशेषविहितेन तुमुना ण्वुलोऽनपवादार्थं तुमुनो भावार्थतयाकर्थकण्वुलं प्रत्यबाधकत्वात। वासरूपविधिना ण्वुलोप्युपपत्तेश्च।
उच्यते तृजादिबाधाय ण्वुलो विधानम्। अन्यथा वासरूपविधिना तेऽपि प्रसज्येरन्। तेन कर्तुं ब्रजतीत्याद्यर्थे कर्ताव्रजति विक्षिपो व्रजति इत्यादयो न प्रयुज्यन्त इत्याकरः। क्रियायां किम्। द्रव्ये उपपदे माभूत्। भिक्षिष्ये इत्यस्य जटाः। भिक्षितुं जटा इत्यत्र तु धारयतीत्यध्याहार्यम्। क्रियार्थायां किम्। धावतस्ते पतिषअयति दण्डः। धावनक्रियाया दण्डपातहेतुत्वेऽपि तदर्थत्वाभावात्। तदुद्देशेन क्रियमाण्म्यैव तदर्थत्वात्। कृष्णमित्यत्र विषयत्वं द्वितीयार्थः। तच्च दर्शनान्वयि उदेश्यत्वसंम्बन्धेन दर्शनस्य यानक्रियान्वयः। कृष्णविषयकदर्शनोद्देश्यकं चैत्रकर्तृकं यानमिति बोधः। भविष्यत्वं तु न शाब्दविषयः। इच्छाया असिद्धविषयत्वस्वाभाव्यादेव लाभात्। दर्शक इत्यत्र तु दर्शनस्य स्वविषयकेच्छावत्त्वसम्बन्धेन ण्वुलर्थाश्रयान्वयः। तथाच कृष्णविषयकदर्शनाश्रयकर्तृकं यानमिति धीः। यानकर्तरि दर्शनस्य स्वविषयकेच्छावत्त्वसंम्बन्धेनान्वये याने दर्शनोद्देश्यकत्वमर्थाद्भवति।
यत्तु कृष्णकर्मकभविष्यद्दर्शनार्थं तादृशभविष्यद्दर्शनकर्तृकर्तृकंत्वदुद्देश्यकं च यानमित्युभयत्रार्थ इति तन्न। समानकर्तृकत्वमभिदानबललभ्यः प्रयोगोपाधिरिति स्वग्रन्थविरोधात्। प्रयोगोपाधेः शब्दविषयत्वानुपपत्तेः। तस्योक्तरीत्यान्यलभ्यत्वाच्च। एतेन सामानाधिकरण्यस्य कर्तरि जनितान्वयबोधत्वे यातीत्यत्रान्वयानुपपत्तेश्च। यदपि दर्शनजनिका यानक्रियेति तदप्यसत्। दर्शनानुपधानेऽपि उक्तप्रयोगात्। स्वरूपयोग्यताविवक्षायामपि यत्रान्यार्थकृतयोनन दर्शनं तत्राप्युक्तप्रयोगापत्तेः। उद्देश्यत्वस्यापि संसर्गताङ्गीकारे तु जनकत्वस्य तत्कल्पने प्रयोजनाभावात्।
भाववचनाश्च ।। 11 ।।
भावाधिकारे वक्ष्यमाणा घञादयः क्रियार्थक्रियायामुपपदे भविष्यदर्थे स्युः। इदंच भाववचनानां यथाविहितानां प्रतिपदविध्यर्थम्। यथेत्यसमस्तम्। यथाविहितं विधानं येषामितिच बहुव्रीहिर्वा। अयमर्थः क्रियार्थक्रियोपपदे विशेषविहितेन तुमुना स्वविषये घञादीनां बाधप्रसङ्गात् यस्मिन्नुपाधिविशेषे प्रकृतिविशेषेभ्यो घञादिविधानं तादृगेवोक्तस्थलेऽपि भवतीत्येतदर्थं वचन पदोपादानम्। अन्यथाव्यतिकरापत्तेः। यागाय याति। तुमर्थाच्चेति चतुर्थी। यागोद्दिश्यकं यानमित्यर्थः।
अण्कर्मणि च।। 12 ।।
काण्डलावो व्रजति। काण्डलवनार्थं व्रजनमित्यर्थः। ननु कर्मणि सामान्यविहितोऽण् उक्तविशेषेऽपि सिद्धः सत्यम्। पुनर्वचनमपवादबिषयेऽनिवृत्यर्थम्। नन्वपूर्व विध्यपेक्षया प्रतिप्रसवस्य लघुत्वादुत्सर्गविषयेऽपि लाभार्थमेतत्स्यात्। अन्यथा ण्वुलो विधानेन तृजादिवदणोऽपि दुर्लभत्वात्। तत्कथमपवादविषयेऽपि कर्मण्यणः सिद्धिः।
मैवम्। वचनग्रहणानुवृत्तिमात्रेण कर्मणि तदुपपत्तेः। पुनः कर्मग्रहणस्य कर्ममात्रोपसङ्ग्रहार्थतयाऽपवादविषयेऽपवादविषयेऽप्यण्सिद्धेः। तथाच कम्बलदायइत्यादि सिद्धम्। परत्वादनेन कप्रत्ययबाधात्। नन्वेवमपि कदाचित्कर्मण्युपपदे स्यात् कदाचित्। क्रियायाम्। भविष्यत्यपवादबाधनार्थतया वचनसार्थक्यात्। चकारेणोपपदसमुच्चयविधाने तु प्रत्येकस्योपपदत्वाभावात्काण्डशब्देन सहोपपदसमासो न स्यात्। मैवम्। पूथक्सप्तमीनिर्दिष्टतयामत्येकमुपपदविश्रान्तेः।
लृट्शेषे च ।। 13 ।।
भविष्यत्यर्थे धातोर्लृट् क्रियार्थायां क्रियायां सत्यामसत्यां च। भविष्यति। ननु क्रियार्थायां क्रियायामित्यस्याननुवृत्त्यैव सिद्धौ किं शेषपदेनेति। मैवम्। करिष्यामीति व्रजतीत्यादौ ण्वुला बाधेन तृजादिवल्लूटोऽनुपपत्तेः। शेषग्रहणात्तु तदनुवृत्यनुमानेनोभयत्रापि लृट्सिद्धेः। तदुक्तम्-लृटिशेषवचनं क्रियायां प्रतिपदविध्यर्थमिति। नच शेषपदस्यात्र क्रियार्थक्रियाभिन्नोपपदपरत्वपर्यवसानाद्विवक्षितार्थप्रातिकूल्यमेवेति वाच्यम्। चकारेणात्रापि विधानादिति वार्तिकमतम्।
भाष्यकृतस्तु लृडिति योगेन क्रियार्थायां क्रियायामुपपदे लृट्शेषे इत्यनेन तदभावे इति योगविभागात्सिद्धौ चकारो व्यर्थ इत्याहुः।
लृटः सद्वा ।। 14 ।।
लृटः शतृशानचौ स्तः। लृड्ग्रहणं स्थानिनिर्देशार्थमन्यथास्वतन्त्रप्रत्ययान्तरापत्तेः। `सद्विधिर्नित्यमप्रथमासमानादिकरणे इतिवाच्यम्'। इदंचोपलक्षणम्। संबोधनेक्रियालक्षणहेत्वोः उत्तरपदे प्रत्ययेचेत्यपि बोध्यम्। यक्ष्यन्तं यक्ष्यमाणं वा पश्य। हेकरिष्यन्। अर्जयिष्यन्नेध्येष्यमाणो वसति। करिष्यद्भक्तिः। कीरष्यद्रूपः। प्रथमासमानाधिकरणे विकल्पः। करिष्यति देवदत्तः। करिष्यमाणो वा। घटो भविष्यतीत्य6 धातोरुत्पत्तिः। प्रत्ययस्य वर्तमानप्रागभावप्रतियोगिकालीनत्वं वर्तमानोत्तरकालीनत्वं वार्थः। तस्य धात्वर्थेऽन्वयः। इहाद्येति देशकालयोरप्युत्पत्तविवान्वयो नतु वर्तमानप्रागबावप्रतियोगित्वे। श्वो भाविन्यद्य भविष्यतीति प्रसङ्गात्। नचाद्येत्यदिः प्रतियोगिनि प्रागभावेचोभयत्रान्वयः। अद्यतनप्रागभावप्रतियोगी अद्यतनो घट इतिबोधान्नैतदापत्ति रिति वाच्यम्। दर्शाद्यक्षणोत्पत्स्यमाने चैत्रे दर्शे चैत्रो भविष्यतीत्यनापत्तेः। दर्शस्य चैत्राधिकरणत्वेऽपि तत्प्रागबावानधिकरणत्वात्। तथाचैतद्देशवृत्तिरद्यतनी च या वर्तमानप्रागभावमतियोगिनी उत्पत्तिः तदाश्रयो घट इति बोधः। शाब्दिकमते तादृशी घटोत्पत्तिरित विशेषः।
अनद्यतने लुट् ।। 15 ।।
भविष्यत्यनद्यतने धातोर्लुट्। बहुव्रीहिनिर्देशोऽयम्। लङ्विधिवत्। तेन अद्य श्वो वागमिष्यतीति लृडेव। अत्रानद्यतने इति योगेन अनद्यतने लृटः सत्संज्ञकौ विधीयेते। श्वोनग्नीनाधास्यमानेन। श्वः सोमेन यक्ष्यमाणेन. लुडित्यनेनानद्यतने लुटो विधानम्। श्व कर्ता श्वोऽध्येता। आदेशविधानमेवानद्यतने लुटो ज्ञापकम्। `परिदेवने श्वस्तनी भविष्यदर्थ इति वक्तव्यम्'। भविष्यत्सामान्ये लुटो विधानमेतत्। परिदेवनमनुशोचनम्। श्वस्तनी पूर्वाचार्याणां लुटः संज्ञा। इयं तु कदा गन्ता येयं पादौ निदधाति। अयं तुकदाध्येता योऽयमनभियुक्तः। नच गन्तेव गन्ता इत्युपमानेन निर्वाहः। तिङन्ते तदभावात्। यद्वा अनद्यतने इवानद्यतने इति सूत्र एवोपमानमाश्रेत्य निर्वाह्यम्। प्रयोगवशाद्गौणेप्यनद्यतने प्रत्ययोत्पत्तेरिति भाष्यम्।
क्चित्तु अनद्यतन एवगन्तेति पदं व्युत्पाद्यम्। वाक्यार्थस्य पदसंस्कारं प्रत्यनिमित्तत्वात्। तस्यैव भविष्यत्सामान्यं वाक्येऽर्थ इत्याहुः। परिदेवनादन्यत्रापि प्रसङ्गादिति न्यासकृत्।
पदरुजविशस्पृशोघञ ।। 16 ।।
भविष्यतीति निवृत्तम्। पदेर्ण्वुल् तृचोरपवादो घञ् विधीयते। ऋजिविशिभ्यां इगुपधलक्षमस्य कस्य, स्पृशेः पचाद्यच इति विवेकः अकारोवृध्याद्युदात्तार्थः। घकारः कुत्वार्थः। पद्यतेऽसौ पादः। करणस्य कर्तृत्वावेवक्षा। पदशब्दस्त्वनुदात्तं पदीमति प्रयोगात्। रुजतीतिरोगः। विशतीतिवेशः। `स्पृश उपतापे इति वक्तव्यम्'उपतापो रोगस्तत्रार्थे स्पृशेर्घाञित्यर्थः। स्पर्शी रोगविशेषः।
सृस्थिरे ।। 17 ।।
सृ इत्यविभक्तिको निर्देशः भ्वदिर्ह्वादेश्च ग्रहणम् स्थिर इति प्रत्ययार्थस्य कर्तुर्विशेषणं नतूपपदम्। अर्धर्चादौ सारशब्दोऽपीह लिङ्गम। सृधातोः। स्थिरे कर्तरि घञ् सारः सरति कालान्तरमिति व्युत्पत्तेः। उत्पत्यनन्तरनाशिनश्चार्थस्य गतिकर्तृत्वानुपपत्तेः। नचैवं स्थिरपदवैयर्थ्यम्। प्रकर्षविज्ञानार्थत्वात् तेन। चिरस्थायित्वमर्थः। `व्याधिमत्स्यबलेष्विति वाच्यम्'। अस्थिरार्थ आरम्मः। अतिसारो व्याधिः। ण्यर्थान्तर्भावेणात्यन्तरुधिरनिःसारणहेतुत्वादित्यर्थः। विसारो मत्स्यः। सारं बलम्। सारयति चेष्टयति। बलस्य चेष्टाहेतुत्वादित्यर्थः।।
भावे ।। 18 ।।
धात्वर्थमात्रे वाच्ये धातोर्घञ् स्यात्। पाकः त्यागः रोगः। ननु शब्देन यल्लिङ्गसंख्यायुक्तो योऽर्थः प्रतिपाद्यते तदभिधायकेनैव तेन भाव्यम्। भावशब्दश्चात्र पुंल्लिङ्ग एकवचनान्तश्च निर्दिष्टः। तस्य स्त्रियामित्यनेन सामानाधिकरण्यासंभवात्। भावे स्त्रियां क्तिन्न स्यात्। किन्तु स्त्रियामकर्तरि कारके एव भावे पुंसि स्यात्। नपुंसकेभावे क्तइत्यत्राकर्तरिच कारके इत्यस्य निवृत्तत्वान्नपुंसके कर्तरि स्यात्। भावे तु पुंसि। पाक इति घञ्चैकत्वे एव स्यान्नतु पाकौ पाका इत्यादौ। भावपदबोध्यार्थजातीयपरतायामेव तत्प्रत्ययानां प्रसङ्गात्। मैवम् नान्तरीयकतया लिङ्गवचनयोरुपादानेऽपि तयोरविवक्षितत्वात्। भावप्रतिपदिकार्थसामान्यस्यैव प्रत्ययनिमित्तत्वात्। यद्वा पाकादिषु क्रियाविशेषेषु लिङ्गसंख्याविशपस्थलेऽपि भावशब्दवाच्यं सामान्यं गोत्वमिव गोष्वस्ति तच्चैकं पुंस्त्वानुगतं चेति तमाश्रित्य प्रत्ययविधिः भावस्य सामान्यत्वात्पचादेश्च विशेषत्वात्। भूतिर्भवनमित्यपि पाकादिवत्कर्त्रादिभेदाद्भावविशेष एव भावसामान्यानुनम इति कैयटः। सबन्धिभेदेनैकस्य मातुलत्वोपाध्यायत्वादिवत्पाकादिषु विशेषरूपता भावशब्दवाच्यसामान्ययोः परस्पराबाधेन सत्त्वात्। उक्तंच हरिणा-
आचार्यो मातुलश्चेति यथैको व्यपदिश्यते।
संबन्धिभेदादर्थात्मा स विधिः पक्तिभावयोः।।
तथाच प्रत्येकधआतुवाच्यविशेषमवेतस्य भावसामान्यस्यात्रप्रत्ययार्थतया निर्देश इति सिद्धम्। अत्र भावस्य सिद्धावस्थादिकं प्रागेव व्युत्पादितम्।
अकर्तरिचकारके संज्ञायाम् ।। 19 ।।
कर्तृभिन्ने उपपदे घञ्। रज्यतेऽनेन रागः। प्रास्यते इति प्रासः। क्वचिदसंज्ञायामपि। को भवता लाभो लब्धः। कस्त्वया दायो दत्तः। अकर्तरि कारके भावे इत्येतदुभयस्यातः परमनुवृत्तिः। कृत्यल्युटो बहुलमिति यावत्। अत्र भाष्यम्। अकर्तरीति पर्युदासे कारकग्रहणं नञिवयुक्तन्यायादेव लभ्यम्। मतिषेधपक्षेऽपि संज्ञायां घञः कर्तरि तन्निषेधस्य च वाक्यभेदेन विधाने धात्वर्थसंबन्धिनि कारक एव भविष्यति। भावे पूर्वसूत्रेणैव विहितत्वात्। नच भावे संज्ञायां घञ्विधार्नाथतयान्यथासिद्धिः। भावे संज्ञायामित्येकयोगापत्तेः। नापिपरिमाणाख्यायामित्यत्र कारकग्रहणानुवृत्त्या एका तिलोच्छ्रितिर्द्वे सृती इत्यादौ घञ्भावार्थं। अकर्तरीत्यस्यानुवृत्यापि सिद्धेः। सेज्ञाग्रहणमपि व्यर्थम्। असंज्ञायामपि दर्शनात्। नच कृतः कट इत्यादौ कारक इत्यादिप्रसङ्गः। अभिवानलक्षणाः कृतद्धितसमासा इत्यतिप्रसङ्भङ्गात्।
परिमाणाख्यायां सर्वेभ्यः ।। 20 ।।
घञ्। एकम्तण्डुलनिश्चायः। द्वौ शूर्यनिष्पावौ। ग्रहवृदृनिश्चिगमश्चेतिघञ ऋदोरपश्चापवादः। नचान्ते निरभ्योः पूल्वोरित्येव घञ्सिद्धिः सर्वापवादबाधनार्थं सर्वेभ्य उपादानादनेनापि भवितुमर्हत्वात्। ननु सर्वेभ्य इति किमर्थम्। नच पुरस्तादपवादन्यायेनायं घञचावेव बाधेन नत्वपमतस्तस्यापि वाधार्थमिति वाच्यम्। वाध्यसामान्यचिन्तायान्तस्यापि बाधोपपत्तेः। नचैकः। पाक इत्यत्र कर्मणि घञर्थं अकर्तरिचेत्येव सिद्धेः संज्ञायामित्यस्य तत्र निरासात्। अजपोरपि संज्ञाविषयकत्वापत्त्या प्रकृते तदनापत्तेश्च। अपवादस्योत्सर्गसमानविषयकत्वात्। धातुसामानादिकरण्यापन्नसर्वेभ्य इति पञ्चमीनिर्देशादीदृशार्थलाभात् असत्यस्मिन् अर्थाश्रयस्यापि अपवादस्यायमपवादः। तथाचैकातिलोच्छ्रितिरित्यादि न सिध्येत्। सर्वेभ्य इत्युपादाने तु स्त्रियामित्यर्थं निर्दिश्य क्तिनो विधानादर्थाश्रयस्य क्तिनो नायमपवाद इति सिद्धम्।
दारजारौ कर्तरि णिलुक्चहेतुमण्यन्ताभ्यां। दारयतिजारयनिभ्यां कर्तरि घञ् णेश्च लुक्। नच णेरनिटीति णिलोपेन सिद्धिः। जनीजॄषिति जीर्यतोर्मित्संज्ञायां मितां ह्रस्व इति ह्रस्वापत्तेः। णिजाश्रयवृद्धेर्दुर्लभत्वात्। णिलोपस्य स्थानिवद्भावेन घञाश्रयाया अपि तथात्वात्। नच सुद्धाभ्यामेव करणे घञा सिद्धिः। अपो दुर्वारत्वात्। यद्वा शुद्धाभ्यामेव करणे घञ् विधीयते इति बोध्यम्।।
इङश्च ।। 21 ।।
अचोऽपवादो घञ्। उपेत्यास्मादधीयते उपाध्यायः।
`अपादाने स्त्रियामुपसख्यानं तदन्तीच्च वा ङीष् वक्तव्यः'। उपाध्यायी उपाध्याया। स्वयमध्यापिकेत्यर्थः। घञनुक्रमणमजपोर्विषय इति वचनात्स्त्रियामप्राप्तस्य घञो विधानम्। `शृवायुवर्णनिवृतेष्विति वक्तव्यम' शारो वायुः कर्मणि घञ्। शारश्चित्रो वर्णः। गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः। अकृताच्छादन इत्यर्थः। प्रदक्षिणप्रसव्यगामिनां शाराणामित्यत्र वार्तिकप्रयोगात्सिद्धम्।
उपसर्गे रुवः ।। 22 ।।
संरावः। उपसर्गे किम्। रवः।
समि युद्रुदुवः ।। 23 ।।
संयूयते गुडादिभिर्मिश्रीक्रियते संयावः। पिष्टविकारोऽपृपविशेषः। संदावः। संद्रावः।
श्रिणीभुवोऽनुपसर्गे ।। 24 ।।
श्रायः नायः भावः। उपसर्गे तु प्रश्रयः प्रणयः प्रभवः। राज्ञो नय इति बाहुलकात्। प्रभाव इति प्रादिसमासात्।
वौ क्षुश्रुवः ।। 25 ।।
विक्षावः विश्रावः। वौकिम्। क्षवः श्रवः।
अवोदेर्नियः ।। 26 ।।
अवनायः। उन्नायः। अध ऊर्ध्वंच नयनमिति क्रमेणार्थः। उन्नयो बाहुलकात्।
प्रेद्रुस्तुस्रुवः ।। 27 ।।
प्रद्रावः प्रस्तावः प्रस्रावः। प्रेकिम्। द्रवः। स्तवः स्रवः।
निरभ्योः पूल्वोः ।। 28 ।।
निष्पूयते वितुषीक्रियते शूर्पादिभिरिति निष्पावो धान्यविसेषः। अभिलावः। निरभ्योः किम्। लवः पवः। नच पूङ्पूञोर्द्वयोर्निर्देशे त्रयो धातव उपसर्गौ द्वाविति यथासंख्यानुपपत्तिः। शब्दतो यथासंख्योपपत्तेः।
उन्न्योर्ग्रः ।। 29 ।।
उद्गारः निगारः। उन्न्योः किम्। गरः।
कॄधान्ये ।। 30 ।।
लुप्तविभक्तिको निर्देशः। उन्कारो निकारो वा धान्यस्य। धान्ये किम्। भिक्षोत्करः। पुष्पनिकरः।
यज्ञे समि स्तुवः ।। 31 ।।
अधिकरणे ल्युटोऽपवादो घञ्। समेत्य स्तुवन्त्यस्मिन् छन्दोगा इति संस्तावः। यज्ञे किम्। संस्तवःपरिचयः।
प्रे स्त्रोऽयज्ञे ।। 32 ।।
अयज्ञ इति च्छेदो। यज्ञस्य प्रकृतत्वात्। प्रशब्दे उपपदे स्तॄधातोर्घञ्। अयज्ञविषयेप्रयोगे। प्रस्तारः। यज्ञे तु प्रस्तरो दर्भमुष्टिविशेषः। सह शारवया प्रस्तरं प्रहरतीति।
प्रथने वावशब्दे ।। 33 ।।
विशब्दपूर्वा त्स्तॄधातोरशब्दविषये प्रथने घञ्। पटस्य विस्तारः तिर्यगायतिरित्यर्थः। शब्दे तु ग्रन्थाविस्तरः।
छन्दोनाम्निच ।। 34 ।।
स्त्र इत्यस्यानुवृत्तिः शब्दविषयत्वादप्राप्तावारम्भः। विस्तीर्यन्तेऽस्मिन्नक्षराणि विष्टार इत्यधिकरणे घञ्। ततः पङक्तिशब्देन कर्मधारयः विष्टारपङ्क्तिः छन्दः। वावित्वस्याननुवृत्त्या प्रस्तारपङक्तिरित्यादि।
उदि ग्रहः ।। 35 ।।
ग्रहवृइत्यादिप्राप्तस्यापोऽपवादो घञ् उद्ग्राहः।
समि मुष्टौ ।। 36 ।।
यद्यपि मुष्टिशब्दस्य परिमाणार्थत्वे परिमाणाख्यायामित्येव सिद्धं तथापि अङ्गुलिसन्निवेशविशेषार्थमुष्टिशब्दार्थमारम्भः। मल्लस्य संग्राहः। मुष्टौ किम्। पदार्थसंग्रहः। `उद्ग्राभनिग्राभौ च छन्दसि' स्रुगुद्यमननिपातन योरिति वक्तव्यम्। उद्ग्राभं च निग्राभं ब्रह्मदेवा अवीवृधन् च। जुहूपभृतोरेवात्र ग्रहणाम्। उद्ग्राभं चेति जुहूमुद्यच्छति। उद्ग्राभंचेति उपभृतं नियच्छतीत्युक्तेः।
परिन्योर्नीणोर्द्यूताभ्रेषयोः ।। 37 ।।
परिपूर्वान्नयतोर्निपूर्वादिणश्च क्रमेण द्यूते औचित्ये च विषये घञ्। परिणयेन शारान् हन्ति। समन्तान्नयनेनेत्यर्थः। एष न्यायः। उचितमित्यर्थः। अन्यत्र परिणयो विवाहः। न्ययो नाशः। क्रमप्राप्तस्यानुल्लङ्घनमनुपात्ययः। तत्र पर्यायः। अन्यत्र
परावनुपात्ययइणः ।। 38 ।।
कालपर्ययः। अतिपात इत्यर्थः। अत्र वदन्ति। परौ नियो द्यूते इणोऽनुपात्यये नावभ्रेष इत्येव सूत्रणीयम्। परीणोः सकृदुपादाने लाघवादिति।
व्युपयोः शेतेः पर्याये ।। 39 ।।
तव विशायः। राजोपशायः। पर्यायेकिम्। विशयः। संशयः। विशये प्रायदर्शनादिति जैमिनिसूत्रम्। उपशयः समीप शयनम्। नाचानूपात्ययपदानुवृत्त्यैव सिद्धिः। पर्यायशब्दस्यापि तत्समानार्थत्वादिति पर्यायेति व्यर्थमिति वाच्यम्। पुनर्विधानार्थत्वात्। तेनाभिविधिविबक्षायां परमपीनुणं बाधित्वाऽयमेवेति व्याख्यातारः।
हस्तादाने चेरस्तेये ।। 40 ।।
हस्तादानपदस्य उपादेयप्रत्यासत्तौ तात्यर्यम्। पुष्पप्रचायः। अन्यत्र यूयं कुसुमावचायम्। हस्तेति किम्। प्रचयः। वृक्षग्रवर्तिनां फलानां यष्ट्या ग्रहणमित्यर्थः। अस्तेये किम्। पुष्पप्रचयश्चौर्येण अथ कथं कुसुमावचयं नाटयन्त्याविति कालिदासः। पुष्पस्यावचयाय नम्रवदनामकां समायोजयत्। इत्यादि। सत्यम्। प्रमादएवायमित्यभियुक्ताः। यत्तु आरुह्य हस्तादानेऽपि आदेयप्रत्यासत्यभावाद्धञभाव इति शकुन्तलाटीकायां तच्चिन्त्यम्। हंसमुखाख्यहस्तस्य नियोगे औचित्यात्। च्युतसंयुक्तं कुसुमावचयादिषु इति तदुदाहृतप्रयोगस्यैवानुपपत्तेः। आरुह्य पुष्पग्रहेऽपि तद्धस्तस्य विनियोगात्। यष्ट्यादिना ग्रहणे च हस्तानुपयोगात्।।
निवासचितिशरीरोपसमाधानेष्वादेश्च कः ।। 41 ।।
एषु चिञो घञ् चस्य कुत्वंच। निकायो गृहम्। आकाय मग्निं चिन्वीत। अधिकरणे घञ्। अग्निं तदाधारस्थलविशेषं चयनेन निष्पादयेदित्यर्थः। कायः शरीरम्। गोमयनिकायः। उपसमाधानं राशीकरणम्। समूह इति यावत् अयं धात्वर्थः। अन्ये प्रत्ययार्थोपाधयः। चस्य क इत्येव वक्तव्ये आदिग्रहणं यङलुकि अभ्यास्यैव कत्वं यथा स्यात्। अन्यथा द्वयोस्तदापत्तेः। गोमयानां निकेचाय इत्याहुः।
संघे चानौत्तराधर्ये ।। 42 ।।
पूर्ववत्। भिक्षुनिकायः। प्राणिसमूहः संघः। औत्तराधर्येतु सूकरनिचयः। स्तनपानादिदशायामुपर्यधोभावेनावस्थानमौत्तराधर्यम्। भिक्षुवत्पृथगेवावस्थाने तु सूकरनिकाय इत्येव। संघेकिम्। ज्ञानकर्मसमुच्चयः।
कर्मव्यतिहारे णच् स्त्रियाम् ।। 43 ।।
भावे इति वर्तते स्त्रीग्रहणं व्यतिपाक इत्यत्र माभूत्। नच क्तिन्प्रकरणे एवायं विधीयताम्। स्त्रियामित्यत एव लाभादिति वाच्यम्। क्तिन्बन्धकानामपि बाधार्थं प्रकरणोत्कर्षात्। तेन ण्यासश्रन्थेति युचो बाधे व्यावचोरी व्याववर्षीत्यादि सिद्धम् नन्वेवं व्यतीक्षा व्यतीहेत्यादेरसिद्धिरकारप्रत्ययस्यापि बाधापत्तेरितिचेत्सत्यम्। क्तिन्प्रकरणे एवास्य पाठ्यत्वात्। नचैवं व्यावक्रुष्टिरिति व्यात्युक्षीति च न स्यात् स्त्र्यधिकारे वासरूपविधेरभावात्। सत्यं बहुलग्रहणेन यथेष्टलाभादित्याकरः।।
अभिविधौ भावइनुण् ।। 44 ।।
संकूटिनम्। सांराविणं वर्तते। अभिविधिरभिव्याप्तिः। अणादिवचनान्तरेणात्र कार्यम्। क्लीबत्वं लोकात्। भावग्रहणं नुपंसके क्तादिनिवृत्त्यर्थम्। यद्यपि शब्दशक्तिखाभाव्यादेवास्य कारकेष्वप्रवृत्त्या भावपदस्य कारकव्यावृत्त्यर्थत्वं वक्तुमशक्यम्। तथापि मध्येऽपवादन्यायेनायं घञएव बाधकः स्यान्न तु क्तादेरतो भावेइत्यधिकविधानार्थम्। क्तादेरपि वाधः। नच नपुंसके भावे क्त इत्यस्मादनन्तरमयं विधेयः भावपदत्यागे लाघवादिति वाच्यम्। वासरूपविधिना पक्षे क्तादिप्रसङ्गात्। प्रकरणोत्कर्षसामर्थ्येन तु वासरूपविधेर्बाधात् ल्युडिष्यते एव। संकूटनं संरवणमित्यपीत्याकरः।
आक्रोशेऽवन्योर्ग्रहः ।। 45 ।।
अवपूर्वान्निपूर्वाच्च ग्रहेः शापे घञ्। अवग्राहो निग्राहो वा ते भूयात्। अक्रोशेकिम्। अवग्रहः पदस्यनिग्रहश्चोरस्य छिदाविशेषो निरोधश्चेत्यर्थः।
प्रे लिप्सायाम् ।। 46 ।।
प्रग्राहेण चरति भिक्षुः। भिक्षेच्छया पात्रं गृहीत्वेति यावत्। लिप्सायां किम्। प्रग्रहो देवदत्तस्य प्रकृष्टोऽभिनिवेश इत्यर्थः।
परौ यज्ञे ।। 47 ।।
उत्तरः परिग्राहः। स्फेयन वेदिस्वीकरणमित्यर्थः।
नौ वृधान्ये ।। 48 ।।
निपूर्वाद्वृधातोर्घञ्धान्येऽर्थे। नीवारः। धान्ये किम्। निवरा कन्या। ग्रहवृदृइत्यादिना कर्मण्यप्। नचस्त्रियां क्तिन् स्यात्परत्वादिति वाच्यम्। बहुलवचनात्सिद्धे घञजबन्तानां पुस्त्वं तु प्रायिकम्।
उदि श्रयतियौतिपूद्रुवः ।। 49 ।।
उछ्रायः उद्यवः उत्पाव उद्द्रावः पतनान्ताः समुछ्रया इति बाहुलकात्।
विभाषाङि रूप्लुवोः ।। 50 ।।
आरावः आरवः। आप्लावः। आल्पवः।
अवे ग्रहो बर्षप्रतिबन्धे ।। 51 ।।
विभाषेत्यनुवर्तते। अवग्रहोऽवग्रहः। अन्यत्रावग्रहः पदस्य।
प्रेवणिजाम् ।। 52 ।।
प्रपूर्वाद्ग्रहेर्घञ् प्रत्ययार्थस्य वणिक्संबन्धित्वे। तुलाप्रग्राहः तुलाप्रग्रहः। तत्सूत्रमितियावत्।
रक्ष्मौच ।। 53 ।।
प्रग्रह प्रग्राहः। रश्मिपदं रथशकटादिसंबद्धरज्जुपरम्। नतु तन्मात्र परमित्याहुः। अत्र वदन्ति। उदिग्रहः, समिमुष्टौ, आक्रोसेवन्योः, प्रेलिप्सायाम्, परौ यज्ञे. अवे वर्षप्रतिबन्धे विभाषा,प्रेवणिजाम्, रश्मौचेति पठित्वा विभाषाङिरुप्लुवोरिति पठितुंयुक्तम्। ग्रहेः सकृदुपादाने लाघवादिति।
वृणोतेराच्छादने ।। 54 ।।
विभाषा घञ् प्रावारः प्रवरः।
परौ भुवोऽवज्ञाने ।। 55 ।।
परिभावः परिभवः। अवज्ञाने किम्। परिभवः सर्वतउत्पत्तिः।
एरच् ।। 56 ।।
इकारान्तादच्। चयः जयः। `भयादीनामुपसंख्यानम्'। नपुंसके क्तादिनिवृत्यर्थम्। परत्वात्प्राप्तयोः क्तल्युटोः पूर्वविप्रतिषेधोऽयम्। तथाचानपवादत्वान्न वासरूपन्यायः। भयम्। वर्षम्। वृषभो वर्षणादिति भाष्यप्रयोगाद्वर्षणमपीति कैयटः भयनमिति त्वसाध्वेवेति अनुन्यासादयः। कल्प्यादिषु च प्रतिषेधः। ण्यन्तेभ्योऽचिप्रतिषिद्धे घञ्। स्वरे विशेषः। कल्पः अर्थः। एरजण्यन्तानामिति वचनं त्वनार्षमिति कैयटः।
जवसवौ छन्दसी वक्तव्यौ। ऊर्वोरस्तु मेजवः। देवस्य सवितुः सवे। अपा रूपसिद्धावपि स्वरार्थमारम्भः।
ऋदोरप ।। 57 ।।
करः गरः शरः यवः स्तवः दकारोऽयं नतु तकारः। निरभ्योः पूल्वोरित्यारम्भसामर्थ्यात्। अतस्तात्परत्वाभावाद्दीर्घोकारान्तेभ्योऽप्ययम्। लवः पवः।
ग्रहवृदृनिश्चिगमश्च ।। 58 ।।
अप स्यात् घञचोरपवादः। ग्रहः वरः दरः निश्चयः गमः। स्यादेतत्। निश्चयइत्येरचापि सिद्धम्। रूपस्वरयोरविशेषात्। नच हस्तादाने इति घञापत्तिः। यस्य स्तेयार्थत्वं प्रसक्तं तस्यैव हस्तास्ताने घञ्विधानात् निपूर्वस्य चिनोतेश्च स्तेये वृत्त्यभावात्। मैवम्। थाथादिस्वरो निश्चयपदे न भवतीत्यस्य ज्ञाप्यत्वात्। तेन कृत्स्वरेण मधअयोदात्तसिद्धिः। वशिरण्योरुपसंख्यानम्। घञि प्राप्ते आरम्भः। वशनं वशः। रणन्त्यत्र रणः। `घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्'। भावः कर्तृभिन्नकारकंच घञर्थः। प्रस्थः। प्रस्नान्त्यत्र प्रस्नः। प्रपिबन्त्यस्यां प्रपा। विध्यन्त्यनेन व्यधः। घ्नन्त्यस्मिन् मनांसि विघ्नः। आयुध्यन्तेऽनेनायुधम्।
उपसर्गेऽदः ।। 59 ।।
अप् स्यात्। प्रधमः। व्यद्यत इति विघसो वैश्वदेवशिष्टमन्नम्। विशेषस्तु तदशनस्य स्मृतिषु प्राशस्त्यात्। उपसर्गे किम्। घासः। शष्यं बालतृणं धास इत्यमरः।
नौणच ।। 60 ।।
निपूर्वादत्तेर्णः स्यादप्व। निघमो न्याद इत्यपीत्यमरः।
व्यधजपोरनुपसर्गे ।। 61 ।।
व्यधः जपः उपसर्गेतु आव्याधः। उपजापो रहस्यप्रकाशः।
स्वनहसोर्वा ।। 62 ।।
पक्षे घञ्। स्वनः स्वानः। हसः हासः अनुपसर्ग एव। प्रस्वानः प्रहासः।
यमः समुपनिविषु ।। 63 ।।
एतद्भिन्नोपसर्गाभावे सति यमो वाप् पक्षे घञ्। सच विशिष्टाभाव उक्तोपसर्गयोगे शुद्धेच तुल्यः। संयमः संयामः। उपयमः उपयामः। नियमः नियामः। वियमः वियामः। यमः यामः।
नौ गदनदपठस्वनः ।। 64 ।।
निपूर्वेभ्य एभ्यो वाप् घञ्। निगदः निगादः, निनदः निनादः। निपठः निपाठः। निस्वनः निस्वानः।
क्वणौ वीणायां च ।। 65 ।।
चादनुपसर्गे च विणाविषयाच्छक्वणतेर्वाप्। निक्वाणः निक्वणः। क्वणः क्वाणः। वीणायां तूपसर्गान्तरेऽपि। प्रक्वणः प्रक्वाणः।
नित्यं पणः परिमाणे ।। 66 ।।
पणते रप्। मूलकपणः शाकपणः। पूलक इत्य्रथः। परिमाणे किम्। पाणः।
मदोऽनुपसर्गे ।। 67 ।।
धनमदः। उपसर्गेतु उन्मादः।
प्रमदसंमदौहर्षे ।। 68 ।।
अन्यत्रप्रमादः।
समुदोरजः पशुषु ।। 69 ।।
समजः पशुसंघः। उदजः पशुप्रेरणम्। पशुषु किम्। समाजः उदाजः।
अक्षेषुग्लहः ।। 70 ।।
अक्षपदं देवनपरम्। तत्र पणभूतं वस्तु ग्लहः। अन्न्यत्र ग्रहः।
प्रजनेसर्तेः ।। 71 ।।
प्रजननं प्रजनः जनिवध्योश्चेति न वृद्धिः। ण्यन्तादेरज्वा। प्रशब्द प्रतिष्ठता इतिवत् धात्वर्थाभावपरः। तथाच गर्भधारणं लब्धम्। (तेन कृत्स्वरेण मध्योदात्तसिद्धिः)। तच्च प्रथमं द्वितीयादिकं वेति हरदत्तानुसारिणः। प्रथममेवेति वृत्तिः। गवामुपसरः। दिने दिने सावसरेषु बन्दिनाम्। श्रीर्लब्धप्रसरेववेशव नितादुःखोपचर्या नजैरित्यादौ पुंसि संज्ञायामिति घः।
व्हः संप्रसारणं च न्यम्युपविषु ।। 72 ।।
चादप्। निहवः अभिहवः। उपहवः विहवः। अन्यत्र प्रव्हायः।
आङि युद्धे ।। 73 ।।
आव्हयतेऽस्मिन्नाहवः। अन्यत्र त्वाव्हायः।
निपानमाहावः ।। 74 ।।
अप्संप्रसारणं वृद्धिश्च निपात्यते उदकाधारश्चेदर्थः। आहावस्तु निपानं स्यादुपकूपजलाशये।
भावेऽनुपसर्गस्य ।। 75 ।।
ह्वयतेः संप्रसारणमप्च। हवः।
हनश्च वधः ।। 76 ।।
वधादेशोऽन्तोदात्तः वधेन दस्युम्। चाद्धञ्। घातः।
मूर्तौघनः ।। 77 ।।
काठिन्ये हन्तेरप् घनादेशश्च। अभ्रघनः। सैंन्धवघन उदके प्रास्त इत्यादावभेदोपचारः।
अन्तर्घनो देशे ।। 78 ।।
अकारोपध इति केचित्। वाहीकग्रामविशेषसंज्ञेयम्।
अगारैकदेशे प्रघणः प्रघाणश्च ।। 79 ।।
प्रविशद्भिर्जनैः पादैः हन्यते इति प्रघणः। पक्षे वृद्धिः प्रघाणः। `प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके' इत्यमरः। बहिरिति प्रकोष्ठान्वितम्।
उद्धनोत्याधानम् ।। 80 ।।
अत्याधानमुपरि स्थापनम्। यत्र स्थापयित्वा काष्ठानि तक्ष्यन्ते स उद्घनः।
अपघनोऽङ्गम् ।। 81 ।।
अङ्गे प्रतीकोवयवोपधन इत्यमरः। सचेह नसर्वः पाणिः पादश्चेत्याहुः अपधातोऽन्यः।
करणेऽयोविद्रुषु ।। 82 ।।
एषु हन्तेः करणे अप्धानादेशश्च। अयो हन्यतेऽनेनायोघनः। विघनः द्रूघनः। पूर्वपदादितिणत्वमित्येके। कुठारस्येयंसंज्ञा।
स्तम्बेकच ।।83 ।।
स्तम्बे उपपदे हन्तेः करणे कः। पक्षेऽप् घनादेशश्च। स्तम्बघ्नः स्तम्भघनः। अन्यत्र स्तम्बघातः। नचात्र निपातनव्यवधानेन कथं हन्तेरनुवृत्तिः। तेषामादेशत्वस्वीकारात्। तत्रापि हन्तेरनुवृत्तेः। नच घन इत्यत्राप्स्वरेणाद्युदात्तप्रसङ्गादन्तोदात्तानुपपत्तिः। आदेशानामाकारान्ततयाऽतोलोपे कृते उदात्तनिवृत्तिस्वरेणाप उदात्तसिद्धेः। स्रीलिङ्गे च इषीकादेर्यत्र स्ताम्बहननकरणत्वं तत्र कप्रत्ययस्य सर्वापवादत्वात्म्तबध्नेति केचित्। ऊतियूतीति निपातनस्य तथात्वात्स्तम्बहेतिरित्यन्ये। `अजभ्यां स्वीखलनाः। स्त्रियाः खलनौ विप्रतिषेधेनेति ल्युटा स्तम्बहननीत्यन्ये।
परौ घः ।। 84 ।।
अप्संनियोगेन हन्तेर्घादेशः। परिहन्यतेऽनेनेतिपरिघः।
उपघ्नआश्रये ।। 85 ।।
उपपूर्वाद्धन्तेः अप्उपधालोपश्च। आश्रयः सामीप्यम्। पर्वतेनोपहन्यते सामीप्येन गम्यते पर्वतोपघ्नः।
संघोद्धौ गणप्रशंसयोः ।। 86 ।।
संहननं संघः। उत्कृष्टतया ज्ञायते इत्युद्धः। गत्यर्थानां ज्ञानार्थत्वात्। क्रमेणभावकर्मणोरप्।
निघो निमितम् ।। 87 ।।
समन्तात्परिच्छेदो निमितम्। निर्विशेषं हन्यन्ते निघा वृक्षाः। समारोहपरिणाहा इत्यर्थः।।
ड्वितः क्त्रिः ।। 88 ।।
डुपचष् पाकेन निर्वृत्तं पक्त्रिमम् डुवप् उप्त्रिमम्। डुकुञ्करणे। कृत्रिमम्। निर्वृत्तमित्यधिकारे क्त्रेरितिवक्षअयमाणेन मबागमः।
ट्वितोऽथुच् ।। 89 ।।
टुवेपृ वेपथुः। टुओश्वि गतिवृध्योः। श्वयथुः। इमौ भावे एव शब्दशक्तिस्वाभाव्यात्।
यजयाचयतविच्छप्रच्छरक्षोनङ् ।। 90 ।।
भावेऽकर्तरि कारके चायम्। अतएव यज्ञेन यज्ञमयजन्त देवा इत्यत्रकर्मपरतया व्याख्यातम्। यज्ञः याञ्चा। यत्नः विश्नः प्रश्नः। रक्ष्णः। `नस्य ङित्वे संप्रसारणप्रतिषेधो वक्तव्यः'। ङित्वाभावे विश्न इत्यत्र गुणापत्तेः। प्रश्ने चासन्नकाले इतिनिपातनात्सिद्धमिति भाष्यम्।
स्वपोनन् ।। 91 ।।
स्वप्नः।
उपसर्गेघोः किः ।। 92 ।।
प्रधिः अन्तर्धिः। उपसमिपेस्वधर्ममादधातीत्युपधिरित्यादिस्वारस्यात्वाहुलकात्कर्तर्यपीति माधवादयः। एतेन विधाताविस्वसृड्विधिरित्यादि व्याख्यातम्। विदविधाने इत्यस्मादिगुपधात्किदिति विधिशब्दे उपाधीयतेऽनेनेति करणपरतयोपाधिपदेच सिद्धे बाहुलकं नादेयमिति दीक्षिताः।
कर्मण्यधिकरणे च ।। 93 ।।
कर्मण्युपपदे धोः किः स्यादविकरणेऽर्थे। जलानि धीयन्तेऽत्र जलधिः।
स्त्रियां क्तिन् ।। 94 ।।
स्त्रीविषये भावादौ क्तिन्। घञोऽपवादत्वादजपोस्तु परत्वादद्वाधकोऽयम्। कृतिः चितिः। स्तुतिः। आबादिभ्यश्चेति वक्तव्यम्। आप्तिः राद्धिः दीप्तिः। अप्रत्ययापवादोऽयम्। यदितु `निष्ठायां सेटोऽकार' इति विधिः। तर्हि स्रंसा ध्वंसेति न स्यात्। वस्तुतस्त्रयाणामेव आबादित्वात्स्रस्तिर्ध्वस्तिरित्येव रूपम्। नतु स्रंसा ध्वेसेति भाष्यम्। `तथाच निष्ठायां सेटोऽकारवचनात्सिद्ध'मिति वार्तिकं सम्यगेवेति भावः। तथाच गुरोश्चहल इत्येतत्प्राप्तिस्थले एव आबादिभ्यः क्तिन्निति तस्य तात्पर्यम्। तेन कण्डूतिरित्यत्र `क्तिन्नाबादिभ्य' इति क्तिन्निति वृत्तिरयुक्ता। क्तिजित्येव तत्र युक्तः पाठ इति हरदत्तः।
स्थागापापचो भावे ।। 95 ।।
क्तिन् स्यात्। स्थादिभ्य आतश्चोपसर्गे इति पचेस्तु भिदादित्वात्प्राप्तस्याङोऽपवादः। नतु विभाषाख्यानेति वक्ष्यमाणयोर्ण्वुलिञोः पुरस्तादपवादन्यायात् अनन्तरबाधेन विधेः सावकाशत्वे परेण तस्य बाधात्। प्रस्थितिः। उपस्थितिः। स्थाध्वोरितीत्वम्। संगीतिः संपीतिः। घुमास्थेतीत्वम्। पक्तिः। अवस्थासंस्थादयो व्यवस्थआयामिति सौत्रप्रयोगात्। एतेन प्रतिष्ठेति व्याख्यात्म्। `श्रुयजीषिस्तुभ्यः करणे क्तिन् वक्तव्यः'। ल्युटोऽपवादः। श्रूयतेऽनया श्रुतिः। इष्टिः। स्तुतिः। `ग्लाज्याहाभ्यो निः' ग्लानिः ज्यानिः हानिः।
मन्त्रे वृषेषपचमनविदभूवीराउदात्तः ।। 96 ।।
मन्त्रविषये वृषादिभ्यः क्तिन् स उदात्तश्च। उदात्तार्थं सूत्रम्। इषेस्तु क्तिन्नर्थमपि। इच्छेति निपातनेन तत्र बाधितत्वात्वृष्टि दिवः सुम्नमिष्टये। पक्तीरुव। इयंते नव्यसीमतिः। वित्तिः भूतिः अग्न आयाहि वीतये। रातौ स्यामोभयासः।
ऊतियूतिजूतिसातिहेतिकीर्तयश्च ।। 97 ।।
अवतेर्ज्वरत्वरेत्यूठ्। ऊतिः। वचनं उदात्तार्थम्। नित्स्वरेणाद्युदात्तप्रसङ्गात्। यूतिजूत्योर्दीर्घश्च निपात्यते। स्यतेः सनोतेश्च सातिः सातिर्दानावसानयोः। आद्यो द्यतिस्यतीत्यादिना प्राप्तस्येत्वस्याभावः। द्वितीये वा जनसनेति आकारान्तादेशसिद्धौ स्वरार्थम्। हेर्तिरित्यत्र हन्तेर्नस्येत्वम्। हिनोते स्तु गुणः। कीर्तिरित्यत्र व्यन्तत्वाद्युचि प्राप्ते क्तिन् उदात्तश्च।
व्रजयजोर्भावे क्यप् ।। 98 ।।
उदात्त इत्येव इज्या व्रज्या। पित्करणमुत्तरत्र तुगर्थम्।
संज्ञायां समजनिषदनिपतमन विदषुञ्शीङ्भृञिणः ।। 99 ।।
एभ्यः स्त्रियां भावादौ क्यप्। सज्ञायां सचोदात्तः। समजन्त्यस्यां समज्या। क्यपि वीभावो निषिद्धः। निपद्या आपणः। निपतन्त्यतो निपत्या पिच्छिला भूमिः। मन्यतेऽनया मन्या गलंपांर्श्वनाडी तदुल्लासेन क्रोधानुमानात्। विदन्त्यस्यां विद्या। सुत्या अभिषवः। शय्या। भृत्येति भावे। कुमारभृत्या गर्भिण्या परिचर्याऽभिधीयते इति हारावलिः। `कुमारभृत्याकुशलैरधिष्ठित' इति कालिदासः। ईयतेऽनया इत्या शिविका संज्ञायां किम्। मतिः आसुतिः भृतिः। एतेन मतिबुद्धिपूजार्थेभ्यश्च कर्मंणिभृतौ रजः कृष्यासुतीति सौत्रप्रयोगादेवैषां साधुत्वमिति दुर्घटाद्युक्तिश्चिन्त्येति दीक्षिताः।
कृञः शच ।। 100 ।।
कृञ इति योगो विभज्यते। कृञः कय्प् स्यात्। कृत्या। शच। कृञः शः स्यात्। चात्क्तिन्। क्रिया कृतिः। तथाच वार्तिकम्। कृञः शचेति वावचनं क्तिन्नर्थम्। अन्यथा चकारेण क्यप एव समुच्चयापत्त्या व्यवहितस्य क्तिनः समुच्चयो न स्यात्।
इच्छा ।। 101 ।।
इषेः शो भावे यगभावश्च। तेन कारके नायम्। `परिचार्यपरिसर्या मृगयाटाठ्यानामुपसंख्यानम्'। शयकौ सर्वत्र। निपात्येते। परिसर्या अत्र गुणोऽपि। मृग अन्वेषणे चुरादिरदन्तः अतोलोपाभावणिलोपाप्यवस्य। अटाठ्या। अटतेः ठ्यशब्दस्य द्वित्वम्। पूर्वभागे यकारनिवृत्तिर्दीर्घश्च। षाष्ठे धातोर्वाद्वित्व एवाभ्याससंज्ञास्वीकारेण हलादिः शेषानुपपत्तेः। अटतेर्यङन्तादप्रत्यये त्वल्लोपयलोपाभ्यां अटाटेत्याहुः। `जागर्तेरकारो वाच्यः' जागर्यासार्वधातुके यक्। जागार। उभयत्र जाग्रोविचिणिति गुणः। अथकथं `धान्यानां विरजस्तमा भगवती चर्येयमाल्हादते' इति मुरारिः।
अत्र केचित्। गदमदचरेति यत्। नच स्त्र्यधिकारे वासरूपविधेरभावाक्तिना बाधापत्तिः। वाध्यबाधकयोर्द्वयोरपि स्त्र्यधिकारस्थत्वे एवास्त्रियमिति पर्युदासात्। अत एवास्येत्यादौ ऋहलोर्ण्यदिति वृत्तावुक्तमित्याहुः।
दीक्षितास्तु बाहुलकादेवैतत्सिद्धम्। अपवादमात्रस्य स्त्र्यधिकारीयत्वेऽपि अस्त्रियामित्यस्य प्रवृत्तेः। अन्यथा घञादीनामपि स्त्रियां प्रसङ्गात्। नचेष्टापत्तिः।
क्तल्युट् नपुंसके भावे स्त्रियां क्तिन्नादयो यतः।
अतो घञजपः पुंसि परिशेषादिति स्थितिरिति सिद्धान्तविरोधादित्याहुः।
अप्रत्ययात् ।। 102 ।।
प्रत्ययान्ताद्धातोरकारः स्यात्। प्रत्ययस्य धातुविशेषणत्वात्तदन्तविधिः। सनाद्यन्तेभ्य इति पर्यवसन्नम्। चिकीर्षा। कष्डूया। पुत्रकाम्या ऋतीया।
गुरोश्च हलः ।। 103 ।।
हलन्ताद्गुरुमतोधातोः स्त्रियामकारः स्यात्। ईहा। गुरोः किम्। भक्तिः हलः किम्। शीतिः। ननु गुरुत्वस्याज्मात्रधर्मतया गुर्वन्तत्वहलन्तत्वयोरेकत्राभावात् एकत्र तदन्तविधिरन्यत्र लक्षणेत्यस्य निश्चयेऽपि हल इत्यत्रैव तदन्तविधौ विनिगमकाभावात् गुर्वन्ताद्धल्वत इत्यर्थः कुतो न स्यात्। तरत्यादिभ्य एव स्यात् कुण्डादिभ्यो मा भूदित्यस्य प्रयोजनस्य संभवात्। मैवम् चेष्टायामनध्वनि। शङ्कायामाशसायामित्यादिसौत्रनिर्देशस्यैव विपर्यये बाधकत्वात्।
षिद्भिदादिभ्योऽङ् ।। 104 ।।
षिदभ्यो भिदादिभ्यश्चाङ् स्त्रियाम्। गणे पठितानां भिदादीनां कृदन्तत्वेन प्रातिपदिकतया तेभ्यो धात्वधिकारविहितप्रत्ययानुपपत्या तत्प्रकृतिभूता धातव एवात्र भिदादिपदेन निर्दिश्यन्त इति न दोषः। ताश्च यथा भिदिर्विदारणे छिदिर्द्वैधीकरणे विदज्ञाने क्षिपप्रेरणे गुहसंवरणे डुधाञ् धारणपोषणयोः। मिधृमेधृमेधाहिंसनयोः। ऋगतौ गुधपरिवेष्टने हृञ्हरणे क्षिक्षये क्षिनिवास गत्योः तॄप्लवनतरणयोः। धृञ्अवधारणे लिखअक्षरविन्यासे पीडअवगाहने डुवप् बीजसंताने। वसनिवासे मृजूशुद्धौ क्रपकृपायाम्। भिदादिपाठस्तु प्रसिद्धयुपसंग्रहार्थः। प्रत्ययविधानमसंदेहार्थम्। जॄष्वयो हानौ। ऋदृशोऽहि गुणः जरा। डुपचष्पाके। पचा। डुलभष् लभा। उपलीब्धरित्यादि तु प्रतिवर्णमर्थानुपलब्धेरिति भाष्यवार्तिकप्रयोगात्। क्तिन्नाबादिभ्य इत्यस्य त्रितयमात्रपरताया भाष्ये एवोक्तत्वात्।
ननु ज्ञप्तिरुपास्तिरित्यादौ ण्यासश्रन्थीत्यस्य प्रवृत्तावनुपपत्त्या बाहुलकस्यावश्याश्रयणीयतया तल्लभ्योऽप्यर्थ आबादिभ्य इत्यत्रान्तर्भावित उपेयप्रतिप्रत्यर्था इति न्यायात्। मैवम्। भाष्यविरोधात्। भिदाविदारणे इतिवक्तव्यम्। भित्तिरन्या। भिद्यते इति व्युपत्तेः। छिदा द्वैधीकरणे। अन्यत्र छित्तिः। छिद्रम्। आराशस्त्र्याम्। आर्तिरन्या। आङोऽर्तेश्च उपसर्गादृतिधाताविति वृद्धिः। आरा हारा कारा तारा पारेत्येषु गुणे कृते दीर्घो निपात्यते लेखेत्यत्र गुणो लस्य एत्वंच। धाराप्रपाते जलधाराक्षीरधारा। धृतिरन्या। गुहागिर्योषध्योः गिरिशब्दस्तदवयवपरः। गुहा दरी औषधीभेदश्च अन्यत्र गूढिः। गुहां प्रविष्टे परमे परार्द्धे इत्यादावुपचारात्प्रयोगः। `चोदयतेर्दकारस्य डत्वमुपधादीर्घश्च' चूडा स्पष्टमन्यत्।
चिन्तिपूजिकथिकुम्बिचर्चश्च ।। 105 ।।
अङ् स्यात्। ण्यासेति युचोऽपवादः। भौवदिकस्य कुम्बेरकारेऽङि वा विशेषाभावान्नात्रोपादानमिति न्यासकारः। चिन्ता पूजा कथा कुम्बा चर्चा। चकारात्तुलेति हरदत्तः। अतुलोपमाभ्यामित्यादिप्रयोगादित्यन्ये।
आतश्चोपसर्गे ।। 106 ।।
आदन्ताद्धातोरङ् क्तिनोऽपवादः। प्रदा उपधा श्रदन्तरोरुपसर्गवद्वृत्तिः। श्रद्धा। अन्तर्धा। तारकादिषु श्रद्धाशब्दस्य पाठोऽन्तद्धौं येनेति प्रयोगोऽप्यत्र मानम्।
ण्यासश्रन्थो युच् ।। 107 ।।
अप्रत्ययादिति गुरोश्च हल इति च प्राप्तस्याकारस्यापवादः। कारणा हारणा। आसना। श्रन्थना। यदुपास्तिमसावत्रेत्पत्र धातुनिर्देशे तिबन्तस्य लक्षणया तदर्थपरत्वमिति वर्धमानः। चकारस्तु न स्वरार्थः। उदात्त इत्यनुवृत्तेः। नचादेरपि तत्प्रसङ्गः। अनुवृत्तिसामर्थ्यात्। नापि युचोरित्यत्र सामान्यग्रहणार्थोऽन्यथा निरनुबन्धत्वादस्यैव ग्रहणे ल्युडादिनामनुपादानापत्तेरिति वाच्यम्। तत्रानुनासिकग्रहणस्य वक्ष्यमाणतया ल्युडादीनामप्यनुनासिकत्वप्रतिज्ञानसामर्थ्याद्ग्रहणसिद्धेः। घटिवन्दिविदिभ्यश्चेति वाच्यम्। घटना वन्दना वेदना। लाभार्थस्यविदेर्ग्रहणाद्विदवेदनाक्यानेति चुरादेर्ज्ञानेऽपि वेदनेति सिद्धम्। `इषेरनिच्छार्थस्येति वाच्यम्' अन्विष्यतेः अन्वेषणा। वित्तैषणायाश्च सुतैषणायाश्च लोकैषणायाश्चेति छान्दसम्। परेर्वेति वक्तव्यम्। परीष्टिः पर्येषणा।
रोगाख्यायां ण्वुल बहुलम् ।। 108 ।।
छर्द वमने। प्रच्छर्दिका। प्रवाहिका प्रवाहयतिमुहुरित्यर्थः। विचर्चिका। चर्चअध्ययने समुदायेन रोगप्रतीतिः। शिरोर्त्तिरित्यत्र न वाहुलकात्। अर्द हिंसायाम्। तितुत्रेति नेट्। वस्तुतो रूढेष्वेव ण्वुल्। अर्तिशब्दस्तु पीडाविशेषवाची तद्धेतुत्वेनात्र प्रयुक्तः। रोगत्वव्याप्यधर्मस्यात्र शक्यतानवच्छेदकत्वात्। `धात्वर्थनिर्देशेऽपिवक्तव्यं' कानामासिका अन्येष्वीहमानेषु। कानामसायिका अन्येष्वधीयमानेषु आसिक्रिया शयनक्रिया चेत्यर्थः। `इक्श्तिपौधातुनिर्देशे'। पचिः। भवतेरः। निर्देशोऽत्रानुकरणम्। गुप्तिज्किभ्द्यइत्यादौ तु न बहुलोक्तेः। श्तिपः शित्करणसामर्थ्यात्कर्तृवाचित्वाभावेऽपि तदाश्रयः शप्। विभाषालीयतेरित्यादौ यगपि। तेनलीलीङोर्ग्रहणमित्युक्तम्। श्यनि तु लीयतेरेव ग्रहणं स्यात्। नतुलिनात्तेरिति कैयटः।
यत्तु भवतेरिति कर्तृनिर्देशाद्भवेतर इत्यत्वं भावकर्मणोर्नेति केचित्। तदाकरविरुद्धम्। महर्षिणा तेन तिरोबभूवे। बिभावरीभिर्बिभराम्बभुविरे इत्यादिमहाकविप्रयोगाविरुद्धं चेति हेयम्। एतेन सुनोति सुवतिध्यायतेरित्यादिप्रयोगाच्छप्। नतूक्तसामर्थ्यात्। पिबतिरित्यादौ पिबादेशप्रवृत्त्या ग्लायतिरित्यादावात्वनिवृत्या च शित्करणस्य चरितार्थत्वादिति निरस्त्म्। शित्करणं शप्प्रवृत्त्या चरितार्थम्। पिबादयस्तु लोपः पिबतेरित्यादिनिर्देशादित्यस्यापि सुवचत्वात्। एतदभिप्रायेणैव कैयटहरदत्तन्यासकारादिभिः शित्करणसामर्थअयादित्येवाभिहितत्वात्म। तस्मादांशिक आकरविरोधस्तदुक्तावपि दुर्वार इति बोध्यम्। एतेन शित्करणेत्यत्र बहुव्रीहिणा भवतेरिति निर्देशाच्छबित्येवन्यासकाराद्यभिप्रायइति सीरदेवोक्तमपास्तम्। अनुन्यासादयस्तु श्तिपि द्वितीयोऽपि शकारः प्रश्लिष्यते तत्सामर्थ्याच्छबित्याहुः।
`वर्णात्कारः'। निर्देश इत्येव। अकारः ककारः। वर्णमात्रमिहानुकार्यः। अकारस्योच्चारणसामार्थ्यात्। अस्य च्वावित्यादौ बाहुलकान्न। क्वचित्समुदायानुकरणादपि एवकार इति कैयटः। वषट्कार इति निर्देशादित्यन्ये। करणं कारः एवस्य कार इति न्यासकृत्। नचाकार इत्यादावाप्येवम्। अकारकरणमित्याद्यनुपपत्तेः। नचककारस्येत्संज्ञाप्रसङ्गः। प्रयोजनाभावात्। `रादिफः' रेफः। वासरूपविधिना कारोऽपि कारप्रत्ययस्य धातुप्रकृतिकत्वाभावेऽपि अधिकारवशात्कृत्संज्ञा। ततस्तदन्तस्य प्रातिपदिकत्वे स्वाद्युत्पत्तिरिति कैयटः। एवमुतरत्र बोध्यम्। आर्द्धधातुकत्वाभावादिडभावः।
`सत्वर्थाच्छो वक्तव्यः'। मत्वर्थीयः। शब्दस्वरूपमतन्त्रम्। शैषिकान्मतुबर्थींयादितिप्रयोगात्। भसंज्ञाविरहेऽपि भाष्यप्रयोगाद्वहुलोक्तेर्वा अकारलोपः। केचित्तु मतुबर्थे भव इति गहादित्वाच्छ इति तद्धितान्तमेवेत्याहुः। `इणजादिभ्य इति वाच्यम्'। धात्वर्थनिर्देशे ण्वुलोऽयमपवादः। एवमग्रेऽपि। आजिः। बाहुलकान्न वीभावः। आतिः। संज्ञाशब्दा एते इतिन्यासकृत्। `इञवपादिभ्य इति वाच्यम्'। वृद्धिसाम्येऽपि स्वरार्थमारम्भः। वापिः। वासिः। `इक्कृष्यादिभ्यो वक्तव्यः'। कित्वं गुणाभावार्थम्। कृषिः। गिरिः। `संपदादिभ्यः क्विप् वक्तव्यः'। सम्पत् विपत् आपत् सम्पत्तिरित्यादिबहुलोक्तेः।
संज्ञायाम् ।। 109 ।।
अधिकरणे ण्वलर्थं सूत्रम्। उद्दालकपुष्पाणि भज्यन्तेऽस्या उद्दालकपुष्पभञ्जिका क्रीडाविशेषः। कृद्योगे षष्ठी। नित्यं क्रीडाजीविकयोरिति समासः।
विभाषाख्यानपरिप्रश्नयोरिञ्च ।। 110 ।।
परिंप्रश्ने उत्तरेच गम्ये इञ् स्याच्छाण्ण्वुल्। विभाषोक्ते र्यथाप्राप्तमन्येपि। यद्यपीह अल्पाच्त्वादाख्यानपदस्य पूर्वनिपातः श्रूयते तथापि उत्तरस्य प्रश्नपूर्वकत्वानत्क्रमोल्लंघनेच प्रयोजनाभावाद्वृत्तावुदाहरणे च प्रश्नस्यैव प्राथम्यमिति सम्प्रदायः। कांत्वं कारिं कारिकां क्रियां कृत्यां कृर्ति वा अकार्षीः। सर्वां कारिमित्यादिकेऽन्यतममुक्त्त्वाऽकार्षमिति योज्यम्।
पर्यायार्हर्णोप्तत्तिषु ण्वुच् ।। 111 ।।
भवत आसिका शायिका। अग्रगामिका पर्यायः क्रमः। शयनादिवार इत्यर्थः। भवानिक्षुभक्षिकामर्हति। ऋणे इक्षु भक्षिकां मे धारयसि। उत्पत्तौ इक्षुभक्षिका उदपादि।
आक्रोशे नञ्यनिः ।। 112 ।।
विभाषेति निवृत्तम्। नञि उपपदे अनिः स्यादाक्रोशे। अजीवनिस्ते शठ भूयात्। तस्याजननिरेवास्तु।
कृत्यल्युटो बहुलम् ।। 113 ।।
यथोक्तसाधनप्रकृत्यादिबिन्नस्थलेऽपि भवन्तीत्यर्थः। स्नान्त्यनेनेति स्नानीयं चूर्णम्। दीयतेऽस्मै दानीयो विप्रः। अवसिच्यते तदिति अवेसचनम्। नचैवं तयोरेव कृत्येत्यर्तनिर्देशानर्थक्यम्। उत्सर्गतस्तेषामेव गम्यसानत्वात्। `कृत्तयर्थनिर्देशानर्थक्यम्। उत्सर्गतस्येषामेव गम्यमानत्वात्। `कृत्त्युटो बहुलमिति वक्तव्यम्'। कृत्यग्रहणमपनीय कृद्ग्रहणमेव व्यापकत्वात्कर्तव्यम्। तथाचल्युटोऽपि सङ्ग्रहे पृथक् ग्रहणं नकार्यमिति तात्पर्यम्। पादाभ्यां ह्रियते पादहारकः। गले चोप्यते गलेचोपकः। इह कर्मणि ण्वुल्। श्वोऽग्निनाधास्यमानेन। श्वः सोमेन यक्ष्यमाणेन। अनद्यतनेऽपि लृट्।
नपुंसके भावे क्तः ।। 114 ।।
क्लीबत्विशिष्टे भावेऽर्थेधातोः क्तः स्यात्। इसितं शयितमित्यादि। स्यादेतत्। तरोरेवकृत्यक्तखलर्था इत्येव भावार्थत्वं क्तस्य सिद्धम्। मैवम्। तत्र भूताधिकारीयनिष्ठेतिविहितस्य क्तप्रत्ययस्यैव ग्रहणात्। इदं तु कालसामान्ये क्तस्य विधानम्। अतएवास्य परत्वात्स्वविषये घञजषां बाधकतया तेषां पुंविषयत्वमिति सिद्धान्तः। अथ कर्मण्यप्ययं स्यात्। भावेचाकर्मकेभ्य इत्यस्यासन्निधानात्। सत्यम्। गतं तिरश्चीनमित्यादिप्रयोगादिष्टापत्तेः। नच तद्योगेद्वितीयापत्तिर्नलोकेति षष्ठीनिषेधादिति वाच्यम्। क्तस्यच वर्तमाने इतिसूत्रे नपुंसकभावक्तस्य षष्ठ्या उपसंख्यानात्। शेषविवक्षया तत्प्रत्याख्यानपक्षेऽपि तद्भाष्यप्रामाण्यात्तत्र शेषविवक्षैवेति कल्पनात्। भ्रान्तं देशमनेकदुर्गविषमं इति क्वचिद्वितीयादर्शनाच्चेति केचित्।
अन्येत्वकर्मकेभ्य एवायम्। तयोरेवेति। सूत्रेऽनुवृत्तस्य भावेचाकर्मकेभ्य इत्यस्य वाक्यभेदेन व्याख्यानात्। तत्तत्सूत्रविहितकृत्याद्यनुवादेन भावकर्मणोरेवेत्यर्थविधायकमेकं वाक्यम्। तेन निष्ठेति विहितस्य क्तस्य भावोऽप्यर्थः सिद्धः। भावेचाकर्मकेभ्य इत्यत्र तुभावेचेत्यत्र क्तइत्यनुवृत्त्या भावार्थकक्तप्रत्ययानुवादेनाकर्मकेभ्य इति विषयो नियम्यते तत्राविशेषेण क्तद्वयस्याप्युपादानादस्यापि अकर्मकामात्रपरत्वम्। गतं भुक्तमित्यादिकं त्वविवक्षितकर्मत्वेनाकर्मकत्वसद्भावादित्याहुः।
ल्युट्च ।। 115 ।।
नपुंसके भावे ल्युडपि स्यात्। शयनं हसनं योगविभाग उत्तरत्र क्ताननुवृत्त्यर्थः।
कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् ।। 116 ।।
स्पर्श इति भावे घज्। कर्तुरिति कर्मणि षष्ठी। उभयप्राप्तौ कर्मणीति नियमाद्येनेति कर्तरि तृतीया। कर्तृत्वंच यत्क्रियानिरूपितमन्यस्य कर्मत्वं तत्क्रियानिरूीपितं ग्राह्यम्। तथाच येन स्पृश्यमानस्य कर्तुः शरीरसुखमुत्पद्यते तत्र कर्मण्युपपदे नपुंसके बावे ल्युट्। उपपदमिति नित्यसमासार्थ आरम्भः। पयः पानं सुखम्। यद्यपि भक्षणादेव सुखमुत्पद्यते तथापि स्पर्शपदं तदाद्युपलक्षकमेव। कर्मणि किम्। तूलिकाया उत्थानं सुखम्। अत्रापादानेन स्पृस्यमानस्य कर्तुः सुखं नतु कर्मणेति पूर्वेणैव ल्युट्। कर्तुः किम्। गुरोः स्नापनं सुखम्। सुखापेक्षया गुरोः कर्तृत्वेऽपि स्नापनक्रियाकर्तृत्वाभावात्। णिजर्थक्रियायां शिष्यस्यैव कर्तृत्वात्। गतिबुद्धित्यादिनागुरोः कर्मत्वं स्नपयतीत्यस्य अण्यन्तदशायामकर्मकत्वात् शरीरपदंचात्र शरीरसंयोगनिमित्तकारणकत्वस्य सुखे लाभार्थम्। तेन दनस्यासादनं सुखमित्यादौ न। स्वस्वामिभावेनैव तत्र सुखोत्पत्तेः।
करणाधिकरणयोश्च ।। 117 ।।
अनयोरर्थयो लर्युट्। नचोपपदत्वमेवानयोरस्ति नतु प्रत्ययार्थत्वमिति वाच्यम्। करणेत्यादिप्रयोगादेव तदभावात्। इध्मव्रश्चनः। पलाशशातनः। गोदोहनेन पशुकामस्य प्रणयेत्। वारिधानी। घञपवादोऽयम्। येन नाप्राप्तिन्यायात्। अजपोः स्त्रीप्रत्ययानां च परत्वाद्बाधकः यद्वक्ष्यति अजभ्यामिति।
पुंसि संज्ञायां घः प्रायेण ।। 118 ।।
करणाधिकरणयोः पुंसि प्रायेण घः स्यात्संज्ञायाय विषये। दन्ताः छाद्यन्तेऽनेन दन्तच्छदः छादेर्घेइति ह्रस्वः। आकुर्वन्त्यस्मिन्नाकरः। पत्य व्यवहारं कुर्वन्तीति यावत्। प्रायेण किम्। प्रसाधनम्।
गोचरसंचरवहव3जव्यजापणनिगमाश्च ।। 119 ।।
पूर्वयोरेवार्थयोर्घान्ता निपात्यन्ते। हलश्चेति घञपवादः। गावश्चरन्त्यत्र गोचरो विषयो देशश्च। संचरन्तेऽनेनेति संचरी मार्गः। वहन्त्यनेन बहःस्कन्धः। व्रजन्त्यत्र व्रजो घोषः। व्यजस्तालवृन्तम्। निपातनान्न वीभावः। गोचरादिनामवचनं प्रायवचनात्। हलश्चेत्यत्र प्रायग्रहणानुवर्तनाद्धञः क्वचिदभावाद्धएव भवतीति कैयटः। अन्यथा कषो निकष इत्यसिद्धेः।
अवे तॄस्त्रोर्घञ् ।। 120 ।।
अवतारः कूपादेः अवस्तारो चवनिका। प्रायग्रहणादवतारणोपाधिभूतायामित्यर्थः। क्वचिदसंज्ञायामपीति वृतिः।
हलश्च ।। 121 ।।
हलन्ताद्धञ्। घापवादः। अपमृज्यते व्याधिरनेनेत्यपामार्गः। विमॉज्यतेऽवकरोऽनेनेति विमार्गः समूहनी।
अध्यायन्यायोद्यावसंहाराश्च ।। 122 ।।
अधीयतेऽस्मिन्नधअयायः। नियन्त्यनेन न्यायः। उद्युवन्यनेनेत्यादि। `अवहाराधारावायानामुपसंख्यानम्'। अधिकरणार्थाश्चैते इति भाष्यम्। वृत्तिकारस्तु वार्तिकस्थावाधारावायशब्दौ सूत्रे प्रक्षिप्य चकारदावहारशब्दसंग्रह इत्याह। स्पष्ट चेदं कैयटादौ।
उदङ्कोऽनुदके ।। 123 ।।
उदकशब्दभिन्ने उपपदे उत्पूर्वादञ्चतेर्घञ्। हलश्चेति सिद्धे उदकपर्युदासार्थ आरम्भः। घृतं उदच्यते उध्द्रियतेऽत्रघृतोदङ्कः चर्मपात्रम्। अनुदके किम्। उदकोदञअचनः। यद्यपि घञो घापवादत्वाद्धञभावे घ एव युक्तः तथापि घञ्प्रतिषेधसामर्थ्याद्धस्याप्यभावः। रूपसाम्यात्। घे कूदूत्तरपदप्रकृतिस्वरेण घञ्यपि थाथादिस्वरेणान्तोदात्तसाम्याच्च। `अनुदकग्रहणानर्थक्यं प्रायवचनात्'। उदकोदञअचन इत्यत्र प्रायोक्त्यैव घाभावात्त्सूत्रमनारभ्यमित्यर्थः।
जालमानायः ।। 124 ।।
जलधान्ये ज्वलितिकसन्तेभ्योण इति जालशब्दे सिद्धे आनायशब्द एवेह निपात्यः। आनीयन्ते मत्स्यादयोऽनेनेत्यानायः। जालं किम् आनयः।
खनो घच ।। 125 ।।
चाद्धञ्। आखनः। खनः। चजो रिति कुत्वार्हावयवाभावाद्धित्करणानुपयोगे तत्सामर्थ्यादन्यतोऽप्ययम्। तेन भगमिति सिद्धम्। `खनेर्डडरइकइकवकावाच्याः'। आखः। आखरः। डित्वाट्टिलोपः। आखनिकः। आखनिकवकः। आखनादयः षट् खनित्रार्थाः।
अत्र वर्तिकम्। `अजभ्यां स्त्रीखलनाः स्त्रियाः खलनो विप्रतिषेधेन'। चयो लवः कृतिर्दृतिरित्यादौ उभयोः सावकाशत्वे चितिः श्रुतिरित्यत्र परत्वाक्तिन्। एवमुत्तरद्वयेऽपि चयइत्यादिरवकाशो दर्शनीयः ईषद्भेदमित्यादौ खलोऽवकाशः। ईषच्चयं दुश्चयमीषल्लवं दुर्लवं सुलवामित्यत्र खल्। इध्मव्रश्चन इत्यत्र अनस्यावकाशे पलाशचयन इत्यादौ अन एव। एवं कृतिरित्यादिस्त्रीप्रत्ययस्य ईषद्भेदमित्यादिः खलोऽवकाशः। ईषद्भेदा दुर्भेदेत्यादौ खल्। एव सक्तुधानी तैलपीडनीत्यादौ स्त्रीप्रत्ययं बाधित्वा अनो बोध्यः।
इषद्दुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।। 126 ।।
एषु दुः खसुखार्थेषूपपदेषु भावकर्मणोः खल् स्यात्। तयोरेवेत्युक्तेः करणाधिकरणयोरिति निवृत्तम्। अत्रदुरित्यस्य कृछ्रार्थत्वे इतरयोरकृछ्रार्थत्वे इति विभागो योग्यतागम्यः। दुष्करः कटो भवता। ईषत्करः सुकरो वा। इह कर्मणोऽभिधानात्कट इति प्रथमा। नलोकेति षष्ठीनिषेधात्कर्तरि तृतीया। लः स्वरार्थः। खित्वं तु यद्यपि न मुमाद्यर्थम्। अनव्ययस्येति वचनात्। तथापि उत्तरत्र तदर्थम्।
कर्तृकर्मणोश्च भूकृञोः ।। 127 ।।
इह कर्तृकर्मणोर्न प्रत्ययार्थत्वं किन्त्वीषदादीनामिवोपपदत्वमेव अन्यथाखितकरणवैयर्थ्यापत्तेः। अनव्ययस्येतीषदादीनां तदयोगात्। नचेषदादीनामुपपदत्वे मानाभावः। चकारेण तद्भावात् तदुक्तं `कर्तृकर्म ग्रहणं चोपपदार्थमिति। यथासंख्यं तु नास्तीति पागुक्तम्। `च्व्यर्थयोरिति वक्तव्यम्'। तेनाभूततद्भावादन्यत्र नायम्। अनाढ्येन भवता ईषदाढ्येन शक्यं भवितुं ईषदाढ्यं भवम्। दुराढ्यम्भवम्। अनाढ्यो यमीषदाढ्यः शक्यः कर्तुम्। ईषदाढ्यंकरः। अकृछ्राठ्यः क्रियते भवतेत्यर्थः। दुराढ्यंकरः स्वाढ्यङ्करः। अत्र सुशब्दस्य गतित्वा द्धातोः प्राक् प्रयोगः। कर्तृकर्मणोस्तु खित्करणसामर्थ्याद्धा त्वव्यवधानेति प्रागुक्तम्। ईषेदित्यादि किम्(1)। ईषत्कृछ्रम्। सुखं वा कार्यम्। अल्पमित्यादिर्थः। ईषदित्यादि किम्। मनागाढ्येन भूयते। च्व्यर्थयोः किम्। आढ्येन सुभूयते।
आतो युच् ।। 128 ।।
आदन्ताद्धातोरुक्तविषये युच्। खलपवादः ईषत्पानः सोमोभवता दुःपानः सुपानः।
छन्दसि गत्यर्थेभ्यः ।। 129 ।।
खल्विषयेयुच् सूपसदनोऽग्निः सुसेनोपसत्तुं शक्य इत्यर्थः।
अन्येभ्योऽपि दृश्यते ।। 130 ।।
सुदोहनः। `भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः'। दुःशासनः। दुर्योधनः। दुर्दर्शनः। दुर्धर्षणः। दुर्मषंणः।
इति श्रीसिद्धान्तसुधानिधौ तृतीयाध्यायस्य तृतीये पादे प्रथममाह्निकम्।