श्रीसिद्धान्तसुधानिधिः/अध्यायः ३-पादः १/आह्निकम् ५
← आह्निकम् ४ | श्रीसिद्धान्तसुधानिधिः आह्निकम् ५ [[लेखकः :|]] |
आह्निकम् ६ → |
कर्मवत्कर्मणा तुल्यक्रियः ।। 87 ।।
कर्मणेति तत्स्थक्रियापरम्। कर्मपदमपि शक्त्याधारतण्डुलादिकर्मपरम्। कर्तरि शबिति सूत्रात्कर्तृपदानुवृत्तौ तस्य प्रथमान्तत्वेनान्वयः। तथाच कर्मस्थक्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात्। इह पच्यादिधातवो विक्लित्त्यादिफलस्य तदनुकूलव्यापारस्याच वाचकाः। तत्र यदा व्यापारे देवदत्तादीनां कर्तृत्वम्। तण्डुलादीनां च तज्जन्यफलाश्रयत्वं विवक्ष्यते। तदा देवदत्तः तण्डुलं पचतीत्यादयः प्रयोगाः। यदा तु व्यापारांशपरित्यागेन विक्लित्त्यादिमात्रे वर्तन्ते तदा तण्डुलादीनामेव कर्तृत्वम्। तदुक्तं हरिणा--
निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम्।
निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते।। इति।
तथाच कर्मस्था क्रिया विक्लित्तरूपा धात्वर्थत्वेन फलस्यापि क्रियात्वात्। तां प्रति तण्डुलादेः कर्तृत्वे कर्मणा तुल्यक्रियः कर्ता सम्पद्यते। ननु धर्मिणोरैक्यात्तस्थक्रियाप्येकैवेति कथं भेदनिबन्धनं तुल्यत्वमिति चेत्। न, कर्मत्वोपाधिपरिच्छिन्ने या क्रिया सैव चेत् कर्तृत्वोपाधिपरिच्छिन्ने इत्यस्यैव विवक्षितत्वात्।
अतएवात्र कर्मकर्तेति व्यवहारः। तदुक्तं दुर्गसिंहेन-
क्रियमाणं तु यत्कर्म स्वयमेव प्रसिध्यति।
सुकरैः स्वैर्गणैर्यस्मात्कर्मकर्तेति तद्विदुः।।
कर्मस्थक्रिययेत्यादेः प्रयोजनं तु कर्मस्थक्रियाणामेव कर्मवद्भावो यथा स्यात् कर्तृस्थक्रियाणां माभूत्। द्वयोरेव क्रियाधारत्वात्। तद्विवेकस्तु वाक्यपदीये।
विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता।।
क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकल्पिता।। इति।
दृश्यते हि पक्वेषु तण्डुलेषु शिथिलावयवत्वरूपा विक्लित्तिः।
भिन्नेषु च काष्ठेषु अवयविभागः। अभिषुने च सोमे द्रवत्वादि इति तेषां कर्मस्थक्रियत्वम्। ग्रामादौ तु गमनादिजन्यं फलं संयोगादि यद्यप्यस्ति सकर्मकाणां कर्मस्थफलाभिधायित्वनियमात्। तथापि न तत्कर्मस्थम्। कर्मदर्शनमात्रेण यत्फलं ज्ञातुं शक्यते तस्यैव तादृशपरिभाषाविषयत्वात्। ग्रामदर्शनमात्रेण चायं ग्रामः केनचिद्गत इति नावगन्तुं शक्यते। एतादृशार्थधातूनां कर्तुस्थक्रियत्वमित्युत्तरार्द्धार्थः। एतेन जानात्यादिकं व्याख्यातम्। तदुक्तम्--
निर्वर्त्त्येच विकार्येच कर्मवद्भाव इष्यते।
नतु प्राप्ये कर्मणीति सिद्धान्तोऽयं(1)व्यवस्थित इति।।
तथाच पश्यति राजा स्वयमेव, आरोहति हस्ती स्वयमेवेत्ये व रूपम्। अत एवारुह्यते हस्तीत्यत्र कर्मवद्भावं दर्शयन्तो भाष्यन्यायविरोधादुपेक्षणीया इति कैयटादयः।।
नन्वेवं सकर्मकाणां प्रतिषेधोऽन्योन्यमाश्लिष्यते इति भाष्यवार्तिकाभ्यां, संयोगरूपफलस्य कर्मस्थत्वात्प्राप्तिरिति कैयटादिग्रन्थेन च विरोध इति चेन्न। उदाहरणं दिङ्मात्रं नतु स्थिरोदाहरणमिति स्वीकारात्।
अत्रेदमवधेयम्। निवृत्तप्रेषणदाशायां फलमेव क्रिया तदाश्रयत्वात्कर्मणः कर्तृत्वम्। तथाच वाक्यपदीये-
एकदेशे समहे वा व्यापाराणां पचादयः।
स्वभावतः प्रवर्तन्ते तुल्परूपं समश्रिताः।।
व्यापाराणामिति फलाभिप्रायं बहुत्वम्। छत्रिणो गच्छन्तीत्यादिवत्। तद्व्याख्यायां च हेलाराजेनोक्तम्। पच्यते ओदनः स्वयमेवेत्यादौ फलमेव धात्वर्थत्वात्क्रिया तदाश्रयत्वादेवोददनादेः कर्तृत्वमिति।
स्यादेतत्। तण्डुलं पचतीत्यादावपि फलाश्रयत्वात्तण्डुलादेः कर्तृत्वं स्यात्। परत्वात्। नच। फलानाश्रये देवदत्तादौ कर्तृसंज्ञायाः सावकाशत्वात्कर्मसंज्ञा निरवकाशेति वाच्यम्। ग्रामं गच्छतीत्यादौ संयोगाश्रयस्य देवदत्तादेः कर्मत्वस्य तथाप्यापत्तेः। नच प्रत्ययार्थान्याविशेषणत्वविशिष्टविषयतया धातुजन्यधीविषयत्वमेव क्रियात्वम्। तत्र तु व्यापारारूपधात्वर्थविशेषणत्वात्फलस्य नोक्तरूपं क्रियात्वम्। पाचयति इत्यादौ णिजर्थविशेषणस्य धात्वर्थव्यापारस्य क्रियात्वरक्षणार्थं प्रत्ययार्थान्येत्युक्तमिति वाच्यम्। पश्य मृगो धावति। पचति भवती इत्यादौ धावनपचनक्रिययोः प्रत्ययार्थान्यस्मिन् दर्शनभवनक्रियारूपे विशेषणत्वादव्याप्तेः।
अत्राहुः-तद्धात्वर्थाविशेषणत्वविशिष्टतया तद्धातुजन्यधीविषयत्वमेव क्रियात्वमिति केचित्।।
तत्रेदं विचार्यम्। णिचो द्योतकत्वपक्षे पाचयतीत्यादौ प्रयोज्यव्यापाररूपधात्वर्थस्य प्रयोजकव्यापाररूपधात्वर्थविशेषणत्वादव्याप्तिः। पच्यते। ओदनः स्वयमेवेत्यत्रैकोदनाभिन्नाश्रयिका पाकानुकूला भावनेति बोधस्य स्वयमेवाभ्युपगतत्वात्। व्यापारस्य धात्वर्थत्वाभावे च विशेष्यत्वानुपपत्तेर्तनात्र फलमात्रवाचकत्वम्।
व्यापारो भावना सैवोत्पादना सैव च क्रिया।।
इत्यभ्युपगमात्। तस्मात्फलाश्रयस्यैव व्यापाराश्रयत्वविवक्षायां कर्मवद्भावविधानात्। ओदनाभिन्नाश्रयिका ओदनपाकानुकूला भावनेत्यर्थः। वत्करणं किम्। भिद्यते कूसूलेनेत्यादौ भावे लकारोऽपि यथा स्यात्। अन्यथा कर्तुः कर्मसंज्ञा विधाने अकर्मकव्यपदेशविरहाद्भावे लकारानापत्तेः।
कर्मणोति किम्। करणाधिकरणाभ्यां तुल्यक्रियस्य कर्तुर्माभूत्। साध्वसिश्छिनत्ति। साधु स्थाली पचति। संयोगधारणादिरूपा क्रियाऽत्रासिस्थाल्यो र्वर्त्तते। नन्वसिना छिनत्ति स्थाल्यां पचतीत्यादौ करणाधिकरणयोर्व्यापारो न धातुवाच्यः यदा तु धातुना विवक्षा तदा तयोः कर्तृत्वमेव। तथाच करणत्वाधिकरणत्वाभ्यां विवक्षावेलायां तद्व्यापारस्य धात्वर्थत्वाभावात् कर्त्रवस्थायां तत्प्रयुक्ततुल्यक्रियत्वाभावादेव तत्र नातिप्रसङ्गः। ततश्च कर्तृकर्मसमवैतक्रियाया एव धातुवाच्यत्वात्कर्तृंस्थया क्रियया तुल्यक्रियः कर्तेत्यर्थानुपपत्त्या परिशेषादेव कर्मस्थक्रियया तुल्यत्वलाभात्कर्मणेति व्यर्थमिति चेन्न।
क्रियायाः सादृश्यप्रतियोगिन्या धातुवाच्यत्वेनाविशेषित्वात्। वस्तुतो धात्वर्थत्वस्य च करणादिव्यापारेऽपि सत्त्वात्।।
अथ तुल्यक्रिय इति व्यर्थम्। कर्मणेति तृतीयाया एव तुल्यार्थाध्याहारेण व्याख्यानसम्भवात्। कर्मणा तुल्यः सर्तेत्यत्र च क्रिययैव तुल्यत्वस्योपादानात्।
मैवम्। सहार्थेऽपि तृतीयासम्भवात् कर्मणा सह यः कर्ता प्रतिपाद्यते पचत्योदनं देवदत्त इति तत्रातिप्रसङ्गात्। कर्मपदस्य त्वास्ते इत्याद्यकर्मकनिवृत्त्यर्थत्वेनोपपत्तेः। तुल्यक्रिय इत्युक्ते च यस्मिन् कर्मणि कर्तृभूतेऽपि तद्वत्क्रिया लक्ष्यते इत्यर्थलाभाद्यथोक्तार्थसिद्धिः।
इह धातोरित्यनुवृत्या प्रत्यासत्त्या यस्य धातोः यत्कर्म तत्स्थया क्रियया तुल्यक्रियः कर्ता तस्यैव धातोर्यदि भवति ततः कर्मवत्स्याद्रित्यर्थलाभात्। `अकर्मकाणां कर्मवद्भावः' `समानधाता'विति च सिद्धम्। तेन भिद्यमानः कुसूलः पात्राणि भिनत्ति पचत्योदनं देवदत्तः। राध्यत्योदनः स्वयमेवेत्यादौ नातिप्रसङ्गः। ओदनस्य कर्मत्वे यादृशी विक्लित्तिलक्षणा क्रिया तादृश्येव कर्तृत्वेऽपि। राध्यतेर्विक्लृत्तिवचनत्वात्। उक्तवाक्यद्वयस्य लोके युगपत्प्रयोगाभावेऽपि क्रियातुल्यत्वप्रतिपादनाय पचत्योदनमित्युपात्तम्। अन्यथा लुनाति केदारं देवदत्तो लावयते केदारः स्वयमेवेत्यादावपि तदनुपपत्तेः।
ननु लुनाति लावयत्योर्भेदात्समानधातौ विधीयमानः कर्मवद्भावो न स्यात् आहर कुम्भं करोति कटमित्यादावणादिवत्। मैवम्। णिजाधिक्येऽपि प्रत्यभिज्ञानाद्लुनातिलावयत्योरभेदादिति केचित्। लावयतावेव केदारस्य कर्मत्त्वं कर्तृत्वं चेत्यन्ये। एतेन`कर्मवदकर्मकस्ये'ति `समानधाता'वितिच वार्तिकं व्याख्यातम्।
इदमप्यत्र विचार्यम्। अतिदेशात्स्वाश्रयनिवृत्तिर्नवेति। नतु स्वाश्रयार्थं वत्करणमित्युक्तत्वाच्छङ्काया एवानुपपत्तिः। मैवम्। दोषान्तरोद्भावनाय तदुपपत्तेः। नाद्यः अचीकरत कटः स्वयंमेवेत्यत्र यक्चिणोः प्रतिषेधेऽपि स्वाश्रययोश्चङ्शपोरप्रवृत्यापत्तेः। एवं भिदुरमित्यत्र कुरच् न स्यात्। यद्यपि लान्तस्य कर्ता कर्मवदिति वक्ष्यते तथाप्यापातत उक्तम्। न द्वितीयः। आत्मनेपदविधानस्य शबादिनिषेधस्य च वक्तव्यत्वात्। अन्यथा स्वाश्रययोः परस्मैपदशपोर्दुर्वारत्वात्।
मैवम् कर्तैव यः कर्ता तत्र परस्मैपदमिति व्याख्यातत्वात्। कर्तरि शबित्यत्र कर्तरीति योगविभागात् शबादीनां यग् बाधकः यद्वा कार्यातिदेशोयम्। परस्मैपदशबाद्योश्च विरोधान्निवृत्तिः। अतिदेशविरुध्दस्यैव स्वाश्रयस्य प्रवृत्तेः।
स्यादेतत्। कृत्यक्तखलर्थेष्वपि कर्मकर्तुः कर्मवद्भावः स्यात्। ततश्च सकर्मकत्वात्कर्मण्येव ते स्युः। भेत्तव्यः कुसूलः, भिन्नः कुसूलः ईषद्भेदः कुसूल इत्यादि स्यात्।
अत्र भाष्यम्। लिङ्याशिष्यङिति द्विलकारको निर्द्देश इति। अयमर्थः-व्यत्ययो बहुलं ल्लिङ्याशिषीति संहितायां मकारस्य परसवर्णे संयोगान्तलोपेन द्वितीयो लकारः प्रश्लिष्यते। संयोगान्तं यत्पदमिति पक्षे तु हलो यमामिति लोपः। तथाचलान्तस्य कर्ता कर्मवद्भवतीति वाक्यार्थः।
तदेतदाह वार्तिककारः-`तत्र लान्तस्य कर्मवदनुदेश'इति। तत्र वाच्यत्वं षष्ठ्यर्थः। तेन लान्तवाच्यस्य कतुर्विधीयमानः कर्मवद्भावोऽर्थवशाल्लान्तकार्ये एव पर्यवस्यति। तेन कृत्यादौ अतिदेशाप्रवृत्त्याऽकर्मकत्वात्तेषां भाव एवोत्पत्त्या कर्तु रनभिधानात्कर्तृविभक्ती कृद्योगषष्ठीतृतीये भवतः। भेत्तव्यं कूसूलस्य, भेत्तव्ये कुसूलेन। भिद्यते कुसूल इत्यत्र च न द्वितीया। कर्मकर्तुरभिहितत्वात्। भिन्नः कुसूलः स्वयमेवेत्यकर्मकत्वाद्गत्यर्थाकर्मकेति कर्तरि क्तः। `सिनोतेर्ग्रासकर्मकर्तृकस्ये'त्यत्र सिनो ग्रासः स्वयमेवेति प्रत्युदाहरिष्यमाणत्वात्।
स्यादेतत् प्रकृतसूत्रमेव मास्तु हन्त्यात्मानम्, आत्मना हन्यते इत्यादिवदौपाधिकभेदेन निर्वाहात्। अतएवात्मान मात्मना वेत्सि इत्यादयः संगच्छन्ते। तदुक्तम्।
एकस्य बुध्यवस्थाभिर्भेदे च परिकल्पिते।
कर्मत्वं करणत्वं च कर्तृत्वं चोपजायते।
एवंच पच्यते ओदन इत्यादौ निवृत्तप्रेषणत्वाभावेऽपि मुख्ये कर्मण्येव प्रत्ययोऽस्तु स्वयमित्यस्यात्मनेति कर्तृपरत्वेन व्याख्यानात्। पच्यते ओदनेनेत्यादावपि आत्मेत्यध्याहारात् भावे लकारानुत्पत्तावपि न क्षतिः। नच भेत्तव्यं कुसूलेन भिंन्नमीषद्भेदमिति भावे कृत्यादयो न स्युः, कर्मणि तदङ्गीकारे आत्मेति विशेष्यानुरोधात्पुंस्त्वापत्तिरितिवाच्यम्। सामान्ये नपुंसकसंभवात्स्वरूपमिति क्लीबविशेष्याध्याहारसंभवाच्च। सूत्रारम्भपक्षेऽप्युक्तविवक्षया आत्मा कुसूलेन भेत्तव्य इति प्रयोगस्य दुर्वारत्वाच्च।
तदुक्तं वार्तिककृता-सिद्धं तु प्राकृतकर्मत्वादिति। औपदेशिककर्मत्वादेव सिद्धौ आतिदेशिके तदनपेक्षितभित्यर्थः। अत्र कैयटादयः-एवं हि `नदुहस्नुनमा'मिति निषेधः शुद्धकर्मविषयः स्यात्। अतिदेशिक कर्मत्वस्याप्रसिद्धेः। ततश्च दुग्धे गौर्गोपालेनेत्येव स्यात् नतु दुह्यते इति। नच न दुहेत्यनारभ्यमेवेति वाच्यम्। नमते दण्ड इत्यादेरसिद्धेः। कर्तरि तङो दुर्लभत्वात्। कर्मणि यक्प्रसङ्गात्। एवंच अचः कर्मकर्तरि इति चिण्विकल्पो निरवकाशः स्यात्। कर्मकर्तुरप्रसिद्धत्वात्। आत्मनाऽऽत्माऽज्ञायीत्यत्रातिप्रसङ्गश्च स्यात्। नच निवृत्तप्रेषणक्रियायां भूतपूर्वगत्या कर्मत्वं सांप्रतिकगत्या च कर्तृत्वमिति च तत्रैव तत्प्रवृत्तिरिति वाच्यम्। लडादिषु शबादीना मसिद्धेः यगादीनां चापत्तेरिति। स्वयमित्यस्य च कर्त्रन्तरव्यावृत्तिप्रतिपादनद्वारा केदारस्यैव कर्तृत्वप्रतिपादने तात्पर्यम्। अन्यथा प्राकृतकर्मत्वापत्तेरिति।
`सकर्मकाणां प्रतिषेधो वक्तव्यः'। आत्मानमात्मना वेत्सि इत्यत्र कर्तृस्थभावकत्वेन कर्मवभ्दावाप्रवृत्तावपि सृजस्यात्मानमात्मनत्यत्र कर्मस्थभावकत्वेन तस्य दुर्वारत्वात्।
स्यादेतत्। आत्मनस्तावद्देहिन्द्रियसंबन्धरूपामुत्पत्तिक्रियामादाय कर्मत्वम्। कर्तृत्वं त्वीश्वरस्य तदनुकूलेच्छारूपं जीवस्य तुतादृशादृष्टोदिरूपं व्यापारमादाय। तथाच कर्तृत्वोपाधिपरिच्छिन्ने(1)च यत्र क्रियैक्यं तत्र विधीयमानस्य कर्मवद्भावस्य न प्रसङ्गः। एवमन्योन्यमाश्लिष्यते इत्यत्रापि अन्योन्यसंयोगानुकूलव्यापारानाश्रयाविति बोधात्। संयोगमादाय कर्मत्वं गमनादिक्रियामादाय च कर्तृत्वमिति न कियैक्यमिति।
अत्राहुः-अजा ग्रामं नयतीत्यत्राजायाः कर्तृत्वविवक्षायामपि ग्रामरूपेण कर्मणा सकर्मकत्वात्तद्वारणायोक्तवार्तिकमिति। तथाह्यजा ग्रामं नयति इत्यत्र ग्रामसंयोगानुकूलाजानिष्ठव्यापारानुकूलव्यापारवानिति बोधात्। ग्रामसंयोगानुकूलव्यापाररूपां क्रियामादायाजायाः कर्मत्वं तदाश्रयत्वादेव चोक्तस्थले कर्तृत्वमिति।
अत्र भाष्यकृतः-नैतद्वार्तिकमारभ्यम्। तपस्तपः कर्मकस्यैवेत्यत्र तप इति योगविभागेन तपेरेव सकर्मकस्य कर्ता कर्मवद्भवतीति नियमव्याख्यानात्।
स्यादेतत् उपवासादिरूपस्य तपसः सर्तृत्वे तपेः दुःखार्थत्वम्। तपस्तापसं तपति दुःखयतीति प्रतीतेः। तापसस्य तु कर्तृत्वे ज्ञानं तथा। तप्यते तपस्तापसः। तपो जानातीति बोधात्। तथाच कर्मस्थया क्रियया तुल्यक्रियत्वं नास्ति कर्तुरिति कर्मवद्भावो न प्राप्त इति विध्द्यर्थमेतदिति वृत्तिकारः। तत्कथं नियमार्थत्वमिति।
अत्र कैयटः-शरीरसंतापलक्षणा क्रियाऽवस्थाद्वयेऽपि तुल्या। शरीरसंतापलक्षणमेवार्जनं तापसस्य यतो व्यापार इति। तथा चान्यस्य सकर्मकधातोः कर्ता न कर्मवत्। नचैवं तपेरकर्मकस्यापि कर्मवद्भावापत्तिः, तपः कर्मकस्यैवेति नियमान्तरेण तद्व्यावृत्तेरिति।
`दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम्'। दुग्धे गौः पयः। न दुहेति वक्ष्यमाणेन निषेधः। उदुम्बरः पच्यते फलम्। गौर्दुग्धेति पय इति बोधः। दुहद्विंकर्मकत्वात्कर्मस्थक्रियया तुल्यक्रियत्वेऽपि सकर्मकत्वादप्राप्तौ पच्यत इत्यत्र वृक्ष्य कर्तृत्वविवक्षायामत्यन्तमप्राप्तावारम्भः।
केचित्तु पचिरत्र द्विकर्मकः वृक्षस्य पाकमन्तरेण फलपाकासंभवात्। वृक्षोऽकथिकर्म। तस्यैव यदा कर्तृत्वविवक्षा तदायं कर्मवद्भावः। ओदनं पचतीत्यादौ त्वनभिधानान्नेत्याहुः। तथाच फलपाकानुकूलोदुम्बरनिष्ठपाकानुकूलव्यापारवानिति उदुम्बरः फलं पचतीत्यत्र द्विकर्मकदशायां बोधः। उदुम्बरपाकलक्षणा क्रिया कर्मावस्थायां। सैव कर्तृदशायामुदुम्बरनिष्ठा फलपाकानुकूलव्यापारवानुदुम्बर इति बोधात्। तस्य च पाकरूपत्वात्।
`सृजीयज्योः श्यंस्तु'। अनयोः सकर्मकयोः कर्ता बहुलं कर्मवत् यगपवादश्च श्यन्वाच्य इत्यर्थः। `सृजेः श्रद्धोपपन्ने कर्तर्येवेति वाच्यम्'। सृज्यते स्रजं भक्तः। देवाद्यर्थं श्रद्धया मालां संपादयतीत्यर्थः। श्रद्धायुक्तेति किम्। `स्रजं सृजन्त्या तदशाधि साधु'। उपभोगार्थमेवात्र स्रजो निर्माणम्। श्यना च यगेव बाध्यते। नतु चिण्। चिणात्मनेपदार्थ इति भाष्योक्तेः। असर्जि मालाम्। युज्यते ब्रह्मचारी योगम्। योगो ब्रह्मचारिणं युनक्ति इत्यस्य संबध्नातीत्यर्थः। ततो ब्रह्मचारिणः कर्तृत्वविवक्षायामेतत्।
`करणेन तुल्यक्रियः कर्ता बहुलं कर्मवदिति वक्तव्यम्'। परिवारयन्ते कण्टका वृक्षम् कण्टकैः परिवारयति वृक्ष इत्यत्र उपघातकद्रव्यसंयोगप्रतिबन्धो वारणम्। कण्टकव्यापारः संमन्तात्संयोगः। कण्टकानां कर्तृत्वे तु संयोग एव धात्वर्थः। संमन्तादवच्छिन्नस्वसंयोगवन्तं कुर्वन्तीत्यर्थः। बहुलग्रहणात्साध्वसिः च्छिनत्तीत्यादौ न दोषः।
`स्रवत्यादीनां प्रतिषेधो वक्तव्यः'। स्रवति कुण्डिकां उदकम्। स्रवन्ति वल्मीकान्युदकम्। निष्क्रामदुदकं निष्क्रामयत्यर्थेक्रियासाम्यात्प्राप्तिः।
भाष्यकृतस्तु स्रवन्ति वल्मीकान्युदकमित्यत्र विसृजन्तीत्यर्थावगमात्। कृपणो सौ नकिंचित्स्रवतीति लोके च विसर्गपदस्य दानार्थत्वदर्शनात्। भिन्नक्रियत्वादेवात्र न कर्मवद्भाव इत्याहुः।
`भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात्। एषां यक्चिणौ चिण्वदिट्च न भवति किन्त्वात्मनेपदमात्र मित्यर्थः। भूषाफलं शोभाख्यं कर्मणि दृश्यते इति कर्मस्थक्रियत्वम्। अण्यन्तार्थं भूषाग्रहणम्। अलङ्कुरुते स्वयमेव कन्या। अलमकृत। ण्यन्तत्वे तु वक्ष्यमाणवार्तिकेनैव तन्निषेधसिद्धेः। अवकिरते हस्ती स्वयमेव। अवाकीर्ष्ट। हस्तिनं कश्चित्पांश्वादिनाऽवकिरति तत्र सौकर्यविवक्षायां हस्तिनः कर्तृत्वम्। चिकीर्षते कटः स्वयमवे। अचिकीर्षिष्ट।
ननु प्रत्ययार्थत्वात्सन्नन्ते इच्छायामेव प्राधान्यम्। साच कर्तृस्थैवेति नात्र कर्मवद्भावप्राप्तिः। अत्राहुः-करोतिक्रियामपेक्ष्येह कर्मस्थक्रियत्वम् आर्थं च करोतेः प्राधान्यं तदर्थत्वादिच्छाया इति। किरादिस्तुदाद्यन्तर्गणः। गिरते। अगीर्ष्ट। आद्रियते आदृत। आदरविषयो भवतीत्यर्थः।
तपस्तपः कर्मकस्यैव ।। 88 ।।
तपः कर्मकस्यैव तपेः कर्ता कर्मवत्स्यात् क्रियाभेदादपूर्वविधिरयमिति वृत्तिः। नियमार्थमिति भाष्यम्। तच्च पूर्वत्र व्याख्यातम्। तप्यते तपस्तापसः। कर्तुः कर्मवद्भावे तस्याप्यभिधानादुभयत्रापि प्रथमान्तत्वम्।
स्यादेतत्। तप इत्यौणादिकमसुन्नन्तं भावार्थम्। तापसेन तपस्तप्यते इति कर्मणि लकारे प्रकृत्यर्थक्रियाया एव कर्मप्रत्ययार्थत्वं दृश्यते। क्रियाकर्मणोश्च साध्यसाधनभावाद्भेदेन भाव्यम्। इह तु भेदाभावात्प्रकृतिप्रत्ययार्थत्वानुपपत्तिः। र्किच तपः कर्म कस्यैवेति वचनात्प्रकृत्यर्थस्यैव कर्मत्वमाश्रितं विरुद्धमिति।
अत्र भाष्यम्-`सामान्यतपे रवयवतपः कर्मेति'। अस्यार्थः ज्ञानरूपतपोविशेषः कर्मेति। अवयवपदस्य विशेषपरतया व्याख्यानात्। तपः कर्मकेति किम्। उत्तपति सुवर्णं सुवर्णकारः।।
नदुहस्नुनमां चक्चिणौ ।। 89 ।।
एषां कर्मकर्तरि यक्चिणौ नस्तः। कर्मवद्भावातिदेशात्प्रसक्तिः। `स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता'इति भारविः। `स्वयं प्रणमतेऽल्पेऽपि'इति माघः। दुहेरयंयकोऽपि निषेधः। चिणस्तु वचनान्तरेणं विकल्पः। दुग्धे गौः स्वयमेव। अदुग्ध गौः स्वयमेव। लुग्वा दुहेति क्सस्य लुक् चिण्पक्षे अदोहि। प्रस्नुते गौः स्वयमेव। प्रास्नोष्ट प्रास्नाविष्ट।
नन्वयं चिण इव चिण्वदिटोऽपि निषेधः। चिण्वदीत्यत्र तृतीयान्ताद्वतेर्विज्ञानात्। चिण्निषेधस्यापि चिण्कार्यत्वादितिचेत्। मैवम्। सप्तम्यन्तादेव तत्र वतेर्व्याख्यानात्। चिणिपरे यत्कार्यं तस्यैवातिदेशात्। चिण्निषेधेन तदतिदेशस्य निषेध्दुमशक्यत्वात्।
यत्तु चिण्निषेधस्य चिणि परे विहितत्वाभावात्तस्मिन् कर्तव्ये नास्त्यतिदेश इति। तत्राहुः अतिदेशो न विरुध्यते इति वक्तव्ये निषेधो नातिदिश्यत इति उक्तेरनौचित्यमिति।
वस्तुतस्तु तस्मिन्। चिण्निषेधे कर्तव्ये विधेये अतिदेशो नास्तीत्यत्र प्रतियोगितावच्छेदकसंबन्धः प्रतियोगित्वमेव विवक्षितं तथाच चिण् निषेधः प्रतियोगितया चिण्वद्भावे न विषयीकरोति चिण्वद्भावप्रतियोगिको न भवतीति यावत्।
`यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञामुपसख्यानम्'। भारद्वाजीयास्तु `णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणां मिति पठन्ति। कारयते। अचीकरत। उच्छ्रयते दण्डः। उदशिश्रियत। वचनस्य शब्दप्रकाशनफलत्वात्कर्मस्थत्वम्। श्रथ्नाति ग्रन्थं देवदत्तः। श्रथ्नीते ग्रन्थः स्वयमेव। अश्रन्थिष्ट ग्रन्थः। ग्रथ्नाति श्लोकं देवदत्तः। ग्रथ्नीते श्लोकः स्वयमेव। अग्रन्थिष्ट श्लोकः। चौरादिकावप्यत्र श्रन्थिग्नन्थी गृह्येते। नच णिग्रहणादेव गतार्थत्वम्। आधृषीयत्वाण्णिजभावपक्षे सार्थक्यात्। ग्रन्थते। श्रन्थते। लुङि प्राग्वत्। ब्रूते कथा स्वयमेव। अवोचत कथा स्वयमेव। ये धातव आत्मनेपदविधावकर्मका निर्दिष्टास्तेषामन्तर्भावितण्यर्थतायां सकर्मकदशायां कर्मवद्भावात्प्राप्तौ यक्चिणौ निषिध्येते। विकुर्वते सैन्धवाः। वल्गन्तीत्यर्थः। तान् यदान्यो वल्गयति तदा तेषां कर्मत्वम्। पुनः सौकर्यातिशयविवक्षायां विकुर्वते सैन्धवाः स्वयमेव। व्यकृषत। उत्पुच्छयते गौः। अन्तर्भावितण्यर्थत्वात्कर्मवद्भावात्प्रतियोगिप्रसक्तिः। तथाहि-पुच्छमुदस्यति उत्पुच्छयते गौः। अन्तर्भावितण्यर्थत्वात्कर्मवद्भावात्प्रतियोगिप्रसक्तिः। तथाहि-पुच्छमुदस्यति उत्पुच्छयते गौः ण्यर्थान्तर्भावे उत्पुच्छयते गाम्। पुनः कर्तृत्वविवक्षायां यथोक्तं रूपम्। उदपुपुच्छत। यक्चिणोः प्रतिषेधाच्छपचङौ।
कुषिरजोः प्राचां श्यन् परस्मैपदं च ।। 90 ।।
कुष निष्कर्षे। रञ्ज रागे। अनयोः कर्मकर्तरि न यक् किन्तु श्यन् परस्मैपदं च स्यात्। यगात्मनेपदयोर्यथाक्रममपवादौ। कुष्यति कुष्यते वा पादः। रज्यति रज्यते वा वस्त्रम्। नित्यतुमर्थं स्वरार्थंच श्यनो विधानम्। तेन कुष्यन्ती जङ्घेति शप्श्यनोर्नित्यमिति नुम्। ञ्नित्यादिरित्याद्युदात्तत्वम्। यकि तु लसार्व धातुकानुदात्त्वे यक उदात्तत्वश्रवणं स्यात्। इदंच यग्विषय एव प्रवर्ततेः निषेधस्य प्रसक्तिपूर्वकत्वात्। तेन लिङाशीर्लिङोः स्यादीनां विषये नास्य प्रवृतिः।
धातोः ।। 91 ।।
अधिकारोऽयम्। तृतीयाध्यायपर्यन्तम्। नचैवं लादेशेषु दोषः स्यात्। तथाहि तत्र धातोरित्युपस्थाने तस्मादित्युत्तरस्येति परिभाषया धातोरव्यवहितपरस्य लस्य तिबादयो भवन्तीत्यर्थः स्यात्। तथाच विकरणव्यवधाने तिबादीनामसिद्धिः। स्यादीनां लावस्थायामेव प्रवृत्तेः। सार्वधातुक इति विषयसप्तमीपक्षे शबादीनामपि तथात्वात्। नच परत्वाद्विकरणेभ्यः पूर्वमेव लादेशप्रवृत्तिः। कृताकृतप्रसङ्गित्वेन विकरणानां नित्यत्वात्। नचादेशानां निरवकाशत्वम्। लुक्श्लुविकरणेषु विकरणलोपेन लिङ्लिटोश्च विकरणानुत्पत्त्या तत्र सावकाशत्वात्। एवं धातोः परस्य तस्य एत्वविधाने आदेः परस्येति तकारमात्रस्य एकारादेशापत्तौ सर्वादेशार्थं तस्य शित्वं कर्तव्यमिति गौरवम्। प्राग्लादेशेभ्य इति पक्षे तूक्तपरिभाषानुपस्थाने विधानसामर्थ्याद्विनापि शित्त्वं तत्सिद्धिः। नचालोन्त्यपरिभाषया अन्त्यादेशत्वापत्तिः। एकारस्य एकारविधाने प्रयोजनाभावात्। एवं लोटो लङ्वत्, एरुः, सेर्ह्यपिच्चनित्यंङितः, इतश्च, तस्थस्थमिपां तां तं तामः, लिङः सीयुट्, यासुट् परस्मैपदेष्वित्यावपि बोध्यम्। धातोः परत्वेन तद्विशेषणापत्त्या विकरणव्यवधाने तदप्रवृत्तेः।
उच्यते तथाचार्द्धधातुकसंज्ञायां धातुग्रहणस्यावश्यकत्वात्। अन्यथा वृक्षत्वमित्यादावतिव्याप्तेः। परस्मैपदानामिति मध्यमपुरुषथकारस्थाने अकारादेशे शित्त्वस्य कर्तव्यत्वापत्तेशअच। सिद्धान्ते तु धातोः परस्य थस्येति व्याख्याने थकारमात्रस्य अकारादेशेअतो गुण इति पररूपे च सिद्धमिष्टम्। नच तत्राप्यलोन्त्यपरिभाषया अकारस्याकारादेशविधानवैयर्थ्यात्सामर्थ्यादेव सर्वादेशत्वसिद्धिः। णलादीनां यथासंख्यसंपादनेन चरितार्थत्वात्।
नच परत्वादिट्प्रसङ्गः। कृताकृतप्रसङ्गित्वेन अकारादेशस्य नित्यत्वात्। तत्र कृते वलादित्वाभावेनेटोऽप्राप्तेः। नच शब्दान्तरप्राप्त्या अकारादेशस्याप्यनित्यत्वम्। सहि इटि कृते इकारस्य प्राप्नोति अकृते तु णकारस्येति वाच्यम्। तस्य प्रायिकत्वात् नचोक्तदोषाणामापत्तिः। शबादीनां सार्वधातुके परत एव विधानात्। स्यादिस्थलेऽपि धातो र्विहितस्य लस्येति विहित विशेषणाश्रयणात्। ननु विन्दतीत्यादावपि णलादीनामापत्तिः धातोर्विहितस्य वेत्तेरनन्तरस्येति व्याख्यानात्। नचाजक्षिष्यन्नजपारिष्यन्नित्यादौ अदभ्यस्ताज्झोर्जुस्प्रसङ्गः। धातोर्विर्हितस्याभ्यस्तादनन्तरस्येति व्याख्यानात्। आत इत्यत्र तु धातोर्विहितस्याकारादन्तरस्येति व्याख्येयम्। आकारान्ताद्विहितस्येति व्याख्यानेऽपिबन्नित्यादावतिप्रसङ्गात्। तस्मादादातृतीयाध्यायाद्धात्वधिकार इति स्थितम्।
प्रयोजनानि। प्रातिपदिकात्तव्याद्यनुत्पत्तिः। अङ्गसंज्ञा कृदुपपदसंज्ञाचेति। तत्र नाद्यः। तयोरेवेति भावकर्मणोः कृत्यविधानात्। कृताञ्टकर्तरि तिङां च भावकर्मकर्तृषु विधानात्। कर्त्रादिरूपसाधनाभावादेव प्रातिपदिकेभ्यस्वदनुत्पत्तेः। नचैवंकर्मादौ विधीयमाना द्वितीयादयोऽपि प्रातिपदिकान्न स्यु रिति वाच्यम्। वचनसामर्थ्याच्छब्दान्तरवाच्यक्रियापेक्षसाधन एव तत्प्रवृत्तेः। प्रकृते तु प्रकृती वाच्यान्तरङ्गक्रियापेक्षसाधनसम्भवे शब्दान्तरवाच्यबहिरङ्गक्रियासाधनानाश्रयणात्।
न द्वितीयः यङ्विधेरेव धातुग्रहणानुवृत्तेः। तेन प्रास्थितेत्यादौ सोपसर्गस्य गमनार्थत्वेऽपि धातोरेवाङ्गसंज्ञा नतुधातूपमर्गसमुदायस्य। तेनाडादिव्यवस्था। अन्यथा स्यादिषु तदननुवृत्तौ करिष्यतीत्यादावङ्गसंज्ञा न स्यात्। नच चूर्णचुरादिभ्यो णिच् धातोश्चेतिधातुमात्राण्णिजापत्तिः। हेतुमतिचेत्यस्य तदभावज्ञापकत्वात्। अन्यथाकरोत्यर्थे करणे विहितस्य हेतुमत्यपि करणे सिद्धत्वात्। ननु चुरादिग्रहणं ज्ञापकम्। प्रातिपदिकाद्धात्वर्थे इत्याद्यर्थतयान्यथासिद्धेः। कण्ड्वादिभ्य इत्यत्रापि न धातुमात्राद्यगापत्तिः। कण्ड्वादिग्रहणवैयर्थ्यापत्तेः। यकः कित्वेन तेषां धातुत्वसिद्धेः पूर्वमुक्तत्वात्। धातोरित्यतएव सिद्धिप्रसङ्गात्। कण्ड्वादिभ्यो धातुभ्य इति सामानाधिकण्येनान्वयसम्भवे समुच्चयानौचित्याच्च।
न तृतीयः। कृदुपपदसंज्ञयोरेवाधिकारत्वेनोपपत्तेः। तत्र स्वरितत्बमात्रकल्पने लाधवात्। नाप्यार्धधातुकसंज्ञार्थोंयं धात्वधिकारः। वस्तुतो धातोर्विहितस्येति व्याख्याने जुगुप्सते लूभ्यामित्यादावतिव्याप्ते रिति वाच्यम्। यङ्विधेरनुवृत्तस्यैव धातोर्विहितस्येति विहितविशेषणाश्रयेण सिद्धेः। यदि द्वितीयधातुग्रहणं विना शब्दव्यापारो न लभ्यते इत्याग्रहस्तदा शमिधातोरित्यतो द्वितीयधातुग्रहणमनुवर्त्त्यमिति।
तत्रोपपदं सप्तमीस्थम् ।। 92 ।।
अस्मिन् धात्वधिकारे प्रत्ययविधौ सप्तमीनिर्दिष्ट मुपपदसंज्ञम्। यथा कर्मण्यणित्यादौ कर्मणीति। तेन कुम्भकार इत्यादौ कुम्भादीनामुपदसंज्ञा। कर्मपदेन तेषामेवोपादानात्। अशब्दसंज्ञेति स्वरूपग्रहणानुपपत्तेः। नच स्थग्रहणं व्यर्थम्। सप्तमीत्यत एव तन्निर्द्दिष्टग्रहणसिद्धेरिति वाच्यम्। स्तम्बे रमः, कर्णेजपः, इत्यादेः श्रूयमाणसप्तमीकस्य सप्तम्यां जनेर्डइति सप्तमीशब्दनिर्दिष्टस्यैव वासंज्ञाप्रसङ्गात्। तथाच सप्तम्या एव संज्ञा स्यान्नतु तदन्तस्य संज्ञाविधित्वात्। समासस्तु समर्थपरिभाषया तदनतस्यैव सिद्धः केवलसप्तम्या सामर्त्याभावात्। स्थग्रहणेति सप्तम्युपलक्षितस्य संज्ञाविधानात्कुम्भकारादावपि सिद्धिः। तत्रग्रहणं विषयनिर्देशार्थम्। तत्रैतस्मिन्धात्वधिकारे इति। अन्यथा प्रतिसूत्रमधिकाराश्रयणे गौरवात्। आहर कुम्भम्। करोति कटम्। इत्यादौ तु कुम्भस्य नोपपदसंज्ञा असामर्त्यति। नच महान्तं कुम्भं करोति इत्यत्रातिप्रसङ्गः। महाकुम्भं करोतीति महाकुम्भकार इत्यस्येष्टत्वात्। नच महान्तं कुम्भकार इत्यस्यापत्तिः। उपपदसंज्ञाया अन्वर्थत्वात्। उपोच्चारितं पदमुपपदमिति। पदविधित्वेन समर्थपरिभाषोपस्थितेश्च। महत्पदार्थापेक्षस्य कुम्भस्य अणन्तेन सममेकार्थीभावानुपपत्तेः।।
कृदतिङ् ।। 93 ।।
अत्राधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः तथाचैतद्धात्वधिकारविहितत्वे सति तिङ्भिन्नप्रत्ययत्वं लक्षणम्। अतिङ् किम्। करोति। तिबादेर्माभूत् न च प्राग्लादेशेभ्यो धात्वधिकार इतिपक्षे धातोः परस्य प्रत्ययस्य कृत्संज्ञाविधानेऽपि तिङ्षु नातिप्रसङ्गो विकरणव्यवधानादिति वाच्यम्। लुग्विकरणादौ तथा प्यतिप्रसङ्गात्। विकरणानां सार्वधातुके परत उत्पत्या लकारस्य कृत्संज्ञायां स्तानिवद्भावेन तिङ्षु दोषाच्च। नचैवमतिङ्ग्रहणेऽपि दोषतादवस्थ्यम्। पर्युदाससामर्थ्या त्स्थानिवद्भावाप्रवृत्तेः। तिङ्भाविनो लकारस्यैव भेदप्रतियोगितया निवेशात्। अतएव कारयांचकारेत्यादौ आमन्तस्य कृत्संज्ञा। तत्र लकारस्यैव लोपेन तस्य तिङ्भावित्वाभावात्।
नन्वस्तु तिङां कृत्संज्ञा। नच कृत्तद्धितेति प्रातिपदिकसंज्ञायां स्वादिप्रसङ्गः। एकत्वादेस्तिङैवोक्तत्वेन तदनापत्तेः। नचाणादिप्रसङ्गः। अपत्याद्यर्थयोगाभावात्। अतिशायने तमबिष्ठनौ तिङश्चेति पृथक्तिङ्ग्रहणसामर्थ्याच्च। नचपचतीत्यादौ हस्वस्य पिति कृतीति तुक्प्रसङ्गः। तत्र धातोरित्यनुवृत्तेः। शबन्तस्य च धातुत्वादिति वाच्यम्। तत्रापि शपा व्यवधानात्। एकादेशे कृतेऽपि पूर्वविधौ स्थानिवद्भावेन व्यवधानसद्भावात्। सत्यम्। अनुपादेयत्वादेवातिङित्यस्येति तत्वम्।
इति श्रीसिद्धान्तसुधानिधौ तृतीयस्य प्रथमपादे पञ्चमाह्निकम्।