श्रीसिद्धान्तसुधानिधिः/अध्यायः ३-पादः १/आह्निकम् ६
← आह्निकम् ५ | श्रीसिद्धान्तसुधानिधिः आह्निकम् ६ [[लेखकः :|]] |
वाऽसरूपोऽस्त्रियाम् ।। 94 ।।
अत्रासरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना तत्र नित्यमेव बाधः। स्त्रीशब्दस्य स्वरितत्वादधिकारलाभः। स्त्रियोऽभिधेयत्वे इत्यर्थे तु लब्येत्येव यता बाधितत्वात् लवितव्येति तव्यप्रत्ययो न स्यात्। अपवादेनोत्सर्गस्य नित्यबाधे प्राप्ते पाक्षिकोत्सर्गप्रवृत्त्यर्थमारम्भः। तदुक्तम्। `असरूपवावचनमुत्सर्गस्य बाधकविषये प्रवृत्त्यर्थे'मिति।
स्यादेतत्। न तावत्तव्यादयोऽस्योदाहरणम्। द्विविधा एव हि धातवः। अजन्ता हलन्ताश्च। तत्राचोयत् हलोण्यत्। ताभ्यामेव सर्वविषयाऽवरोधे विधीयमानानां तव्यदादीनां आरम्भसामर्थ्यादेव समावेशसिद्धेः। नापि पचाद्यचो विषये ण्वुल्तृचौ सर्वधातुभ्योच्प्रत्ययविधानेन तयोरपि सामर्थ्यादेव सिद्धेः।
उच्यते। इगुपधेत्यादेः कस्य विषये ण्बुल्तृचोः समावेशार्थत्वात्। असरूपः किम्। आतोऽनुपसर्गे को नित्यमेव कर्मण्यणो बाधको यथा स्यात्। नानुबन्धकृतमसारूप्यम्। तथाचानुबन्धविनिर्मुक्तप्रत्ययव्यक्त्योः सादृश्यं बोध्यम्। अस्त्रियां किम् अप्रत्ययः नित्यमेव स्त्रियां क्तिनो बाधको यता स्यात्। अत्रोत्सर्गापवादयोर्द्वयोरपि स्त्र्यधिकारस्थत्वे एवायं निषेधः प्रवर्तते इति वृत्त्यनुसारिणः। अपवादमात्रस्य स्त्र्यधिकारत्वेऽपि इति दीक्षितादयः।
कृत्याः ।। 95 ।।
`प्राङ् ण्वुल इति वक्तव्यम्'। ण्वुल्तृचावित्यतः प्राक् वक्ष्यमाणाः प्रत्ययाः कृत्यसंज्ञाः। कृत्संज्ञाव्याप्येयं संज्ञा। प्रागितिकिम् ण्वुलः कृत्यसंज्ञा माभूत्। अन्यथा तयोरेवकृत्येति भावकर्मणोस्तदापत्तेः। एवंतु कर्तरि कृदिति कर्तर्येव सः। वस्तुतस्त्वर्हे कृत्यतृचश्चेत्यत्र तृज्ग्रहणमेव योगापेक्षं ज्ञापकम्। ण्वुलः प्रागेव कृत्याधिकार इति। अन्यथा तृचोऽपि कृत्यपदेनैव संग्रहापत्तेः। तेन ण्वुलः कृत्यसंज्ञानापत्तिः वृत्तिकारेणतुर(1)।
तव्यत्तव्यानीयरः ।। 96 ।।
धातोरेते स्युः। तित्त्वं स्बरीतार्थम्। रित्वमुपोत्तमं रितीते मध्योदात्तार्थम्। रिदन्तस्योपोत्तममुदात्तम्। करणीयम्। ईकार उदात्तः। सौवर्यःसप्तम्यस्तदन्तसप्तम्य इति सिद्धान्तात् `केलिमर उपसंख्यानम्'। पचेतिमा माषाः। भिदेलिमाः सरलाः। पक्तव्याः भेत्तव्य इत्य्रथः। ककारो गुणवृद्धिनिषेधार्थः रेफः स्वरार्थः। कर्मकर्तर्ययमितिवृत्तिस्त्वयुक्ता। भाष्ये कर्मण्येवोक्तत्वात्। `वसेः स्तव्यः कर्तरि णिच्च'। णित्वाद्धृद्धिः। वसतीति वास्तव्यः। वास्तुनि भवो वास्तव्यः। दिगादित्वाद्यदिति भाषअयम्। यथाकथञ्चिदन्वाख्येयत्वात्। तदुक्तम्--
उपादायापि ये हेयास्तानुपायान् प्रचक्षते।
उपायानां हि नियमो नावस्यमवतिष्ठते।।
नच स्वरे भेदः। तव्यान्तत्वे कृत्योकेष्णुजिति अन्तोदात्तत्वम्। यति तु ययतोश्चातदर्थे इत्यनेनेत्यविशेषात्।
अचो यत् ।। 97 ।।
अजन्ताद्यत्स्यात्। चेयम्। जेयम्। सार्वधातुकार्धधातुकयोरिति गुणः। हलन्ताण्ण्यतो वक्ष्यमाणत्वात् अजन्तविषयत्वेऽस्य संभवत्यपि। अज्ग्रहणं किम्। अजन्तभूतपूर्वादपि यथा स्यात्। दित्स्यम्। धित्स्यम्। आर्धधातुकविवक्षायामेवातोलोपापत्त्या प्रत्ययोत्पत्तिवेलायामजन्तत्वाभावेऽपि यथा स्यात्। निरूपितं चेदं न पदान्तसूत्रे। अतएव परसप्तमीपक्षेऽज्ग्रहणं स्पष्टार्थमेवेति न्यासकारः। तेन गणयतीत्यादौ अतोलोपस्य परनिमित्तकतया स्थानिवत्वान्नोपधावृद्धिरित्यभिप्रायः।
`तकिशसिचतियतिजनीना मुपसंख्यानम्'। ण्यतो बाधनार्थमारम्भः। शंसीति सानुस्वारपाठो हेयः। ईडवन्दवृशंसदुहांण्यत इति सूत्रविरोधात्। तक्यम्। शस्यम्। चत्यम्। यत्यम्। जन्यम्। नच जनेर्ण्यति जनिवध्योश्चेति वृद्धिप्रतिषेधाज्जन्यमिति रूपसाम्यादुपसंख्यानवैयर्थ्यम्। यतो नाव इत्येतदर्थत्वात्।
`हन्तेर्वा यद्वक्तव्यः'। वध्यः घात्यः। वधमर्हतीति दण्डादिभ्य इति यतैव साध्यम्। नचअसिवध्य इत्याद्यनुपपत्तिः समासविधायकाभावादिति वाच्यम्। पादहारकाद्यर्थमिति तत्सिद्धेः। मैवम्। स्वरे दोषप्रसङ्गात्। असिवधशब्दाद्यति तित्स्वरितमित्यापत्तेः। कृदन्तेन समासे तु गतिकारकोपपदादिति कृदुत्तरपदप्रकृतिस्वरेण वध्यशब्दे आद्युदात्तसिद्धिः। वस्तुतोऽसिवधशब्दाद्यदेव दुर्लभः। दण्डादिषु केवलस्यैव वधशब्दस्य पाठात्। प्रत्ययविधौ च तदन्तविधिप्रतिषेधात्।।
पोरदुपधात् ।। 98 ।।
अदुपधात्पवर्गान्ताद्धातोर्यत्। ण्यतोऽपवादः। शप्यम्। लभ्यम्। नच वैरूप्यात् ण्यदपि वासरूपन्यायेन स्यादिति वाच्यम्। नानुबन्धकृतमसारूप्यमिति सिद्धान्तात्।।
शकिहोश्च ।। 99 ।।
शक्यम्। सह्यम्।।
गदमदचरयमश्चानुपसर्गे ।। 100 ।।
पञ्चम्यर्थे सप्तमी। अनुपसर्गेभ्य एभ्यो यत्। अथवा एभ्यो यत्स्यान्नतूपसर्गयोगे। गद्यम्। मद्यम्। चर्यम्।
`चरेराङिचागुरावितिवक्तव्यम्'। आचर्योदेशः। अगुरौ किम्। आचार्यइत्यत्र ण्यदेव स्यात्। नच यमेः पोरदुपधादित्येव सिद्धमिति वाच्यम्। सोपसर्गान्माभूदित्येव नियमार्थत्वात्। तेन प्रयाम्यमिति ण्यदेव। नचैवमनियम्यस्य नायुक्तिः। त्वया नियम्या ननु दिव्यचक्षुषेत्यादीनामनुपपत्तिः। `तेन न तत्र भवेद्विनियम्य'मितिवार्तिकप्रयोगान्निपूर्वादपि यदनुमानात्।
यत्तु यमः समुपनिषुचेतिवैकल्पिकेऽप्प्रत्यये नियमशब्दः तत्रसाधुरित यत्प्रत्यये नियम्यशब्दः साध्यः। नचैवंकृद्योगषष्ठ्यापत्तौ तेनेति त्वयेतिच कर्तरि तृतीया दुर्लभा। अपः कृत्यसंज्ञाविरहेणकृत्यानां कर्तरीत्यस्याप्रवृत्तेरिति वाच्यम्। करणे तृतीयोपपत्तेः। यद्वा पर्यवसितं नियमयन्नित्यादाविव यमोऽपरिवेषणे मिदिति मतमाश्रित्य ण्यनताद्यद्बोध्यः। अथवा ण्यत्येव संज्ञापूर्वकत्वान्न वृद्धिरिति तच्चिन्त्यम्। क्लिष्टत्वात्। त्वयेति करणत्वे कर्तुरध्याहारापत्तेः। ण्यर्थस्याविवक्षितत्वकल्पनात्। संज्ञापूर्वक इत्यस्याप्यगतिकगतित्वात्।
अवद्यपण्यवर्या गर्ह्यपणितव्यनिरोधेषु ।। 101 ।।
यथाक्रममर्थत्रये निपात्यन्ते। नञ्युपपदे वदः सुपीति यत्क्यपोः प्राप्तौ यदेव स च गर्हायामेवेति नियमद्वयार्थं निपातनम्। अवद्यं पापम्। गर्होति किम्। अनुद्यं गुरुनाम्। अत्र क्यबेव। अगर्ह्यत्वेऽपि वदनानर्हत्वात्। आत्मनाम् गुरोर्नामेति स्मृत्या तदुच्चारणनिषेधात् पण्या गौः। व्यवहर्तव्येत्यर्थः। पाण्यमन्यत्। स्त्युत्यर्ङमित्यर्थः। नच पणितव्यशब्दस्योभयसाधारण्यात्कथं स्तुत्यर्थस्य बहिर्भाव इति वाच्यम्। रूढ्यार्थनियमलाभात्।
धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च।
अनुबन्धविकाराणां रूढ्यर्थंच निपातनम्।।
इत्युक्तेः। शतेन वर्या कन्या वरयितॄणां नियमाभावात्। वृङोयत्। अनिरोधरूपार्थस्य संभक्तिवाचिन्येव सौष्ठवादिति संप्रदायः। वृङस्तु वृत्येति वक्ष्यते। अत्रवर्येत्यन्ते निर्विभक्तिको निर्देशः। नतु द्वन्द्वः। तेन वर्येति निपातः स्त्रियामेव। आस्त्रियां तु ण्यत्। वार्या ऋत्विज इति वृत्तिः। केचित्तु द्वन्द्वएव। सुग्रीवो मम वर्योऽसाविति भट्टिप्रयोगादित्याहुः।
वह्यं करणम् ।। 102 ।।
वहन्त्यनेन वह्यं शकटम्। कर्मणि तु वाह्यम्। हलन्तत्वाण्ण्यत्। वोढ्वयमित्यर्थः।
अर्यः स्वामिवैश्ययोः ।। 103 ।।
ऋदन्तत्वात्प्राप्तस्य ण्यतोऽपवादः। `स्वामिन्यन्तोदात्तत्वं वक्तव्यम्' स्वामीति किम्। आर्यो ब्राह्मणः। प्राप्तव्य इत्यर्थः।
उपसर्या काल्या प्रजने ।। 104 ।।
प्रजने गर्भोग्रहणे काल्या प्राप्तकाला चेदित्यर्थः। तदस्य प्राप्तमित्यनुवृत्तौ वर्तमाने कालाद्यत्। उपसर्या गौः। गर्भाधानार्थं वृषभेण गन्तुं योग्या। प्रजनेत्यादि किम्। उपसार्या काशी। प्राप्तुमर्हेत्यर्थः।
अजर्यं संगतम् ।। 105 ।।
नञ्पूर्वाज्जीर्यतेः कर्तरि यत् संगतस्य विशेष्यत्वे। तेन सङ्गतप्रयोगोऽप्यपेक्षणीयः। तेन सङ्गतमार्येण रामार्मजर्यं कुरु द्रुतमिति भट्टिः। मृगैरजर्यं जरसोपदिष्टमिति कालिदासप्रयोगे तु तदध्याहार्यम्। केचित्तु जरणाभावविशेष्यसङ्गतेऽजर्यपदस्याजहल्लक्षणेत्याहुः। तन्न। सङ्गतस्याजर्यपदभिन्नपदजन्यधीविशेष्य त्वस्य सूत्रार्थतो लाभात्। अन्यथा योगरूढेरेव दुर्वारत्वात्। नच भट्टिप्रयोगे पौनरूक्त्यापत्तिस्तद्बाधिका। तत्र विशेषणमात्रपरतायाः सम्भवात्।
वदः सुपि क्यप् च ।। 106 ।।
अनुपसर्ग इति वर्तते। उत्तरसूत्राद्भावपदापकर्षः। वदेर्भावे क्यमप् स्यात् चाद्यत्। उपसर्गभिन्ने सुप्युपपदे। ब्रह्मोद्यम्। कित्वात्संप्रसारणम्। यति ब्रह्मवद्यम्। ब्रह्मणो वेदस्य वदनमित्यर्थः। कर्मण्ययमित्यन्ये। भावग्रहणमुत्तरार्थामित्युत्तरसूत्रभाष्यस्वारस्यात्। उपसर्गेतु अनुवाद्यम्। अपवाद्यम्। अनूद्येति क्यप्प्रयो गस्तु क्वाचित्कोऽसाधुः।
भुवो भावे ।। 107 ।।
क्यप् स्यात्। ब्रह्मणो भावो ब्रह्मभूयम्। भाव इत्युत्तरार्थम्। भुवोऽकर्मकत्वेन व्यावर्त्याभावादिति भाष्यम्। प्राप्त्यर्थस्य सकर्मकत्वेऽपि प्रथममनुपस्थितत्वात्। कालादिकर्मणि त्वनभिधानादिति कैयटः।
हनस्तच ।। 108 ।।
क्यप् स्यादुपसर्गभिन्ने सुपि उपपदे तकारश्चान्तादेशः `स्त्रियां चिदिति वक्तव्यम्'। चित्त्वादन्तोदात्तत्वम्। ब्रह्मणो हननं ब्रह्महत्या। स्त्रीत्वं लिङ्गस्य लोकाश्रयत्वात्। दस्युहत्यायेति भाष्योदाहृतश्रौतप्रयोगे तु क्लीबत्वं छान्दसमिति कैयटः।
एतिस्तुशास्वृदृजुषः क्यप् ।। 109 ।।
इत्यः स्तुत्यः वृत्त्यः। वृइति वृञो ग्रहणं नतु वृङः। ईडवन्दवृशंसदुहां ण्यत आत्मनेपदिभ्यां ईडवन्दिभ्यां साहचर्यण वृङ एवोपादानात्। वृङस्तु वार्या ऋत्विजः। आदृशअयः। दृधातोराङ् पूर्वस्यैव प्रयोगात्। सर्वत्र ह्रस्वस्य पिति कृतीति तुक्। शिष्यः। शासइदङ्हलोरितीत्वम्। शासिवसीति षत्वम्। जुष्यः। क्यपि प्रकॉते पुनः क्यप्ग्रहणं पूर्वस्मादस्य वैलक्षण्यसूचनार्थम्। तेन पूर्वश्छन्दसिस्त्रियां चिद्भवतीति सिद्धम्। न चैवमवश्यस्तुत्य इत्यत्र ओरावश्यके इति ण्यदापत्तिः। पूर्वविप्रतिषेधवचनेन क्यप्सिद्धेः। यदि तु पुनः क्यब्ग्रहणस्येदमेवप्रयोजनं तर्हि चित्त्वं वाचनिकं बोध्यम्।
`आङ्पूर्वादञ्जेः संज्ञायामुपसंख्यानम्'। अञ्जू व्यक्त्यादौ। बाहुलकात्करणे क्यप्। अनिदितामिति नलोपः। अञ्जत्यनेनेत्याज्यम्। नच दीर्घानुपपत्तिः। आङ्पूर्वत्वात्। ण्यति तु उपधालोपो न स्यात्। नचाङः पदत्वादवग्रहप्रसङ्गः। न लक्षणेन पदकारा अनुवर्त्त्याः पदकारैर्नाम लक्षणमनुवर्त्त्यमितीष्टापत्तेः संहितैव ह्यपौरुषेयी। पदच्छेदस्तु पौरुषेयः। अतएव यत्रार्थनिश्चयो नास्ति तत्र नावग्रहः। तदुक्तम्। हरिद्रुरनवगृह्य इति। हरिशब्दो हरिच्छब्दो वेति सेदेहात्।
ऋदुपधाच्चाक्लृपिचृतेः ।। 110 ।।
क्लृपिचृतिव्यतिरिक्तादृदुपधात्क्यप्। वृत्यम्। वृध्यम्। कित्पान्न गुणः। अक्लृपीति किम्। कल्प्यम्। चर्त्यम्। ण्यद्गुणौ। तपरः किम्। कीर्त्यम्। णिजभावपक्षे णयत्। णिचि तु अचोयत्।
ईच खनः ।। 111 ।।
च त्क्पप्। खेयम्। अत्र भाष्यम्। इकारो ह्रस्व एव विधेयः। आद्गुणेन रूपसिद्धेरविशेषात्। नच षत्वतुकोरित्येकादेशस्यासिद्धत्वादधीत्येत्यादाविव तुक् प्रसङ्गः पदान्तपदाद्योरेकादेशस्यैवासिद्धत्वस्वकिरात्। अन्यथा वृक्षेछत्रमित्यत्र ह्रस्वाश्रयस्य नित्यस्य तुकः प्रसङ्गत्। दीर्घात्पदान्ताद्वेति वैकल्पिकस्येष्टत्वात्।
केचित्तु प्रश्लेषनिर्देशेन द्वितीय इकारो ये विभाषेत्यात्वस्य पक्षे परत्वात्प्राप्तस्य बाधाय विधीयते। येविभाषेत्यात्वस्यावकाशः खायते। इत्वस्यावकाशआत्वाभावपक्षे। आत्वपक्षे तूभयप्रसङ्गे परत्वादात्वमेव स्यादिति कल्पयन्ति। तन्न। क्यप् संनियोगशिष्टत्वेनेत्वस्यान्तरङ्गत्वात्। यकारादौ प्रत्यये परे विधीयमानस्यात्वस्य बहिरङ्गत्वात्। अन्तरङ्गबहिरङ्गयोश्च विप्रतिषेधायोगात्। नच ये इति विषयसप्तम्याश्रयणादात्वस्यैव परनिमित्तत्वाभावादन्तरङ्गत्वमिति वाच्यम्। परसप्तम्या एव तत्र युक्तत्वात् इति कैयटः।
भृञोऽसंज्ञायाम् ।। 112 ।।
भृत्याः कर्मकराः। भरणीया इत्यर्थः। `समश्च बहुलम्'। संभृत्याः। पक्षे सम्भार्याः। नचसंज्ञायामिति प्रतिषेधस्य संनिधानादेतत्सूत्रप्राप्तिमात्रविषयत्वात्संज्ञायां समजनिषेदत्यादिना क्यपो दुर्वारत्वम्। तथाच भार्याशब्दो न सिध्येत्। तथाचैतत्प्रतिषेधसामर्थ्याल्लक्षणान्तरप्राप्तस्यापि क्यपोऽयं निषेध इति वाच्यम्। अस्त्रीसंज्ञानिषेधत्वेनोपपत्तेः। भार्यो नाम क्षत्रियः। कर्मव्युत्पत्त्या संज्ञापदस्य संज्ञिपरत्वात्।
ननु संज्ञायां समजेत्यस्मादनन्तरं `न स्त्रिया'मिति पाठ्यम्। तथाच स्त्रियामित्यधिकाराद्विधौ शास्त्रीयस्त्रीग्रहणाद्भृत्येति क्यप्। निषेधे तु स्तनकेशवतीति लौकिकस्त्रीग्रहणात्क्यपो निषेधे ण्यत्प्रत्यये भार्येतिचेत्। मैवम्। सूत्रभेदापत्तेः। उच्यते संज्ञायामिति सूत्रे व्रजयजोर्भावे क्यबित्यस्माद्भावपदानुवृत्तेः। भार्याशब्दस्य तु कर्मसाधनत्वान्न तत्र क्यप्प्रसङ्गः।
अथवा विधिप्रदेशेषु संज्ञाशब्दो न कर्मसाधनः किंतु भावसाधनः। तेन प्रत्ययान्तेन यदि रूढिर्गम्यते ततः प्रत्ययः। भृत्याशब्देन च गृहिण्यनभिधानान्न क्यप्। तथाच वार्तिकम्।
संज्ञायां पुंसि दृषअटत्वान्न ते भार्या प्रसिध्यति।
स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति।
यद्वा बाहुलकाण्ण्यत्। तथाचोक्तम्।
अथवा बहुलं कृत्याः संज्ञायामिति चेत्स्मृतम्।।
यथा यत् यथा भित्ति स्तथैव सा।
यथा अजन्ताद्विहितो यत् बाहुलकात्क्वचिद्धलन्तादिप। यथा वा भित्तिरित्यङ्विषये क्तिन्नित्यर्थः। केचित्तु बिभर्त्तेर्भॄ इति दीर्घान्तात् क्र्योदर्वाण्यत्। क्यप् तुभरतेस्तैदादिकादेव। तदनुबन्धकग्रहणे नातदनुबन्दकस्येत्याहुः।
मृजोर्विभाषा ।। 113 ।।
क्यप् मृजयः। पक्षे ण्यत्। मार्ग्यः। मृजेर्वृद्धिः। चजोरितिकुत्वम्।
राजसूर्यसूयमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः ।। 114 ।।
एते निपात्यन्ते। राज्ञा सोतव्योऽभिषवद्वारा निष्पादयितव्यः। राजानं क्रीणातीत्यादिदर्शनाल्लतात्मकः सोमः सूयते कण्ड्यतेऽत्रेत्यधिकरणो क्यप्। निपातनाद्दीर्घः। राजसूयस्य पशिवष्टिसोमात्मकषोडशप्रधानरूपत्वेऽपि एकदेशसंबन्धस्यापि प्रवृत्तिनिमित्तत्वम्। वैश्वदेवेन यजेतेत्यादावेकदेशवर्तिनापि विश्वदेवसंबन्धेन वैश्वदेवपदस्य यागाष्टकपरत्वदर्शनात्। सूर्यरुच्याव्यथ्याः कर्तरि। सरतीति सूर्यः निपातनादुत्वम्। यद्वा षू प्रेरेणे तुदादिः। सुवति कर्मणि प्रेरयति लोकान्। क्यपो रुट् निपातनात्। मृषेत्युपपदादेव वदेः कर्मणि नित्यं क्यप्। तेन यत् न। विशेष्यलिङ्गोऽयम्।
क्षीरे पयस्याऽपि पेद द्वयवाचिभूयं नानार्थकेषविषयोऽद्य मृषोद्यमस्तु।
अर्थद्वयवाचित्वं मृषोद्यं मृषेति वक्तव्यमस्त्वित्यन्वयः। उच्छ्रायसौन्दर्यगुणा मृषोद्याः। रोचते रुच्यः। सुन्दरं रुच्यमित्यमरः। कुप्यं संज्ञायाम्। स्वर्णरजताभ्यामन्यत्कुप्यम्। गुपेरादेः कुत्वम्। कृष्टपच्यस्यान्तोदात्तत्वं कर्मकर्तरि च। कृष्टे स्वयमेव पच्यन्ते कृष्टपच्याः। कृष्टपच्याश्च मेऽकृष्टपच्याश्च मे। शुद्धे कर्तरि कृष्टपाक्याः। न व्यथतेऽव्यथ्यः।।
भिद्यौध्यौ नदे ।। 115 ।।
भिदेरुज्झेश्च क्यप्। उज्झेर्धत्वंच। भिनत्ति कूलं भिद्यः। उज्झत्युदकं उध्यः। अजाद्यदन्तमित्यस्यानित्यत्वात् भिद्यपदस्य पूर्वनिपातः। नदे किम्। भेत्ता उज्झिताः।।
पुष्यसिध्यौ नक्षत्रे ।। 116 ।।
पुष्यति सिध्यतिभ्यामधिकरणे क्यप्। पुष्यन्ति सिध्यन्तिवास्मिन्नर्थाः पूष्पः सिध्यः।।
विपूयविनीयजित्या मुञ्जकल्क हलिषु ।। 117 ।।
पूज्नीञ्जिभ्यः क्यप्। विपूयो मुञ्जः। रज्वादिकरणाय शोधनीयः विनीयः कल्कः। पिष्ट औषधिविशेषः पापं वा तपो न कल्कोऽध्ययनं न कल्क इत्युपक्रम्य तान्येव भावोपहतानि कल्कः इति भारतात्। कल्कः पापाशये पापं इति कोषाच्च। जित्यो हालेः। बलेन क्रष्टव्यः। कृष्टसमीकरणार्थं स्तूलकाष्ठम्। एषु किम्। अन्यत्र यदेव। विपव्यम्। विनेयम्। जेयम्।।
प्रत्यपिभ्यां ग्रहेः ।। 118 ।।
`क्यप् छन्दसीति वक्तव्यम्'। मत्तस्य न प्रतिगृह्यम्। अन्यत्र प्रतिग्राह्यम्। अपिग्राह्यम्।
पदास्वैरिबाह्यपक्ष्येषु च।। 119 ।।
अवगृह्यं प्रगृह्यं पदम्। गृह्योऽस्वैरी परतन्त्र इत्यर्थः।
गृहासक्ताः पक्षिमृगाः छेकास्ते गृह्यकाश्च ते।।
इत्यमरः। ग्रामगृह्य सेना। तस्माद्बाह्येत्यर्थः। स्त्रीनिर्देशात्पुन्नपुंसकयोर्न। पक्षे भवः पक्ष्यः दिगादित्वाद्यत्। आर्यैर्गृह्यते आर्यगृह्यः। तत्पक्षाश्रित इत्यर्थः। तमार्यगृह्यं नि?गृहीतधेनुरिति कालिदासः।
विभाषा कृवृषोः ।। 120 ।।
कृत्यम्। वृष्यम्। पक्षे ण्यत्। कार्यम्। वर्ष्यम्।।
युग्यं च पत्रे ।। 121 ।।
पत्रं वाहनम् युजेः क्यप् कुत्वं च। ण्यद्व्यावृत्तये सूत्रम्। तद्वहतिरथयुगेति तद्धितेनापि सिद्धेः।।
अमावस्यदन्यतरस्याम्।। 122 ।।
नन्वत्र किं निपात्यते यत्प्रत्यये पाक्षिकी वृद्धिर्वा व्यत्प्रत्यये पाक्षिको ह्रस्वो वा। प्रत्यस्तमितप्रकृतिप्रत्ययविभागसमुदायद्वयं वा। नाद्यः। अमावास्याया वेत्यत्र अमावास्याशब्दानुपादानप्रसङ्गात्। विकृतिग्रहणेन प्रकृतेरग्रहणात्। यतोनाव इत्युक्तरपदाद्युदात्तप्रसङ्गाच्च। अन्तस्वरितस्यैवेष्यमाणत्वात्। न द्वितीयः। कृतायां वृद्धौ स्वरतद्वितयोः सिद्धावपि प्रकरणविरोधात्। नान्त्यः। तिति प्रत्ययग्रहणेन स्वरितानुपपत्तेः। मैवम्। ण्यत्प्रत्यये पाक्षिकस्य ह्रस्वस्य निपातनात्। एकदेशविकृतन्यायेनामावस्याशब्दस्यापि विकृतित्वात्। नचैवं ण्यत्प्रकरणे एवास्य पाठापत्तिः।।(1)
छन्दसिनिष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्ताध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि ।। 123 ।।
एतानि निपात्यन्ते `निष्टर्क्ये कृतेराद्यन्तविपर्यासः' कृतधातौ ककारस्यान्तत्वं तकारस्य चादित्वं यथा तर्कुरित्यादावित्यर्थः। कृतेः कुरित्यौणादिकः कुप्रत्ययः।। अत्र श्लोकवार्तिकम्।
निष्टर्क्ये व्यत्ययं विद्यान्निसः षत्वं निपातनात्।
ण्यदायादेश इत्येतावुपचाय्ये निपातितौ।।
ण्यदेकस्माच्चतुर्भ्यः क्यप् चतुर्भ्यश्च यतो विधिः।
ण्यदेकस्माद्यशब्दश्च द्वौ क्यपौ ण्यविधिश्चतुः।।
निस्पूर्वकात्कृन्ततेः क्यपि प्राप्ते ण्यत्। ककारतकारयोर्व्यत्यासः। उपसर्गसकारस्य षत्वंच। निष्टर्क्यं चिन्वति पशुकामः। देवहूयादिचतुष्टये चतुर्भ्यः क्यप्। कित्वान्न गुणः। उपसर्गभेदान्नयतेर्भेदः। मर्यादिचतुष्टये यत्। यतोनाव इत्याद्युदात्तत्वम्। खान्य इति ण्यत्। देवयज्येति यकारः। आपृच्छेत्यादि द्वये क्यप्। कित्वात्संप्रसारणगुमाभावौ। ब्रह्मवाद्यादिचतुष्टये ण्यत्। चतुरिति सुजन्तम्। चतुरो वारान् यद्विधीयते इत्यर्थः। उपचाय्येति पृडशब्देउत्तरपदे निपातः। `हिरण्य इति वक्तव्यम्' उपचेयपृडमन्यत् मृड मुखने पृड चेत्यस्मादिगुपधत्वात्कः।।
ऋहलोर्ण्यत् ।। 124 ।।
षष्ठी पञ्चम्यर्थे। ऋदन्ताद्धलन्ताच्च ण्यत्। नच ऋ गतावित्यस्यैव ग्रहणमस्त्विति वाच्यम्। हल्साहचर्येण बर्णग्रहणात्। परं कार्यमिति निर्देशात्। ईडवन्देत्यादि लिङ्गाच्च। अन्यथा वृधातूत्तरस्य ण्यतोऽप्रसिद्धेः। कार्यम्। वर्ष्यम्।
`पाणौ सृजेर्ण्यद्वाच्यः'ऋदुपधादिति प्राप्तस्य क्यपोऽपवादः। पाणिभ्यां सृज्यते इति पाणिसर्ग्या रज्जुः। `समवपूर्वाच्च'समवसर्ग्या। `लपिदिभिभ्यां चेतिवक्तव्यम्'। पोरदुपधादितियतोऽपवादः। अपलाप्यम् अपदाभ्यम्। दभिर्वार्तिकबलाल्लब्धधातुभावः। विष्णुर्गोपा अदाभ्यः। न मा नशन्ति न दभाति तस्कर इत्यादिप्रयोगात्। वृतिकारस्तु आसुयु इत्यादिसूत्रे रपेरुत्तरं लर्पि पठित्वा चकारेण दभेः संग्रह इत्याह। तदुक्तभाष्यवार्तिकविरुद्धम्।।
ओरावश्यके ।। 125 ।।
अवश्यंभाव आवश्यकम्। मनोज्ञादित्वाद्वुञ्। अव्ययानां भमात्रे टिलोपः। तत्र द्योत्ये उपर्णान्ताद्धातोर्ण्यत्। अचो यदित्यस्यापवादः। लाव्यम्। पाण्यम्। अचो ञ्णितीति वृद्धिः। वान्तो यिप्रत्यये इत्यवादेशः। क्वचित्स्पष्टार्थं अवश्यपदस्यापि प्रयोगः। अवश्यलाव्यम्। `लुम्पेदवश्यमः कृत्ये'इति मकारलोपः। मयूरव्यंसकादेराकृतिगणत्वात्समासः। नचैवं समामान्तोदात्तप्रसङ्गः। मयूरव्यंसकादिषु उत्तरपदप्रकृतिस्वरस्य निपातनात्सिद्धेः।।
आसुयुवपिरपित्रपिचमश्च।। 126 ।।
आङ्पूर्वात्सुञ्अभिषवे इत्यस्मात्। आसाव्यः। यु मिश्रणे। याव्यः। युञ् बन्धने इत्यस्य तु न ग्रहणम्। सानुबन्धकत्वात्। उपादीनां चतुर्णामुपादानं पोरदुपधादिति यतो बाधनार्थम्। वाप्यम्। राप्यम्। त्राप्यम्। चाम्यम्।
आनाय्योऽनित्ये ।। 127 ।।
अत्र वार्तिकम्।
आनाय्योऽनित्य इति चेद्दक्षिणाग्नौ कृतं भवेत्।
एकयोनौ तु तं विद्यादानेयो ह्यन्यथा भवेत्।
अनित्यमात्रे उक्तनिपातने घटादावतिप्रसङ्गः।
अतो दक्षिणाग्नाविति वक्तव्यम्। तत्रापि एकयोनाविति वाच्यम् आहवनीयेन सह यो गार्हपत्यादानीयते स एकयोनिर्दक्षिणाग्निः। अनित्यत्वं च तस्य सततमप्रज्वलनात्। यस्तु वैश्यकुलादेरानीयते तत्र नायं निपात इत्यर्थः। `वैश्यकुलाद्वित्तवतो भ्राष्ट्राद्वा गार्हपत्याद्वेति दक्षिणाग्नेर्योनिविकल्पश्रवणात्।
यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते।
तस्मिन्नानाय्य इत्यमरः।।
प्रणाय्योऽसंमतौ ।। 128 ।।
संमतिः प्रीतिविषयत्वम्। प्रणाय्यश्चौरः। प्रीत्यनर्हत्वात्। भोगेच्छापि संमतिः। प्रणाय्योऽन्तेवासी। विरक्त इत्यर्थः। प्रणेयोऽन्यः।
पाय्यसांनाय्यनिकाय्यधाय्यामानहविर्निवाससामिधेनीषु ।। 129 ।।
मीयतेऽनेनेति पाय्यं मानम्। करणे ण्यत्। मस्य पत्वम्। आतो युक्। सम्यक् नीयते होमार्थमग्निं प्रतिति सान्नाय्यं हविः। दर्शेऽग्निषोमीययागे ण्यदायादेशौ समो दीर्घश्च। निचीयते धान्यादिकमत्रेति निकाय्यो निवासः ण्यदायादेशौ धात्वादेश्चकत्वम्। धीयतेऽनया समिदिति धाय्या ऋक्। प्रकृतौ पञ्चदश सामिधेन्यः श्रूयन्ते। साप्तदश्यस्य मित्रविन्दादिविकृतिविशेषविषयकत्वात्। `एकविंशतिमनुब्रूया'दित्यादौ विकूतिविशेषे सामिधेनिविवृद्धिश्रुतौ आगम्यमानानामृचां कुत्र देशे निवेश इति संदेह इयं वै समिध्यमानवती असौ समिद्धवती यदन्तया तद्धाय्या इति द्यावापृथिवीत्वेन कल्पितयोः समिध्यमानसमिधअयवत्त्योर्मध्ये धाय्यानामाकाशत्वेन संस्तवात् पूर्वासां चागन्तूनामृचां धीयमानतया धाय्यत्वात्। तन्मध्ये निवेश इति पूर्वपक्षः। धीयमानत्वं न धाय्याशब्दप्रवृत्तिनिमित्तम् स्तोभादिविधौ स्तुतशस्त्रार्थतया धीयमानासु तच्छब्दप्रयोगाभावात्। किन्तु पृथुपाजवत्यौ धाय्ये इत्यादिवेदप्रयोगो यत्र धाय्यापदवाच्यानामेव समिद्ध्यमानसमिद्धस्मादत्र समिधेनीपदं तद्विशेषपरं बोध्यम्। मानेत्यादि किम्। अन्यत्र मेयम्। निचेयम्। संनेयम्। धेयम्।
क्रतौ कुण्डपाय्यसंचाय्यौ ।। 130 ।।
कुण्डेन पीयते सोमोऽस्मिन् कुण्डपाय्यः क्रतुः। अधिकरणे यत्। नतु व्यत्। नित्स्वरापत्तेः। यतोनाव इत्याद्युदात्तः पाय्यशब्दः। समासे कृदुत्तरपदप्रकृतिस्वरः। तथाच वार्तिकम्। `कुण्डपाय्ये यद्विधि'रिति। संचीयतेऽसौ संचाय्यः। कर्मणि ण्यत्। आयादेशः क्रतौ किम्। कुण्डपानं संचेयः।
अग्नौपरिचाय्योपचाय्यसमूह्याः ।। 131 ।।
अग्निपदेन तद्धारणार्थमिष्टकानिर्मितस्थलं ग्राह्यम् इष्टकाभिरग्निं चिनुते इत्यादिदर्शनात्। पर्य्युपूर्वाच्चिनोतेर्ण्यदायादेशौ। संपृर्वस्य वहेः संप्रसारणदीर्घौ। भाष्येतु ऊहतेरेव ण्यत्प्रत्यये सिद्धेः समूह्येति न कर्तव्यम्। नानार्थतया ऊहेर्वह्यर्थत्वात्। समूह्यं चिन्वीत पशुकामः। पशवो वै पुरुषाः पशूनेवास्मै तत्समूहतीति ब्राह्मणप्रयोगादित्युक्तम्।।
चित्याग्निचित्ये च।। 132 ।।
अग्निपदमनुवर्तते। तच्चाद्यस्यैव विशेषणम्। न द्वितीयस्य तस्य भावार्थत्वेन अग्निवाचकत्वायोगात् चीयतेऽसौ चित्योऽग्निः। कर्मणि क्यप्। अग्नेश्चयनमग्निचित्येति भावे। अन्तोदात्तावेतौ।।
कृत्याधिकारः समाप्तः।
ण्वुल् तृचौ ।। 133 ।।
धातोरेतौ कर्तरि स्तःकारकः, कर्त। चित्त्वं तु न स्वरार्थम् एकत्त्वेनाद्युदात्तान्तोदात्तयोर्विशेषाभावात्। नाप्यप्तृन्तृच् इत्यत्र विशेषणार्थः। तृमात्रग्रहणे मातरावित्यादावतिव्याप्तेरिति वाच्यम्। नप्तृग्रहणस्य नियमार्थत्वात् ब्युत्पत्तिपक्षे औणादिकतृप्रत्ययान्तानां मध्ये नप्तृशब्दस्यैव दीर्घो नान्येषामिति। किन्तु तुश्छन्दसि तुरिष्ठेमेयः सु इत्यत्र सामान्यग्रहणविधानार्थः `अन्यथा तत्र निरनुबन्धकत्वादयमेव गृह्येत नतु तृनादयः।
नन्दि ग्रहिपचादिभ्यो ल्युणिन्यचः ।। 134 ।। यथाक्रमं स्युः। नन्दयतीति नन्दनः ग्राही पचः। `अजपि सर्वधातुभ्यो वक्तव्यः'। पचादिगणारम्भस्त्वनुबन्धासञ्जनार्थः। नदट् नदी। चोरट् चोरी। जारभरश्चपचशब्दयोः कर्मण्यणो बाधनार्थं च। पक्षे त्वणपि न्यङ्क्यादिगणे श्वपाकशब्दपाठात्।
इगुपधज्ञाप्रीकिरः कः ।। 135 ।।
एभ्यः कः स्यात्। क्षिपः। बुधः। ज्ञः। प्रियः किरः। वासपन्यायेन ण्वुल्तृचौ। क्षेपकः। क्षेप्तेत्यादि।
आतश्चोपसर्गे ।। 136 ।।
श्याद्व्यधेति णस्यापवादः। सुग्लः। प्रज्ञः।।
पाघ्राध्माधेट् दृशः शः ।। 137 ।।
शित्वात्पिबाद्यादेशः। सार्वधातुकमपिदिति ङित्वात्पिबेर्नगुणः। पिबः जिघ्रः। धमः। घयः। धया कन्या। धेटष्टित्वात्वात्स्तनन्धयीति रवशीवात्रापि ङीप्प्राप्तः खशोऽन्यत्र नेष्यत इति हरदत्तादयः। पश्यः। संज्ञायां न। व्याघ्रादिभिरिति प्रयोगात्। अयंच शप्रत्ययस्य निषेधो न जिघ्रभावस्य। कप्रत्ययं विनाऽऽतोलोपस्य दुर्लभत्वात्। उपसर्गग्रहमस्य नेहानुवृत्तिः। धयैरामोपिबस्तवेति भट्टिश्रीहर्षादिप्रयोगात्। यदा पश्यः पश्यति रुक्मवर्णमिति श्रौतप्रयोगाच्च।
अनुपसर्गाल्लिम्पविन्द धारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च ।। 138 ।।
अनुपसर्गेभ्यः एभ्यः स्यात्। शित्वात्सार्वधातुकत्वम्। तुदादिभ्यः शः। शे मुचादीनामिति नुम्। लिम्पः। विन्दः लाभार्थस्यैव विन्देर्ग्रहणं नुमा निर्देशात्। ण्यन्तेषु आर्धधातुकत्वाभावान्न णिलोपः शप् गुणायादेशौ। धारयः। धृञ् धारणे। धृङ् अवस्थाने। द्वयोर्ण्यन्तयोरुपादानम्। नमह्यमत्रोत्तरधारयस्य ते इत्यत्र शेषषष्ठ्यन्तेन समासः। पारयः। पार कर्मसमाप्तौ। वेदयः। विद चेतनाख्यानादिषु। ज्ञानाद्यर्थानामन्यतमो वा हेतुमण्ण्यन्तः। उदेजयः। एजृ कम्पने। उत्पूर्वः। चेतयः। चिती संज्ञाने ण्यन्तः। सातयः। सातिः सुखार्थः सौत्रो ण्यन्तः। साहयः। षह मर्षणे चुरादिर्हेतुमण्ण्यन्तो वा। अनुपसर्गात्किम्। प्रलिपः। इगुपधत्वात्कः। `नौ निम्पेर्वाच्यः'। निलिम्पा देवाः। गवादिषु विन्देः संज्ञायाम्। गोविन्दः। अरविन्दम्। कर्मण्यणो बाधः।।
ददातिदधात्येर्विभाषा ।। 139 ।।
शः स्यात्। पक्षे आदन्तत्वा द्वक्ष्यमामो णः। ददः। दधः। सोपसर्गात्तु प्रदः। प्रधः। ननु दददाने दध धारणे आभ्यां पचद्यचि ददो दध इति। दाञ् धाञ्भ्यां णे दायो धाय इति च सिद्धम्। उच्यते अददः अदध इत्यत्राव्ययपूर्वपदप्रकृतिस्वरसिध्यर्थं सूत्रम्। अचि अच्कावशक्तावित्यन्तोदात्तप्रसङ्गात्।।
ज्वलितिकसन्तेभ्यो णः ।। 140 ।।
इति शब्द आद्यर्थः। अनुपसर्गेभ्यो ज्वलादिभ्यः कसन्तेभ्यो णेः स्यात्। पक्षेऽच्। ज्वालः। ज्वलः। चालः। चलः। सोपसर्गेभयस्तु उज्जवलः। `तनोतेरुपसंख्यानाम्'। अत्रानुपसर्गविभाषयो र्नान्वयः। अवतान इति भाष्योदाहरणात्।।
श्याव्द्यधास्रुसंरुवतीणवसावहृलिहाश्लिषश्वसश्च ।। 141 ।।
एभ्यो नित्यं णः स्यात्। उत्तरसूत्रे उत्तरसूत्रेऽनुपसर्गग्रहणादत्रानुपसर्गग्रहणीवृत्तौ तत्संबद्धस्य विभाषाग्रहणस्यापि निवृत्तेः। श्यैङ् आदन्ता इत्यादिच्छेदः। इह कृतयणादेशस्य शीङोः अतगतावित्यस्याच्छब्दान्तानां पतत्यादीनां अदन्तानां वा न ग्रहणम्। व्याख्यानात्। नच श्यैङोऽवस्यतेश्चादन्तत्वादेव सिद्धौ पृथगुपाश्यायः। प्रतिश्यायः दायः। धायः। स्रगुतौ आङ् संपृर्वः। आस्रावः संस्रावः। श्रुइति तालव्यं पठित्वा आश्रावः संश्राव इतिकेचित्। अत्यायः। अवसायः। अवहारः लेहः। श्लेषः। श्वासः।।
दुन्योरनुपसर्गे ।। 142 ।।
णः स्यात्। सानुबन्धनीसाहचर्यात् टुदु उपतापे इत्यस्यैव ग्रहणम्। दुनोति दावः। दुगतावित्यतस्तु पचाद्यच्। दवतीति उपसर्गे तु प्रदवः। प्रणयः।।
विभाषा ग्रहः ।। 143 ।।
व्यवस्थितविभाषया जलचरे ग्राहः। ज्योतिषि ग्रहः। भावाः पदार्था इत्यत्र भावयतेरच्। भव इत्यत्र भवतेः। `भवतेश्चोपसंख्यान' मिति तु वृत्तिः।।
गेहे कः ।। 143 ।।
गेह इति नोपपदं किन्तु प्रत्ययार्थकर्तृनिर्देशः। कृहपतिना संयुक्तेञ्च इत्यादिप्रयोगात्। गेहे कर्तरि ग्रहेः कः स्यात्। कित्वात्संप्रसारणम्। गृह्णाति धान्यादिकमिति गृहम्। तात्स्थाद् गृहा दाराः।
केचित्तु गृह ग्रहणे इतिभ्वादेरिगुपधात्वात्के गृहशब्दसिद्धेरिदं सूत्रं व्यर्थमित्याहाः।।
शिल्पिनि ष्वुन् ।। 145 ।।
क्रियाकौशलवति कर्तरि ष्वुन् स्यात्। `नृति खनि रञ्जिभ्य इति वक्त्वयम्'। नर्तकः। खनकः। रजकः। रजकेत्याद्युपसंखअयानाद्रञ्जेर्नलोपः। षित्वान्नर्तकीत्यादि। भाष्ये तु रञ्जेः क्वुन् वक्ष्यते।।
गस्थकन् ।। 146 ।।
गायतेस्थकन् स्यात् पूर्वविषये। गैशब्दे इत्यस्य ग्रहणं गामादाग्रहणेष्वविशेष इति न्यायात्। गाङ्गतावित्यस्य तु न। गानशिल्पिन्येव गाथकशब्दस्य रुढत्वादिति संप्रदायः।।
ण्युट् च । 147 ।।
गायनः। टित्वाद्गायनी।।
हश्च व्रीहिकालयोः ।। 148 ।।
हाङ् हाकोर्ण्युट् वा व्रीहौ कालेच वाच्ये। जहात्युदकमिति हायने व्रीहिः। प्ररोहार्थदत्तोदताद्र्ध्वगमनेन जलत्यागः। जहाति जिहीते वा पूर्वोत्तरभावानिति हायनो वर्थम्।।
प्रुस्रुल्वः समभिहारे वुन् ।। 149 ।।
`समभिहारस्थाने साधुकारिणीति वक्तव्यम्' समभिहारपदयेव वा तत्परतया नेयम्। सकृदपि यः सुष्ट करोति तत्र यथा स्यात्। बहुशोऽपि दुष्ठुकर्तरि माभूत्। प्रवकः सरकः। लवकः।
आशिषि च ।। 150 ।।
अन्यदीयहिताशंसनमाशीः। तद्विषयार्थवृत्तेर्धातोः कर्तरि वुन् स्यात्। जीवतादिति जीवकः। नन्दतादिति नन्दकः पित्रादेरिययजीवनाश्रयत्वं च प्र्तययार्थः। जीवनास्याश्रयत्वे तस्य चेच्छाविषयैकदेशे इच्छायामन्वयः इच्छायां प्रयोक्तृवृत्तित्वमर्थाद्भासत्। तथाच चिरकालीनजीवनाश्रयत्वप्रकारकेच्छचिशेष्यः पुत्रादिरिति वोधः।
इति श्रीसिद्धान्तसुधानिधौ तृतीयाधायस्य प्रथमे पादे षष्ठमाह्निकम्। पादश्चायं समाप्तः।