सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः १/आह्निकम् ९

विकिस्रोतः तः
← *आह्निकम् ८ श्रीसिद्धान्तसुधानिधिः
आह्निकम् ९
[[लेखकः :|]]

अदर्शनं लोपः 54 ।
(1.1.9)

प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् । स्थाने इत्यनुवृत्तेः । न चादर्शनशब्दस्यैवेयं संज्ञा स्यात् इति "लोपो व्योः" इत्यादौ स एवादेशः प्रसज्येतिति वाच्यम् । महासञ्ज्ञासामर्थ्यात् अर्थस्यैव संज्ञित्वात् । न च प्रदेशेष्वेव लौकिकलोपशब्दार्थो विज्ञास्यते पशुरपत्यम् इत्यादाविवेति संज्ञासूत्रमनारभ्यमिति वाच्यम् । प्रसक्तस्येति प्रतियोगिविशेषलाभार्थं तदारम्भात् । अन्यथा दधि मधु इत्यादौ क्विपः स्वाभाविकादर्शनसत्त्वेन लोपसंज्ञायां प्रत्ययलक्षणेन तुक् स्यात् ।
तथा च वार्त्तिकम् ।
"सिद्धं तु प्रसक्तादर्शनस्य लोपसंज्ञित्वात्" इति ।
ननु वार्त्तिकमते तत्सूत्रस्य विध्यर्थत्वात् अस्त्वेवम् । भाष्यमते तु तन्नियमार्थं स्थानिवत्सूत्रेणैव कार्यप्रवृत्तिरिति वक्ष्यते । न चात्र तुकस्तेन प्रसक्तिः । षष्ठीग्रहणस्य तत्रानुवर्तितत्वात् । अत एव ग्रामणीः इत्यादौ अर्थोपपदधातुसन्निधानात् अर्थतः शास्त्रतश्च अण्‌प्रसङ्गे क्विपो विधानेऽपि वृद्ध्यादिकं न भवति । तस्मादिदं सूत्रं निर्रथकमिति चेत् ।
मैवम् । "चाहलोप एवेत्यवधारणम्" "चादिलोपे विभाषा" इति सूत्रयोश्चादीनामप्रयोगस्यैव लोपपदार्थत्वात्षष्ठीनिर्द्देशेन लोपविध्यभावाल्लोपसंज्ञाऽनुपपत्तौ `अयमेवारण्यं गच्छतु' `अयमेव ग्रामं गच्छतु' इत्यादौ तिङन्तनिघातनिषेधस्य `शुक्ला व्रीहयो भवन्ति' `श्वेता गा आज्या दुहन्ति' इत्यादौ निघातनिषेधविकल्पस्य चानुपपत्तेः । सूत्रारम्भे तु तत्र शास्त्रतोलोकतो वा तदप्रसक्तेर्न दोषः ।
न च वार्तिकमते ग्रामणीरित्यत्र वृद्धिः स्यादिति वाच्यम् । क्विपा अणः प्रसङ्गापहारात् । विशेषशास्त्रनिर्मुक्ते एव सामान्यशास्त्रस्य प्रवृत्तेः । "सत्सूद्विष" इति क्विपो विषये "कर्मण्यण्‌" इत्यस्य प्रसक्तेरेवाभावात् ।

प्रत्ययस्य लुक्‌श्लुलुपः 60 ।

तन्त्रावृत्त्यादिना तद्भावितानामिमाः संज्ञाः अनेकसंज्ञाविधानसामर्थ्यात् । लुक्‌श्लुलुप् एतैः शब्दैः कृतं प्रत्ययादर्शनं क्रमेण तत्संज्ञं स्यात् । न चैवं विधिप्रदेशेषु इतरेतराश्रयापत्तिः अदर्शनस्य नित्यत्वेऽपि लुगादिसंज्ञया भावितत्वस्य तदभावेन पूर्ववत् परिहारासम्भवात् इति वाच्यम् । भाविसंज्ञाविज्ञानात् । प्रदेशाश्च "लुक् तद्धित" "जुहोत्यादिभ्यः श्लुः" "जनपदे लुप्‌" इत्यादयः । लोपसंज्ञायाश्च नैताभिर्बाधः । एकसंज्ञाधिकारात् । अन्यत्र संज्ञानां समावेशदर्शनात् । अत एव "न लुमताङ्गस्य' इति निषेधः सङ्गच्छते । अन्यता "प्रत्ययलोपे" इत्यस्य लुगादिविषये प्रसक्तेरेवाभावात् ।
स्यादेतत् । प्रत्ययस्येति किमर्थम् । `न तावदप्रत्ययनिवृत्त्यर्थम् । लुगादिविधौ सर्वत्र प्रत्ययस्यैव स्थानिवत्त्वादप्रसिद्धेः । अनुवादे च तद्भावितस्यैव ग्रहणात् ।
ननु "लुक् तद्धितलुकि" इत्यत्र "गोस्त्रियोः" इत्यनुवृत्त्या गोशब्दस्यापि लुगापत्तिः । योगविभागात् । "गोरुपसर्जनस्य" ततः "स्त्रियाः" । "लुक्तद्धित" इत्यत्र "स्त्रियाः" इत्यनुवर्त्तते गोः इति निवृत्तम् । अन्यथा प्रत्ययग्रहणे कृतेऽपि गमेर्डोस्‌प्रत्ययस्य लुक् स्यात् ।
"कंसीयपरशव्ययोः" इत्यत्रापि कंसीयपरशव्ययोः प्रातिपदिकात्परस्य लुक् विधीयते । "ङ्याप्प्रातिपदिकात्" इत्यधिकृतत्वात् । अतः प्रकृतिभागस्य न लोपः । अन्यथा "कमेः सः" कंसः परान् शृणाति परशुः इत्युकारसकारयोर्लुगापत्तेः ।
न च "अत्रिभृगुकुत्स" इत्यादौ प्रतियोगिविशेषसमर्पणार्थम् । तत्र "यस्कादिभ्यो गोत्रे" इत्यतो गोत्रपदानुवृत्तेरत्र्यादिगोत्रे यो विहितस्तस्य लुग्‌विधानात् ।
"जनपदे लुप्‌" इत्यत्र प्रातिपदिकाधिकारात्प्रत्ययानुवृत्तेश्च जनपदे विहितस्य चातुरर्थिकप्रत्ययस्य लुक् ।
"लवणाल्लुक्" इत्यत्रापि ठक एव, प्रकृतत्वात् "तस्मादित्युत्तरस्य" इति पञ्चम्या प्रत्यय इत्येतस्य षष्ठ्यन्तत्वकल्पनात् ।
ननु "यञञोश्च" "सुपो धातुप्रातिपदिकयोः" इत्यादौ लोपप्रतियोगिप्रत्ययस्यानेकाच्‌त्वेन "अलोऽन्त्यस्य", "लवणाल्लुक्‌" इत्यादौ च "आदेः परस्य" इति आदिमात्रस्य लोपो मा भूदिति सर्वादेशार्थं प्रत्ययग्रहणम् ।
मैवम् । लोपे प्रकृते ऽपि "लुग्वादुह" इति लुग्वचनस्य सामान्यापेक्षज्ञापकतया लुमतां सर्वादेशत्वसिद्धेः । न च लोप एव सर्वादेशो लुगादयस्तु "अलोऽन्त्यस्य" इति वैपरीत्यं स्यादिति वाच्यम् । असञ्जातविरोधितया लोपस्यान्त्यादेशत्वसिद्धौ लुगादीनामेव सर्वादेशत्वकल्पनात् ।
मैवम् । "आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्‌" इत्यत्र "लुगणिञोः" इत्यतो लुग्ग्रहणमनुवर्त्तते न वा ? । नाद्यः । स्थानिनौ द्वौ आदेशास्तु लुका सह त्रय इति यथासंख्यविरहे एकैकस्यादेशत्रयप्रसङ्गात् । ततश्चागस्तयोऽरि कुण्डिनाः स्युः कुण्डिनाश्चागस्तयः । लुक् च ज्ञापकात्सर्वादेशस्तदा उभयत्रापि विभक्तिमात्रं श्रूयेत । नान्त्यः । प्रकृते सिद्धेऽपि अगस्तीनां छात्रा आगस्तीया इति प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षितेऽप्यगस्त्यादेशस्य निषेधाभावात् प्रवृत्ताववृद्धत्वात् छप्रत्ययानुपपत्तेः । इह प्रत्ययग्रहणे तु आगस्त्यकौण्डिन्ययोः प्रत्ययांशस्य लुकि परिशिष्टभागयोर्यथासंख्यमगस्तिकुण्डिनचौ आदेशावित्यागस्तयः कुण्डिना इति च सिद्धम् । प्राग्दीव्यतीयविवक्षायां तु गोत्रे ऽलुगचीति लुक्‌प्रतिषेधे तत्संनियोगशिष्टागस्तिभावस्यापि निवृत्तावागस्त्येत्यस्य वृद्धत्वात् छे "सूर्यतिष्यागस्त्य" इति यलोपे आगस्तीया इति सिद्धम् । कौण्डिन्ये तूभयथाऽपि न विशेष इति तत्रैव वक्ष्यते । तस्माल्लुगित्यस्य तत्रावश्यमनुवर्त्त्यतया पूर्वदोषपरिहाराय प्रत्ययग्रहणमत्रावश्यकम् ।
भाष्यकृतस्तु "प्रत्ययलोपे" इत्यत्र विशेषणार्थम्, द्वितीयग्रहणमुत्तरार्थम् । तेन समस्तप्रत्ययलोपे एव प्रत्ययलक्षणं न त्वेकदेशलोपे । अन्यता आघ्नीय, संरायस्पोषेण मीय इत्यत्र परत्वादुपधालोपे पुनः प्रसङ्गविज्ञानादनुनासिकलोपः स्यादित्याहुः
हरदत्तस्तु सर्वादेशार्थमपीदम्, सामान्येन ज्ञापनस्यागतिकगतित्वात् इत्याह इति दिक् ।

प्रत्ययलोपे प्रत्ययलक्षणम् 61 ।

प्रत्यये लुप्तेऽपि तन्निमित्तकं कार्यं स्यात् । तेन अतृणेट्‌ इत्यत्र तिपो लुप्तत्वेऽपि "तृणह इम्" इति हलादिपित्सार्वधातुकं निमित्तीकृत्य इमागमः । न चात्र "स्थानिवत्" इत्यनेन गतार्थत्वम् । विशेषणत्वेनाप्यलाश्रयणे "अनल्‌विधौ" इति निषेधस्या स्वीकारात् । वर्णाश्रये प्रत्ययलक्षणं नास्ति इत्यस्य तु नायं विषयः वर्णप्राधान्यमात्रे तत्प्रवृत्तेः । तथा हि प्रकृतसूत्रे प्रत्ययलोपे तल्लक्षणम् इत्येवास्तु, यद्वा द्वितीयभाग एव माऽस्तु, स्थानिवत् इत्यनुवृत्त्या सिद्धेः । तदुपादानसामर्थ्याच्च प्रत्ययमात्रवृत्तिधर्मो यत्र निमित्ततावच्छेदकस्तदेव कार्यं प्रत्ययलोपे भवति न तु गवे हितम् गोहितम् इत्यादाववादेशः, अच्‌त्वस्य तत्र निमित्ततावच्छेदकस्य प्रत्ययाप्रत्ययसाधारण्यात् । यद्यत्र "नलुमता" इति निषेधः, तथाऽपि सुयशा इत्यत्र निसर्गसुलोपस्य स्थानिवत्त्वे "वा शरि" इति सकारादेशविकल्पस्य, सुवृड्‌ इत्यत्र "खरि च" इति चर्त्वस्य दुर्वारत्वम् । इमागमविधौ तु सार्वधातुकस्य विशेष्यतया तत्त्वस्य प्रत्ययत्वव्याप्यतया तत्प्रवृत्तौ बाधकाभावात् । हलादाविति विशेषणतयैव वर्णस्य तत्राश्रयणात् । एतदर्थस्यैव `वर्णाश्रये नास्ति' इत्यत्रोपनिबद्धत्वात् । अत एव धिन्विकृण्व्योर्विचि "लोपो व्योः" इति वलोपे तस्यानिमित्तत्वात् वस्तुतो निमित्तत्वस्य प्रत्ययवृत्तित्वेऽपि "न धातुलोपे" इति गुणनिषेधो न प्रवर्तते, आर्द्धधातुकत्वस्य तत्र निमित्ततायामनवच्छेदकत्वात्, वल्‌त्वस्य च प्रत्ययत्वाव्याप्यत्वविरहात् । तेन सुधे, सुधेनौ, सुधेनः, सुकः, सुकर्णौ, सुवर्ण इत्यादि सिद्धम् । "हल्‌ङ्याभ्य" इति सुलोपे पदत्वात् "नलोपः प्रातिपदिकान्तस्य" इति नलोपः ।
एतेन---
सुधे सुधेवारिवधात्सुराणां सुकारणे लाघवतश्च रामः ।
विशेषणे द्वे य इहादिकर्तुर्वदेदधीती स हि कैयटीये ।।
इति व्याख्यातम् ।
धातोर्लोपो यस्मिन्निति बहुव्रीहिणैव सिद्धे आर्द्धधातुकग्रहणसामर्थ्यात्तत्वेन निमित्तत्वलाभात् । न च `तोतोर्ति इत्यादिव्यावृत्त्या चारितार्थ्यम्, यङ्‌लुकश्चान्दसत्वात् । भाषाविषयत्वेऽपि आर्द्धधातुकग्रहणस्यावृत्त्या द्वितीयस्य सामर्थ्यमिति बोध्यम् । "पूर्वस्मिन्योगे यदार्द्धधातुकग्रहणम् तदनवकाशम्" इति "ङ्किति च" इत्येतत्सूत्रीयभाष्योक्तेश्च अनास्थामूलकत्वाद् इति ।
इदं तु चिन्त्यम्---आर्द्धधातुकग्रहणाल्लोपगुणयोरेकव्यक्तिनिमित्तकत्वमात्रमिष्यते न त्वार्द्धधातुकत्वावच्छिन्ननिमित्तत्वनिरूपितकार्यत्वपर्यन्तम् । लोलुव इत्यादावपि गुणनिषेधानुपपत्तेः । "यङोऽचि च" इति लोपे अच्‌प्रत्ययस्य वस्तुत आर्द्धधातुकत्वेऽपि आर्द्धधातुकत्वस्य निमित्ततानवच्छेदकत्वात् । तस्मादार्द्धधातुकत्वव्याप्यधर्मावच्छिन्ननिमित्तत्वनिरूपितकार्यत्वविवक्षणम् । व्याप्यंत्वं च भेदाभेदसाधारणम् । आर्द्धधातुकानतिरिक्तवृत्तित्वस्यैव धर्मेऽभिमतत्वात् । प्रकृते तु वल्‌त्वस्य आर्द्धधातुकातिरिक्तवृत्तित्वान्न निषेधप्रवृत्तिरिति सुस्थम् ।
उक्तभाष्यस्वारस्यादत्र विजेव न भवति । क्विपि तु ऊठि कृते धिनूः, धिन्वौ, धिन्वः, कृणूः कृण्वौ, कृण्व इत्यादि । सुधी, सुधिनौ, सुधिनः, सुकीः, सुकृणौ, सुकृणः इत्यादि तु न भवति इत्याहुः ।
`यङ्‌लुको भाषाविषयत्वे आर्द्धधाकग्रहणस्यतोतोर्ति इत्यादौ चारितार्थ्यादावृत्तौ च मानाभावात् गुणनिषेधे सुधी, सुधिनौ, सुधिनः, सुकीः, सुकीर्णौ, सुकीर्ण इत्यपि भवति' इति दीक्षिताः ।
ननु परिवीरित्यत्र क्विपो लोपे तुग्दीर्घयोरनेनैव विधानादेकलक्षणत्वाद्विप्रतिषेधानुपपत्त्या परत्वाद्दीर्घत्वं न स्यात् । मैवम् । व्यपदेशातिदेशो ह्ययम्, ततश्च `कृत्प्रत्ययः' इत्यादिव्यपदेशो लोपेऽतिदिश्यते, कार्यं तु तन्निबन्धनं तत्तच्छास्त्रैरेव भवति इति विप्रतिषेधसिद्धेः ।
तदुक्तम्---
"सिन्धन्तु स्थानिसंज्ञाऽनुदेशादान्यभाव्यस्य" इति ।
स्वार्थे ष्यङ्‌ । आदेशस्य स्थानिसंज्ञया यो व्यपदेशस्तस्यानेन विधानादित्यर्थः । तस्मादल्‌विध्यर्थमिदम् इति वार्तिकमतम् ।
भाष्यकृतस्त्वाहुः अतृणेट्‌ इत्यर्थं नेदम् । तत्र हलीत्येतस्य निवृत्तेः । न च तृणहानि इत्यादावतिव्याप्तिः । "नाभ्यस्तस्याचि" इत्यस्माद् `अचि न' इत्यनुवृत्तेः । न चाशीरित्यत्र "शास इदङ्‌हलोः" इत्येतदर्थम् । आशासः क्वावुपसंख्यानात्सिद्धेः । तद्धि तवाप्यावश्यकम् । तत्र शासिमात्रग्रहणे आशास्त इत्यादौ माभूदिति नियमार्थम्, अङ्‌प्रकृतिभूतस्यैव शासः साहचर्यादित्त्वविधौ ग्रहणे तु आशास्ते इत्यादाविव क्विप्यपि तस्याप्रसक्त्या विध्यर्थमिति परं विशेषः । तस्मात्प्रत्ययलोपे प्रत्ययलक्षणमेव कार्यं न तु प्रत्ययाप्रत्ययसाधारणधर्मावच्छिन्ननिमित्तत्वनिरूप्यकार्यत्ववदपि कार्यमिति नियमार्थमिदम् । तेन शोभना दृषदोऽस्य सुदृषत्प्रासाद इत्यत्र सुशब्दात्परस्य मन्नन्तस्यासन्तस्य चोत्तरपदस्य बहुव्रीहावाद्युदात्तत्वं भवतीत्यर्थकेन "सोर्मनसी अलोमोषसी" इति सूत्रेणाद्युदात्तत्वं न प्रवर्तते । किं तु "नञ्‌सुभ्यम्" इत्यन्तोदात्तत्वमेव । अन्यथा "सुपो धातुप्रातिपदिकयोः" इति जसो लुकि स्थानिवद्भावेनोत्तरस्याऽसन्तत्वानपायात् । उक्तरीत्या तु अस्त्वस्य प्रत्ययव्यत्तिरिक्तवृत्तित्वान्न दोषः । अनिनस्मन्ग्रहणेषु अर्थवद्ग्रहणपरिभाषाया अप्रवृत्तेः । एवं "अत्वसन्तस्य" इति दीर्घो ऽपि न भवतीत्यवधेयम् । वार्त्तिकमते तूक्तदोषव्यावृत्त्यर्थं यत्नान्तरारम्भे गौरवमिति ।
स्यादेतत् । नियमविधेरितरव्यावृत्तिरेव फलम् । `व्रीहीनवहन्ति' इत्यादौ ह्येतव्यतिरेकेणापि तुषतण्डुलविभागरूपवैतुष्यसाधनत्वेन दलनादिविकल्पितावघातस्य प्राप्त्या तत्साधारणप्राप्तावेव तात्पर्ये पाक्षिकप्राप्तिप्रतियोगिनः साधनान्तरस्य निवृत्तिः । न चेदमेव नियमफलम् । अप्राप्तांशप्रपणरूपनियमाभावे तदनुपपत्तेः । तत्सत्त्वे चार्थादेव तत्सिद्धेः । प्रकृतविध्यभावे च स्थानिवद्भावस्य न पाक्षिकी प्राप्तिरिति चेत् ।
अत्राहुः---परिसंख्याप्यत्र नियमपदेन व्यवह्रियते । `पञ्च पञ्चनखा भक्ष्या' इत्यस्य नियमत्वेन भाष्ये लिखितत्वात् । सा च यद्यपि दोषत्रयवती यथाश्रुतार्थत्यागात्, पञ्चातिरिक्ता न भक्ष्या इति परार्थकल्पनात्, प्राप्तपञ्चनखान्यभक्षणबाधाच्च । तथाऽप्यत्र सामान्यशास्त्रस्यापि प्रत्ययलोपस्थलतात्पर्यकत्वे शास्त्रप्राप्तस्यात्यन्तबाधासम्भवात्प्रत्ययत्वव्याप्यधर्मावच्छिन्ननिमित्तताकस्यापि कार्यस्य वचनद्वयप्रामाण्याद्विकल्प एव स्यात् । पञ्चातिरिक्तभक्षणं तु प्रापकप्रमाणस्य रागस्य दौर्बल्याद्बाध्यते इति वैषम्यम् । अतः सामान्यशास्त्रस्योक्तकार्यातिरिक्तविषयकत्वमवश्यं कल्प्यम् । अतः प्राप्तबाधरूपो दोषो नास्ति । तेन प्रत्ययलक्षणस्य तद्भिन्ने, भवतीत्यस्य च न भवतीत्यत्र तात्पर्यात्प्रत्ययलक्षणातिरिक्तं न भवतीत्यर्थः । न च स्थानिवदित्यस्यानेनोपसंहारापत्तिः । तच्छास्त्रवैयर्थ्यापत्तेः । "तं च तुर्द्धा कृत्वा पुरोडाशं बर्हिषदं करोति" "आग्नेयं चतुर्द्धा करोति" इत्यनयोस्तु परस्परोपसंहाराद्वैषम्यम् । आग्नेयपदं हविरन्तरात्पुरोडाशपदं चान्यदैवत्यपुरोडाशाद्व्यावर्त्यत इति । स्मृतिपुराणादौ त्ववान्तरवक्तृभेदान्न सामान्यशास्त्रवैयर्थ्यम् । अत एव `न अङ्गुल्या दन्तधावनं कुर्यान्न तर्जन्या' इत्यादावेकवक्तृकवाक्ये नोपसंहारः किं तुदोषाधिक्यकल्पनमेवेति दिक् ।
अथ तथाऽपि पञ्चेत्यत्र प्रत्ययलक्षणेन पदत्वं समासत्वात्प्रातिपदिकत्वम्, "स्नुक्रमोः" इति इट्‌, "उभयप्राप्तौ कर्मणि" इति षष्ठी इत्यादिग्रन्थानां का गतिः, इतरव्यावृत्तावेद तात्पर्यात् सामान्यशास्त्रस्यैव तद्विधायकत्वात् इति चेत् ।
अत्राहुः---
उभयप्राप्ताविति परिशेषिता षष्ठी इत्यादि व्याख्येयम् न तु विहितेति । अत एव "उभयप्राप्तौ कर्मणीति प्रतिषेधे ऽकादिप्रयोगेऽप्रतिषेधः" इति वार्त्तिककृता तत्सूत्रस्य प्रतिषेधत्वमेवोक्तम् न तु विधित्वम् ।
यद्वा, सामान्यशास्त्रस्य विशेषे तात्पर्याभावस्योभयकल्प्यत्वात् प्रत्ययलक्षणेत्यादिकं यथाश्रुतमेवास्तु । अस्य च प्रयोजनापेक्षायां प्रत्ययलक्षणातिरिक्तकार्यव्यावृत्तिः फलतः सिद्ध्यति ।
यथा "इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते" इति प्रत्यक्षविधिः लिङ्गकल्प्यविध्यपेक्षया पूर्वप्रवृत्तिकत्वात् अपूर्वविधिरेव । तावन्मात्रस्य च लैङ्गिकविधिनैव सिद्धत्वादेतद्वैयर्थ्यापत्त्या गर्दभाभिधानीव्यावृत्तिः फलं कल्प्यते ।
तदुक्तम्---
अप्राप्तविधिरेवायमतो मन्त्रस्य निश्चितः
प्रयोजनं विधेः किं स्यादस्येति तु निरूपणे ।।
न गर्दभाभिधानीतः फलमन्यन्निवर्त्तनात् ।
न चात्र विषयान्तरार्थं स्थानिवत्सूत्रस्यावश्यकत्वान्न प्रत्ययलोपसूत्रस्य तदपेक्षया प्रथमप्रवृत्तिः प्रत्यक्षत्वाविशेषादिति वाच्यम् । तथाऽपि स्थानित्वादेशत्वाभ्यां तत्तत्स्थान्यादेशानामनुगमेऽपि वस्तुतस्तेषां भिन्नत्वात् यावत् प्रत्ययतल्लोपयोरुपस्थित्या सामान्यशास्त्रस्य प्रत्ययलोपपरत्वं लभ्यते तावत् प्रत्ययलोपे प्रत्ययलक्षणमित्यनेन विशेषधर्मप्रकारकबोधजननात्प्रथमप्रवृत्तौ बाधकाभावात् । एतावान्परम् विशेषः---तत्र लैङ्गिकविधिकल्पनमेव प्रतिबध्यते प्रकृते तु सामान्यशास्त्रस्य प्रत्ययलोपविषयकत्वमात्रमिति । अस्मिंस्तु पक्षे पूर्वोक्तग्रन्था यथाश्रुता एव योज्याः । एतेन नियमसूत्राणां निषेधमुखेन विधिमुखेन वा प्रवृत्तिरिति पक्षद्वयं व्याख्यातम् ।

न लुमताऽङ्गस्य 63 ।

लुमता लुक्‌श्लुलुपामन्यतमेन शब्देन कृते प्रत्ययादर्शने तन्निमित्तमङ्गकार्यं न स्यात् । गर्गाः, मृष्टः, जुहुतः । यञ्‌शपोर्लुमता लोपात्तन्निमित्तौ वृद्धिगुणौ न । लुमता किम् । कार्यते, हार्यते । "णेरनिटि" इति णिलोपे ण्यपेक्षा, अमार्ट्‌, नित्यत्वाद्धल्ङ्‌यादिलोपेऽपि मृजेर्वृद्धिश्च यथा स्यात् । अङ्गस्येति किम् । पञ्च, सप्त । अत्र प्रत्ययलक्षणेन सुबन्तात्वात्पदसंज्ञा यथा स्यात् । अत्राङ्गशब्दस्य स्वरितत्वादङ्गाधिकारविहितमेव कार्यं निषिध्यत इति वार्त्तिककृत् ।
भाष्यकृतस्त्त्वाहुः---एवं सति उत्‌क्रामेत्यत्र "अतो हेः" इति हेर्लुकि "क्रमः परस्मैपदेषु" इति दीर्घः, जिगमिष इत्यत्र "गमेरिट् परक्मैपदेषु" इतीट्‌, विवृत्सेत्यत्र "न वृद्भ्यश्चतुर्भ्यः" इतीट्‌प्रतिषेधश्च न स्यात् । एषामङ्गाधिकारीयत्वात् । अतोऽङ्गाधिकारीयं तद्बहिर्भूतं वा बस्तुतोऽङ्गस्य यत् कार्यं तत्रायं निषेधः । नचाङ्गकार्यमात्रनिषेधेऽप्युक्तदोषतादवस्थ्यम् । लोपप्रतियोगिपरस्मैपदनिरूपिताङ्गसंज्ञायाः क्रमेतिशबन्तमात्रवृत्तित्वात् दीर्घस्य च शब्निरूपिताङ्गत्वशालिनः क्रमेरेव विधानात् । एवमुत्तरद्वयेऽपि ।
तथा च यत्प्रत्ययनिरूपितं यस्याङ्गत्वं तत्प्रत्ययस्य स्थानिवत्त्वमाश्रित्य तन्निमित्तं कार्यं तस्य न भवतीत्यर्थः फलितः ।
अथ पक्षद्वयेऽपि "ञ्नित्यादिर्नित्यम्" "कितः" "पथिमथोः सर्वनामस्थाने" इति विहिताः स्वरा लुकि कृतेऽपि दुर्वाराः । तथा च गर्गाः, विदाः । यञञोर्लुक्" । उष्ट्रग्रीवा । "इवे प्रतिकृतौ" इति कनो "देवपथादिभ्यश्च" इति लुप् । तत्र "ञ्निति" इत्याद्युदात्तं स्यात् । असंज्ञायां चेदम् । संज्ञायां तु "संज्ञायां तु "संज्ञायामुपमानम्" इत्याद्युदात्तस्येष्टत्वादिति कैयटः । अत्रेरपत्यान्यत्रयः । "इतश्चानिञ" इति ढक्‌ । तस्य "अत्रिभृगुकुत्स" इति लुक् । तत्र कितस्तद्धितस्येत्यन्तोदात्तत्वं स्यात् । प्रत्ययग्रहणपरिभाषया तद्धितान्तस्य तद्विधानात् । न च फिट्‌स्वरेण तत्रान्तोदात्तत्वं दुर्वारम् । "राशदिभ्यां त्रिप्‌" "अदेस्त्रिनिश्च" इत्युणादिसूत्रेणात्रिः अत्री इति च रूपद्वयसिद्धेः । तत्र प्रत्ययस्य पित्त्वादनुदात्तत्वे शेषनिघातेन इकारान्तस्यात्रिशब्दस्याद्युदातत्वम् । नान्तस्य नित्स्वरेणान्तोदात्तत्वमित्यभ्युपगमात् । "अत्रेरिव शृणुतम्" इत्यत्र, "अत्रीणां स्तोममद्रिवः" इति लुकि चाद्युदात्तप्रयोगाच्च । पन्थाः प्रियो यस्य स पथिप्रियः । "सुपोधातु" इति लुकि पथिमथोरित्याद्युदात्तत्वं च स्यात् । एषामङ्गाधिकारीयत्वाभावात् ।
वस्तुतोऽङ्गकार्यत्वाभावाच्च "सुप्तिङन्तम्" इति पदसंज्ञाया इव उक्तस्वराणां प्रत्ययान्तकार्यत्वाभावात् । अङ्गत्वस्य तु प्रत्ययान्तावधिकपूर्वभागमात्रवृत्तित्वात् ।
ननु "कित" इति माऽस्त्वङ्गकार्यम्, इतरद् द्वयं तु सप्तमीनिर्देशाद्वस्तुतोऽङ्गस्य कार्यं भवत्येवेति भाष्यमते कथं तत्प्रसक्तिरिति चेन्न । सौवर्यः सप्तम्यस्तदन्तसप्तम्य इति स्वीकारात् ञ्निदन्तस्यादेरुदात्त इत्यर्थात् । तत्र च ज्ञापकं "भीह्रीभृहुमदजनधनहरिद्राजागरां प्रत्ययात्पूर्वं पिति' इति पूर्वग्रहणम् । अन्यथा पिति परे विधीयमानस्य पूर्वकार्यत्वसिद्ध्या तद्वैयर्थ्यात् । अत एव "उपोत्तमं रिति"इति उदात्तत्वम् `आहवनीय' इत्यादौ रिदन्तस्योपोत्तमे प्रत्ययस्यैव ईकारे प्रवर्त्तते नतु प्रकृतिभागस्योपोत्तमे इकाराकारे ।
एवं "चङ्यन्यतरस्याम्" इत्यपि चङन्त । एवेति सिद्धान्तः । न चैवं "चतुरः शसि" इत्युदात्तत्वं शसन्तस्यैव स्यात् । तथा च "षट्‌त्रिंशांश्च चतुरः कल्पयन्त" इति मध्योदात्तपाठविरोध इति वाच्यम् । शस्‌ग्रहणसामर्थ्यात्तदन्तबाधात् । अन्यथा "ऊडिदम्पदादि" इति सूत्र एव चतुर्‌शब्दं ब्रूयात् । तत्रासर्वनामस्थानग्रहणानुवृत्त्याऽनतिप्रसङ्गात् । न च आभ्यामित्यादौ तद्दोषः । "षट्‌त्रिचतुर्भ्यो हलादिः" इति तत्रोदात्तत्वस्यैव सिद्धान्तेऽपीष्टत्वात् । न चैवं स्वारविधौ षष्ठीनिर्द्देशस्यैवापत्तिः, रित इत्यादावर्द्धमात्राधिक्यादिति प्राप्ते वार्तिकम्---
"लुमति प्रतिषेधे एकस्वरस्योपसंख्यानं, सर्वामन्त्रितसिज्‌लुक्‌स्वरवर्जं, प्रयोजनं ञ्नितिकिल्लुक्‌स्वराः, पथिमथोः सर्वनामस्थाने लुक्" इति ।
अयमर्थः---प्रत्ययलक्षणेन प्राप्तोऽप्येकपदस्वरो न भवति । "सर्वामन्त्रितसिज्लुक्‌स्वरवर्जम्" इति वचनमारभ्यमित्यर्थः । पदद्वयाश्रयस्तु भवत्येव । यथा दधि तिष्ठतीत्यत्र "पदस्य" "पदाद्" इत्यधिकारीयः "तिङ्‌ङतिङः" इति निघातः । दधीत्यस्य पदसंज्ञार्थं प्रत्ययलक्षणस्यापेक्ष्यत्वात् । एवम् `इह तिष्ठ' इत्यादि बोध्यम् । सर्वादिपर्युदासः किम् । `सर्वस्तोमोऽतिरात्रः' इत्यत्र "सर्वस्य सुपि" इत्याद्युदात्तत्वम्, `सर्पिरागच्छ' `सप्त आगच्छत' इत्यत्र "आमन्त्रितस्य च" इति षाष्ठाद्युदात्तत्वम्, `मा हि दाताम्' इत्यत्र "आदिः सिचोऽन्यतरस्याम्" इत्याद्युदात्तत्वं च यथा स्यात् । नचाद्ये 'बहुव्रीहौ प्रकृत्या" इत्यत एव सिद्धम् "स्वाङ्गशिटामदन्तानाम्" इति सर्वशब्दस्याद्युदात्तत्वादिति वाच्यम् । "सर्वस्य सुपि" इत्यस्य प्रवृत्तिं विना "बहुव्रीहौ" प्रकृत्या" इत्यनेन व्यवस्थाप्यत्वात् । सर्पिः शब्दस्यापि व्युत्पत्तिपक्षे प्रत्ययस्वरेण, अव्युत्पत्तिपक्षेऽपि फिट्‌स्वरेणान्तोदात्तत्वात् । "नब्विषयस्य" इत्याद्युदात्तस्य न प्रवृत्तिः । "अनिसन्तस्य" इति पर्युदासात् । `घृतादिपाठादन्तोदान्तत्वम्' इति कैयटः । तत्तु अव्युत्पत्तिपक्षाभिप्रायम् ।
ननु सप्तशब्दः "सप्यशूभ्यां तुट्‌ च" इति कनिनन्तत्वात् आद्युदात्तः, अव्युत्पत्तिपक्षेऽपि "न्रः संख्यायाः" इति तथैवेति चेन्न । घृतादित्वात् अन्तोदात्तत्वात् । सप्त युञ्जति रथमेकचक्रमिति तत्प्रयोगाच्च । तस्मात्स्वरत्रयनिवृत्तिः प्रयोजनमित्यर्थः । "गातिस्था" इत्यत्र सिज्ग्रहणसामर्थ्यात् तल्लुकि स्वरसिद्धिः । अन्यथा च्लेरेव लुकं विदध्यात् अभूत्, अपात् इत्यादिसिद्धये । "अस्तिसिचो" इत्यत्र सकारान्तरप्रश्लेषस्याप्येवं परित्यागसम्भवात् ।
न चैवम् "आतः" इति सूत्रं विध्यर्थमेव स्यात् न तु नियमार्थम्, तथा च लटो निवृत्तये च्लिलुकीति वक्तव्यत्वापत्त्या गौरवं विपरीतमिति वाच्यम् । "ङितः" इत्यनुवृत्त्यैव लटोनिवृत्तेः । तस्मात्सिज्‌लुक्‌स्वरस्योक्तर्पयुदासे भेदप्रतियोगित्वेन निवेशो न कार्य इति । षष्ठे तु ज्ञापकेन समाहितम् । तथा च "संज्ञायामुपमानम्' इति सूत्रे वार्तिकम्---
"उपमानस्याद्युदात्तत्ववचनं ज्ञापकमनुबन्धलक्षणे स्वरे प्रत्ययलक्षणप्रतिषेधस्य" इति ।
अन्यथा चञ्चेव चञ्चा, वर्ध्रिकेव वर्ध्रिका । संज्ञार्थस्य कनो "लुम्मनुष्ये" इति लुब् । तत्र प्रत्ययलक्षणेन नित्स्वरेणैव तत्सिद्धेरित्याद्युदात्तवचनमुक्तार्थज्ञापकमेव । न च "न लुमताऽङ्गस्य" इति प्रतिषेधः । अङ्गाधिकारबहिर्भावात् । निदन्तस्यादेरित्यर्थाद्, वस्तुतोऽङ्गकार्यत्वाभावाच्च । "पथिमथोः" इति स्वरप्रतिषेधवचनं तु कर्त्तव्यमेव । तस्यानुबन्धलक्षणत्वाभावात् उक्तज्ञापकेन दुर्वारत्वात् । न च ज्ञापकस्य स्वरमात्रविषयकत्वं कल्प्यम् । आमन्त्रितसिज्लुक्‌स्वरयोरसिद्धिप्रसङ्गात् । न च सप्तमीनिर्द्दिष्टे स्वरे प्रत्ययलक्षणप्रतिषेधो ज्ञाप्यः । `सर्वस्तोमः' इत्याद्युदात्तानुपपत्तेः ।
यद्वा सप्तमीनिर्द्दिष्टस्वरे प्रत्ययलक्षणं न भवतीति ज्ञाप्यम् । "सर्वस्य सुपि" इत्यत्र सप्तमीमपनीय सुप इति षष्ठ्यन्तं पाठ्यम् ।
अत्र वदन्ति । ज्ञापकं द्वेधा सामान्यापेक्षं विशेषापेक्षं च । यदि "भह्री" इत्यत्र पूर्वग्रहणेन सप्तम्यर्थपक्षे तदन्तग्रहणपक्षे च यत्र फलभेदस्तत्रैव "सौवर्यः सप्तम्यस्तदन्तसप्तम्य" इति ज्ञाप्यते । तत्र हि पूर्वग्रहणाभावे तदन्त एवोदात्तः स्यात् । सप्तम्याश्रयणे तु पितं विहाय भीप्रभृतीनामेवोदात्त इति फले भेदः ।
एवं "उपोत्तमं रिति" "चङ्यन्यतरस्याम्" इत्यादौ बोध्यम् । "ञ्नित्योदिर्नित्यम्" "पथिमथोः सर्वनामस्थाने" इत्यादौ तूभयथाऽपि प्रकृत्यादेरेवोदात्तत्वमिति न कश्चिद्भेदः । अतो नात्र तदन्तसप्तमीत्वम् । अतो वस्तुतोऽङ्गस्य कार्यं भवत्येवेति "न लुमताऽङ्गस्य" इति प्रतिषेधप्रवृत्त्या न चित्स्वराद्यापत्तिरिति । प्रकृतसूत्रस्थभाष्यकैयटस्वरसोऽप्येवम् । षाष्ठतद्ग्रन्थास्तु सामान्यापेक्षज्ञापकाभिप्राया इति दिक् ।
`अत्रय' इत्यत्रापि नोक्तस्वरापत्तिः, तद्धितस्यैव कितोऽन्तोदात्तविधानात् । अत्र च तस्य लुप्तत्वात् । प्रत्ययलक्षणस्यान्यदीयकार्यस्यैव प्रत्ययलोपेऽपि विधानात् । प्रत्ययस्य तु यत्कार्यं तस्य तल्लोपेऽनुपपत्तेः । एकनिरूपितयोर्निमित्तत्वकार्यित्वयोरेकस्मिन्नसम्भवात् । न च तदपि प्रत्ययान्तस्यैव कार्यमिति वाच्यम् । न हि प्रत्ययग्रहणे तदन्तस्येति स्वतन्त्रं वचनम् किं तु विशेषणं तदन्तस्य संज्ञेत्येतदर्थमूलकम् । विशेषणविशेष्यभावे च कामचारात् तत्र प्रत्ययस्य विशेषणत्वानङ्गीकारात् । लोपस्याभावरूपतया अन्तस्य तदुदात्तस्य च बाधात्स्थानिवत्सूत्रस्याप्यप्रवृत्तेः । `राजपुरुष' इत्यादावपि नाल्लोपः । वस्तुतो यदङ्गमिति व्याख्यानाद्भसंज्ञानिषेधात् सुबन्तत्वप्रवृत्तपदसंज्ञया च नकारस्य लोपात् । `अहर्ददाति' इत्यत्र रेफोऽपि सिद्धः । "असुपि" इति निषेधस्य वस्तुतोऽङ्गकार्यत्वेन सुब्लुक्यप्रवृत्तेः । न च वार्त्तिकमते दोषो दुर्वारः । `अह्नो रविधौ' इति वचनारम्भात् । न च "असुपि" इति वचनस्य सामर्थ्यात्प्रत्ययलक्षणं नास्तीति वाच्यम् । `दीर्घाहा निदाघः' इति हल्ङ्यादिलोपेऽपि रेफापत्तेः । एतेन "असुपि" इति पर्युदासः, `अहर्ददाति' इत्यत्र दाधातोः सुब्भिन्नस्य सत्त्वात् रेफ इति परास्तम् । न च रूत्वरत्वयोरसिद्धतया दुर्बलत्वात्पूर्वं नलोपात् अकारस्यैव रुत्वरत्वयोरापत्तिः । तदुभयारम्यसामर्थ्यात् तद्विषये नलोपविरहात् । अकारस्य रेफे रुत्वे वा विशेषाभावात् । न च `अहर्गच्छ' `हे दीर्घाहो निदाध' इत्यत्र तदारम्भः चरितार्थः, तत्र नलोपनिषेधादिति वाच्यम् । तथा ऽपि "रूपरात्रि" इति रुत्ववैयर्थ्यात् । न चैतदपि सम्बुद्धौ चरितार्थम् । "अहन्" इत्यावर्त्य एकेन नलोपाभावो निरूप्यते, द्वितीयेन च रुत्वं विधीयते इति व्याख्यानात् ।
स्यादेतत् । परमवाचा, परमगोदुहा, परमलिहा, परमदण्डिना, परमदिवा, परमकुमार्या, इत्यत्रान्तर्वर्तिविभक्तिनिबन्धनायाम् उत्तरपदस्य पदसंज्ञायां "चोः कुः" "दादेर्धाततोर्घः" "होढ" "न लोपः प्रातिपदिकान्तस्य" "दिव उत्‌" "इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च" इत्येतेषां प्रवृत्तिः स्यात् । न च भसंज्ञया बाधः । भिन्नावधिकत्वात् । समस्तपदस्य भसंज्ञा उत्तरपदमात्रस्य तु पदसंज्ञेति । अत्र भाष्यम्---भसंज्ञायां सुबन्तमित्यनुवर्त्यम् । तथा च यज्ञादावसर्वनामस्थाने परे यस्मात्प्रत्ययविधिस्तथाभूतः पूर्वसमुदायो भसंज्ञः, तदवयवसुबन्तसद्भावे तु तदपि भसंज्ञं भवतीत्यर्थः । प्रधानशिष्टा च भसंज्ञा राज्ञ इत्यादौ सुबन्तावयवाभावेऽपि प्रवर्त्तत एव, "कुर्त्तुः क्यङ्‌ सलोपश्च" इति हंसायते इत्यादाविव ।
नचैवमपि सर्वनामस्थाने दोषो दुर्वारः तत्र "असर्वनामस्थाने" इति पदत्वनिषेधात् । तत्रापि सुबन्तमित्यनुवृत्तेः प्रतिषेधसामर्थ्याच्च "अनन्तरस्य विधिर्वा" इत्यस्य न प्रवृत्तिः । "सर्वनामस्थाने परे पूर्वसमुदायस्तदवयवभूतं सुबन्तं च पदसंज्ञं नेति तदर्थः । समुदायस्य "स्वादिषु" इति, अवयवस्य तु सुबन्तमिति प्राप्तायाः पदसंज्ञाया निषेधात् `परमवाचौ' इत्यादि सिद्धम् । न चैवं `सुवाक्' `सुराजा' इत्यादौ कुत्वनलोपादिकं न स्यात्, समुदायावययोर्द्वयोरप्युक्तरीत्या पदसंज्ञानिषेधात् इति वाच्यम् । "असर्वनामस्थाने" इत्यत्र "यचि भम्" इति सूत्रात् यचीत्यपकृष्य अजादौ सर्वनामस्थाने पदत्वनिषेधात् सौ पदसंज्ञासद्भावात् । न चैवं श्रूयमाणेऽपि सौ पूर्वस्य पदसंज्ञापत्तिः । इष्टत्वात् । तस्मात्समासचरमभागस्याजादौ सुपि न क्वचित्पदसंज्ञेति सिद्धण् ।
न चैवं `दूरान्मुक्तः' इत्यादावलुक्, `होतापोतारौ' इत्यादावनङ्‌ च न स्यात् उत्तरपदे तद्विधानादिति वाच्यम् । उत्तरपदशब्दस्य समासचरमावयवे रूढतया तत्र पदसंज्ञाऽनपेक्षणात् । न चैवमपि `दधिसेचौ' इत्यादौ "सात्पदाद्योः" इति षत्वनिषेधो न स्यादिति वाच्यम् । पदादादिः पदादिरिति व्याक्यानात् । पदोत्तरत्वे सति शब्दान्तरस्यादिरिति यावत् । न च रामेषु इत्यादावपि निषेधापत्तिः । "स्वादिषु" इति या पदसंज्ञा तामादायोक्तनिषेधस्याप्रवृत्तेः । तत्र च सातिग्रहणस्यैव ज्ञापकत्वात् । युक्तं चेदम् । पदस्यादिरिति व्याख्याने `दधिसेचौ' इत्यादौ षत्वस्य दुर्वारत्वात् । "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः" इति वक्ष्यमाणत्वात् । न च बहुसेचौ इत्यादौ षत्वापत्तिः बहुचः प्रत्ययत्वेनापदत्वादिति वाच्यम् । बहुचः परस्य नेति वचनस्यारभ्यत्वात् । तथा हि पदात् इत्येव वाच्यम् । पदात्परस्य सस्य षत्वं न स्यादित्यर्थः । आदिपदस्थाने च बहुच् प्रक्षेप्यः बहुचः परस्य सस्य न षत्वमिति । वार्तिककृता तु "परमवाचा' इत्यादिसाधनाय बहुवचनमेवारब्धम् । तदाह---
"उत्तरपदत्वे चापदादिविधौ" इति ।
उत्तरेत्यनेनोत्तरपदं गृह्यते । तस्य पदत्वे इति समासः । समासचरमावयवस्य पदसंज्ञायां कर्त्तव्यायां लुमता लुप्ते प्रत्ययलक्षणं न भवति । `दधिसेचौ' इत्यादावपि पदसंज्ञानिषेधवारणाय अपदादिविधाविति । पदादिविधौ तु कर्त्तव्ये भवत्येव प्रत्ययलक्षणमित्यर्थः । एवं च प्राक् सुबुत्पत्तेः समासोऽत्र नाभिधेयः । `धनक्रीता' इत्यादिसिद्धये तदनित्यत्वस्वीकारात् ।
कैयटस्तु नायमुपपदसमासः किं तु `दध्नः सेचौ' इति षष्ठीसमासः, अनभिधानाच्च सोपपदान्न विच्, अतो `दधिषेचौ' इत्यादेः नापत्तिरित्याह । एवमपि "बहुच्पूर्वस्य च" इति वचनं कार्यमेव, बहुचि कृते विशिष्टस्यार्थवत्त्वात्प्रातिपदिकत्वात्सुपो लुकि पुनर्विशिष्टात्सुबन्तरोत्पत्तेर्वक्ष्यमाणत्वात् अन्तर्वर्तिविभक्त्या पदसंज्ञामाश्रित्य कुत्वं मा भूत् इति ।
अत्र वदन्ति---"प्रत्ययलोप" इति सूत्र एव `उत्तरपदत्वे च पदादिविधौ' `बहुच्पूर्वस्य' इति पठनीयम् । पदादिविधावेव प्रत्ययलक्षणं न तु पदान्तविधौ इति नियमार्थं चेदं वाक्यद्वयम् । एवं च नञ्‌परित्यागाल्लाघवम् । एवं च सावपि पदम् इत्यपि नास्ति । पूर्वोक्तप्रकारस्यानादरणात् । अत एव हल्ङ्यादिसूत्रे भाष्यम्---
`अथ सावपि पदं भवति । एवमप्युभयतः स्पाशा रज्जुः' इति । `अभूवन्' इत्यत्र जुस् न भवति । आत इत्यस्य नियमार्थत्वात् । न च देवदत्तं याजयाञ्चकार इत्यत्र लुकं बाधित्वा परत्वात् तिबादिषु "आमः" इति तेषां लुकि प्रत्ययलक्षणेन तिङन्तत्वात् आमन्तस्य निघातस्ततः परस्य निघातनिषेधश्च स्यादिति वाच्यम् । येननाप्राप्तिन्यायेन लावस्थायामेव तिबादीन् बाधित्वा लुक्‌प्रवृत्तेः । तदुक्तम्---
`आमि लिलोपात् तस्य चानिघातस्तस्माच्च निघात्' इति ।
न च देवदत्तो युष्मत्पुत्र इत्यादौ षष्ठ्यन्तस्य विहिता युष्मदस्मदोरादेशाः स्युरिति वाच्यम् । स्थग्रहणेन श्रूयमाणायां विभक्तावेव तद्विधानात् । "समये तिष्ठ सुग्रीव" इत्यादौ समयं मा हासीरित्यर्थावगमात् तिष्ठतेरहानौ वृत्तेः । न च विभक्तिविशिष्टयोरेव वस्नसादि न तु प्रकृतिभागमात्रस्येत्यर्थं स्थग्रहणमिति वाच्यम् । षष्ठीचतुर्थीद्वितीयानामिति निर्देशेनापि तत्सिद्धेः ।
अथ "चिणो लुक्" इति तलोपे कृते `अवधि भवता दस्युः' `अगायि भवता ग्रामः' `अध्यगायि भवता अनुवाकः,' इत्यादौ "हनो वध लिङि" "लुङि च", "इणो गा लुङि", "इङश्च" । "विभाषा लुङ्‌लृङोः" इति हनिणिङ्गादेशा न स्युरिति चेन्न । लुङि यदार्द्धधातुकं तस्मिन्विषये तेषां विधानात् लादेशात्प्रागेव तेषआं प्रवृत्तेः । तस्माद्वस्तुतोऽङ्गस्य कार्यं न भवतीति सिद्धान्तः ।

अचोऽन्त्यादि टि 64 ।

निर्द्धारणे षष्ठी । जातावेकवचनम् । अचां मध्ये योऽन्त्योऽच्‌ तदादि शब्दस्वरूपं टिसंज्ञम् । प्रदेशाः "टित आत्मनेपदानाम्" इत्यादयः । अन्त्य आदिर्यस्येति बहुव्रीहिः । नित्यसापेक्षत्वात्समासः । यत्र तु हलन्तस्तत्र तद्विशिष्टस्यैव संज्ञा । तेन कुरुते इत्यादावकारस्य, कुर्वाते इत्यादौ च आकारमकारयोरेत्वम् ।

अलोऽन्त्यात्पूर्व उपधा 65 ।

अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः । "पुगन्तलघूपधस्य च" इति इकारस्य गुणः । ननु पूर्वस्यावध्यनवच्छिन्नस्यैवोपादानात् शास इत्यत्र शकाराकारसमुदायस्यैवोपधासंज्ञा स्यात् । समुदायावयवसन्निधौ एकाज्द्विर्वचनन्यायेन समुदायस्यैव कार्यित्वात् । तथा च "शास इदङ्‌हलोः" इतीत्त्वं समुदायस्यैव स्यात् इति चेन्न । पूर्वपदस्योत्सर्गतोऽव्यवहितपूर्वपरत्वात् । समुदायसंज्ञायामपि "अलोऽन्त्यस्य" इति परिभाषया ऽनतिप्रसङ्गाच्च ।
अथ "नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे" इति प्रतिषेधः स्यात्, शब्दस्यावृत्तिर्न तु अर्थस्येत्यभ्यासस्यानर्थकत्वात् "भृञामित्" इत्यादेः सर्वादेशत्ववारणाय अनभ्यासेत्युक्तम् । विकारश्च भावात्मक एव, तेन देहि इत्यत्र अभ्यासलोपः सर्वादेश एवेति । मैवम् । "तस्य लोप" इति सूत्रे ञिटुडूनां सर्वलोपार्थं "तस्य" इति पदोपादानादेतस्याः सूत्रानभिमतत्वात् । भाष्यकृताऽपि तत्प्रयोजनानामन्यथोपपादितत्वात् । तथा हि "अव्यक्तानुकारणस्य" इति पररूपं तावदन्त्यस्य न भवति । "नामेडितस्यान्त्यस्य तु वा" इति ज्ञापकात् । अन्यथाऽऽम्रेडितस्य वेत्येव ब्रूयात् । "घ्वसोरेद्धौ" इत्यत्रापि लोपग्रहणानुवृत्तावपि पुनर्लोपग्रहणसामर्थ्यात् सर्वादेशः । तथाचैवं सूत्ररचना "घोरभ्यासस्य लोपोहौ" । व्याख्यातम् । "असेश्चैत्" अस्तेर्घोश्च एद्भवति हौ परे इत्यर्थः ।
यद्वा लोपस्‌श्‌ इति छेदः । संज्ञायां शकारानुबन्धस्य प्रयोजनाभावादादेशे संज्ञिनि सर्वादेशत्वप्रवृत्तिः । "द्विशकारको निर्द्देश" इति भाष्यम् । तत्र लोप इति भिन्नं पदम् । लोपशब्दस्य कृदन्तस्य संज्ञिनाऽर्थेनार्थवत्त्वाद्विभक्तौ कृतयां शकारः प्रतिनिर्द्दिश्यते । तस्य चोपदेश एव इत्सज्ञायां सर्वादेशो लोपः सम्पद्यते । न च झलि परे यः संयोगस्तदादित्वात्सोर्लोपे एकशकारकपाठेनैव झलि परे यः संयोगस्तदादित्वात्सोर्लोपे एकशकारकपाठेनैव निर्वाह इति वाच्यम् । स्पष्टार्थं न तल्लोप इति भावात् । अत एव "अन उपधालोपिनः" इत्यादावल्लोपो न कृतः ।
यद्वा "झलो झलि" इतिवत् निमित्तिकार्यिणोरेकपदस्थत्व एव "स्कोः" इत्यस्य प्रवृत्तिः । न च `आभ्याम्' इत्यादौ "हलि लोप" इति अककारस्य इदम इदो विहितस्य लोपस्यान्त्यप्रतियोगिकत्वापत्तिर्दुर्वारेति वाच्यम् । "अनाप्यकः" इत्यस्मात् `अन्‌' इत्यनुवृत्त्या हलीति सप्तम्या अन् इत्यत्र षष्ठीं प्रकल्प्य अन एव लोपविधानात्, अलोऽन्त्यपरिभाषया नकारमात्रस्य लोपे "अतो गुणे" इति पररूपे च `आभ्याम्' इति सिद्धेः । न च तथापि "अत्र लोपो ऽभ्यासस्य" इत्यत्रान्त्यादेशत्वप्रसङ्गतादवस्थ्यम् । अत्राभ्यासत्वाश्रये लोपो, न तु तदेकदेशे इति व्याख्यानात् ।
ननु ददौ, दधौ इत्यादिवारणाय सनीत्यस्य, जिज्ञपयिषति इत्यादिवारणाय सादाविति सन्विशेषणस्य, यियक्षति इति वारणाय मीमेत्यादिप्रकृतिविशेषाणाम्, "मुचोऽकर्मकस्य गुणो वा" इति मुमुक्षति गाम् इत्यादिवारणाय विषयविशेषस्य च लाभार्थमेवात्रग्रहणमिति चेन्न । अनुवृत्त्यैवैषां सिद्धेः ।
न च तथाऽपि "विभाषा भवद्भगवदघवतामोच्चावस्य" इति वार्तिकेन विहित ओकारो वकारमात्रस्य स्यात् इति वाच्यम् । वस्येत्यपहाय अवस्येति निर्देशसामर्थ्यात्सर्वादेशत्वसिद्धेः ।
तस्मात्समुदायसंज्ञायामपि न दोषः । संयोगोपधत्वादिव्यवहारोऽप्यत्र सङ्गच्छते ।
पक्षान्तरे त्ववयवधर्मस्य समुदाये समारोपो बोध्यः ।
यद्वा, अल इति जसन्तम् । न च पूर्व इत्येकवचनान्तेना सामानाधिकरण्यानुपपत्तिः । पूर्वे इति जसन्तस्यैव छेदात् । अन्त्यस्याल्‌त्वलाभस्त्वार्थः ।
यद्वा, अल इति निर्धारणे षष्ठी । जातावेकवचनम् । अलां मध्येऽन्त्यात्पूर्वोऽल्‌ इत्यर्थः ।।

तस्मिन्निति निर्दिष्टे पूर्वस्य 66 ।

सप्तमीनिर्देशे पूर्वस्यैव कार्यं स्यात्तच्च निर्द्दिष्टे अव्यवहितोच्चारिते । निश्शब्देन नैरन्तर्यस्य दिशिना चोच्चारणस्य लाभात् । नियमार्थं चेदम् । "इको यणचि" इत्यादीनामनियतप्रवृत्तिप्रसञ्चको यस्तर्कितोऽभावस्तत्प्रतियोगित्वात् । यदीदं वचनं न स्यात् तर्हि पूर्वस्य परस्य समीपस्यानन्तरस्य व्यवहितस्याव्यवहितस्य वा इको विनिगमकाभावात् यणादेशः स्यात् । सति त्वस्मिन्पूर्व एव विश्राम्यतीति । "इको यणचि" इत्यत्र हि भावलक्षणा सप्तमी । अचि सतीत्यर्थः । सत्त्वं च पूर्वपरोभयसाधारणम् । एवमुपश्लेषोऽपि । तथाच कार्यप्रतियोगित्वनिमित्तत्वयोरेकत्र युगपदसम्भवात् `दुध्युदकम्' इत्यादौ पर्यायेण द्वयोर्यण्‌ स्यात् अतः पूर्वस्यैवेति नियम्यते `अग्निचित्' इत्यत्र व्यवहितपूर्वेऽपि प्राप्तस्त्वव्यवहितस्यैवेति ।
यत्तु सत्‌सप्तम्यां "तस्मिन्‌" इति परिभाषा नोपतिष्ठते इति "श्नान्नलोपः" इति सूत्रे भाष्यकैयटयोरुक्तम् । तत् पूर्वपक्षिणः प्रौढिवादमात्रम् ।
ननु तस्मिन्निति शब्दो यत्र निर्द्दिश्यते यथा---"तस्मिन्नणि च युष्माकास्माकौ", तत्रैवायं प्रवर्त्तेत । `गवित्ययमाह' इत्यादौ इतिशब्देन शब्दस्वरूपस्यैव बोधात् । न च तत्र प्रयोजनाभावः । हे यौष्माकीण अस्मभ्यं देहि, हे आस्माक युष्मभ्यं ददामि' इत्यादौ खञण्‌भ्यां परस्यादेशव्यावृत्तेः फलत्वात् । मैवम् । लोके शब्दस्यार्थपरत्वात् इतिना शब्दपरत्वकल्पनात्, व्याकरणे तु शब्दपरत्वात् इतिनाऽर्थपरत्वसिद्धेः । इतिकरणस्य पदार्थविपर्यासकरत्वात् । तत्रैव पूर्वशब्दोच्चारणापत्तेश्च । एतत्सूत्रारम्भापेक्षया लाघवात् । तस्मात्सप्तम्यन्तानुकरणमेव तस्मिन्निति । सर्वनाम्ना अचि हलीति विशेषाणां संग्रहात्, "तस्यापत्यम्" इत्यादिवत् ।।

तस्मादित्युत्तरस्य 67 ।

पञ्चमीनिर्द्देशे उत्तरस्यैव कार्यं स्यात् तच्चाव्यवहितस्य । तेन "तिङ्‌ङतिङः" इति निघातः `अग्निमीळे' इत्यत्रैव न त्वीळेऽग्निमित्यत्रापि ।
दिग्योगलक्षणा चेयम् । कारकविभक्तेरसम्भवात् । तथाचोत्तरशब्दवत्पूर्वशब्दस्याप्यध्याहारापत्तेः व्यवहितस्याप्युत्तरस्य कार्यप्रसङ्गाच्च नियमार्थमिदम् । तेन `उत्थानम्' इत्यत्र "उदः स्थास्तम्भोः" इत्यस्य न प्रसङ्गः ।
यद्वार्त्तिकम्---
"तस्मिंस्तस्मादिति पूर्वोत्तरयोर्योगयोरविशेषान्नियमार्थं वचनं तध्युदकं, पचत्योदनम्" इति ।
इहापि तस्मादिति पञ्चम्यन्तानामनुकरणम् न तु यत्र तस्मादिति शब्दस्तत्रैतदुपस्थित्यर्थम्, पूर्वोक्तयुक्तेः ।
नन्वत्र प्रयोजनाभावादेव शङ्काऽनुदयः । "तस्मान्नुड़द्विहलः" "अत आदेः" इति दीर्घादकारात्पूर्वस्याङ्गस्यासम्भवात् । "तस्माच्छसो नः पुंसि" इत्यत्रापि वृक्षान्‌ इत्यादौ पूर्वसवर्णदीर्घात् पूर्वस्य षकारस्य नत्वापत्तेः षष्ठीनिर्द्दिष्टस्य शसो नत्वमिति व्याख्यानेन वारणात् ।
अत्राहुः---उच्चरत आनुपलभत इति प्रयोजनम्, दीर्घीभूतादाकारात्पूर्वस्योच्चरच्छब्दप्रकृतिकस्य शसो नत्वं मा भूदित्युक्तिसम्भवसत्त्वात् ।
एवम् "तस्मान्नुडचि" इत्यत्रापि अनश्व इत्यादौ लुप्तनकारान्नञः पूर्वं नुडागमो मा भूदिति योजनीयम् ।
इह सूत्रद्वये षष्ठीप्रक्लृप्तिपक्षोऽपि भाष्ये उक्तः । स यथा---"षष्ठी स्थानेयोगा" इति सूत्रादिह षष्ठीत्यनुवृत्त्या सत्यप्यर्थनिर्देशे ऽव्यवहितस्य पूर्वस्य षष्ठी, पञ्चम्यर्थनिर्देशे तादृशस्योत्तरस्य षष्ठी स्यादित्यर्थः । इक इत्यादौ षष्ठ्याः सत्त्वात्तदनुवादेन पूर्वस्यैषा, न तूत्तरस्य न वा पूर्वस्यापि व्यवहितस्येत्येतदेव बोध्यते । "आने मुक्" इत्यादौ तु षष्ठ्यपि प्रकल्प्यते । अन्यत्पूर्वंवत् । सा चानियतयोगात्स्थानषष्ठी । यदुत्तरं स्थानषष्ठी तस्यैव च कार्यनियमोऽर्थात्सिद्धः । यत्र तूभयनिर्द्देशस्तत्रोभयोर्न प्रकल्पकत्वम् । कार्यित्वनिमित्तत्वयोर्युगपदेकस्मिन्नसम्भवात् । "एकः पूर्वपरयोः" इति ज्ञापकाच्च । अन्यथा "आद्‌गुणः" इत्यादौ आदिति पञ्चम्याऽचीति सप्तम्याः षष्ठीत्वं कल्प्यत इत्युभयोर्गुणादेशसिद्धौ तद्वैयर्थ्यात् । तथा च तत्र कैयटः---
सूत्रद्वयप्रमाणत्वात् द्वे भवेतां प्रकल्पिके ।
षष्ठ्या विभक्ती तेनात्र ज्ञापनार्थत्वमाश्रितम् ।।
द्वे पञ्चमीसप्तमीरूपविभक्ती । षष्ठ्याः परस्परोत्तरषष्ठ्या इत्यर्थः । किं तु परत्वानवकाशत्वाभ्यां नियमपक्षवत्षष्ठीप्रकल्पनपक्षेऽपि व्यवस्था । तथा हि---"आने मुक्" इत्यत्र सप्तम्यनवकाशा "अतो येयः" इति पूर्वत्र चरितार्थाया अत इति पञ्चम्याः षष्ठीं प्रकल्पयति । एवम् "ईदासः" इत्यास इति पञ्चमी निरवकाशा "आने" इति सप्तम्याः पूर्वत्र सावकाशायाः । "तास्यनुदातेद्‌" इति सूत्रेऽपि "सार्वधातुके" इति सप्तमी अभ्यस्तसिजर्थत्वादुत्तरत्र सावकाशेति तासेरित्यादिपञ्चम्येव षष्ठीं प्रकल्पयती---लसार्वधातुकस्य स्यतास्यादिभ्य अनुदात्तत्वमिति । च न तत्र लसार्वधातुकमिति प्रथमान्तपाठान्न सप्तमीति वाच्यम् । "तस्यादिभ्योऽनुदात्तत्वे सप्तमीनिर्देशोऽभ्यस्तसिजर्थः" इति वक्ष्यमाणत्वात् । एवम् "बहोर्लोपः" इत्यत्र बहोरिति पञ्चम्यनवकाशा इष्ठेमेयस्सु इति सप्तम्याः षष्ठीं प्रकल्पयति---बहोः परेषामेषां लोपः स्यादित्यर्थः । अत एव "भूच बहोः" इति षष्ठीनिर्देशः । "गतो णित्" इति पञ्चमी सर्वनामस्थाने इति सप्तम्याः षष्ठीं प्रकल्पति । गोशब्दस्य णित्त्वे प्रयोजनाभावाच्च । न च `तिष्ठति गौः' इत्यत्र पूर्वस्य वृद्धिः फलम् । गोशब्दं प्रति तिष्ठतेरनङ्गत्वात् । "आमि सर्वनाम्नः सुट्‌" इत्यत्रापि पञ्चम्यनवकाशा आमीति सप्तम्या उत्तरत्र सावकाशायाः षष्ठीं प्रकल्पयति । न च आदित्यनुवृत्तया पञ्चम्या सामानाधिकरण्याददन्तात्सर्वनाम्न इति पञ्चम्यपि कृतार्थेति वाच्यम् । तथाऽपि यथोद्देशपक्षे परत्वात् "तस्मादित्युत्तरस्य" इत्येतत्प्रवृत्तेः । तदुक्तम्---
"उभयनिर्द्देशे विप्रतिषेधात्पञ्चमीनिर्द्देश" इति ।
इदं चाभ्युपेत्योक्तम् । वर्णाश्रमेतराणाम् इत्यादिवारणाय सर्वनाम्नो विहितस्याम इति, येषाम् इत्याद्यर्थम् अकारात्परस्येति व्याख्यानात् । अकारान्तात्सर्वनाम्नो विहितस्याम इति व्याख्याने तु येषाम् इत्यादौ न स्यात् । दीर्घादित्यत्र तु षष्ठ्याः स्थाने पञ्चमी, छान्दसव्यत्ययात् । तेन दीर्घस्यैव तुक् न तु छस्य, "विभाषा सेनासुराच्छाया" इति लिङ्गाच्च । अन्यथा छकारोत्तरं तुक्‌प्रसङ्गे श्चुत्वे "खरि च" इति चर्त्वे चकारद्वयं स्यात् ।
ननु प्रत्ययविधावपि "गुप्तिज्‌किद्‌भ्यः" इति पञ्चम्याः सन् इति प्रथमायाः षष्ठीप्रकल्पकत्वं स्यात् । न चेष्टापत्तिः आदेशान्तरप्रतिनिर्देशाभावात्सनः सनादेशे दोषाभावादिति वाच्यम् । स्थानिन एवात्र निर्दिष्टत्वादादेशस्योपदेशाभावादित्संज्ञाऽनुपपत्तेः । स्थानिनोऽप्युत्पत्तिकाल एव निवृत्त्यभिमुखतया प्रतिपन्नस्य इत्संज्ञाऽनन्वयात् ।
अत्राहुः---
परत्वविशिष्टस्य सन उत्पादनेनोपक्षीणायाः पञ्चम्या नास्ति प्रकल्पकत्वमिति । षष्ठी ह्यनुवादविभक्तिः । स च यथाप्राप्तस्य । प्रत्ययविधौ च तस्य पूर्वमप्रसिद्ध्याऽनुवादानुपपत्तेः । अनियमे नियमकारिण्याः परिभाषाया अनियमप्रसक्त्यभावे प्रवृत्त्यनर्हत्वाच्च । तस्मात्प्रत्ययविधौ पञ्चम्यो न प्रकल्पिका इति ।।

स्वं रूपं शब्दस्याशब्दसंज्ञा 68 ।

शब्दस्य स्वकीयं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना इति दीक्षिताः ।
नव्यास्तु "अणुदित्सवर्णस्य" इत्यादिषु प्रथमान्तानां संज्ञासमर्पकत्वेन षष्ठ्यन्तानां संज्ञिसमर्पकत्वेन दृष्टत्वात् स्वं रूपं शब्दस्य संज्ञा स्यादित्यर्थः ।
तथा च प्रत्ययलोपसूत्रे भाष्यम्---
"स्वं रूपं शब्दस्य संज्ञा भवतीति हन्तेरपि हन्तिः संज्ञा भविष्यतीति अत्रापि रूपं शब्दसंय संज्ञेति" इत्याह ।
हरदत्तस्तु--`ग्राह्यमित्यध्याहार्यम् । शब्दस्येति "कृत्यानां कर्त्तरि वा" इति षष्ठी । तेन शब्दः स्वमेव रूपं ग्राहयतीत्यर्थः । रूपपदं चाग्न्यादिपदवृत्तिजातिपरम् । व्यक्तिद्वारा च कार्ययोग, इति व्याचख्यौ ।
तेन "अग्नेर्ढक्" इति अग्निशब्दादेव ढक्‌ न तु वह्निशब्दात् ।
अशब्देति किम् । "उपसर्गे घोः" इत्यादौ घुशब्दस्वरूपं मा ग्राहि, किं तु दाधारूपा धातव एव गृह्येरन्निति । तेन घुधातोः शब्दार्थान्न किप्रत्ययः । स्वपदं च यत्र यः शब्द उपात्तस्तत्परम् । शब्दे शास्त्रे संज्ञेति सप्तमीसमासः । षष्ठीसमासे कर्मादिष्वर्थसंज्ञासु स्वरूपग्रहणापत्तेः ।
ननु रूपग्रहणं विनाऽपि स्वशब्देन तदेव ग्राह्यम् । प्रतीतावुपदेशानपेक्षादसाधारणत्वादन्तरङ्गत्वान्नियतोपस्थितिकत्वाच्च, अर्थस्य प्रतीतौ शक्तिग्रहापेक्षत्वात् पर्यायान्तरबोध्यत्वेन साधारणत्वात्पदधीजन्यज्ञानविषयत्वेन बहिरङ्गत्वात् अनुकरणदशायामर्थानवगमादनियतोपस्थितिकत्वाच्चेति ।
अत्राहुः---इहार्थेऽपि विवक्षितो रूपवदिति ज्ञापनार्थं रूपग्रहणम् । तेन "अर्थवद्‌ग्रहणे नानर्थकस्य" सिद्धम् । ज्ञापकवशादर्थस्य, रूपं रूपमिति वचनाच्च शब्दस्येति, सिद्धमर्थवद्‌ग्रहणम् । तेन `काशे' इत्यादौ "शे" इति प्रगृह्यत्वं नेत्यादि । यत्र त्वर्थवद्रूपेण शब्दो नाश्रीयते तत्र नेदमुपतिष्ठते । यथा---वर्णग्रहणेषु,---टेरेत्वं, तेनानर्थकस्यापि टेरेत्वं भवति ।
अत्र भाष्यकृतः---नैतत्समारभ्यम् । लोके हि योग्यतालक्षणेन सम्बन्धेन शब्दोऽर्थं बोधयति । व्याकारणेऽपि पशुरपत्यं देवता प्राञ्च उदञ्चो भरता इत्यादावर्थ एव गृह्यते । "अग्नेर्ढक्‌" इत्यादौ त्वर्थेन सह प्रत्ययस्य पौर्वापर्यासंभवात् शब्दस्यैव ग्रहणम् । "ङ्याप्प्रातिपदिकात्" इत्यधिकाराच्च ।
न चाशब्दसंज्ञेत्येतदर्थमारम्भः । घुसंज्ञारम्भादेव घुधातोरग्रहणात् । "व्यवहाराय नियमः" इत्युक्तत्वात् । एतेन `कुमारीघ' इत्यत्र "घरूप" इति ह्रस्वो ऽभावप्रतियोगीति व्याख्यातः । "ई हल्यघोः" इत्यत्र तु घुशब्दस्याकारन्तत्वाभावादेव नोपादानम् । पर्युदासाभावे यद्ग्रहणप्रसक्तिस्तस्यैव पर्युदासाभ्युपगमात् ।
न चार्थवद्ग्रहणपरिभआषाज्ञापनार्थम् । तस्या न्यायसिद्धत्वात् । शब्दविशिष्टस्यैवार्थस्योपस्थितेरौत्सर्गिकत्वात् विशेष्ये कार्यबाधाद्विशेषणीभूतशब्दे कार्यप्रवृत्तेर्वाच्यत्वात् अर्थस्य परित्यागापेक्षया शब्दविशेषणत्वेन कार्यिनियामकताया एव युक्तत्वात् ।
प्रत्यासत्त्या च स एव शब्दो गृह्यते, न तु तत्पर्यायः, अनुपस्थितत्वात् । अत एव आग्नेयम् इत्यादौ अग्निपदेनैवोपादाने देवतात्वम्, न तु पर्यायान्तरेणेति "विधिशब्दस्य मन्त्रत्वे" इत्यधिकरणे सिद्धान्तः । एतेन "अभिव्यक्तपदार्था ये" इति न्यायो, गौणमुख्यायोऽपि व्याख्यातः । गौणार्थस्य प्रथममनुपस्थितत्वात् ।
न चोत्तरसूत्रचतुष्टये "स्वं रूपम्" इत्यस्यानुवृत्त्यर्थम् । तां विनाऽपि निर्वाहात् । ग्रहणकसूत्रे स्वस्यापि स्वसावर्ण्यात् ग्रहणसिद्धेः । अन्यथा `अवात्ताम्' इत्यादौ "झलो झलि" इति लोपानुपपत्तेः । व्यक्तिभेदस्यात्रापि सुलभत्वात् । एवं तपरसूत्रेऽपि । "आदिरन्त्येन" इत्यत्रादिपदावृत्त्या सिद्धम् । तत्र लिङ्गं "नादिचि" इति निषेधः । अन्यथा "प्रथमयोः पूर्वसवर्णः" इत्यत्र "अकः" इत्यनुवृत्तेरकारस्य संग्रहणाभावे तदप्रसक्त्या निषेधवैयर्थ्यात् । "येन विधिः---" इत्यत्रापि "तस्य च" इति वार्त्तिककृतैव वाच्यत्वात् । तस्मात्सूत्रमिदं प्रत्याख्यातम् ।
"सित्तद्विशेषाणां वृक्षाद्यर्थम्" । सिदित्युपलक्षणम् । किञ्चिल्लिङ्गासङ्गेन विशेषाणां संज्ञेति वक्तव्यम् । तेन "विभाषावृक्षमृग---" इति सूत्रे वृक्षस् मृगस् इत्यादि पाठ्यम् । विशेषाणामेव द्वन्द्व एकवत् । प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः । इदं च न्यायसिद्धम् । पर्यायाणां सहप्रयोगाभावात् सामान्यविशेषाणां चार्थाभावात्सामान्येन विशेषाणामाक्षेपात् द्वन्द्व्सयैवानुपपत्तेः ।
"पित्पर्यायवचनस्य च स्वाद्यर्थम्" । चकारात्स्वरूपस्य विशेषाणां च ग्रहणम् । "स्वे पुषः" । रैपोषं पुष्टः, अश्वपोषम्, स्वपोषम् । इदं वाचनिकमेव ।
"जित्पर्यायस्यैव राजाद्यर्थम्" । "सभा राजामनुष्यपूर्वा" । इनसभम्, ईश्वरसभम् । नेह राजसभा, हरिश्चान्द्रसभा । इदमपि न्यायसिद्धम् । नञ्‌प्रश्लेषेण अराजेति पर्युदासाश्रयणात् राजसदृशानां तत्पर्यायाणामेव ग्रहणात् । न च स्वस्यापि स्वपर्यायत्वम् । स्वभिन्नत्वे सत्यभिन्नपवृत्तिनिमित्तकत्वं पर्यायत्वमिति स्वीकारात् । विशेषणेन स्वस्य, विशेष्येण च विशेषवाचकपदस्य वारणात् । इनशब्दो राजशब्दपर्याय इत्यस्य राजशब्दभिन्नत्वे सति राजशब्दशक्यतावच्छेदकधर्मावच्छिन्नशक्यताक इत्यर्थः ।
"झित्तस्य च तद्विशेषाणां च मत्स्याद्यर्थम्" । "पक्षिमत्स्यमृगान्हन्ति" । मात्स्यिकः, शाफरिकः । न तु पर्यायवचनानाम् अनिमिषान्हन्ति । `मीनस्येष्यत' इति भाष्यम् । मैनिकः । `मृगपक्षिणोस्तु पिन्निर्देशः कर्त्तव्यः । तेन स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणम्' इति व्याख्यातारः । इदमपिवाचनिकम् ।

अणुदित्सवर्णस्य चाप्रत्ययः 69 ।

अविधीयमानोऽण्‌ उदिच्च सवर्णस्य चकारात्स्वस्य च संज्ञा स्यात् । अत्राण्‌ परेण णकारेणेति प्रागुक्तम् । "अस्य च्वौ" । शुक्लीस्यात् मालीस्यात् । एरच् । जयः, लयः । "ऋदोरप्" स्तवः, पवः । "उरण्‌रपरः" । कार्ता, किरति । "ऋदोरप्" इत्यत्र ह्रस्वऋकारस्य तु न ग्रहणम् दीघार्णामनण्‌त्वेन सवर्णग्राहकत्वं नास्ति इति सिद्धान्तात् । एतेन "अष्टन आ विभक्तौ" इत्यादिकं व्याख्यातम् । "अप्रत्ययः" इति पर्युदासाच्च । दीर्घाणामनण्‌त्वं च ग्रहणकशास्त्र एव वाक्यापरिसमाप्तिन्यायात् । "उरण्‌" इत्यादौ तु तेषामप्युपादानम् । तेन कारक इत्यादौ रपरत्वम् । तस्माद्दीर्घाणां ग्राहकत्वं नास्ति ग्राह्यत्वं त्वस्त्येवेति फलितार्थः । अप्रत्यय इत्युदितो न विशेषणम् । "कुहोश्चुः"। चकार, जगाद । अत एव "भाव्यमानोऽण्‌ सवर्णान्न गृह्णाति" इत्याहुः । तुक्नुडादयस्तु नोदितः, "प्रतिज्ञानुनासिक्याः पाणिनीयाः" इत्यभ्युपगमात् । अप्रत्ययः किम् । विधीयमानानां प्रत्ययादेशागमानां ग्राहकत्वं मा भूत् । तेन "अत इञ्‌", "इदम िश्‌", "भुवो वुक्" इत्यादौ न दीर्घादि । न च इञादीनां अनण्‌त्वादेव न ग्राहकत्वमिति वाच्यम् । उपदेश इत्यनुवृत्त्या सूत्रान्तरगतानामेव हलामित्संज्ञाप्रवृत्तौ इकारादीनामेव विधेयत्वपर्यवसानात् ।
स्यादेतत् । "अकः सवर्णे दीर्घः" इत्यत्राकारोऽष्टादशानां ग्राहकोऽस्तु अण्‌त्वात् । अस्तु च इकारादीनामपि "आदिरन्त्येन---" इत्युक्तेः । ईकारादयो दीर्घास्तु कथं ग्राह्याः । तद्वाचकस्य इकारादेः सूत्रेऽनुपादानात् । अक्‌शब्देन तदुपस्थितिरिति चेत्, तर्हि वाक्यार्थे तेऽनुयन्तु । पदार्थसंसर्गस्य वाक्यार्थत्वात् । न तु तेऽपि स्वार्थोपस्थापकाः । अनुच्चरितत्वात् । अत एव `ऋचं वेत्ति' इत्यादौ शब्दविशेषं वेत्ति इत्येवार्थो न तु `तदर्थं वेत्ति' इति । तथा च वार्त्तिकम्---
"तत्र प्रत्याहारग्रहणे सवर्णाग्रहणमनुपदेशात्", "ह्रस्वसंप्रत्ययादिति चेदुच्चार्यमाणसंप्रत्यायकत्वाच्छब्दस्यावचनम्" इति ।
शब्दस्याप्रतीयमानस्यावचनम् अर्थाप्रतिपादकत्वमित्यर्थः ।
अत्राहुः---प्रत्याहारग्रहणे सर्वत्र तद्वाच्यवाच्ये निरूढलक्षणा, "दीर्घाज्जसि च" इति ज्ञापकात् । तद्धि "प्रथमयोः पूर्वसवर्णदीर्घस्य निषेधः । न चाक्‌शब्दवाच्यो दीर्घो ऽस्ति । तथा च निषेधस्य निर्विषयत्वापत्तिः । आकारस्य सत्त्वेऽपि तत्र "नादिचि" इत्येव सिद्धेः । "प्वादीनाम्" इत्यादिनिर्देशाश्चेह लिङ्गमिति ।
अत्रेत्थं प्रत्यवतिष्ठन्ते---`ऋचं वेत्ति' इत्यत्र अर्थत्वेनार्थस्य कर्मतया वेदनान्वय आपाद्यते अग्नित्वादिना वा ? । नाद्यः । तादृशबोधेऽर्थपदोत्तरद्वितीयाज्ञानस्य हेतुत्वात् । नान्त्यः । तत्राप्यग्निमिति धियो हेतुत्वात् । न च यत्र कैयटोक्तरीत्या ऋक्‌शब्देन प्रकरणादिवशात् `अग्निमीळे' इत्यादिरूपा ऋक् प्रतीयते तत्र `अर्थं वेत्ति' इतिबोध आपाद्यत इति वाच्यम् । अर्थत्वविशिष्टवाचकस्य तदुत्तरद्वितीयायाश्चाज्ञानात् । ऋक्‌शब्दोत्तरं द्वितीयायास्त्वानुपूर्वीविशेषावच्छिन्नाया ऋच एव कर्मताबोधकत्वात् । अर्थस्य ऋक्‌शब्दार्थत्वाभावात् । न च ईडनादिकर्मकबोध आपाद्यः । तदुत्तरकर्मविभक्तिज्ञानविरहात् । न च `अग्निमीळ' इत्याद्यृगर्थस्य कर्मतासंसर्गेण वेदनान्वयस्तथा `अग्निमीळे वेत्ति' इत्यादिजन्य इवेति वाच्यम् । ऋचम् इत्यनेन सह वेदनस्य जनितान्वयबोधतया निराकाङ्क्षत्वात् । एतेनाग्निकर्मकवेदनबोधापत्तिरपि निरस्ता । उच्चारितत्वस्य तु शाब्दबोधकारणतावच्छेदके न निवेशः । पुस्तकदर्शनादिना शब्दस्मरणादपि तदुत्पत्तेः । शब्दोपस्थितशब्दस्य नार्थबोधकत्वम्, लिप्याद्युपस्थितस्य त्वस्त्येवेति वैषम्ये च मानाभावात् । एतेन देवदत्तपदस्य `घटम्' इति द्वितीयैकवचनान्तपदे गृहीतसङ्केतस्य `देवदत्तं वेत्ति' इति वाक्यात् घटकर्मकवेदनबोधापत्तिरपि निरस्ता । घटमिति पदकर्मकवेदनान्वयबोधेन निराकाङ्क्षत्वात् । अगादिसंज्ञानां षष्ठ्यादिविशिष्टे इकारादौ सङ्केतज्ञानाभावाच्च ।
वार्त्तिकस्य त्वयमभिप्रायः---"अकः सवर्णे---"इति वाक्यात् दीर्घोद्देश्यत्वरूपं स्थानित्वम् आक्षरसमाम्नायिकानामिकारादीनामेव स्यात् न तु दीर्घाणाम् । इकारोपस्थापके अक्‌पदे स्थानित्वबोधकषष्ठ्याः सत्त्वेऽपि दीर्घोपस्थापकात् इकारादुत्तरं तदभावात्, अतः श्रीशाद्यसिद्धिरिति । अनुच्चरितानामर्थोपस्थापकतैव नास्तीत्यर्थ उक्तदोषात् । वार्त्तिकपदं त्वेवं व्याख्येयम्---प्रत्याहारे, उच्चारिते सति इति शेषः, सवर्णानामग्रहणमन्वयबोधराहित्यं प्राप्नोति अनुपदेशात्संज्ञिष्वनुच्चारणात् । एवं च मध्यगत्वाभावात् आद्यन्तरूपया संज्ञया सह तेषामसति सङ्केतपरिच्छेदे उक्तप्रतिज्ञासिद्धिः । ह्रस्वसंप्रत्ययात्---ह्रस्वैरुपस्थापनात् । उच्चार्यमाणसंप्रत्ययात्---उच्चार्यमाणस्य तत्तद्बोधानुकूलयोग्यविभक्त्यन्तत्वादिना ज्ञातस्य सम्यगुद्देश्यविधेयभावविवेकेन प्रत्यायकत्वात् अन्वयबोधकत्वात् शब्दस्यावचनम् । इष्टान्वयबोधाजनकत्वमिति । "ऋक् इत्युक्ते संपाठमात्रं गम्यते" इति भाष्यमपि अध्ययनादिर्मत्वादिविधेयोद्देश्यतयेति शेषेण शाब्दपरतयैव नेयम् । "ऋक्‌छब्देन प्रकरणादिवशात् विशिष्टसंनिवेशा ऋक् प्रतीयमानाऽपि स्वार्तं न प्रत्याययति" इति कैयटोऽप्युक्तरीत्यैव व्याख्येय इति । `उच्चार्यमाणैरेव प्रत्यायकैर्भवितव्यमिति नास्ति नियमः । बुद्‌ध्युपारूढास्तु प्रत्यायकाः । अस्ति च मध्यवर्त्तिंनां बुद्धावारोहः । ततश्च संज्ञित्वेन प्रत्याय्यमानस्यापि प्रत्यायकत्वं भविष्यति । अत्र च ज्ञापकं "दीर्घाज्जसि च" इति प्रतिषेध' इत्यादिपदमञ्जरीग्रन्थस्याप्यत्र स्वारस्यम् ।
अत्रायं निष्कर्षः । शब्दोपस्थितस्य शब्दस्य नार्थबोधकत्वम् । अनुकरणस्थले शब्दस्योपस्थितस्याप्यर्थानवबोधकत्वात् । एतच्च "स्वं रूपम्--" इति सूत्रे कैयटहरदत्तादिग्रन्येष्वेव स्पष्टम् । वार्त्तिकस्य तु नोक्तं व्याख्यानम् । अक इत्यनयैव षष्ठ्या तेषामपि स्थानित्वबोधनसम्भवात् । अत एव "द्विरेफमानय", "हिरण्यपूर्वं कशिपुं प्रचक्षते" इत्यादिस्थले ब्रमरादिवृत्तिकर्मत्वबोधः सङ्गच्छते । अक इति हि अइउऋलृइत्येषां संज्ञा । अनुकार्यानुकरणयोश्च भेद एवात्र विवक्षितः, अन्यथा विभक्त्यनुपपत्तेः । तथा च अकारोपस्थाप्यस्य अकारस्य तदुपस्थाप्यानां दीर्घाणां यथा स्थानित्वं तथाऽक्‌पदोपस्थाप्यस्य इकारादेस्तदुपस्थाप्यानां दीर्घाणां च तत् । अकारादितो वैलक्षण्याभावात् । त्समादनुच्चारितस्य कथं ग्राहकत्वमित्येव पूर्वपक्षाभिप्रायः ।
सिद्धान्तस्तु---अन्यत्र तथात्वेऽपि प्रकृते शब्दोपस्थितशब्दस्यापि ग्राहकत्वम् अन्यता ग्रहणकशास्त्रं व्यर्थं स्यात् । "अस्यच्वौ" "एरनेकाचः" इत्यादावपि अकारस्योच्चार्यमाणस्य ग्राहकात् अकाराद् भिन्नत्वात् । एतेन दीर्घस्य सम्भवेऽपि "नादिचि" इत्यस्य वैयर्थ्यम् इति निरस्तम् । अक इत्यत्राकारेणापि दीर्घग्रहणस्य युक्तिसाम्यात् अनुपपत्त्या "दीर्घज्जसि च" इत्यस्य ज्ञापकतायाः सुस्थत्वात् । अत एव यत्र स्वरूपेणोच्चार्यन्ते "अस्यच्वौ" इत्यादौ तत्रैवैषां ग्राहकत्वं स्यात् इत्यपि कैयटेन पूर्वपक्ष उक्तः । अक इत्यादावप्यकारस्य सवर्णग्राहकत्वं न स्यात् इत्यापत्तेरपि तदभिमतत्वात् ।
तदयमर्थः---गवित्ययमाहेत्यादावनुकरणस्य तन्मात्रबोधकत्वम् । अणआं तु अनुकार्यवृत्तिधर्मावच्छिन्नयावद्व्यक्तिपरत्वम् । "अस्य" इत्यादिषु अकारस्यैवानुकार्यत्वात् तद्भेदानामेव ग्रहणम् । अक इत्यादौ तु "आदिरन्त्येन" इति वचनात् यावतामनुकार्यत्वं तद्भेदानामेव ग्रहणम् । "आदिरन्त्येन" इत्यनेन अकारादिष्विव "अणुदित्" इत्यनेन तद्भेदेष्वपि सङ्केतितत्वात् । न च तत्र प्रत्येकमकारादीनामपि सवर्णग्रहकत्वस्य बोध्यतया तत एव सिद्धौ अगित्यादीनां तद्विलक्षणं ग्राहकत्वं न बोध्यते गौरवादिति वाच्यम् । "दीर्घाज्जसि च" इत्यादीनां तद्वाच्यवाच्ये निरूढलक्षणाकल्पकत्वमपेक्ष्य अगादिशब्दानाम् उक्तपरत्वकल्पकत्वस्यैव युक्तत्वात् । न च अणित्यत्र अण्‌ अक्‌ अङ्‌ अच्‌ अट्‌ इत्यादिबोधाभावात् कथं तेषां यावद्व्यक्तिपरत्वबोध इति वाच्यम् । तदाऽपि तदुपस्थितेरावश्यकत्वात् शब्दव्यपदेशादेव झल्त्वमप्यायातीति भवदभ्युपगमात् ।
न च प्रत्याहारग्रहणाभावे "अस्य च्वौ" इत्यादौ ग्राहकत्वानुपपत्तिः । अण्‌पदे तन्त्रावृत्त्येकशेषाणामन्यतमाङ्गीकारात् । अपि च भवन्मते वर्णग्रहणे ग्रहणकशास्त्रेण ग्राहकत्वम्, प्रत्याहारस्थलेतु उक्तज्ञापकलभ्यनिरूढलक्षणयेति पर्यवसितम् । तथा च अक इत्यादीनां ग्राहकत्वे ग्रहणकशास्त्रस्यानुपयोगात् अक्पदार्थबोधे च "आदिरन्त्येन " इत्यस्यैवापेक्षितत्वात्, ग्रहणकसूत्रेऽपि अण्‌पदेन दीर्घाणामुपस्थितौ बाधकाभावात् तेषामपि सवर्णग्राहकत्वापत्त्या `दीर्घाणामनण्‌त्वेन सवर्णग्राहकत्वं नास्ति' इति सिद्धान्तभङ्गप्रसङ्गः । तथा च कैयटः---`अत्र हि सूत्रे प्रत्याहारसंनिविष्टा एव गृह्यन्ते । स्वात्मनि क्रियाविरोधात् अनिष्पादाद्, ग्रहणकशास्त्रान्तराभावाच्च अत्र सूत्रे अकारादिभिराकारादीनां ग्रहणासंभवः । अन्येषु तु प्रदेशेषु अनेन सूत्रेण अकारादिभिराकारादयो गृह्यमाणाः कार्याणि लभन्ते" इति । कौस्तुभेऽप्युक्तम्---`पदार्थसंसर्गो हि वाक्यार्थः । तद्बोधश्च पदार्थबोधोत्तरभावी । ततश्चाण्‌सूत्रेण ये उपस्थितास्तेषां सवर्णग्राहकत्वं सूत्रार्थः । अण्‌शब्दश्चाक्षरसमाम्नायपठितेषु सङ्केतित इति तानेवात्रोपस्थापयति' इत्यादि ।
किं चैवं ग्रहणकसूत्रस्यैव वैयर्थ्यम् । उभयसाधारण्येन ग्राहकत्वस्य "दीर्घाद्‌---" इत्यादिनैव ज्ञापयितुं शक्यत्वात् । तस्मादुक्तरीतिरेव युक्ता । अत एव कैयटेन स्पष्टमुक्तम्---`तत्राकार उच्चारित "आदिरन्त्येन सहेता" इति मध्यपतितानां स्वरूपस्य च ग्राहकः, अस्माच्च वचनात्सवर्णानामपीत्यर्थ' इति । न च तत्प्रत्याहाराद्यक्षरमात्रपरम् । अकारस्योपलक्षणत्वात् युक्तेश्चोक्तत्वात् इति दिक् ।
वार्त्तिककारस्त्वाह---
"सवर्णेऽण्‌ग्रहणमपरिभाष्यमाकृतिग्रहणाद्‌" इति ।
अकारादिनिर्देशानां जातिपरत्वात् तदवच्छिन्नयावद्व्यक्तिलाभात् अण्‌ग्रहणं न कार्यम् । ह्रस्वत्वं तु विधेयस्थले तद्विशेषणतया विवक्षितमिति नातिप्रसङ्गः । अनुवाद्यस्थले तु तदविवक्षणात्सर्वग्रहणम् । "अष्टन आ" इत्यादौ तु दीर्घोच्चारणसामर्थ्यान् दीर्घव्यक्तिसमवेतमेव सामान्यं गृह्यते । पूर्ववया ब्राह्मणः प्रत्युपस्थेय इत्यत्र विशिष्टव्यक्तिनिष्ठब्राह्मणत्ववत् ।
यद्वा, व्यक्तिरेव शब्दार्थः । जातिस्त्वशब्दार्थोऽपि अभेदप्रत्ययहेतुरस्ति इति सर्वव्यक्तीनामभेदेनाश्रयणआत् एकव्यक्तिनिर्देशे सर्वव्यक्तिग्रहणसिद्धिः । आकृतिग्रहणात् इत्यस्य तु अयमर्थः--आकृतेरेकाकारप्रत्ययनिमित्तत्वेन प्रतिपत्तिरिति । न चात्र ऋकरिण लृकारग्रहणं न स्यात् । एकजात्यनाक्रान्तत्वादिति वाच्यम् । अत्राण्‌पदस्थाने ऋकारप्रक्षेपेण तत्सिद्धेः ।

तपरस्तत्कालस्य 70 ।

ननु तत्छब्दस्तपरपरः । तस्य कालानात्मकत्वात्तपरः कालो यस्येति सामानाधिकरण्यमनुपपन्नम् । तथा चोक्तम्---
आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे ।
भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ।।
मैवम् । तत्काल इव कालो यस्येत्युत्तरपदलोपाभ्युपगमात् । तः परो यस्मात्स तात्परो वा स्वसमकालस्य उच्चार्यतावच्छेदकधर्मावच्छिन्नस्यैव ग्राहकः । तेन अत् इत् इत्यादौ ह्रस्वत्वाववच्छिन्नषट्‌व्यक्तीनामेव ग्रहणम् । ऋदित्यादौ ऋलृइत्युभयसम्बन्धिनां षण्णां मिलित्वा द्वादशानाम् । तात्परस्योदाहरणम् । "वृद्धिरादैच्‌" इति । तेन त्रिमात्रादीनां एचां गुणवृद्धिसंज्ञाविरहात् गङ्गोदकम्, खट्वैलकम् इत्यादौ न त्रिमात्राद्यादेश इति एओङित्यादिसूत्रयोः प्रपञ्चितम् । कार्यकालपक्षे भाव्यमानत्वादेव सवर्णग्रहणवारणे तु वृद्धिसूत्रे तपरकरणं स्पष्टार्थमित्यपि वृद्धिसूत्र एव विचारितम् । गुणानां भेदकत्वपक्षे तु तत्र तपरत्वम् आकारार्थमपि गुणान्तरयुक्तस्य तस्य ग्रहणस्य फलवत्वात् ।
इदं च सूत्रं विध्यर्थं नियमार्थं वेति पक्षद्वयमाकरसिद्धम् । तथा हि---अणित्यस्याननुवृत्त्या आकारादावण्भिन्ने तत्कालानां सवर्णानां भिन्नगुणत्वेऽपि अनेन ग्रहणं विधीयते ।
नन्वेवमस्यानण्‌सु चरितार्थत्वात् "अतो भिस ऐस्‌" इत्यादावण्‌ग्रहणे अकारेण दीर्घादीनामपि पूर्वसूत्रेण ग्रहणं स्यादिति चेन्न । तस्यापि "अस्य च्वौ" इत्यादौ ह्रस्वे चरितार्थतया विप्रतिषेधे परत्वात् अस्यैव प्रवृत्तेः । अन्यत्र संज्ञानां बाध्यबाधकभावविरहेऽपि अत्र फलभेदेन विरोधात्---सवर्णसंग्राहकत्वे ह्यष्टादशानां प्रसङ्गोऽन्यथा तु षण्णामिति । न च तपरत्वसामर्थ्यादेव न ग्रहणम् । "ऋत इद्धातोः" इत्यादौ मुखसुखार्थत्वस्यापि दर्शनात् ।
एतेनोक्तसंख्यानुपादानात् विरोधाबावेऽपि तपरत्वसामर्थ्यात् बाध्यबाधकभावानुपादानमित्य पास्तम् ।
अस्येति निर्देशेऽपि लाघवाच्च फलतो विरोधस्यापि बाधकत्वे तन्त्रतया शाब्दसंख्यानुपादानस्याकिंचित्करत्वात् ।
यदपि तकारविशिष्टेयं संज्ञा न त्वण्‌मात्रम् । तत्कालस्येति तच्छब्दस्तु विशेष्यमात्रं परामृशति न तु विशिष्टम् । तदुच्चारणकालसदृशे लक्षणा तु प्राचां मतेऽप्यस्त्येव । सर्वनामपदेऽपि "एतस्यैव रेवतीषु वारवन्तीयम्", "तत्त्वमसि" इत्यादौ लक्षणायाः पूर्वोत्तरतन्त्रयोः स्थितत्वात् । तथा च टिघुभाद्यन्तर्गताण्‌वत् इहैकदेशत्वेनानर्थक्याद्ग्राहकताप्रसङ्ग एव नास्ति । विभक्त्युत्पत्तिरेप्येवं संगच्छते । वृद्धिसूत्रे `अत्राकारः प्रयोगस्थैराकारैरर्थवान्' इति हरदत्तग्रन्थस्तु प्राचां रीत्या नेतव्य इति ।
तदपि चिन्त्यम् । तकारस्योपलक्षणतया तद्विशिष्टस्य संज्ञात्वाभावात् ।
न च विशेषणत्वस्य मुख्यत्वात्तद्‌गुणाविज्ञानात् विशिष्टे तत् । अत्‌इत्यस्य अइत्यस्य च संज्ञात्वे गौरवात् । अत्, इत्‌इत्यानुपूर्व्याः शक्ततावच्छेदकत्वे गौरवाच्च ।
एतेन पञ्चमीसमासानाश्रयणेऽपि न निर्वाहः । अत एवास्य नियमार्थत्वं विप्रतिषेधश्चेति भाष्योक्तं सङ्गच्छते । विशिष्टस्य संज्ञात्वे तस्यानण्‌त्वात्पूर्वेण प्राप्त्यभावात्, समानविषयकत्वाभावाच्चोभयमप्यनुपपन्नं स्यात् । विभक्तिस्तु अकइत्यादिवत् । तत्रानुबन्धनिर्मुक्तस्यैव वाचकतायास्त्वयाऽपि स्वीकारात् ।
"दिवऔत्" इत्यत्र विधीयमाने तपरकरणं स्वरार्थम् । "द्यौः पितः पृथिवि मातरध्रुक्" । उदात्तप्रयोगस्तु द्योशब्दस्य । "पृथिवी उत द्यौः" इति । "औत्" "अच्च घेः" इत्यादौ तु मुखसुखार्थम् । व्याख्यानात् । "समिधाने अग्नौ" इत्यादौ तित्स्वराभावाद्' इति वृत्त्यादयः ।
यत्तु तैरुक्तम्---"इटोऽत्" इत्यत्र "न विभक्तौ" इति न निषेधः । "इदमस्थमुः" इति उकारानुबन्धनादनित्यत्वात्' इति ।
तदभ्युपगम्यवादमात्रम् । तित्स्वरापत्तेः । "भक्षीय तव राधसः" इत्यन्तोदात्तप्रयोगात् । तस्मान्मुखसुखार्थमेव' इति दीक्षिताः ।
स्यादेतत्---
अभ्यासार्थे द्रुता वृत्तिः प्रयोगार्थे तु मध्यमा ।
शिष्याणामुपदेशार्थे वृत्तिरिष्टा विलम्बिता ।। इति
तिस्रो वृत्तयः । ताश्च क्रमेण तृतीयभागाधिकाः---द्रुतं श्लोकमृचं चोच्चारयतो यस्या नाडिकाया नव पलानि स्रवन्ति तस्या एव मध्यमायां द्वादश, विलम्बितायां तु षोडशेति । तथा च प्रकृते विलम्बितायां तपरकरणे द्रुतमध्ययोः, मध्यमायां तपरकरणे द्रुतविलम्बितयोः, द्रुतायां तपरकरणे मध्यमविलम्वितयोरुपसंख्यानं कार्यं स्यात्, कालभेदात् ।
अत्र वार्त्तिकम्---
"सिद्धन्त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनाद् वृत्तयो विशिष्यन्ते" इति ।
अस्यार्थः---व्यञ्जको ध्वनिर्मात्राकालावच्छिन्न एव वर्णमभिव्यञ्जयति, स्वरूपेण तु तदुत्तरकालमप्यनुवर्त्तते ।
यद्वा ह्रस्वव्यञ्जको ध्वनिर्वृत्तित्रयेऽपि मात्राकाल एव । किं तु मध्यमविलम्बितयोः पूर्वध्वन्यनुनिष्पादादिना न्यूनकालेन ध्वन्यन्तरेण पूर्वाभिव्यक्तवर्णस्यैव व्यक्त्यन्तरं जन्यते । अभिव्यञ्जकभेदेऽपि अभिव्यङ्ग्यभेदाभावात् । एवं दीर्घप्लुतव्यञ्जकयोरपि वृत्तित्रयेऽपि यथाक्रमं द्विमात्रत्रिमात्रत्वे । तदनुनिष्पादी तु ततो न्यून इति न दोषः । ह्रस्वदीर्घप्लुतास्तु स्वत एव भिन्नाः । वर्णोत्पत्तिपक्षे तु तदनुनिष्पादी दूरादपि ग्राह्यः कश्चित् ध्वनिरावश्यकः । तस्यैव कालभेदाद् वृत्तित्रैविध्यं बोध्यम् ।
तथा च भाष्यम्--
"ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु दृश्यते ।
अल्पो महांश्च केषां चिदुभयं तत्स्वभावतः" ।।
शब्दो द्विधा व्यञ्जकव्यङ्ग्यभेदात् । शब्दानां व्यङ्ग्यानां व्यञ्जकत्वेन सम्बन्धी यो ध्वनिः स एव महानल्पश्च लक्ष्यते । व्यङ्ग्यस्त्वभिन्नकाल एव । तदुभयम्, व्यङ्ग्यव्यञ्जकत्वरूपम् । केषां चित्ष ताल्वादिव्यापारजन्यानामेव, न तु भेर्यादिजन्यानामपि । स्वभावतः, कारणवैलक्षण्यात् । `व्यक्तानामुभयं गृह्यते । अव्यक्तानां तु ध्वनिरेव' इति कैयटः ।

आदिरन्त्येन सहेता 71 ।

आद्यन्तावयवद्वारा समुदायानुकरणे सिद्धे अन्त्यव्यावृत्त्यर्थमिदं सूत्रमिति दीक्षिताः ।
अन्त्येन इता सहोच्चार्यमाण आदिर्वर्णो वर्णसमुदायो वा मध्यगानां स्वस्य च संज्ञा स्यात् । वर्णो यथा---अल्‌ इत्यादिः । संघातो यथा---कृञ्‌ इत्यादिः । कृभ्वस्तीनां ग्रहणात् । `आद्यन्तौ मध्यापेक्षाविति मध्यानामेव संज्ञित्वम् । "स्वं रूपम्" इत्यनुवर्त्तनात् स्वरूपस्य च । सहग्रहणाच्चाद्यन्तौ समुदितौ संज्ञेति "इको यणचि" इति समुदायादेव विभक्तिर्नादिमात्रात् । स्वं रूपं चादेरेव गृह्यते नान्त्यस्य । तस्याप्राधान्यात् । अतो दध्यत्र इत्यत्र केवल एव यकार आदेशो न तु णकारसहितः, इति कैयटादयः ।
अत्र कौस्तुभकृतः---"प्रत्याहारेष्वाद्या वाचकाः, तत्र ग्रहणकशास्त्रं सावकाशम्" इति ग्रहणकशास्त्रीयभाष्यपर्यालोचनया वाचकत्वं तावदाद्यवर्णविश्रान्तम् । अन्त्यस्तु द्योतकः । सहग्रहणात्तु विशिष्टाद्विभक्तिरिति द्योतकान्तराद्वैषम्यम् । तथा च इत्संज्ञयाऽपहृतस्यान्त्यस्य कथं संज्ञित्वप्रसक्तिः । अन्यथा अजादिसंज्ञानामपि णकारादावतिप्रसङ्गात् । विशिष्टस्य संज्ञात्वेऽपि यण्‌शब्दापादानस्यानुपपन्नत्वात् । ककारविशिष्टस्यैव स्थानित्वात् इकारस्य स्थानित्वासम्भवाद्' इत् ।
अत्रेदं वक्तव्यम् । समुदायस्यैव संज्ञात्वमुपपादितमेव ग्रहणकसूत्रे । इत्संज्ञासत्त्वेऽप्यन्त्यस्य संज्ञाप्रवृत्तेः पूर्वं लोपाभावात् स्थानित्वप्रसक्तिः । मध्यगतानुबन्धानां तु पूर्वमेव लोप इति वैषम्यम् ।
वस्तुतस्तु
"आचारादप्रधानत्वाल्लोपश्च बलवत्तरः" ।
इति वार्त्तिके आचारादित्येव संमतः पक्षः । तथा चानुबन्धान्यत्वे सति तत्समुदायघटकवर्णत्वम् अजादिपदशक्यतावच्छेदकमिति प्रत्याहाराह्निकान्ते व्याख्यातम् । अन्त्येनेति किम् । `सुट्‌प्रत्याहारस्तृतीयैकवचनावयवेन टकारेण मा भूत् । "टाङसिङसाम्" इति निर्देसेन तस्य पूर्वान्तत्वाभावनिश्चयाद्‌' इति वृत्तिकृतः ।
`न च तदन्तं पूर्वसमुदायमादाय दोषः । अन्त्यत्वप्रयुक्ता यस्येत्संज्ञा तस्यैवात्र ग्रहणात् । तस्य च "चुटू" इति प्रत्ययादित्वेनैव हत्संज्ञत्वाद्' इति हरदत्तः ।
रप्रत्याहारस्तु लकाराकारस्यानुनासिकत्वप्रतिज्ञानसामर्थ्यात् ।
दीक्षितास्तु---`औटष्टित्वस्यानन्यार्थतया प्रत्यासत्तिन्यायाच्च तेनैव प्रत्याहारादन्त्यपदं मास्तु । तस्मात् मध्यमेन इता सहित आदिस्तदुत्तरेषाम्, अन्त्येन इता सहितो मध्यमः पूर्वेषां संज्ञा मा भूदित्यन्त्यादिग्रहणम् । इतेति किम् । उक्तरीत्या रप्रत्याहारो यथा स्याद्' इत्याहुः ।
नव्यास्तु--`सह आसमन्तादेति सहेता मध्यमो वर्णः आद्यन्तपदसमभिव्याहाराद् । एतेस्तृचि रूपम् । "एत्येधत्यूठ्‌सु" इति वृद्धिवारणाय आकारप्रश्लेषः । "ओमाङोः" इति पररूपम् । अन्त्येनादिः अण्‌ इत्यादिसंज्ञको भवतीत्यर्थः । स्वंरूपमित्यनुवृत्तिः । वृद्ध्यादिवत्सामानाधिकरण्यात्संज्ञात्वप्रत्ययः । एवं च "हलन्त्यम्" इत्यत्रान्योन्याश्रयशङ्काऽपि न' इत्याहुः ।

येन विधिस्तदन्तस्य 72 ।

विशेषणं तदन्तस्य स्वस्य च संज्ञा स्यात् । "एरच्" । चयः, जयः । "ओरावश्यके" । अवश्यलाव्यम् । विधिरिति कर्मणि किः । येनेति करणे तृतीया । कृद्योगषष्ठ्या कर्त्तरि तस्या बाधितत्वात् । करणस्य च परतन्त्रत्वनियमात् तृतीयया पारतन्त्र्यं लक्ष्यते । न च सुब्विभक्तौ न लक्षणा, व्यत्ययानुशासनवैयर्थ्यात् इति वाच्यम् । "प्रहासे च" इत्यादिव्यत्ययानुशासनात् तिङ्‌क्ष्वपि तदनापत्तौ `रथो गच्छति' इत्यादौ तिङो व्यापारलक्षणानुपपत्तेः ।
अत्र नैयायिकाः---विभक्त्यन्तार्थे विभक्तेर्न लक्षणा, तेन नोक्तविरोधः । अत एव `अर्थनैव विशेषो हि, इत्यत्राऽभेदे तृतीया' इति मणिकृतः ।
"प्रयाजशेषेण हवींष्यभिघारयति" इत्यत्र `प्रयाजशेषं हविः षु क्षारयति' इति मीमांसकोक्तिस्तु व्यत्ययस्यानुशासनिकत्वात् नानुपपन्ना ।
प्रकृतमनुसरामः । कर्त्तृव्यापारव्याप्यत्वरूपं पारतन्त्र्यमिकारादीनां न भवति इति अप्राधान्यं विशेषणत्वरूपं गृह्यते । तथा च विशेषणत्वेनोपात्तं स्वान्तस्य विशेष्यस्य संज्ञा विशेषणत्वस्य च विशेष्यत्वनिरूपितत्वात् विशेष्यसन्निधावेव प्रवर्त्तते । स च क्वचित्साक्षात्, यथा---"ईदूदेद्‌" इत्यत्र द्विवचनस्य, क्वचिदधिकारात्, यथा---"एरच्‌" इत्यत्र धातोः, क्वचिदाक्षेपात्, यथा---"इका झल्‌" इत्यत्र सना धातोः । "इको यणचि" इत्यादौ तु विशेष्यस्य कथमप्यसन्निधानात् तदन्तविध्यभावः ।
अत्र वार्त्तिकम् ।
"येन विधिस्तदन्तस्य चेद्ग्रहणोपाधीनां तदन्तोपाधिताप्रसङ्गः" ।
ग्रहणमिति कर्मणि ल्युट् । गृह्यमाणविशेषणत्वेन सम्मतानां ओष्ठ्यपूर्वत्वादीनामित्यर्थः । तथा हि---ऋकारोऽत्र ऋकारान्तस्य धातोर्विशेषणमिति स्वयं विशेषणानाकाङ्क्षत्वात् पूर्वमेव विशेष्यान्वयं प्रतिपद्यते---ऋदन्तस्य धातोरिति । ततश्च ऋदन्तत्वविशिष्टे धातौ `विशिष्टे वैशिष्ट्यम्' इति रीत्या ओष्ठ्यपूर्वत्वं विशेषणं स्यात् ।
यद्वा, `एकत्र द्वयम्' इतिरीत्या ऋदन्तत्वम् ओष्ठ्यपूर्वत्वं च द्वयमपि धातोर्विशेषणं स्यात् । तथा च संकीर्णम् इत्यादावतिव्याप्तिः । उपसर्गमकारस्य धातोः पूर्वं सत्त्वात् । न ह्योष्ठ्यस्य धात्ववयवत्वमाश्रयितुं शक्यम्, अवयवावयवित्वयोरेकनिरूपितयोरेकस्य विरोधात् । एवं `पूर्तम्' इत्यादावव्याप्तिः । ऋकारान्तत्वेऽपि ओष्ठ्यपूर्वत्वाभावात् ।
एवम्---"उतश्च प्रत्ययात्" इत्यत्रासंयोगपूर्वत्वमुकारस्य विशेषणं न स्यात् किं तु अङ्गप्रत्ययान्यतरस्य । तत्र आद्ये `क्षणु' इत्यादावव्याप्तिः । द्वितीये तक्ष्णुहि इत्यादिसिद्धावपि अश्नुहि इत्यादावतिव्याप्तिरिति ।
अत्र सिद्धान्तवार्त्तिकम्---
"सिद्धं तु विशेषणविशेष्ययोर्यथेष्टत्वाद्" इति ।
अयमर्थः---वृद्ध्यादिसंज्ञा गुणप्रधानभावानपेक्षा एव यथोद्देशं प्रवर्त्तन्ते । इयं तु गुणप्रधानभावसापेक्षत्वात्कार्यकाला, विधिवाक्यव्यतिरेकेण विशेषणविशेष्यभावानवगमात् । अतो विशेषणसम्बन्धवेलायां गुणभावानवगमात्प्रथमं `विशेषणसबन्धमनुभूय ऋकारादिस्तदन्तस्य संज्ञा भवति । तथा च `विशिष्टस्य वैशिष्ट्यम्' इति न्यायेन ओष्ठ्यपूर्वकत्वविशिष्टो य ऋकारस्तदन्तस्य धातोरिति फलितम् । एवमन्यत्रापीति ।
अत्र सिद्धान्ताभिमतविशेषणविशेष्यभाव्यवस्थापनार्थं प्रवृत्तानि वार्त्तिकानि व्याख्यायन्ते ।
"समासप्रत्ययविधौ प्रतिषेधः" "उगिद्वर्णग्रहणवर्जम्" ।
समासविधौ प्रत्ययविधौ च तदन्तविधिप्रतिषेधः । श्रितादयो विशेष्यत्वेन सुबादयस्तु विशेषणत्वेनाश्रयणीयाः । तथा च श्रिताद्यन्तैः सुबन्तैः सहेति नार्थः किं तु सुबन्तैः श्रितादिभिरित्येव । विशेषणत्वाभावात्तदन्तविधिर्नेति फलितोऽर्थः । तेन "द्वितीयाश्रित--" इति समासः कष्टं परमश्रित इत्यत्र न भवति किं तु कष्टश्रित इत्यत्रैव । "नडादिभ्यः फक्‌" नाडायन इत्यत्रैव । प्रातिपदिकेभ्यो नडादिभ्य इत्यर्थः । नडादीनामेव विशेष्यत्वं न तु नडाद्यन्तेभ्यः प्रातिपदिकेभ्यः इति तदर्थः, नडादीनां विशेषणत्वानाश्रयणात् । नेह सूत्रनडस्यापत्यं सौत्रनाडिः । "अत इञ्‌" । अनुशतिकादित्वात् उभयपदवृद्धिः । न च "ग्रहणवता प्रातिपदिकेन तदन्तविधइर्नास्ति" इति परिभाषयैव सिद्धिः, "पूर्वादिनिः" इत्यत एव सिद्धे "सपूर्वाच्च" इत्यस्य तज्ज्ञापकत्वात् इति वाच्यम् । तस्याः समासप्रत्ययविधिमात्रविषयकत्वमित्येतस्य वार्त्तिकेन ज्ञाप्यत्वात् । अत एव "गोस्त्रियोः" इति सूत्रे गोऽन्तं यत्प्रातिपदिकमिति व्याचक्षते ।
एतेन `प्रत्ययविधौ ज्ञापितत्वात् उक्तपरिभाषायाः "व्यपदेशिवद्भावोऽप्रातिपदिकेन" इति परिभाषायाश्च प्रत्ययमात्रविषयकत्वमिति सीरदेवोक्तिरपास्ता ।
नच "शेषो घ्यसखि" इत्यत्र "ग्रहणवता" इति परिभाषया तदन्तविधिप्रतिषेधात् अतिसखिशब्दस्य घिसंज्ञापर्युदासो नेति कैयटहरदत्तादिग्रन्थविरोध इति वाच्यम् । तेषां प्रौढिवादमात्रत्वात् । तत्र विशेष्यसन्निध्यभावादेव तदन्तविध्यप्रसक्तेः ।
स्यादेतत् । श्रिताद्यन्तैः सुबन्तैरित्यर्थस्य पूर्वपक्षसिद्धत्वे कष्टं परमश्रित इत्यत्र समासस्यैव कथं प्रसक्तिः । श्रितान्तस्य सुबन्तत्वाभावात् । श्रितान्तत्वस्य च विभक्तिपूर्वभागे सुबन्तत्वस्य च विशिष्टे विश्रामात् । द्वयोः सामानाधिकरण्याभावात् ।
अत्राहुः---परमश्रितेति सम्बुद्ध्यान्तमुदाहरणीयम् । तद्धि प्रत्ययलक्षणेन सुबन्तं श्रितान्तं च स्वरूपेण श्रूयते इति ।
अथ सिद्धान्तेऽपि सुबन्तैः श्रितादिभिरित्यर्थे श्रितादीनां सुबन्तत्वं बाधितम् । तस्य विशिष्टवृत्तित्वात् । न च श्रितादीनां तत्प्रकृतिके लक्षणा । उक्तरीत्या सम्बुद्धौ चारितार्थ्यात् । तथा च कृष्णश्रितम् इत्यादि न स्यात् ।
अत्राहुः---
समासतद्धितविधौ सर्वत्र श्रितादीनां नडादीनां च ततत्प्रकृतिके लक्षणैव । "खट्वा क्षेपे" "नदीभिश्च" इत्यादावभेदस्य बाधितत्वात् तत्र पूर्वपदस्य द्वितीयाद्यन्तत्वस्यावश्यकतया सम्बुद्ध्यन्तत्वानुपपत्तेः । "पूर्वकालैक---" इत्यादौ तत्सम्भवेऽपि "एकविभक्तौ" इत्यादिनिर्देशो न सिद्ध्येत् । तस्मात्सामान्यापेक्षज्ञापकबलेन ऐकरूप्याय सर्वत्र तत्तत्प्रकृतिके लक्षणेति स्थिते इहत्यभाष्यवृत्त्योः कैयटहरदत्तकृतं भङ्‌क्त्वाव्याख्यानमनादेयम् ।
यत्तु श्रितादीनां कृदन्तत्वेन 'गतिकारकोपपदानाम्--" इति सुबुत्पत्तेः प्रागेव समास इष्टः, अन्यथा `काष्टश्रितेयः' नसिद्ध्येत् । "प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च" ग्रहणात् । अत एव किल प्राचा श्रितादिभिरित्येव व्याख्यातम् नतु सुबन्तैरिति ।
तन्न । प्रधानस्त्रीप्रत्यये तदादिनियमाभावात् । "स्त्रीभ्यो ढक्‌" इति स्त्रीप्रत्ययग्रहणेन कष्टश्रिताशब्दादेव ढगुत्पत्त्या काष्टश्रितेयसिद्धेः । न च कदाचिच्छ्रिताशब्दादप्यापत्तिः । असामर्थ्यात् । "कर्तृकरणे कृता---" इत्यादिवत्कारकतद्विशेषयोः "द्वितीयाश्रित---" इति सूत्रे ऽनुपादानाच्चेति ।
अन्ये तु श्रितादिप्रकृतिकसुबन्तेनेति नान्तरीयकतया प्रकृतिर्विशेषणीयेति श्रिताद्यन्तप्रकृतिकेन सुबन्तेनेति, नडादिप्रकृतिकषष्ठ्यन्तादित्यत्र च नडाद्यन्तप्रकृतिषष्ठ्यन्तादित्यर्थस्यापत्त्या---कष्टं परमश्रितः, सौत्रनाडिः इत्यादावतिप्रसङ्गतादवस्थ्यम् । अतो वार्त्तिककृतो वाचनिकमेव तदन्तविधिवारणमित्याहुः ।
अस्यापवादमाह--"उगित् इति" । उगिता वर्णेन च प्रातिपदिकं विशेष्यते । अतस्तत्र प्रत्ययविधावपि तदन्तविधिर्भवत्येवेत्यर्थः । महान्तमतिक्रान्ता अतिमहती । "उगितश्च" इति ङीब्‌ । न च गौरादित्वान्ङीषा सिद्धिः । "अनुपसर्जनात्" इति तत्राधिकृतत्वात् ।
अन्ये तु गौरादिषु महद्‌बृहदित्यनयोः प्रामादिकः पाठः । `महते सौभगाय" इत्यादौ विभक्तेरुदात्तत्वार्थं "शतुरनुमो नद्यजादी" इति सूत्रे नद्यजाद्युदात्तत्वे बृहन्महतोरुपसंख्यानारम्भात् ङीपाऽप्युदात्तसिद्धेरित्याहुः ।
वर्णग्रहणे यथा---"अत इञ्‌" । अदन्तात्प्रातिपदिकादित्यर्थः । दाक्षिः । न च सामर्थ्यात्तदन्तविधिः । अस्यापत्यम् इः कामः इत्यत्र चारितार्थ्यात् । "बाह्वादिभ्यश्च" इत्युत्तरत्र वृद्ध्याद्युदात्तत्वाभ्यां ञित्वस्य तथात्वाच्च । न च औपगवादेरेव इञ्‌स्यात् न तु दाक्षिः इत्यत्र, अकारस्यानर्थकत्वादिति वाच्यम् । वर्णग्रहणेऽर्थवद्ग्रणपरिभाषाया अप्रवृत्तेः । अत एवैतत्सूत्रशेषे वार्त्तिकम्---
"अलैवानर्थकेन" इति ।
एवं च सङ्घातेनार्थवतैव तदन्तविधिः । तेन स्त्रियौ परमस्त्रियौ इत्यत्रैव "स्त्रियाः" इतीयङ्‌ । न तु शस्त्र्यौ, शस्त्र्य इत्यत्र । तथा "इन्‌हन्‌पूषार्यम्णां शौ" "सौ च" इति नियमे हन्‌ शब्देन प्लीहन्‌शब्दस्याग्रहणात् दीर्घः । पायसं करोति इत्यत्र "संपर्युपेभ्यः---"इति सुडभावः । गर्मुत्स्थातेत्यत्र "उदः स्थास्तम्भोः" इति पूर्वसवर्णाभावः । उदित्यस्य तवर्गेण विशेषणात्, तोरित्यस्य निवृत्तेर्वा । "वा पदान्तस्य" इत्यतः पदग्रहणानुवृत्तावपि पदेन तस्यैव विशेषणात् ।
अथ हन्स्त्रीग्रहणयोरङ्गाधिकारीयत्वात् संशब्दस्य "एङः पदान्ताद्---" इति पदाधिकारीयत्वात्, "उदः स्थास्तम्भोः" इत्यस्याप्युक्तरीत्या तथात्वात् "पदाङ्गाधिकारे तस्य तदुत्तरपदस्य च" इत्यत्र केवलपदाधिकारस्यापि ग्रहणात्, प्लीहन्‌शब्दे हन्‌ इत्यस्य अङ्गत्वोत्तरपदत्वान्यतराभावात्प्रसक्तिरेव नास्ति, तस्माद् "अलैवानर्थकेन" इति व्यर्थमिति चेन्न ।
"पदाङ्गाधिकारे" इत्यस्यैव भाष्ये प्रत्याख्यानात् । "अलैवानर्थकेन" इति वचनेनार्थवता तदन्तविधेः सूत्रेणैव सम्भवात् । तदारम्भे तु परमश्चासावतिमहांश्चेति परमातिमहान् इति न स्यात् । अतिमहच्छब्दस्य महच्छब्दोत्तरपदत्वेऽप्यनङ्गत्वात् । विशिष्टस्य महदुत्तरपदत्वाभावात् । उत्तरपदेति समासान्त्यावयवस्यैव ग्रहणात् । "सान्तमहतः" इति दीर्घस्य, "उगिदचाम्" इति नुमश्च दुर्लभत्वात् । सूत्रेण तु तदन्तविधिना तत्सिद्धेः । "ग्रहणवता---" इति निषेधस्य समासप्रत्ययविधिमात्रविषयकत्वात् ।
अत्र वार्त्तिकम्---
"अकच्‌श्नम्‌वतः सर्वनामाव्ययधातुविधावुपसंख्यानम्" ।
सर्वके । सर्वनामत्वाच्छीभावः । उच्चकैः । अव्ययत्वात् सुपो लुक् । `उच्चकैः अधीयान' इत्यत्र "अव्ययानां न" इति निघातप्रतिषेधः । उच्चकैर्मुखम् इति । "नाव्ययदिक्‌शब्द---" इति उत्तरपदाद्युदात्तत्वनिषेधः । भिनत्ति । अत्रागमानुदात्तत्वेन प्रत्ययस्वरस्य बाधितत्वात् विशिष्टो धातुस्वर इति केचित् ।
अन्ये तु अभिनोऽत्र इति "दश्च" इति धातोर्विधीयमानं रुत्वमित्याहुः । न हीदं तद् नापि तदन्तमित्युपसंख्यानारम्भः ।
यद्वा तदन्तान्तस्येति सूत्रार्थः । सर्वशब्दस्य योऽन्तोऽकारः स एव सर्वकशब्दस्यान्त इति । एवमुत्तरत्रापि । अन्वर्थसंज्ञाऽऽक्षिप्तस्य संज्ञिनः सर्वादिभिः, अव्ययसंज्ञाक्षिप्तस्य स्वरादिभिः, धातुसंज्ञाभाजां वाप्रकाराणां भूवादिभिर्विशेषणात् । उत्तरपदलोपश्च अत्र वाचनिको न तु उष्ट्रमुखादिवद्गम्यमानार्थस्य सामर्थ्यान्निवृत्तिरिति केचित् । चरमावयव एव अवयवबुद्ध्या तदन्तस्य सर्वादिशब्दान्तत्वव्यपदेशः ।
अथवाऽवयवे समुदायरूपारोपात् तदन्तत्वाम्, पार्श्वायःशूलादिषु गौणेनाप्यर्थेन शास्त्रव्यवहारदर्शनादित्येके ।
मध्यपातिनामकजादीनां तदेकदेशत्वात्तत्तवबुद्धिविघातकत्वं नास्तीति चेन्न । अन्यूनानधिकानामेव संज्ञाविधानात् । नित्यानां शब्दानां विकारोपजनराहित्येन सर्वसर्वकशब्दयोर्भेदात् ।
  वस्तुतस्तदेकदेशभूतं तद्ग्रहणेन गृह्यते । "नेदमदसोः" इत्यत्र अकोः इति प्रतिषेधाज्ज्ञापकात् । अन्यता इदमदसावुद्दिश्य विहितस्य कार्यस्य सककारयोरप्रसक्तेरिति दिक् ।
प्रकृतसूत्रप्रयोजनवार्तिकानि---
"प्रयोजनं सर्वनामाव्ययसंज्ञायाम्" ।
सर्वे, परमसर्वे, उच्चैः, परमोच्चैः ।
"उपपदविधौ भयाढ्यादिग्रहणम्" ।
भयङ्करः, अभयङ्करः, आढ्यङ्करणम्, स्वाढ्यङ्करणम् ।
भयाढ्यादीनां कर्मविशेषणताऽऽश्रयणात् । "क्षेमप्रिय---" इत्यादौ तु कर्मणा क्षेमादयो विशेष्यन्ते इति तदन्तविधेरप्रवृत्तिः ।
"ङीब्विधावुगिद्ग्रहणम्" ।
भवती, अतिभवती । महती, अतिमहती ।
"प्रतिषेधे स्वस्रादिग्रहणम्" ।
स्वसा, परमस्वसा, दुहिता, परमदुहिता । ऋदन्तत्वात्प्राप्कस्य ङीपो "न षट्‌स्वस्रादिभ्यः " इति प्रतिषेधः । नच विधावेव विशेषणं तदन्तस्य संज्ञा न तु प्रतेषेधेऽपीति वाच्यम् । विधिपरस्य कर्मव्युत्पत्त्योभयपरत्वात् । स्वस्रादिभिः प्रातिपदिकस्य विशेषणात् तदन्तविधिः ।
"अपरिमाणबिस्ताचितग्रहणं च प्रतिषेधे" ।
द्विबिस्ता, द्विपरमबिस्ता, त्रिबिस्ता, त्रिपरमबिस्ता । "अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि"। द्विगुना आक्षिप्तमुत्तरपदं बिस्तादिभिर्विशेष्यत इति तदन्तविधिः ।
"दितिग्रहणं च"।
दितेरपत्यं दैत्यः । अदितेरपत्यम् आदित्यः । "दित्यदित्यादि--" इतिसूत्रे अदितिग्रहणं न कार्यम् । न च परमदित्यादिपदेभ्योऽपि ण्यप्रसङ्गः । अनभिधानात् ।
"रोण्या अण्‌" ।
आजकरौणः, सैंहकरौणः ।
"तस्य चेति वक्तव्यम्" ।
रौणः । न च "स्वं रूपम्" इति रोणीशब्दग्रहणम् । वार्तिककृता तदनुवृत्तेरनङ्गीकारात् । अतएव "आद्यन्तवद्‌" इत्यत्र "येन विधिस्तदन्तत्वे" इति प्रयोजनमुक्तवान् । अन्यथा आद्यन्तवद्भावाभावे।डपि "अचो यत्‌" इत्यत्र तदन्तविधिना जेयम् इत्यादेः, स्वरूपग्रहणाच्च अध्येयमित्यादेः सिद्धिः । न च व्यपदेशिवद्भावेन केवलस्यापि तदन्तत्वम् । "अप्रातिपदिकेन" इति तन्निषेधात् । तत्र च लिङ्गं---"पूर्वादिनिः" "सपूर्वाच्च" इति योगद्वयवचनम् । अन्यथा "पूर्वान्तादिनिः" इति ब्रूयात् । व्यपदेशिवद्भावेन केवलादपि तत्सम्भवात् ।
न च रोणीशब्दो ङ्यन्तत्वात्प्रातिपदिकमेव न भवतीति वाच्यम् । "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि" इति परिभाषया स्त्रीप्रत्ययान्तानामप्युक्तपर्युदासे भेदप्रतियोगित्वेनोपादानात् । "तस्य च" इति वचनं तु न पूर्वोक्तस्यैव शेषः, अपि तु वक्ष्यमाणानामपीति बोध्यम् ।
"रथसीताहलेभ्यो यद्विधौ"।
रथ्यः, परमरथ्यः, सीत्यम्, परमसीत्यम् । हल्या, परमहल्या । ठग्विधौ तु तदन्तविध्यभावात्तदभावः ।
"सुसर्वार्द्धदिक्‌शब्देभ्यो जनपदस्य" ।
सुपाञ्चालकः, सुमागधकः, सर्वपाञ्चालकः, सर्वमागधकः, अर्द्धपाञ्चालकः, अर्द्धमागधकः, पूर्वपाञ्चालकः, पूर्वमागधकः ।
"ऋतोर्वृद्धिमद्विधाववयवानाम्" ।
ऋतुवाचिनः शब्दाद्यो वृद्धिमान् प्रत्ययस्तद्विधाववयववानां तदन्तविधिरित्यर्थः । शरदः पूर्वो भागः पूर्वशरत्, तत्र भवं `पूर्वशारदम्'। "सन्धिवेलाद्यृतुनक्षत्रेभ्यः" इत्यण्‌ । "अवयवादृतोः'---' इत्युत्तरपदवृद्धिः । वृद्धिमदिति किम् । "प्रावृषएण्यः" इत्यत्र तदन्तविधिर्मा भूत् । तेन पूर्वप्रावृषम् इति ऋत्वणेव । अवयवानां किम् । पूर्वस्यां शरदि भवं पौर्वशरदिकम् इत्यत्र कालाट्ठञ्‌ एव । तत्र यथाकथञ्चित्कालवाचिनां ग्रहणम् नतु ऋतुलक्षणोऽण्‌ ।
"ठञ्‌विधौ संख्यायाम्" ।
द्वे षष्टी परिमाणस्येत्यर्थे "तद्धितार्थे' इति समासे "आर्हादगोपुच्छसङ्‌ख्या---" इति ठक् न । तदन्तविधिसत्त्वे संख्यावत्तदन्तादपि ठक्‌प्रतिषेधात् । तेन "प्राग्वतेः" इति ठञ्‌ । द्विषाष्टिकः । न च "अध्यर्द्धपूर्वाद्‌" इति लुगापत्तिः । "सोऽस्यांशवस्नभृतयः" इत्यतः सोऽस्येत्यनुवृत्तावपि "तदस्य परिमाणम्' इत्यत्र प्रत्ययार्थसमर्थविभक्त्योः पुनर्निर्देशाद् लुक्‌संबद्धात्तस्मात्पुर्नर्निर्देशस्य लुगसम्बन्धरूपवैलक्षण्यज्ञापकत्वात् ।
यद्वा अनुवर्त्तमानेन सोऽस्येत्यनेन सहितं परिमाणं संख्यायाः इत्येतावद् प्रत्ययविधायकम् । तस्य लुकि "तदस्य परिमाणम्" इति वचनसामर्थ्यात्पनस्तत्सजातीयः प्रत्ययः । न च तस्यापि लुगापत्तिः । विधानसामर्थ्यात् । द्विगुनिमित्तत्वाभावाद्वा ।
केचित्तु द्वे षष्टी भूत इति "तमधीष्टोभृतोभूतोभावी" इति ठक् । अनार्हीयत्वेनालुक्‌प्रसक्तेः । तत्र कालादित्यनुवृत्तावपि काले संख्येये वर्त्तमानात्षष्टिशब्दात्तदुत्पत्तिसम्भवाच्च । रमणीयादिभ्यस्त्वनभिधानान्न । परिमाणार्थे तु लुग्दुर्वारः ।
तथाहि---"तेन क्रीतम्" इत्यारभ्य "तदर्हति" इत्यतः प्राक्तनेष्वर्थेषु अर्हत्यर्थे, तदुत्तरमपि वर्त्तयतीत्यारभ्य "आकालिकडाद्यन्तवचने" इत्यन्तेषु चार्थेषु "प्राग्वतेः" इति ठञ्‌ भवति । एवं च आर्हीयानार्हीयार्थसाधारण्येऽपि परिमाणार्थस्य ठञ आर्हीयत्वं दुर्वारम् । परिमाणस्य "तदर्हति" इत्यतः प्राक्‌ निर्देशात् । "तदस्य" इत्यस्य पुनरुपादानमात्रेणार्हीयत्वक्षत्यभावात् । अन्यथा द्वौ निष्कौ परिमाणमस्येति द्विनिष्क इति जीवितपरिमाणादन्यत्रापि लुक् न स्यात् । "द्वित्रिपूर्वान्निष्काद्‌" इति वचनस्य परिमाणातिरिक्तार्हीयार्थेषु सावकाशत्वात् । तस्मादुक्तरीत्यैव द्विषाष्टिकसिद्धिः । `तदस्य' इति तु त्यक्तव्यं, `सोऽस्य' इत्यनुवृत्त्यैव सिद्धेरित्याहुः । तच्च द्विषाष्टिकशब्दस्याद्युदात्ततायामनपेक्षितायां ग्राह्यम् ।
"धर्मान्नञः" ।
धर्मं चरति धार्मिकः । अधर्मं चरति आधर्मिकाः । "अधर्माच्च" इति नारभ्यम् ।
"पदाङ्गाधिकारे तस्य च तदुत्तरपदस्यच" इति प्रयोजनम् । "इष्टकेषीकामालानां चिततूलबारिषु" । इष्टकचितम्, पक्वेष्टकचितम्, इषीकतूलेन, मुञ्जेषीकतूलेन, मालभारी, उत्पलमालभारी । पदाङ्गेति पदशब्द उत्तरपदाधिकारपरः । तत्प्रयोजनस्यैवोदाहृतत्वादिति कैयटादयः । अत एव परममहत्परिमाणमित्यत्र षष्ठीसमासः । सामानाधिकरण्ये "आन्महतः" इत्यात्त्वप्रसङ्गादिति किरणावल्यां व्याख्यातम् ।
उपायकृतस्तु कर्मधारयेऽपि न दोषः । न च "पदाङ्गाधिकारे" इति परममहच्छब्दस्याप्यात्त्वापत्तिः, तत्र केवलपदाधिकारस्यैव ग्रहणात् । उत्तरपदाधिकारस्यापि ग्रहणे "इष्टकेषीका---" इत्यत्र पुनस्तदन्तविध्युपसंख्यानवैयर्थ्यप्रसङ्गादित्याहुः ।
दीक्षितास्तु---`नेदं युक्तम् । उपसंख्यानस्याऽप्रसिद्धत्वात् । "इष्टकेषी---"इत्यादेस्तूक्तप्रयोजनत्वेनैवोदाहृतत्वात् ।
एतेन `सततनैशतमोवृतमन्यतः' इति भारविप्रयोगे "ओजः सहोम्भस्तमसः" इति अलुकमाशङ्क्य वर्द्धमानोक्तरीत्या समादधानो दुर्घटवृत्तिकृदपि निरस्तः ।
यदपि `ओजः प्रभृतीनां पूर्वपदं प्रति विशेष्यत्वाद्‌' इति हरदत्तः । तदपि वार्त्तिकविरोधादुपेक्ष्यम् । विशेषणविशेष्यभावनिर्णयायैव इहत्यवार्त्तिकानां प्रवृत्तिरिति कैयटवदेव स्वयमपि व्याख्यानात् । उक्तस्थले तु नपुंसके भावे क्तः । शेषे षष्ठी । तया समासः । सततं नैशतमोवृतं यत्रेति बहुव्रीहिः ।
यद्वा सततं नैशतमसो वृतं वृतिर्यत्र । `वृतु वर्त्तने' घञर्थे भावे कप्रत्ययः' इत्याहुः ।
अङ्गाधिकारे प्रयोजनवार्तिकम्---
"प्रयोजनं महदप्रस्वसृनप्तॄणां दीर्घविधौ"
महान्, परममहान् । आपः, स्वापस्तिष्ठन्ति । "न पूजनाद्‌" इति समासान्तनिषेधः । न च "द्व्यन्तरूपसर्गेभ्य" इति ईत्वापत्तिः । अप इति समासान्तविशिष्टस्यैव तत्रोपादानात् । तत्र च उक्तभाष्यस्यैव प्रमाणत्वात् । स्वसारौ, परमस्वसारौ । नप्तारौ, परमनप्तारौ ।
"पद्युष्मदस्मदस्थ्यनडुहो नुम् "
पद्भावस्य प्रयोजनम् । "पादः पद्‌" इत्यत्र पाच्छब्देनाङ्गविशेषणात् `द्विपदः पश्य' पादयतेरप्रत्ययः पात्, पदः, पदेत्यादि । "क्वौ लुप्तम्" इति णिलोपो न स्थानिवत् । उत्तरपदाधिकारे तु पदाशब्दस्यैव विशेष्यत्वम् । तेन "पदाऽऽज्यातिगोपहतेषु" इति पद्भावः---पादेनोपहतं पदोपहतम् इत्यत्रैव, न तु दग्धपादोपहतम् इत्यत्र । उत्तरसूत्रेऽप्येवम् । तेन "हिमकाषिहतिषुच" इति पद्भावः `पत्काषी' इत्यत्रैव, न तु `परमपादकाषी' इत्यत्रापि । `परमपत्काषी' इति प्रयोगे तु परमपदेन पत्काषिशब्दस्य कर्मधारयः । यूयम्, अतियूयम्, वयम्, अतिवयम्, अस्थ्ना, परमास्थ्ना, अनड्‌वान्, परमानड्‌वान् ।
"द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम्" ।
"दिव औत्" द्योः, सुद्यौः । पन्थाः, सुपन्थाः । "न पूजनात्" इति समासान्तनिषेधः । पुमान्, परमपुमान्, गौः सुगौः, सखा, सुसखा सुसखायौ, चत्वारः, परमचत्वारः, अनड्‌वाहः, परमानड्‌वाहः, त्रयाणाम्, परमत्रयाणाम् । `परमपन्थाः, परमगौः' इति भाष्ये क्वाचित्कोऽपपाठः । परमसखायौ इत्यत्रापि बहुव्रीहिः । गौणत्वेऽप्यनङ्‌णित्त्वयोः प्रवृत्तिरिति कैयटः ।
केचित्तु परमुदाहरणान्तरम् । अगौः, अपन्था इत्यत्र "पथो विभाषा" इति नञ्‌तत्पुरुषे समासान्तनिषेध इत्यर्थ इत्याहुः ।
"प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्" । इदं चाङ्गसंज्ञआसूत्रे योगविभागेन साधयिष्यते । इह प्रत्ययस्य स्वाक्षिप्तस्य धातुप्रत्ययाद्यवयवकसमुदायविशेषणत्वात्तदन्तविधिः ।
इदं च संज्ञाविधौ न । "सुप्तिङन्तम्" इत्यन्तग्रहणात् । उत्तरपदाधिकारेऽपि न । "हृदयस्य हृल्लेखयदण्‌लासेषु" इत्यत्र लेखपदस्य पृथगुपादानात् । अन्यथा अण्णन्तत्वादेव सिद्धेः । उक्तस्यापवादमाह---
"प्रत्ययग्रहणे चापञ्चम्याः" इति ।
यत्र पञ्चम्यन्तात्परः प्रत्ययः कार्यान्तरविधानाय परिगृह्यते तत्र तदन्तविधिर्नेत्यर्थः । यथा "रदाभ्याम्" इत्यत्र । तत्र हि तदन्तविधिसद्भावे रेफदकाराभ्यां परो यो निष्ठान्तस्तदवयवस्य तकारस्य नत्वं स्यादित्यर्थापत्तौ `दृषत्तीर्णः' इत्यत्र धात्ववयवतकारस्यापि नत्वापत्तिः । न च "संज्ञाविधौ प्रत्ययग्रहणं न" इत्यस्यात्रावकाशः । संज्ञाया विधेयत्वे एव तत्प्रवृत्तेः । नचैवं संज्ञाविधावित्यस्य वैयर्थ्यम् । तदन्तस्य संज्ञायां विधिप्रदेशेषु पुनस्तदन्तविधिना प्रत्ययान्तान्तस्य संज्ञा स्यादिति तन्निषेधसार्थक्यात् । पञ्चम्यन्तात्प्रत्ययविधौ तदन्तविधिर्नेति तु नार्थः । "ञितश्च तत्प्रत्ययाद्‌" इत्यत्र अञ्प्रत्ययादेव अञ्‌विधाने तस्यैवाङ्गसज्ञायां वृद्धिस्वरयोः प्रसङ्गात् । "स्यतासी लृलुटोः" इत्यत्र धातोरित्यधिकारादपञ्चम्या इति निषेधात्, यद्वा लृलुटोर्विशेष्यत्वाश्रयणात्तदन्तविध्यभावः ।
"यस्मिन्विधिस्तदादावल्ग्रहणे" ।
सौत्रस्य तदन्तविधेर्वाचनिकोऽयमपवादः ।
दुराग्रहिणस्तु प्रकृतसूत्रे तस्मिन्नित्यस्, "आदिरन्त्येन" इति सूत्रादादिग्रहणस्य, इतेति तृतीयान्तस्य चानुवृत्त्या इत्पदस्य च लक्षणया अल्परत्वाल्लभ्यत एतद् इत्याहुः ।
अपरे तु यान्तप्रत्ययस्यासम्भवेन प्रथमत्यागे कारणाभावात् यादावित्यर्थकेन "वान्तो यि प्रत्यये" इति सूत्रेणैवेयं परिभाषा ज्ञाप्यते इत्याहुः ।
अन्ये तु तु "गुणोऽपृक्ते" इत्यपृक्तग्रहणमत्र मूलम् । तद्धि "उतो वृद्धिर्लुकि हलि" इत्यनुवृत्तौ इत्यनुवृत्तौ क्रियते । हलीत्यनुवृत्तौ हलादौ इत्यर्थः । स्यात् । अपृक्तग्रहणे तु `प्रौर्णोत्' इत्यत्र वर्णमात्रे इत्याहुः । तेन "अचिश्नु" इत्यादौ अजादावित्यर्थो न तु अजन्त इति । तेन श्रियः, भुवः इत्यादि । विशेषणेनैवायम् । अपवादस्योत्सर्गसमानविषयकत्वात् । तेन "अमि पूर्वः" इत्यत्राचीत्यस्य विशेष्यत्वाश्रयणात् अम्यचीत्यर्थो न त्वजादावमीति, विशेषणवैयर्थ्यात् । अपि योऽच्‌ अमोऽवयव इति यावत् । तेन मकारसहितस्य पूर्वरूपं नेति दीक्षिताः ।
वृत्तिकारादयस्तु अमि परत इत्येवार्थः । अजनुवृत्तौ प्रमाणाभावात्, "आदेः परस्य" इत्यत एव दोषानवकाशात् ।

वृद्धिर्यस्याचामादिस्तद्‌---वृद्धम् 73 ।

यत्समुदायघटकानामचां मध्ये पूर्वोऽच्‌ वृद्धिसंज्ञः स वृद्धसंज्ञः स्यात् । आम्रगुप्तीयः । वृद्धाच्छः । बहुत्वमविवक्षितम् । शालीयः । व्यपदेशिवद्भावादेकस्यापि । जानातीति ज्ञा ब्राह्मणी । तस्या अयं ज्ञीयः । "वा नामधेयस्य वृद्धसंज्ञा वक्तव्या" । पौरुषेयसंकेतः संज्ञा । उभयत्र विभाषेयम् । देवदत्तादीनामप्राप्ते वामनादीनां च प्राप्ते आरम्भात् । देवदत्तीयः दैवदत्तः । "विधाय मूर्त्तिं कपटेन वामनीम्' इति श्रीहर्षः । "गोत्रोत्तरपदस्य च नित्यम्" । वृद्धसंज्ञा वाच्येत्यर्थः । कम्बलप्रियस्य चारायणस्य शिष्याः कम्बलचारायणीयाः । घृतरौढीयाः । रूढस्यापत्यं रौढिः । पूर्ववत् । `ओदनपाणिनीयाः' । पणनं पणः । घञर्थे कः । तत इनिः । पणिनो गोत्रापत्यं `पाणिनः'। अण्‌ । "गाथिविदथिकेशि---" इति प्रकृतिभावान्न टिलोपः । तस्य युवापत्यं `पाणिनिः' । न च "ण्यक्षत्रियार्षञितः" इति इञो लुक् स्यात्, आर्षाद्‌ यून्युत्पन्नत्वादिति वाच्यम् । "ऋष्यन्धक" इति विहितस्यैव तत्र ग्रहणात् । अस्य च सामान्यविहितत्वात् ।
यद्वा पाणिनशब्दस्य यौगिकत्वात्, लुग्विधौ च रूढस्यैवग्रहणात्, "दाक्षीपुत्रस्य पाणिनेः" इति भाष्यवार्त्तिकनिर्देशाच्च । तस्य च्छात्रा इति विवक्षायां "यूनि लुक्" इति इञो लुक् । तेन "इञश्च" इत्यणोऽप्रवृत्तौ "वृद्धाच्छः" । न च प्रत्ययलक्षणेन इञन्तत्वानपायात् दोषतादवस्थ्यम् । "इञश्च" इत्यत्र "कण्वादिभ्यः" इत्यतो गोत्रे इत्यनुवृत्त्या तस्य च पारिभाषिकगोत्रपरतया यूनि तदप्रवृत्तेः ।
यद्वा गोत्रान्तादसमस्तवत्प्रत्ययो भवतीति वक्तव्यम् । पूर्वोक्तान्येवोदाहरणानि । पैङ्गलकाण्वाः । "कण्वादिभ्यो गोत्रे" इत्यण्‌ । वृद्धत्वाभावान्न छः । गोत्रान्तादित्यस्यापवादो "जिह्वाकात्यहरितकात्यवर्ज्जम्" इति । कतशब्दो गर्गादिः । जिह्वाचपलः कात्यो जिह्वाकात्यः, हरितभक्षः कात्यो हरितकात्यः । तस्यच्छात्रा जैह्वाकाताः हारितकाताः । औत्सर्गिकोऽण्‌ । "यस्येतिच" इत्यकारस्य "आपत्यस्यच तद्धितेऽनाति" इति च यकारस्य लोपः ।

त्यदादीनि च 74 ।

वृद्धसंज्ञानि स्युः । इदमीयम्, किमीयम् । "वृद्धाच्छः" । त्वादायनिः, मादायनिः । "उदीचां वृद्धाद्" इति फिञ्‌ । "प्रत्ययोत्तरपदयोश्च" इति त्वमादेशौ । चकारेण "वा नामधेयस्य" इत्यादिवार्त्तिकोक्तार्थसिद्धिरिति न्यासकारः ।
इहादिग्रहणं न सम्बध्यते, अच्‌सम्बद्धस्यैव तस्यानुवृत्तेः । यस्याचामादयस्त्यदादय इत्यन्वयस्य बाधितत्वात् । निर्धारणस्य सजातीयविषयकत्वनियमात् । त्यदादीनां चाज्रूपत्वाभावात् । पूर्वपक्षे तु त्वदीयः इत्यादौ छो न स्यात् । न च व्यपदेशिवद्भावः । "अप्रातिपदिकेन" इत्युक्तत्वात् । न च वचनसामर्थ्यम् । त्वत्पुत्राः इत्यादौ सावकाशत्वात् । आदिग्रहणानुवृत्त्यन्यथाऽनुपपत्त्या उपसर्जनानामपि त्यदादित्वसम्भवात् । अचामित्यस्य त्वनुवृत्तिरुत्तरार्थैव स्यात् । तस्मादिहादिग्रहणाननुवृत्तिरेव ।

एङ्‌ प्राचां देशे 75 ।

मण्डूकप्लुत्या यस्याचामादिरित्यनुवृत्तिः । एङ्‌ यस्याचामादिस्तद्वृद्धसंज्ञं वा स्याद्देशाभिधाने । एणीपचनीयः, गोनर्दीयः, भोजकटीयः । "वृद्धाच्छः" । एङिति किम् । आहिच्छत्रः, कान्यकुब्जः । औत्सर्गिकोऽण्‌ । विधेयसंज्ञासम्बन्धात्प्राचामित्याचार्यनिर्द्देशाद्विभाषालाभः । व्यवस्थितविकल्पश्चायम् । तेन क्रोडदेवदत्तशब्दयोरप्राग्देशवाचिनोर्वृद्धसंज्ञा । वृद्धसंज्ञत्वात् काश्यादित्वात् वृद्धलक्षणठञ्‌ञिठौ भवतः । प्राग्देशवाचिनस्त्वणेव । क्रौडो, दैवदत्त इति । "शैषिकेषु इति वक्तव्यम्" । सेपुरम्, स्कोनगरं च वाहीकाग्रामौ । वृद्धत्वात् "वाहीकग्रामेभ्यश्च" इति ठञ्‌ञिठौ । सैपुरिकी, सैपुरिका, स्कौनगरिकी, स्कौनगरिकाशैषिकेषु इति वचनात् अपत्यविकारयोर्वृद्धलक्षणौ फिञ्‌मयटौ न भवत इति कूणिव्याख्यानाश्रयिणो भाष्यकारस्य मतम् । जयादित्यस्तु प्राचामिति देशविशेषणम् । प्राचि देशे विद्यमानानां पुंसां यो देशस्तदभिधाने इति सूत्रार्थः । पूर्वमते मतशब्दाध्याहारप्रसङ्गात् । तेन देवदत्तो नाम वाहीकग्रामस्तस्य प्राग्देशत्वाभावात् दैवदत्तः इत्यत्र वृद्धत्वाभावादेव ठञ्‌ञिठौ न भवत इति व्याचख्यौ । अत्र पक्षे सैपुरी इत्यादिकं वचननैव साध्यम् । तयोर्वाहीकग्रामतया तद्रीत्या वृद्धत्वाभावात् इति । देशे किम् । गोमती नाम प्राग्देशनदी । तत्र भवा मत्स्या गौमताः । न च देशग्रहणे नद्यपि ग्राह्या इति वाच्यम् । "विशिष्टलिङ्गो नदीदेशोऽग्रामाः" इत्यत्र पृथक् नद्याः उपादानात् ।
प्राग्देशविभागस्तु अमरेण उक्तः---
"शरावत्यास्तु योऽवधेः ।
देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः"
शरावती नदीविशेषः उत्तरपूर्वाभिमुखीति हरदत्तादयः । नैर्ऋत्याः पश्चिमाब्धिगामिनी इत्यमरव्याख्यातारः । तस्या दक्षिणपूर्वस्यां दिशि व्यवस्थितो देशः प्राग्देशः । उत्तरपरस्यांतु उदग्देशः ।
तदुक्तम्---
प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा ।
विदुषां शब्दसिद्ध्यर्थँ सा नः पातु शरावती ।।
बाहीकदेशस्तु प्रागुदग्‌बहिर्भूतः । "बहिषष्टिलोप" इति व्युत्पादनात् इति विवरणकाराः ।
दीक्षितास्तु "अव्ययात्त्यप्‌" इति सूत्रे "उदीच्यग्रामाच्च बह्वचोऽन्तादात्तात्" इत्यस्यावकाशः शिवपुरं `शैवपुरः'। ठञः स एव । शाकलं नाम बाहीकग्रामः---इह उभयं प्राप्नोति इति भाष्ये बाहीकस्यापि उदग्रूपत्वं लभ्यते । हरदत्तादिभिरपि तथैव अनुवादाच्च । बाहीकदेशस्वरूपं तु कर्णपर्वणि---
पञ्चानां सिन्धुषष्ठानामन्तरे ये समाश्रिताः ।
बाहीका नाम ते देशा न तेषु दिवसं वसेत् ।।
धर्मबहिर्भूतत्वाद्बाहीका इति तात्पर्यम् । शतद्रूर्विपाशा इरावती वितस्ता चन्द्रभागेति पञ्च नद्यः । सिंधुनदस्तु षष्ठस्तन्मध्ये देशो बाहीक इति व्याख्यातारः । व्युत्पत्त्यन्तरम पि तत्रैव ।
बहिकश्च बहीकश्च विपाशायां पिशाचकौ ।
तयोरपत्यं बाहीका नैषा सृष्टिः प्रजापतेः ।।
एतद्‌विवेचनं च "ब्राहीकग्रामेभ्य" इत्यादौ उपयोक्ष्यते इत्याहुः ।

इती श्रीसिद्धान्तसुधानिधौ प्रथमाध्यायस्य प्रथमे पादे नवमाह्निकम् । पादश्चायं समाप्तः ।


******************-------------------