सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः १/आह्निकम् ८

विकिस्रोतः तः
← आह्निकम् ७ श्रीसिद्धान्तसुधानिधिः
आह्निकम् ८
[[लेखकः :|]]
आह्निकम् ९ →

स्थानिवदादेशोऽनल्विधौ 55 ।
(1.1.8)

आदेशः स्थानिना तुल्यं वर्तते । स्वयं तत्कार्यं लभते परकीयं च तत् प्रवर्तयतीति यावत् । कार्यभाक्त्वेन सादृश्याश्रयणात् । कार्यभाक्त्वं च तत्प्रतियोगित्वनिमित्तत्वोभयरूपम् । केन काभ्यामित्यादौ किमः कादेशोऽङ्गकार्यं लभते । वृक्षायेत्यादौ तु ङेर्यादेशोऽङ्गस्य दीर्घं प्रवर्तयतीति विवेकः । उपदेशप्रवृत्तिव्यतिरेकप्रयोजकव्यतिरेकप्रतियोगी धर्मश्चेत्स्थान्यलोऽसाधारणो न भवतीत्यर्थः ।
ननु वृक्षायेत्यत्र स्थानिन एकारस्य अल्‌रूपत्वात्स्थानिवत्त्वं न स्यादिति चेन्न । अत्र हि यादेशस्य सुप्त्वाभावप्रयुक्तः "सुपि च" इत्येतत्प्रवृत्त्यभावः । तदर्थश्चातिदेशानुसारः । सुप्त्वं च यद्यपि एकाररूपेऽलि वर्त्तते, तथाऽपि अलोऽसाधारणं न भवति । भ्यामित्यादौ समुदायएव सुप्त्वस्य पर्याप्त्याऽल्‌मात्रवृत्तित्वाभावात् । नन्वलतिरिक्तवर्णावृत्तित्वं तथाऽप्यक्षतम् । तादृशवर्णाप्रसिद्धिश्चेति चेन्न । अल्त्वपर्याप्त्यधिकरणताव्याप्यस्वपर्याप्त्यधिकरणताकत्वस्य तदर्थत्वात् । न हि यत्र सुप्त्वपर्या प्त्यधिकरणता भ्यामादिसमुदाये तत्राल्‌त्वापर्याप्त्यधिकरणता । अल्‌त्वस्य प्रत्येकव्याप्तत्वात् ।
ननु दीर्घत्वे यञादावित्यलाश्रयणात् तथाऽपि स्थानिवत्त्वं न स्यात्, मैवम् । अत एव स्थानिसम्बन्धित्वेन अलो विशेषि तत्वात् । न ह्यत्र यादेशस्य यञादित्वव्यतिरेकप्रयुक्त उपदेशप्रवृत्तिव्यतिरेकः । तस्य स्वत एव यञादित्वात् । एतेन "अरुदितामरुदितमित्यादौ "रुदादिभ्यः सार्वधातुके" इतीडागमोऽपि व्याख्यातः । उपदेशप्रवृत्तिव्यतिरेकप्रयोजकव्यविरेकप्रतियोगिनः सार्वधातुकत्वस्य उक्ताल्मात्रवृत्तित्वाभावात्, वलादित्वस्य च तामाद्यदेशेषु स्वाभाविकत्वात् । न चाविशेषादादेशसंबन्धिनोऽप्यल आश्रयणे उक्तनिषेधः स्यादिति वाच्यम् । अतिदेशेन सहैकवाक्यतामापन्नस्य प्रतिषेधस्यातिदेशिकीं प्राप्ति प्रत्येव प्रवृत्तेः । अत एव "गुरुवद् गुरुपुत्रे वर्त्तितव्यमन्यत्रोच्छिष्टभोजनात्पादोपसङ्ग्रहणाच्च" इत्यतिदेशे उच्छिष्टभोजनादिनिषेधोऽतिदेशप्राप्तएवोच्छिष्टभोजनादौ प्रवर्त्तते, न तूपदेशप्राप्ते । गुरुपुत्रे गुरुत्वस्यापि सद्भावे तन्निमित्तकस्य तद्भोजनादेः प्रवृत्तेः । न च तत्रातिदेशस्यांशतोऽपि नाकाङ्क्षा, अत्र तु सार्वधातुकत्वाभावादिडागमप्रवृत्त्यर्थं तदपेक्षावश्यकत्वमिति वाच्यम् । अंशांशे उपजीव्योपजीवकभावस्याप्रयोजकत्वात् । प्रदीव्येत्यादौ तु ल्यबादेशस्य स्वतो वलादित्वाभावात् तत्प्रयुक्तो ऽप्युपदेशप्रवृत्त्यभावः इति वलादित्वार्थमप्यतिदेशानुसारात्प्रतिषेधः । विशेषणतयाऽप्यलाश्रयणे तत्प्रवृत्तेर्वक्ष्यमाणत्वात् । न चैवं कित्त्वमपि न लभ्येतेति वाच्यम् । अनेकान्तपक्षेऽनुबन्धानां स्थान्यवयवाल्त्वाभावात् । एकान्तपक्षेऽप्यन्तरङ्गत्वत्पूर्वमेव लोपात् आदेशकाले तदसम्बन्धात् । अत एव "नल्यपि" इति निषेधः सङ्गच्छते । अन्यथा कित्त्वाभावादेवेत्वाप्रसक्तौ तद्वैयर्थ्यात् । इदमेव विशेषातिदेशेऽपि ज्ञापकम् । अन्यथा सामान्यातिदेशे विशेषस्यानतिदेशात् प्रदीव्येत्यादौ कित्त्वातिदेशो न स्यात् । कित्त्वं हि न क्त्वासामान्यधर्मः । "न क्त्वा सेट्‌" इति क्वचित्तत्प्रतिषेधात् । अत एव "आशंसायां भूतवच्च" इत्ययं लुङ एवातिदेशो, भूतसामान्ये तस्य विहितत्वात्, न तु भूतविशेषविहितयोर्लुङ्‌लिटोरिति सिद्धान्तः ।
प्राञ्चस्तु अनल्विधाविति निषेध एव विशेषतिदेशे ज्ञापक इत्याहुः ।
यत्तु व्यूढोरस्केन क इष्ट इत्यादौ विसर्गत्वयत्वयोर्व्यापकं यद् अट्‌त्वं हश्त्वं च तयोर्निषेधेन चरितार्थोऽनल्विधाविति निषेध इति । तच्चिन्त्यम् । विसर्गत्वयत्वापेक्षया अट्‌त्वं हश्‌त्वं च विशेषधर्माविति तत्प्रसक्तेरेव विशेषातिदेशं विनाऽनुपपत्तेः । नन्वट्‌त्वाहश्त्वे सामान्यधर्मौ, विसर्गत्वयकारत्वावच्छिन्नसकलवर्णव्यक्तिवृत्तित्वे सति तदतिरिक्तवृत्तित्वात् । विसर्गत्वयत्वे तु विशेषधर्मौ, अट्‌त्वहश्त्वावच्छिन्नो यो विसर्गयकारातिरिक्तवर्णस्तन्निष्ठात्यन्ताभावप्रतियोगित्वादिति चेन्मैवम् । न ह्यत्र तद्रूपावच्छिन्नकिञ्चिद्व्यक्तिनिष्ठात्यन्ताभावाप्रतियोगित्वरूपसामान्यत्वम्, तद्रूपावच्छिन्नकिञ्चिद्व्यक्तिनिष्ठात्यन्ताभावप्रतियोगित्वरूपं च विशेषत्वं विवक्षितम् । मानाभावात् ।
किं त्वतिदेशवाक्ये वतिप्रकृत्यर्थतावच्छेदकत्वं सामान्यत्वाम् । ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमित्यादौ तथैव बोधात् । तथा च विसर्गवत्सकार इति पर्यवसितातिदेशवाक्ये विसर्गत्वादेरेव तथात्वात् अट्‌त्वादेर्नातिदेशः । स्थानित्वादेशत्वाभ्यां सूत्रे तत्तद्व्यक्तीनामनुगमेऽपि अतिदेशवाक्यानां स्थान्यादेशभेदेन भिन्नत्वात् ।
यत्तु कित्त्वं त्त्कासामान्यधर्मो न भवतीति, तन्न । "न त्त्का सेट्‌" इत्यनेन कित्कार्यनिषेधेऽपि ककारस्य इत्संज्ञाया अनिषेधात् । अन्यथा तत्र ककारश्रवणापत्तेः । न च ककारस्यैवातिदेश्यत्वात् कित्कार्यप्रवर्तकत्वं न क्त्वासामान्यधर्म इति दोषतादवस्थ्यम् । ब्राह्मणत्वपुरस्कारेण प्रवृत्तानामपि धर्माणां ब्राह्मणत्वावच्छेदेन प्रवृत्तिनियमाभावात् पतितब्राह्मणादावभावात् । बाधवशात्फलानुपधानेऽपि तत्तत्कार्यप्रयोजकरूपावच्छिन्नत्वं तत्रास्त्येवेत्यपि तुल्यत्वात् । तस्माद्वृक्षायेत्यादौ स्थानिवद्भावो भवत्येवेति सिद्धम् ।
यद्यपि कार्यकालपक्षे यादेशे सुप्संज्ञाया एवातिदेशः । तस्या अपि शास्त्रीयत्वात् । तत्र चाल्‌विधित्वशङ्कैव नास्ति । ततः "सुपि च" इत्युपदेशेनैव दीर्घसिद्धिः । तथाऽपि यथोद्देशपक्षमाश्रित्यैतदुक्तम् ।
अथ वत्करणं व्यर्थम् । परत्र परशब्दप्रयोगे विनाऽपि वतिं तदर्थप्रत्ययात् । "असंयोगाल्लिट्‌ किद्‌" इत्यादौ, मुखं चन्द्र इत्यादौ लोके, मासमग्निहोत्रं जुहोतीत्यादौ दर्शनान्तरे च तथा स्वीकारात् । न चादेशस्थानिपदयोः सामानाधिकरण्ये आदेशस्य स्थानिरूपत्वापत्तिः । आदेशविधिवैयर्थ्यात् । न च वचनद्वयप्रामाण्याद्विकल्पः । "वा लिटि" इत्यस्य वैयर्थ्यात् । न च चक्षिङो लिट्येव ख्याञादेशविकल्प इति नियमार्थं तत् । "विभाषा लुङ्‌लृङोः" इत्यादौ विभाषाग्रहणवैयर्थ्यात् । अप्राप्तविभाषात्वेन ख्याञादेशविधानमात्रादेव सिद्धेः । अस्तिभूभ्यां रूपद्वयसिद्धौ "अस्तेर्भूः" इत्यादिवैयर्थ्याच्च ।
अत्राहुः---तथात्वे स्थानी आदेशस्य संज्ञा स्यात् । संज्ञासूत्राणां प्रस्तावात् । ततश्च "आङो यमहनः" इत्यात्मनेपदं वधेरेव स्यान्न तु हन्तेः । न च स्वरूपस्यापि ग्रहणम् । "अशब्दसंज्ञा" इति निषेधात् । न च तथा सत्यादेशस्य प्रथमनिर्द्देशापत्तिरुद्देश्यत्वादिति वाच्यम् । "व्यवहाराय नियमः" इति पक्षे संज्ञाया एवोदेदेश्यत्वात् । न चैवं वधिग्रहणमेव कुर्यादिति वाच्यम् । वध हिंसायामिति भौवादिकस्यापि ग्रहणापत्तेः । स्थानिन आदेशसंज्ञेत्यर्थेऽपि "अस्यतिवक्तिख्यातिभ्योऽङ्‌" इत्यत्र ख्यातिपदेन चक्षिङ एव ग्रहणापत्त्या समचक्षिष्टेत्यत्राङ्‌ स्यात्, अख्यतेत्यत्र तु न स्यादित्यनिष्टं दुर्वारम् ।
अथैवं चक्षिङ्‌ इत्येव ब्रूयादनुबन्धनिर्देशात् यङ्‌लुग्व्यावृत्तेरिति चेत्, सत्यम् । तथाऽपि गाङ्कुटादिसूत्रे "गाङः" इतीङो ग्रहणाय स्थानिमात्रग्रहणे इङित्येव वाच्यत्वात् । "गमेरिट्‌ परस्मैपदेषु" इत्यत्र तु इण्‌ गतौ इङ्‌ अध्ययने इक्‌ स्मरणे इत्येतेषामेव ग्रहणं स्यात् । स्थानिनां बहुतया विपरीतगौरवापत्त्याऽऽदेशग्रहणस्य स्वरूपतो गमेर्ग्रहणे लिङ्गत्वायोगात् । न चैवं प्रकरणआन्तरएवेदं सूत्रमारभ्यताम्, वत्करणपरित्यागाधीनलाघवानुरोधादिति वाच्यम् । तथा सत्यादेशपदग्रहणावश्यकत्वे तस्यानुमानिकादेशसङ्ग्रहार्थत्वानुपपत्तेः । काममतिदिश्यतां वा सच्चासच्चेति वक्ष्यमाणस्यापि वत्करणं विनाऽनुपपत्तेश्च ।
स्यादेतत् । एवं सत्यन्यत्र संज्ञाप्रकरणे वतिं विना कथमतिदेशलाभः, कित्‌ङित् इत्यादाविति चेन्मैवम् । "न त्त्का सेट्‌" इति निषेधेन कित्त्वस्य संज्ञात्वाभावसिद्धेः । तस्य कित्संज्ञाया अप्राप्ततया निषेधानर्हत्वात् । न च "मृडमृद" इत्यादिना प्रसक्ताया निषेधः, वचनद्वयप्रामाण्याच्च विकल्पोऽस्त्विति वाच्यम् । "मृड" इत्यादौ वावचनेनैव तत्सम्भवात् । "निष्ठा शीङ्‌" इत्यादिवैयर्थ्याच्च । तत्र केनापि कित्संज्ञाया अप्राप्तेः । अत एव ङित् इत्यप्यतिदेशः, कित्साहचर्यात् । तस्य संज्ञात्वे ग्रहिज्यादिसूत्रेऽस्यैव ग्रहणापत्त्या वावश्यतइत्यत्र सम्प्रसारणप्राप्त्यभावात् "न वशः" इति नेषेधवैयर्थ्यापत्तेः । "क्‌ङिति च" इत्यत्र कितिङितीत्यर्थावश्यकतया संज्ञास्वरूपानुच्चारणात् उक्तसंज्ञाया अग्रहणात् । "गाङ्कुटादिभ्यः" इत्यत्र कुटादिग्रहणवैयर्थ्याच्च । "बहुगण" इत्यत्र तु महासंज्ञाकरणानुष योगादतिदेशः, "किकिनौ लिट् च" इत्यादौ तु संज्ञाप्रकरणाभावादिति दिक् ।
नन्वादेशग्रहणं व्यर्थम् । स्थानिशब्दस्य ससम्बन्धिकतया स्थानिवदित्येतावतैव लाभात्, पितृवदधीतइत्युक्ते पुत्रवत् । सत्यम् । तथा सति "अस्तेर्भूः" इत्यादेः प्रत्यक्षस्यैव आदेशस्य स्थानिवत्त्वं स्यात्, न त्वानुमानिकस्य तेस्तुरित्यादेः । आदेशग्रहणसामर्थ्यात्तूभयत्र स्थानिवद्भावः । तथा चैकदेशविकृतस्योपसंख्यानमनारभ्यमिति लाघवम् । तथा हि---"एरुः" इत्यत्रेकारोकाराभ्यां स्थान्यादेशाभ्यां तदन्तौ तावनुमीयेते । तथा च तेस्तुरिति फलितोऽर्थः । न च इकारमात्रस्योत्वेऽप्येकदेशविकृतस्यानन्यत्वात्पदसंज्ञा भविष्यतीति वाच्यम् । अर्थवत्येव स्थान्यादेशभावविश्रामात् । स्थानं प्रसङ्गरूपस्तस्य चानर्थकेऽनु पपत्तेः । प्रत्यायनार्थस्य प्रयोगस्यार्थवत्येव सम्भवात् । "च्लेः सिच्" इत्यादौ तदभावेऽपि सम्भवतस्त्यागायोगात् । तदुक्तं वार्त्तिककृता---
सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः ।
एकदेशविकारे हि नित्यत्वं नोपपद्यते ।।
पदेत्यर्थवत्परम् । तथा च वस्तुतो विकारो नास्त्येव । किन्तु तादृशप्रयोगेऽन्यादृशः प्रयोक्तव्य इति शास्त्रार्थे स्थान्यपगमः आदेशोपजनश्चेति बुद्धिमात्रमिति भावः । यद्वार्तिकम्---
कार्यविपरिणामाद्वेति ।
कार्यपदं ज्ञानपरम् । तथा च तद्विधिप्रयुक्तव्यतिरेकप्रतियोगित्वं स्थानित्वम्, तद्व्यतिरेकप्रयोजकविधिविधेयत्वं चादेशत्वमिति फलितोऽर्थः ।
अथैवमपवादेऽप्युत्सर्गकृतं स्यात् । अन्यप्रसङ्गेऽन्यविधानस्य तत्रापि सत्त्वेन स्थआन्यादेशभावसत्त्वात् । तथा च कप्रत्ययान्तादप्यणन्तत्वप्रयुक्तो ङीप्स्याद्‌, एवमन्यत्रापीति चेद् अत्र वार्त्तिकम्---
सिद्धँ तु षष्ठीनिर्द्दिष्टस्य स्थानिवद्वचनादिति ।
"षष्ठी स्थानेयोगा" इत्यतः षष्ठ्यनुवृत्तेरित्यर्थः । अपवादस्य च षष्ठीनिर्द्दिष्टस्थाने विध्यभावात् । "नाभि नभं च" इत्यादौ षष्ठ्यर्थे प्रथमा । विश्रवणरवणेत्यादयस्तु प्रत्ययविषया भिन्ना एव शब्दाः । विश्रवः शब्दात्तु न प्रत्ययोऽनभिधानात् । एतेन वृद्धिसंज्ञासूत्रे षष्ठीनिर्द्दिष्टस्य स्थाने आदेशा भवन्तीति भाष्यं यथाश्रुतमेव व्याख्यातम् । कैयटेन तु स्थान्यर्थाभिधानसमर्थस्यैवादेशत्वमित्येवंपरतया व्याख्यातम् । तस्यायमाशयः---
"सनाद्यन्ता" इति सूत्रे भाष्यकृतोक्तं स्थानिवदित्यत्र षष्ठीग्रहणं निवृत्तम् । न चापवादेऽप्युत्सर्गप्रसङ्गः । शबाद्यपवादानां श्यनादीनां शित्करणेन तदभावज्ञापनादिति । अन्यथा सनाद्यन्तसूत्रप्रत्याख्यानानुपपत्तेरिति । एतत्सूत्रेऽप्येवम् ।
अथ पित्त्वनिवृत्त्यर्थं शित्त्वमस्तु । ननु नित्त्वादेव तत्सिद्धिः । तद्ध्याद्युदातार्थम् । स्थानिवद्भावात्पित्त्वे तु विकरणस्यापि तथात्वादनुदात्तत्वे "तास्यनुदात्तेन्ङिददुपदेशाद्‌" इति लादेशसार्वधातुकस्यानुदात्तत्वे धातुस्वरेणैव परिशेषादाद्युदात्तत्वं स्यात् । दिवादिगणेऽनेकाचो धातोरभावात्तत्र धातुस्वरेणान्तोदात्तत्वप्राप्तावाद्युदात्तार्थं नित्त्वमिति वक्तुमशक्यत्वात् । न च वावृतु वर्त्तने इति धातुरनेकाच् । तत्र वाशब्दस्य श्यन्विकल्पार्थकतया धात्वनन्तर्भावात् ।
ततो वा वृत्यमाना सा रामशालां निरैक्षत ।
इति भट्टिप्रयोगे इवार्थे वाशब्दमाश्रित्य कामयमानेवेत्यर्थात् । न च भूवादिपाठादेव तत्सिद्धिः । "वृद्भ्यः स्यसनोः" इत्याद्यन्तर्गणकार्यार्थतयाऽप्युपपत्तेः । मैवम् । ताच्छील्यादौ चानशि प्रकृतेराद्युदात्तार्थतया नित्त्वस्य सार्थक्यात् । तत्र लादेशत्वाभावादनुदात्तस्याभावे चित्स्वरादन्तोदात्तप्राप्तेः । न चैवं श्यनो नित्त्वेऽपि चित्स्वरस्य दुर्वारत्वम् । नित्स्वरस्य सतिशिष्टत्वात् । न च "अन्यत्र विकरणेभ्यः" इति पर्युदासः । "सौवर्यः सप्तम्यस्तदन्तसप्तम्यः" इति विकरणान्तस्यायं स्वरो, न तु विकरणस्येति तदप्रवृत्तेः । नन्वेवं "दाबेवायं न दैबस्ति" इतिघुसंज्ञासूत्रस्थभाष्यविरुद्धम् । दायमान इति शाप्यन्तोदात्तम्, श्यनि त्वाद्युदात्तमिति फलभेदापत्त्या दिवादिपाठस्य दुर्वचत्वात् । मैवम् । अनभिधानात् इह चानशेव नास्तीति ।
यद्वा---आद्युदात्तत्वमेवेष्टम् । "यथोत्तरं मुनीनां प्रामाण्यम्" इति स्वीकारात् । उक्तभद्दिप्रयोगाद्वाशब्दो धात्वन्तर्भूत इति मते तु तस्याद्युदात्तविषयकतया स्पष्टमेव चरितार्थत्वम् । न हि चानशि आद्युदात्तत्वं लभ्यते । पर्युदासस्य विकरणप्रयुक्तस्वरमात्रविषयकत्वमिति "आत्ममाने खश्च" इतिसूत्रस्थभाष्यकैयटसिद्धत्वात् । खशन्तइव चानशन्तेऽप्यन्तोदात्तत्वस्य दुर्लभत्वात् ।
यत्त्वत्र सूत्रे कैयटेनोक्तम्---दायमान इति चानशि प्रवृतेराद्युदात्तार्थं नित्त्वमिति, तद् अभ्युच्चयमात्रम् । तस्मान्नियमार्थं शित्त्वं पित्त्वनिवृत्त्यर्थमिति कथं तस्यापवादे उत्सर्गकृतं नेति ज्ञापकत्वमिति पूर्वपक्षः ।
अत्र कैयटः---लक्ष्यानुरोधात्सामान्यापेक्षज्ञापकमेव शित्त्वमाश्रीयते, न तु नियमार्थमिति ।
यद्वा---कापवादस्य टकः कित्त्वमुक्तेऽर्थे प्रमाणम् ।
अनल्विदाविति किम् । तेन तस्मात्तस्यत स्मिंश्च विधौ मा भूत् । अला विधौ यथा---महोरस्केन । सकारस्य स्थानिवद्भावेन विसर्जनीयस्याट्‌सूपदेशाण्णत्वं स्यात् । अलः परस्य विधौ यथा---द्यौः पन्थाः सः । औत् आत् अकारश्चेत्येतेषां हल्‌स्थानीयत्वेन "हल्ङ्याब्‌" इति सुलोपः स्यात् । अलो विधौ यथा---द्युकामः । "दिव उद्‌" इति लोपः स्यात् । न चोत्वविधानसामर्थ्यम् । अहर्विमलद्यु इत्याहौ वल्‌परत्वाभावे चरितार्थत्वात् । अलि परतो विधौ यथा---क इष्टः । इकारस्य स्थानिवद्भावेन सोर्हश्‌परत्वात् "हशि च" इत्युत्वं स्यात् । स इत्यत्र त्वकारस्य स्थानिवत्त्वे हल्परत्वात्सोर्लोपः स्यात् । उक्तानेकसमासलाभार्थं च विधिग्रहणम् । न चानल् इत्येवोच्यतां साधुत्वार्थं प्रथमाप्रयोगेऽपि तदर्थस्याविवक्षितत्वात् । यद्वा---अल इत्युच्यताम् । अनुवादतया स्थानेयोगाभावात्षष्ठ्याः सम्बन्धसामान्यार्थकतया उक्तविभक्त्यर्थोपसंग्रहसिद्धेरिति वाच्यम् । अप्राधान्येन अलाश्रयणे स्थानिवत्त्वनिषेधार्थं विधिपदोपादानात् । तेन प्रदीव्येत्यादौ वलादेरित्यार्द्धधातुकान्यपदार्थविशेषणतयाऽलाश्रयणेऽपि न स्थानिवत्त्वम् । अन्यथा "हशि च" इत्यादौ प्राधान्येन यत्रालुपात्तस्तत्रैव तन्निषेधात् । विधिग्रहणे त्वलाश्रयो विधिरल्‌विधिरिति उत्तरपदलोपाश्रयणात् विशेष्यतया विशेषणतया वाऽलाश्रये निषेधप्रवृत्तिः । आश्रीयतइत्याश्रयः, एरच् । "अलमाश्रयते" इति भाष्यं त्वर्थप्रदर्शनार्थं, कर्मण्यणः प्रसङ्गात् । अलाश्रयपरत्वादाश्रयशब्दस्य गतार्थत्वादप्रयोग एव लोप इति कैयचः ।
नन्वेवं स्थान्यनुबन्धकार्याणामपि निषेधापत्त्या प्रदीव्येत्यादौ कित्त्वं न लभ्येतेति चेन्मैवम् । अनेकान्तत्वपक्षे तेषां स्थान्यल्त्वाभावात् । एकान्तत्वपक्षेऽपि पूर्वमेव लोपात् । "न ल्यपि" इति लिङ्गाच्च । अन्यत् प्रागुक्तम् ।
स्यादेतत् । तस्थानापन्नस्तद्धर्मं लभतइति न्याये नैव गतार्थत्वादिदं सूत्रमनारभ्यम् । अत एव नीवारेषु व्रीहिधर्मा अवघातादयः प्रवर्तन्ते । मैवम् । व्रीहीनवहन्तीत्यादौ व्रीह्यादिपदानामपूर्वसाधने लाक्षणिकतया तदपूर्वसाधनत्वान्नीवारादौ तत्प्रवृत्तावपि "आङो यमहनः" इत्यात्मनेपदस्य हन्तिस्वरूपमात्रविषयकतया वधादेशे प्रवृत्त्ययोगात् । "स्वं रूपं शब्दस्य" इति परिभाषितत्वात् । अन्यथा आतृणेढीत्यादावपि प्रसङ्गात् ।
स्यादेतत् । अस्तु ज्ञापकादेव गतार्थं सूत्रम् । "युष्मदस्मदोरनादेशे" इत्यत्रानादेशग्रहणेनादेशः स्थानिवदित्यस्य "अदो जग्धिः" इति सूत्रे कितीत्यनेनैव सिद्धे ल्यब्‌ग्रहणेन चानल्बिधावित्यंशस्य ज्ञापयितुं शक्यत्वात् । अत एव विशेषणतयाऽप्यलाश्रयणे न स्थानिवदित्यस्यापि सिद्धिरिति । सत्यम् । उत्तरसूत्रे स्थानिवदादेश इत्यस्यावश्यकतया योगविभागेन तदारम्भः, अर्थापत्त्यनुसारे गौरवात् । अनल्विधावित्यपि स्पष्टार्थम्, उत्तरसूत्रे द्वितीयविधिग्रहणानुवृत्त्यर्थं च । फलस्य तत्रैव वक्ष्यमाणत्वात् ।
स्यादेतत् । निमित्तशास्त्रव्यपदेशरूपतादात्म्यकार्याण्यतिदेशभेदाः स्युः । पूर्ववत्कर्मवदादिवत्‌तृज्वत्‌पराङ्गवद्‌णिद्वदिति क्रमात्वट्‌ । "पूर्ववत्सनः" इति निमित्तातिदेशः । यद्यपि ब्राह्मणादेरग्रभोजननिमित्तस्य ब्राह्मणत्वादेः क्षत्रियादावतिदेशोऽशक्यः, तथाऽपि "पूर्ववत्" इति प्रकृतिगंत ङित्त्वं हि न सन्नन्तेऽतिदिश्यते, किं तु प्रकृतिगतमेव सन्‌व्यवधानेऽप्यात्मनेपदं प्रवर्त्तयतीत्येतावता निमित्तातिदेशव्यवहारः । न चायं कार्यातिदेश एवेति वाच्यम् । चिक्रंसते प्रचिक्रंसते इत्यादाविट्‌प्रसङ्गात् । निमित्तातिदेशे तु क्रमिरेव सना व्यवहितोऽप्यात्मनेपदप्रयोजक इति "स्नुक्रमोरनात्मनेपदनिमित्ते" इति नियमान्नेट् । फलोपहितनिमित्तस्यैव तत्र ग्राह्यत्वात् । शास्त्रातिदेशः "कर्मवत्कर्मणा" इत्यत्र पाक्षिकः । व्यपदेश "आद्यन्तवद्" इति । एकस्मिन्नादित्वान्तत्वप्रकारकव्यवहारेऽतिदिष्टे तत्तत्सूत्रैरेव कार्यसिद्धेः ।
तथा च प्राञ्चः---आद्यन्तवद्व्यपदेशो, निमित्तम् "पूर्ववत्सन" इति । रूपातिदेशस्तृज्वत् इति । क्रोष्टुशब्दस्थाने क्रोष्टृशब्दस्य विधानात् । तादात्म्यातिदेशः "सुबामन्त्रिते पराङ्गवत्स्वरे" इति । "यत्ते दिवो दुहितर्मर्तभोजनम्' इत्यत्र दिवोदुहितरिति समुदाये आमन्त्रितनिघातप्रवृत्तेः । कार्यातिदेशो "गोतो णित्" इत्यादि । तदेवं षोढाऽतिदेशे कार्यातिदेशोऽयमित्यत्र किं नियामकमिति । मैवम् । "सिद्धन्त्वात्मनेपदेन समानपदस्थस्येट्‌प्रतिषेधाद्" इतिवार्त्तिकरीत्या पूर्ववदित्ययमपि कार्यातिदेशः । क्रमेरात्मनेपदस्य च समानपदस्थलउक्तनियमप्रवृत्तिः । आत्मनेपदं तु प्रक्रंस्यतइत्यादौ "प्रोपाभ्यां समर्थाभ्याम्" इत्यनेन प्रचिक्रंसतइत्यादौ "पूर्ववत्सनः" इत्यनेन इति विशेषेऽप्येकपदस्थत्वस्य तुल्यत्वादुक्तनियमप्रवृत्तेः । आद्यन्तवदित्ययमपि तथा । हरदत्तादिस्वारस्यात् । कुरुते कुर्वे इत्यादौ "आद्यन्तव्यपदेशेऽपि अन्त्योऽच्‌ आदिर्यस्येति बहुव्रीह्यर्थस्याभावात् टिसंज्ञाविरहे एत्वानुपपत्तेः । कुर्वातित्यादिस्थलीयस्य टेरेत्वाख्यकार्यस्यातिदेशादेव तत्रेष्टसिद्धेः ।
शास्त्रातिदेशोऽपि पाक्षिक एव । तादात्म्यातिदेशस्तु आदेशेन स्थानिनोऽपहाराद् बाधितः । तादात्म्यप्रतियोगिनोः समानकाल एव तत्प्रवृत्तेः । रूपातिदेशे त्वादेशविधिवैयर्थ्यम् । विकल्पस्य पूर्वोक्तरीत्याऽसम्भवात् । तस्मात्प्राधान्यात्कार्यातिदेश एवायमिति स्थितम् ।
न्यासकारस्तु व्यपदेशातिदेशः संज्ञापक्षे पर्यवसन्नः । स च वत्करणसामर्थ्यादेव नेत्याह । अत्र हरदत्तः---
"संज्ञापक्षे वधेरेवात्मनेपदं स्यान्न तु हन्तेः । शब्दसंज्ञात्वात् "स्वं रूपम्" इत्यस्याप्रवृत्तेः । एवं केन कस्मादित्यादावङ्गकार्यादीनि न स्यारिति दोषद्वयम् । व्यपदेशातिदेशे तु " स्वं रूपम्" इति हन्तिग्रहणम्, तद्व्यपदेशातिदेशाच्च वधेरपि । एवं स्थानिनिष्ठानां धात्वङ्गादिव्यपदेशानां काद्यादेशेऽतिदेशात्तत्कार्यसिद्धिरिति वैषम्यात् न तथा' इति । अत्र वार्तिकानि---
तस्य दोषः---तयादेशउभयप्रतिषेधः । जात्यारव्यायां वचनादेशस्थानिवद्भावप्रतिषेधः । ङ्याब्‌ग्रहणेऽदीर्घः । आहिभुवोरीट्‌प्रतिषेधः वध्यादेशे वृद्धितत्वप्रतिषेधः इड्‌विधिश्च । आकारान्तान्नुक्‌षुक्‌प्रतिषेधः । लोडादेशशाभावजभावधित्वहिलोपैत्वप्रतिषेधः । त्रयादेशे स्रन्तस्य प्रतिषेधः । आम्‌विधौ च स्वरे वस्वादेशे प्रतिषेधः । गोः पूर्वत्वणित्त्वात्वस्वरेषु । करोतिपिबत्योः प्रतिषेधः ।
तस्य स्थआनिवदादेश इति लक्षणस्य । तत्र प्रथमवार्तिके यद्वक्तव्यं तत्सर्वादिसूत्रएवोक्तम् । द्वितीयमपि व्यर्थम् । न च व्रीहिभ्य इत्यत्रैकवचनस्थाने बहुवचनादेशविधानात्स्थानिवद्भावात् "घेर्ङिति" इति गुणापत्तिः । अर्थातिदेशस्यैव तत्रोक्तत्वात् ।
तृतीयस्य त्वयमर्थः---निष्कौशांविः अतिखट्‌व इत्यत्र ङ्याब्‌ग्रहणात्सुलोपः प्राप्तो निषेध्यः स्यात् । तस्मान्ङी ई आ आप्‌ इति प्रश्लिष्य दीर्घेति प्रत्याख्येयम् । अतिखट्‌वेनेत्यादावपि नातिप्रसङ्गः । आपो ग्रहणे सर्वत्राकारप्रश्लेषात् । न चैवमप्यतिखट्‌वायेत्यत्र याटः प्रसङ्गः । स्वाश्रयस्यात्वस्य स्थानिवद्भावेन चाप्त्वस्य सत्त्वादिति वाच्यम् । आबन्तं यदङ्गं ततः परस्य याडिति व्याख्यानात् । प्रत्ययग्रहणे यस्मात् स विहितस्तदादेरेव ग्रहणात् । उपसर्जनस्त्रीप्रत्यये तदादिनियमसत्त्वात् । अतिखट्‌वेत्येतत्समुदायस्य आबन्तत्वाभावात् । खट्‌वाइत्यस्याङ्गत्वाभावात् । अतिखट्‌वशब्दादेव तत्र सुबुत्पत्तेः । तथा चाङ्गत्वाबन्तत्वयोः सामानाधिकरण्याभावान्न दोष इति सिद्धम् । अत एवातिकारीषगन्ध्यापुत्र इत्यादौ सम्प्रसारणं न । हल्ङ्यादिसूत्रे तु विहितविशेषणाश्रयणे सेत्यादावव्याप्तिः । यः स इत्यादावतिव्याप्तिश्चेति न प्रश्लेषवैयर्थ्यम् । वार्तिकमतेऽपि "याडापः" इत्यादावाकारप्रश्लेषावश्यकत्वात् । अन्यथाऽतिखट्‌वायेत्यादावङ्गाधिकाकारात्समाधानेऽपि जरसा नसे पृते इत्यादौ दोषस्य दुर्वारत्वात् । सुतामिच्छन्सुतीरित्यादौ सुलोपापत्तेश्च ।
यद्वा---आकारमपि प्रश्लिष्य तत्सामर्थ्यान्मध्ये ह्रस्वतामापन्नस्य वारणमिति बोध्यम् ।
चतुर्थवार्तिकमपि व्यर्थम् । न चात्थेत्यत्राऽऽहादेशस्य स्थानिवद्भावेन "ब्रुव ईट्‌" अभूदित्यत्र अस्त्यादेशभुवः "अस्तिसिचोऽपृक्ते" इतीट्‌ च स्यादिति वाच्यम् । "आहस्थः" इति झलि परे थत्वविधानाज्ज्ञापकात् । न च ईटि कृतेऽपि भूतपूर्वगत्या झलादित्वात् थादेश इति वाच्यम् । आथादेशस्यैव विधानापत्तेर्लाघवात् । तिबाद्यादेशानां णलादीनामपि भूतपूर्वगत्या झलादित्वात् तत्रापि थादेशस्य दुर्वारत्वात् । द्वितीयदोषस्यापि "अस्तिसिचोऽपृक्ते" इत्यत्र द्विसकारकनिर्द्देशेन सकारान्तादेवास्तेः परस्यापृक्तसार्वधातुकस्य ईडागमविधानमिति वारणात् ।
स्यादेतत् । अस्‌इत्यनन्तरं सकारप्रश्लेषे धातुत्वाभावात्तिब्‌ न स्यादिति माधवोक्तदोषापत्तिः । धात्वन्तः पातिना सारेण सिचोऽन्वयानर्हतया सिज्निमित्तकस्य ईटः प्रसङ्गश्च । न चैवामस्तेः सकारान्तत्वेन विशेषणवैयर्थ्यम् । तथाऽपि स्वतन्त्रे भवतौ दोषस्य तावदस्थ्यात् । एतेन सिच्च अस् च सिचस् समाहारद्वन्द्वे सौत्रः पञ्चमीलोपः । भत्वान्न कुत्वजत्वे । अस्ति विद्यमानं च त त्सिचस् चेति कर्मधारयः । तेन लुप्तात्सिचो भूभावेनापहृतादस्तेश्च परस्य नेति कल्पनं प्रत्युक्तम् । रूपसिद्धावपि भाष्योक्तेरनिर्वाहात् । अत एव सिचोऽल्पाच्‌कत्वाद्बहुविषयतयाऽभ्यर्हितत्वाच्च पूर्वनिपातपाप्तावपि तदकरणं तन्त्रादिना विद्यमानसिच इत्यर्थलाभार्थम् । तिप्रयोगस्वारस्याच्च । अन्यथा सिचस्भ्यामित्येव ब्रूयात् । न चास्तयस्यत्योरतिप्रसङ्गः । विकरणव्यवधानेन ताभ्यां परस्यापृक्तसार्वधातुकस्यासंभवादिति माधवोक्तमप्यपास्तम् ।
अत्र वदन्ति । अस्तिसिचस्‌स् इतिच्छेदः । सान्तादस्तेः न तु कृतभूभावात् सान्तात्सिचः श्रूयमाणादिति यावत् । न चैवं "सिचोऽपृक्ते" इति संहितानुपपत्तिः । द्वितीयस्य संयोगान्तलोपात् संयोगान्तं यत्पदन्तस्येति पक्षे तदभावेऽपि संयोगान्तस्य पदान्तस्येति पक्षे सौलभ्यात् । तस्याप्याकरारूढत्वात् । न च तस्यासिद्धत्वाद्रोरुत्वानापत्तिः । "संयोगान्तलोपो रोरुत्वे" इति सिद्धकाण्डे पाठात् । एतन्निर्द्देशस्यैव च तद्वार्त्तिकार्थे मूलत्वात् । यद्वा---माऽस्तु संयोगान्तलोपः द्वयोरेव सकारयो रुत्वे कृते "अतो रोः' इत्यनेन द्वयोरप्येक एव उकारः, पश्वेकत्ववद्विधेयविशेषणस्यैकत्वस्य विवक्षितत्वात् । न चोकारद्वयेऽपि सवर्णदीर्घानन्तरमाद्‌गुणो व्याख्येय इति वाच्यम् । एकपदाश्रयत्वेनान्तरङ्गत्वात् सिच उ इत्यत्र गुणस्यैव सवर्णदीर्घं बाधित्वा प्रसङ्गात् । न च सकारद्वयस्याप्येक एव रुर्भवत्विति वाच्यम् । तद्विधौ पदस्येत्यनुवृत्तेरेकपदान्तत्वाभावात् । द्वितीयसकारस्य पृथक्‌पदत्वात् । न च पूर्वरुकारात्परो नाकारो द्वितीयात्तु न पूर्व इति कस्याप्युत्वं न स्यादिति वाच्यम् । रोरिति जातिनिर्देशोपगमात् । तत्र चोक्तनिर्द्देशस्यैव मानत्वात् । न च परत्वाद्‌ "हशि च" इति पूर्वस्यैव उत्वापत्तिः । रुत्वस्यासिद्धतया परत्वाभावात् । न चाश्रयात्सिद्धत्वम् । स्थान्यंशे तथात्वेऽपि निमित्तांशे तदभावात् । तकारभिन्नस्यापि हशः सम्भवेनान्यथाऽनुपपत्त्यभावादिति ।
अत्रेदं वक्तव्यम्---द्वितीयः सकारः प्रथमान्तः पञ्चम्यन्तो वा निर्विभक्तिको वा । नाद्यः । सिच इति पञ्चम्यन्तविशेषणत्वानुपपत्तेः । न द्वितीयः । छान्दसत्वापत्तेः । नान्त्यः । पदत्वाभावे रुत्वानुपपत्तेः । एतेन संयोगान्तलोपोऽपि निरस्तः । एवं सिचः सकारान्तत्वेन विशेषणमपि व्यर्थम् । "अस्तिसिचोऽपृक्ते" इति द्विसकारको निर्देशः । अस्तेः सकारान्तादिति भाष्यकारैरस्तेरेव तद्विशेषणस्योक्तत्वात् । वार्तिकेऽपि भ्वादेशस्यैव ईट्‌प्रसक्तिप्रतिषेधयोरुक्तत्वात् । श्तिपः पूर्वं सकारप्रश्लेषएव भाष्यतात्पर्यात् । श्तिपः सौत्रत्वादुपपत्तेः । न चैवं सिचः परत्वमाश्रित्य ईडागमापत्तिः । "गातिस्था' इति सूत्रे बहुलग्रहणमनुवर्त्य तस्य एवकारसमानार्थत्वं चाश्रित्य सिचो लुगेव भवति इति व्याख्यानात् स्थानिवद्भावनिषेधोपपत्तेः । एतेन पूर्वोक्तरीत्या सिचस् इति समाहारे तदुपरि स् इति छेदमाश्रित्य अस्तिग्रहणप्रत्याख्यानपरतयाऽपीदं भाष्यं योजयितुं शक्यमित्यपि परास्तम् । भत्वपञ्चमीलोपयोरुभयत्र छान्दसत्वकल्पने गौरवाच्च । एतेन जातिनिर्द्देशे इदमेव प्रमाणमिति निरस्तम् । तादृशनिर्देशएव मानाभावात् । वर्णग्रहणे जातिग्रहणमित्यस्य तु नायं विषयः । रोः इति समुदायाश्रयणाद् । द्वयोरुत्वमप्यनुपपन्नम् । रुत्वस्यासिद्धत्वात् । न चाश्रयात्सिद्धत्वम् । एक एव यत्र रुस्तत्र चरितार्थत्वात् । उत्वस्य सिद्धत्वं विना तदनुवादेनोत्वविधिवैयर्थ्यापत्तेरेव सिद्धत्वकल्पनात् । द्वितीयांशेऽसिद्धत्वबाधे प्रमाणविरहात् ।
यद्वा---श्तिपं विनैव सूत्रं पाठ्यमिति भाष्याभिप्रायः । "अस्सिचोऽपृक्ते" इति तत्रैव सकारान्तरं व्याख्येयम् । अस्तेः सकारान्तादिति भाष्यं तु अस् इत्यंशव्याख्यापरम् । असत्यादावतिप्रसङ्गस्य माधवोक्तरीत्या निरस्तत्वात् । भाष्यस्य समाधानोपलक्षणतामात्रत्वे तु अस् इति लुप्तपञ्चमीकं स्ति इति अपृक्तविशेषणम् । असः सिचश्च परस्य सकारतकरादेरपृक्तसार्वधातुकस्य ईट्‌ स्यात् । आभ्यां परस्यापृक्तसार्वधातुकस्य सकारतकारत्वरूपनियमात् विशेषणानुपयोगे येन रूपेणात्र निर्द्देशस्तद्रूपावछिन्नापेक्षया परत्वलाभाय तत् । तेन स्थानिवद्भावव्यावृत्तिरित दिक् ।
पञ्चमस्य त्वयमर्थः । "हनो ण्बुल्बहुलं तणि" इति वार्त्तिकेन संज्ञाछन्दसोर्वधादेशः । तस्य हलन्तत्वाद्‌ "अत उपधायाः" इति वृद्धिः । "हनस्तोऽचिण्णलोः" इति तकारादेशश्च स्यात्, तयोः स्थानिवद्भावो निषेध्यः । आवधिषीष्टेत्यत्र स्थानिवद्भावेनाङ्गतया "एकाच उपदेशेऽनुदात्ताद्‌" इतीण्निषेधश्च स्यात् । अत्र स्थानिवद्भावेनाङ्गसंज्ञा न भवतीति वक्तव्यम् ।
इदमपि भाष्ये प्रत्याख्यातम्---अवधीदित्यत्र "अतो हलादेः" इति वृद्धिप्रसङ्गाद्वधादेशस्यादन्तत्वस्वीकारात् । वधक इति तु "हनो वधश्च" इत्यौणादिकः क्वुन् । तथा च वृद्धितत्वयोर्न प्रसङ्गो णित्त्वाभावात् । इटो निषेधोऽपि नास्ति । वधादेशआद्युदात्तनिपातनसामर्थ्याप्रकृतिस्वराप्रवृत्तेः । न च यदा वधिषीष्टेत्यत्र "निपातैर्यद्यपि" इति निघातप्रतिषेधात् इष्टः प्रत्ययस्वरो न स्यात्, सतिशिष्टेनाद्युदात्तेन बाधापत्तेरिति वाच्यम् । आर्द्धधातुकीयाः सामान्येन भवन्तीति प्रत्ययोत्पत्तेः पूर्वमेव वधादेशात् तदुत्तरं प्रत्ययोत्पत्त्या तत्स्वरस्यैव सतिशिष्टत्वात् ।
अत्रेदमवधेयम् । वार्त्तिकरीत्या "आर्द्धधातुके" इत्यस्य विषयसप्तमीत्वेऽपि लिङीत्यादीनां परसप्तमीत्वाभ्युपगमात् स्यसिच्सूत्रे "वधभावात्सीयुटि चिण्वद्भावो विप्रतिषेधेन " इत्युक्तम् । उभयोरपि परनिमित्तकत्वात् ।
भाष्यमते तु वधादेशस्य प्रत्ययोत्पत्तेः पूर्वमेव प्रवृत्त्या परनिमित्तकत्वाभावात् अन्तरङ्गत्वात् चिण्वद्भावस्य तु परनिमित्तकतया बहिरङ्गत्वादन्तरङ्गबहिरङ्गयोश्च विप्रतिषेधायोगात्कथञ्चिण्‌वद्भाव इति शङ्कायां प्रतिपदविधित्वाच्चिण्वद्भाव इति कैयटः ।
स्यादेतत् । प्रतिपदविधित्वं किमनवकाशत्वम् उत साक्षादुपात्तत्वम् । नाद्यः । स्यसिच्सूत्रे हनग्रहणस्य घानिष्यतइत्यादौ सीयुटो ग्रहणस्य तु कारिषीष्टेत्यादौ सावकाशत्वात् । न च स्यादीनां चतुर्णाम् अजन्तादिभिश्चतुर्भिरन्वयात्स्वरितत्वाभावेन च यथासंख्यविरहात् प्रत्येकं स्यादिभिरन्वयाद्धनः सीयुटि चिण्वद्‌भावविधानम् । तन्निरवकाशमेव । अन्तरङ्गत्वाद्वधभावे तस्य स्थानिवद्भावेन हन्तिना ग्रहणात्सीयुटि चिण्वदिटि कृते "ण्यल्लोपौ" इति पूर्वविप्रतिषेधेन अतो लोपे वधिषीष्टेत्येव रूपापत्तेरिति वाच्यम् । अन्तरङ्गत्वात्पूर्वं वधभावप्रवृत्तौ हनः सीयुडन्वयएव मानाभावात् । नान्त्यः । "हनो वध लिङि" इति साक्षादुपादानस्य वधादेशेऽप्यविशिष्टत्वात् । अन्तरङ्गत्वस्याधिक्याच्च ।
अत्राहुः---"चिण्वदिट्‌ च" इति चकारेण हन्तेः सीयुटि चिण्वद्भावविधानात्तस्यानर्थक्यमेव प्रतिपदविधित्वम् । न च तस्यानुक्तसमुच्चयार्थत्वे मानाभावः । भाष्यकृतैव च भगवान् कृतवांस्तु तदर्थमित्युक्तत्वात् । यद्वा---लिङीति सामान्यं सीयुटीति विशेषः । हन्तेरित्युभयत्राप्यविशिष्टम् । तथा चापवादत्वादेव चिण्वदिट असंभवे चकारेणापि तद्विधानस्याशक्यत्वात् ।
यद्वा---असिद्धं बहिरङ्गमित्यनेन "अन्तरङ्गं बलवत्" इत्येतप्रत्याख्यानस्य वक्ष्यमाणत्वात्तस्य च कृतितुग्ग्रहणेनानित्यत्वज्ञापनात् लक्ष्यानुरोधेनेह त्यागाद् युक्तो विप्रतिषेधः । अथ वा लिङीति परसप्तम्येवास्तु । परत्वाच्चिण्वदिट् । आद्युदात्तनिपातनं तु माऽस्तु । न च कर्त्तेत्यादिवद्वधिषीष्टेत्यत्र इडनापत्तिः । हन्त्युपदेशे एकाच्त्वेऽपि वध्युपदेशेऽनेकाच्‌त्वात् । वधेर्द्वावुपदेशाविति भाष्यएवोक्तत्वात् । एकेति विशेषणस्यानेकाव्‌कोपदेशव्यावृत्त्यर्थत्वात् । न चाच इत्युक्ते तदन्तस्यैव स्यादिति वाच्यम् । पचादीनामनुदात्तेत्ववैयर्थ्यापत्तेः । एकत्वविवक्षामत्वर्थलक्षणाभ्यामच इत्येतावतैव एकाज्वतो लाभे एकग्रहणस्योक्तार्थपरत्वात् । उक्तार्थपरतयाऽपि "यत्रैकाज्‌ग्रहणं चैव" इति परिभाषाप्रवृत्तिसिद्धेः । न चैकपदस्योक्तरीत्या सार्थक्ये "श्तिपा शापा" इत्यादिपरिभाषाज्ञापकत्वानुपपत्तिः । शीङ्‌दीङादीनां गुणयुडाविधावनुबन्धनिर्देशस्यैव तज्ज्ञापकत्वात् । तस्माद्वयेः परस्य इट्‌ सिद्धः । अत एव व्याघ्रभूतिनाऽनिट्‌कारिकासु अदन्तपर्युदासः कृत इति ।
यत्तु प्रसादकृता घानिषीष्टेत्येव रूपं न तु वधिधिषीष्टेत्यपि । तदुक्तं भाष्ये---
अथेदानीं चिण्वद्भावे कृते पुनः प्रसङ्गविज्ञानाद्वधभावः कस्मान्न भवति सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति, हनिणिङादेशप्रतिषेधश्चेति ।
तन्न । चिण्वद्‌भावपक्षे वधादेशविरहेऽपि तदभावपक्षे वधादेशप्रवृत्तौ बाधकाभावात् । हनिणिङादेशनिषेधस्य तु स्यादिषु चिण्वदित्यतिदेशेन यत्प्राप्तं तत्परत्वात् । लिङिप्राप्तस्य तदविषयत्वात् । अत एवाङ्गकार्याणामेवातिदेशमाश्रित्य तद्‌ भाष्ये प्रत्याख्यातम् । प्रमादकारेणापि प्रथमं तथैवानूदितमिति । अत एव "एकाच" इति सूत्रे वधिषीष्टेति रूपं भाष्यएवोदाहृतम् । आकारान्तादित्यादिपञ्च वार्तिकान्यपि अनारभ्याणि । तथा हि---विलापयति भापयति इत्यत्र नुक्‌षुकौ ली ई भी ई इतीकारप्रश्लेषादेव न भवतः । शिष्टात् हतात् भिन्तात् कुरुतात् स्तात् इत्यत्र परत्वात्तातङि कृते "शाहौ" "हन्तेर्जः" "हुझल्भ्यो हेर्धिः" "उतश्च प्रत्ययादसंयोगपूर्वात्" "घ्वसोरेद्धौ" इति शाभावो जभावो धित्वं हिलोप एत्वं चेति स्थानिवद्भावेन प्रसक्ताः, सकृद्गताविति न्यायान्न । एतेन पुष्णीतादित्यत्र "हलः श्नः शानज्‌" इत्यस्याप्यप्रवृत्तिर्व्याख्याता । तिसृभावे कृते "त्रेस्त्रयः" इत्यपिनादेशः । उक्तन्यायात् । एतेन चतस्रस्तिष्ठन्तीत्यत्र चतसृभावे कृते "चतुरनडुहोः" इत्याम्नेति व्याख्यातम् । विदुषः पश्येत्यत्र वस्वादेशस्य शतृग्रहणेन ग्रहणात् "शतुरनुमो नद्यजादी" इति सूत्रेणान्तोदात्तात्परत्वमुपजीव्य विभक्तेर्नोदात्तत्वम् । "अनुम" इत्यत्र "तनादिकृञ्भ्य उः" इत्युकारादारभ्य नुमो मकारपर्यन्तमुम्प्रत्याहारमाश्रित्य तद्रहितस्येति व्याख्यानात् । वसोश्च तत्रान्तर्भावात् । न चैवं लुनता पुनतेत्यादावपि न स्यात्, श्नाप्रत्ययस्यापि तदन्तर्गतत्वादिति वाच्यम् । अनुम्‌ग्रहणं शतुर्विशेषणं न तु तदन्तस्येत्याश्रयणात् । शतरि परे श्नाप्रवृत्तावपि तस्य शतृप्रकृतिकत्वाभावात् । नुमित्यागमग्रहणेऽपि तद्रहितस्य शतर्येव विशेषणत्वात् । तदन्तविशेषणत्वे मुञ्चतीत्यादावपि निषेधापत्तेः । तदन्तस्य "शे मुचादीनाम्" इति सनुम्कत्वात् । अपत्यवार्त्तिकस्य त्वयमर्थः---चित्रग्वग्रमित्यत्र "सर्वत्र विभाषा गोः" इति पूर्वरूपं स्यात् । "नान्तः पादम्" इति पाठस्य भाष्यारूढतया सर्वत्रेति सूत्रस्यापि पूर्वरूपविधायकत्वौचित्यात् ।
कैयटस्तु प्रकृतिभावोऽनेन विधीयते, न पूर्वरूपम् । तस्माद्‌ "एङः पदान्तादति" इति पूर्वरूपं प्राप्नोतीति भाष्यार्थ इत्याह । शाकलसूत्रे ह्रस्वश्चेति चकारेण प्रकृत्येत्यनुकृष्यतइति भाष्यदर्शनात् "प्रकृत्याऽन्तः पादम्" इति पाठ इति तस्याशयः । एङ इति तत्र वर्त्तते इति भाष्यस्याप्यत्रानुगुण्यम् । पूर्वमतं तु सर्वत्रेत्यत्र तदनुवृत्तिपरतया नेयम् । न चैङ इत्यलाश्रयणान्न स्थानिवत्त्वमिति वाच्यम् । हे चित्रगो अग्रमित्यत्र तथाऽपि दुर्वारत्वात् । स्वत एङन्ततया स्थान्यलोऽनाश्रयणात् । एवं चित्रगुरित्यत्र "गोतो णित्" इति णित्त्वाद्वृद्धिः स्यात् । चित्रगूनित्यत्र "आ गोतोऽम्शसोः" इति षाष्ठवार्त्तिकपाठादात्वं स्यात् ।
अत्र णित्त्वग्रहणं व्यर्थण् । तपरत्वेनैव तयोरप्रवृत्तेः । "औतोऽम्शसोः" इति पाठस्यैव स्थितत्वात् । न च अचिनवमित्यादावतिप्रसङ्गः । शसा साहचर्यात्सुप एवामो ग्रहणात् । बहुगुमानित्यत्र "ह्रस्वनुड्‌भ्यां मतुप्" इत्युदात्तस्य "न गोश्वन्त्साववर्ण" इति निषेधः स्यात् । ततः गोः पूर्वस्वरयोरिति वार्तिकं स्थितम् । बहुगुना इत्यादौ "अन्तोदात्तादुत्तरपदादन्यतरस्याम्" इति प्राप्तस्य "न गोश्वन्" इति निषेधः इति वृत्तिग्रहन्थस्तु भाष्यादिविरोधाच्चिन्त्यः । द्वादशवार्तिकमप्यनारभ्यम् । न च कुरुपिबेत्यादौ स्थानिवत्त्वाल्लघूपधगुणापत्तिः । करोतौ तपरनिर्देशादकारस्य मात्रिकत्त्वादुकार एव न्याय्य इति तपरत्वस्य शास्त्रान्तरप्राप्तद्विमात्रनिवृत्त्यर्थत्वात् पिबेश्चादन्तत्वात् ।

अचः परस्मिन् पूर्वविधौ 56 ।

परनिमित्तकोऽच आदेशः स्थानिवत्स्यात् तस्मात्पूर्वत्वेन दृष्टस्य दृष्टाद् वा निमित्तात् विधौ कर्त्तव्ये । अल्विध्यर्थमिदम् । वव्रश्च । उरदत्वस्य स्थानिवद्भावाद् "न संप्रसारणे" इति वकारस्य संप्रसारणनिषेधः । उरदत्वस्याङ्गाधिकारीयतयाऽङ्गाक्षिप्ते प्रत्यपे परे तद्विधानात् । न च प्रागभ्यासविकारेभ्योऽङ्गाधिकार इति वाच्यम् । आसप्तमसमाप्तेरित्यस्य सिद्धान्तितत्वात् । "गुणो यङ्‌लुकोः" इत्यत्र लुगग्रहणस्य कृतत्वात् । अत्र स्थानिभूतादच ऋकारात्पूर्वत्वेन दृष्टस्य वकारस्य संप्रसारणे कर्त्तव्ये स्थानिवद्भावः । एवमचितीकः सुचितीकः बहुचितीक इत्यत्र "चितेः कपि" इति दीर्घः । "ह्रस्वान्तेऽन्त्यात्पूर्वम्" इति स्थान्यलाश्रयः स्वरः सिद्धः । स्वरविधौ स्थानिवद्‌भावनिषेधस्य लोपाजादेशमात्रविषयकत्वात् । अखट्वको बहुखट्वक इत्यादौ "आपोऽन्यतरस्याम्" इति ह्रस्वस्य स्थानिवद्भावान्नोक्तः स्वरः किं तु "कपि पूर्वम्" इत्युत्तरपदान्तोदात्तत्वमेवेत्यवधेयम् । तस्माद्विधौ यथा---तन्वन्ति तन्वते । यणादेशस्य स्थानिवद्भावान्नेट् । अन्यथा उकारस्यार्द्धधातुकतया यणि कृते वलादित्वात् स स्यात् । तन्नित्यं तत्र निमित्तं तच्चोकारात्पूर्वम् । अच इति किम् । विश्नः द्यूत्वा स्यूत्वा अभिगत्य आद्ययोश्छकारस्य शकारः । तस्य परनिमित्तकत्वात्स्थानिवद्‌भावे "छे च" इति तुक् मा भूत् । नन्वन्तरङ्गत्वात्पूर्वमेव तुका भाव्यम् । "वार्णादाङ्गं बलीय" इत्यस्य युगपत्प्राप्तिके समानाश्रयएव प्रवृत्तेः । करोतेर्णलि कृ अ इति स्थिते "अचो ञ्णिति" इति वृद्धेः गौरित्यादौ सावकाशत्वात्तद्बाधित्वाऽन्तरङ्गत्वात्प्राप्तस्य यणो बाधेन वृद्धेरेव प्रवृत्तिः । प्रश्न इत्यत्र तु शत्वस्य प्रत्ययोत्पत्त्यनन्तरं तुकस्तु प्रागेवेति प्राप्तिकाले वैषम्यात् । शस्य नङ्‌ निमित्तम्, तुकस्तु छ इति समानाश्रयत्वाभावाच्च ।
अत्रायं प्राचामभिप्रायः । "अभ्यासस्यासवर्णे" इत्यत्रासवर्णग्रहणं तावदस्य ज्ञापकमिति षष्ठे प्रथमाह्निकान्ते भाष्ये स्पष्टम् ।
तथा हि---ईयतुः ऊषतुरित्यत्रातिप्रसङ्गवारणं न तदर्थः । अन्तरङ्गबलवत्तयैव गतत्वात् । सवर्णदीर्घस्यावयवमात्रापेक्षत्वात् । इयङुवङोरभ्याससंज्ञाऽङ्गसंज्ञा चेत्युभयापेक्षत्वात् । न चेयङुवङोस्तदपवादत्वम् । येननाप्राप्तिन्यायेन यणं प्रत्येव तयोरपवादत्वात् । ननु इच्छत्येतिभ्यां णलि इष् अ इ अ इत्यत्र गुणवृद्ध्योः सत्योः "द्विर्वचनेऽचि" इति रूपातिदेशाद्‌ इकारे द्वित्वप्रवृत्तिः । तत्र सवर्णदीर्घप्राप्तावप्येतदारम्भात्तन्निरूपितापवादत्वं दुर्वारम् । निन्यतुरित्याद्यनुरोधेन पूर्वप्रवृत्तकार्यस्य द्वित्वानन्तरमवस्थाननियमस्य वक्तुमशक्यत्वात् । अन्यथा पूर्वमियङ्‌प्रवृत्त्या द्वित्वानन्तरम् "एरनेकाचः" इति यण्‌ न स्यात् । मैवम् । कृतेऽप्यसवर्णग्रहणे तस्य निर्विषयकत्वापत्तेः । न च तत्सामर्थ्यात्सवर्णदीर्घं बाधित्वा पुनर्गुणवृद्धिप्रवृत्तिः । इयर्तीत्यादौ चारितार्थ्यात् । न च असवर्णग्रहणाभावेऽपि येननाप्राप्तिन्यायेन इयर्तीत्यत्र यण्‌बाधे सिद्धे तदनुपादानापत्तिः । सामर्थ्यात् इयेषेत्यादौ गुणादिप्रवृत्तिस्वीकारेऽसवर्णग्रहणवैयर्थ्यतादवस्थ्यात् । "अर्त्तेश्च" इत्येव सूत्रयित्वा य्वोरित्यनुवर्त्य अर्त्तेरिकारस्य इयङि विधेये "अभ्यासस्य" इत्युक्तिसामर्थ्येनापि इयेषेत्यादिसिद्धेः । न चार्त्तेरिति पाठे अरियर्ति इति यङ्‌लुकि तदसिद्धिः । उरित्येव वाच्यत्वात् । इण्‌साहचर्याद्धातुग्रहणसिद्धेः । ऋकारस्याङ्गेन विशेषणाद्वा । तेन अत्त्रग्निरित्यादौ न दोषः । न चैवमियेषेत्यादिवदीषतुरित्यादावपि इयङापत्तिः । सवर्णदीर्घस्यान्तरङ्गत्वात् । इयेषेत्यत्र तु गुणसंभावनया अकृतव्यूहपरिभाषया दीर्घाप्रवृत्तेः । एतेन निन्यतुरित्यादौ इयङादेरप्रवृत्तिरपि व्याख्याता ।
तत्र च ज्ञापकं "समर्थानां प्रथमाद्वा" इति सूत्रे समर्थग्रहणम् । तद्धि सौत्थितिर्वैक्षमाणिरित्यादौ भाविन्या आदिवृद्ध्या अन्तरङ्गस्यापि सवर्णदीर्घस्य निमित्तविघातादप्रवृत्तिः स्यादिति सावुत्थितिर्वायीक्षमाणिरित्यनिष्टरूपवारणार्थम् । कृतसन्धिकार्यत्वरूपं परिनिष्ठितत्वं च तत्र समर्थशब्दार्थः । निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीति तत्परिभाषाऽर्थः । कृतमपि निवर्त्तयन्तीत्यस्य ज्ञाप्यत्वे तु फलसाम्येऽपि गौरवाधिक्यं बोध्यम् । तस्मादियेषेत्यादौ गुणे कृते सवर्णदीर्घानवकाशाद्यणि प्राप्ते तस्यैव इयङपवादः इत्यसवर्णग्रहणवैयर्थ्ये प्रसक्ते तत्र गुणाप्रवृत्त्युपपादकत्वेन वार्णआदाङ्गस्य बलवत्त्वस्य ज्ञापकतया तत्सार्थक्यम् । न च गुणस्य स्थानिवद्‌भावाद् "असवर्णे" इति निमित्तस्याविघातात्कथम् अकृतव्यूहन्यायप्रवृत्तिः स्यादिति वाच्यम् । "न पदान्त" इति सवर्णविधौ तन्निषेधात् । तत्रत्यसवर्णादिग्रहणप्रत्याख्यानपक्षे तु पूर्वस्यैव विधौ स्थानिवद्भावो न तु स्वपूर्वैकादेशविधाविति वक्ष्यमाणत्वात्सवर्णदीर्घनिमित्तविघातो बोध्यः । तस्मात्समानाश्रये युगपत्प्राप्तौ चोक्तपरिभाषाज्ञापनात्तादृशविशेषविषयकत्वमप्यास्थीयते । लक्ष्यानुरोधात् ।
स्यादेतत् । समानाश्रयेत्यत्र कार्यिणोरैक्यं विवक्षितम्, निमित्तयोर्वा । नाद्यः । स्योन इत्यत्र सि ऊ न इति स्थिते इकारस्यैव गुणयणोः प्राप्त्या समानाश्रयत्वसत्त्वात् तदभावान्नोक्तपरिभाषाप्रवृत्तिरिति कैयटादिग्रन्थविरोधआत् । आह्व इत्यत्र आहु आ अ इति स्थिते आलोपपूर्वत्वयोरप्याकारोद्देश्यकत्वेन व्याश्रयत्वात्तदप्रवृत्तिकथनविरोधाच्च । न द्वितीयः । इ इ अतुस् इत्यत्र सवर्णदीर्घस्य इकारो निमित्तम्, यणस्तु प्रत्ययाकार इति समानाश्रयत्वानुपपत्तेः । श्वन्शब्दस्य भत्वे संप्रसारणे च शु अन् अस् इत्यत्र अल्लोपस्य भनिमित्तत्वात्पूर्वत्वस्य च तदभावाच्च । तथा हि---सिवेर्बादुलकादौणादिके नप्रत्यये गुणो वलोप ऊठ्‌ च प्राप्नोति । तत्रापवादत्वाद्वलोपं बाधित्वा ऊठ्‌ ।
न चैवमपि गुणबाधे विनिगमकाभावः । गुणस्याङ्गसम्बन्धिनीं लघ्वीमिग्लक्षणामुपधामार्द्धधातुकं चापेक्षमाणस्य बहिरङ्गत्वात् । ऊठस्तु वकारान्तमङ्गमनुनासिकादिं च प्रत्ययमपेक्षमाणस्यान्तरङ्गत्वात् । सि ऊ न इति स्थिते लघूपधगुणयणोः प्राप्तौ वर्णामात्रापेक्षत्वेनान्तरङ्गत्वाद्यण्‌ । ततः "सार्वधातुकार्द्धधातुकयोः" इति ऊकारस्य गुण इति स्योनेत्यस्य सिद्धिः । एवं "कविधौ सर्वत्र संप्रसारणिभ्यो ड" इत्युक्त्वाऽऽह्वः प्रह्व इत्युदाहृत्य कप्रत्ययेन सिद्धिमाशङ्क्य कप्रत्ययसंप्रसारणयोरुवङि कृते आहुवइति स्यात् । न च आलोपस्य स्थानिवद्भावान्नोवङ्‌ । पूर्वत्वे कृते तत्प्राप्तेः । परत्वादाकारलोप एव स्यादित्युक्त्वा अन्तरङ्गत्वात्पूर्वत्वमित्याशङ्क्य "वार्णादाङ्गं बलीय" इत्याकारलोप इत्युत्त्का एवं तर्हीदमिह सप्रधार्यम् आकारलोपः क्रियतां संप्रसारणमित्युत्त्का परत्वादातो लोपः । ततः संप्रसारणे यणादेशे आह्वः प्रह्व इत्यादि सिद्धम्, इति भाष्यम् । एवं तर्हीत्यादिभाष्यस्यावतरणिकायाम् "वार्णादाङ्गं बलीय इत्यस्य" समानाश्रयएवाङ्गीकारादालोपपूर्वत्वयोश्च भिन्नाश्रयत्वात्तदप्रवृत्तिरिति कैयटः । तदनन्तरं च पूर्वत्वस्यान्तरङ्गत्वमिति भाष्यव्याख्यायां "वार्णादाङ्गं बलीय" इत्येतत्तु समानाश्रयविषयमेवेत्युक्तमिति तेनोक्तम् ।
एवम् अशब्दादाचारक्विबन्ताल्लिटि अ अ अतुस् इत्यत्राऽतोलोपस्य व्याश्रयत्वात् "अतो गुणे" इति पररूपमेवेति मनोरमादिविरोधः । तथा हि---"उपेयिवान्" इति सूत्रे इणो द्विर्वचनेऽभ्यासदीर्घत्वे च कृते इयादेशो निपात्यतइत्युत्त्का "दीर्घ इण" इति दीर्घेण बाधादेकादेशो न स्यादित्याशङ्क्य दीर्घत्वं नैकादेशबाधकम्, किं तु "इणो यण्" इति विधीयमानो यण्‌ । स च स्वप्राप्तावेव बाधकोऽत्र तु यणः प्राप्त्यभावादेकादेश एवेत्युक्तं भाष्ये । तत्र कैयटेन ईयतुरित्यत्राभ्यासदीर्घत्वे एकादेशात्पूर्वम् "वार्णादाङ्गम्" इति यणि कृते स्थानिवत्त्वादेकादेशः प्राप्नोतीत्युक्तत्वेनाभ्यासदीर्घत्वमेकादेशबाधकं स्यादित्याशङ्क्य स्थानिवद्भावेन रूपानतिदेशात् रूपाश्रयस्यैकादेशस्य यकारेऽभावः । "वार्णादाङ्गम्" इति यणादेशेन बाधितस्यैकादेशस्य स्थानिवद्भावे कृते प्राप्त्यभाव इति व्याख्यातम् । इ इ अतुस् इत्यस्यामवस्थायां यथा इणो यणआदेश एकादेशस्य बाधकः तथा स्थानिवद्भावानन्तरमप्येकादेशप्राप्ताविति तदर्थः । तथा "संप्रसारणाच्च" इति सूत्रे "अटो वृद्धेरियङ्‌" इति वार्त्तिकेऽध्यैयातामित्यत्र "वृद्धिरन्तरङ्गा" इति भाष्यव्याख्यायां "वार्णादाङ्गं बलवद्" इत्यनाश्रित्येदमुच्यतइति कैयटविरोधः । एवम् "आदेच" इति सूत्रे आयादेशे अलोऽन्त्यस्यात्वे ग्लानीयमित्यादिसिद्धिरिति पक्षे विवरणप्रस्तावे ग्लै अतुसित्यत्रायादेशे यकारस्य आत्वे ग्ला आ अतुसित्यत्र एकादेश आतोलोपश्च प्राप्तः । तत्रैकादेशस्य वर्णाश्रयत्वादन्तरङ्गत्वेऽपि "वार्णादाङ्गम्" इत्यातो लोपः । तस्याभीयत्वेनासिद्धत्वा त्स्थानिवद्भावाच्च पूर्वस्यातोलोपो न स्यादिति दोषमुपन्यस्य "वार्णादाङ्गम्" इत्यनाश्रित्येदमुक्तमिति कैयटोऽप्यसङ्गतः स्यात् ।
स्यादेतत् । एकनिष्ठकारणतानिरूपितैकवर्णनिष्ठोद्देश्यतानिरूपितोभयविधेयताकत्वं तत् । यथा कृ अइत्यादौ । उक्तं च कौस्क्तभे---यत्र ह्येकमेव निमित्तीकृत्य युगपदाङ्गवार्णयोः प्राप्तिस्तत्रैव "वार्णादाङ्गं बलीय" इति विच्छ्‌न इत्यत्र तुक्‌शत्वयोः छकारनकाररूपनिमित्तभेदस्य स्पष्टत्वात् । अतः स्योन इत्यादौ न दोषः । तत्र गुणस्यार्द्धधातुकं निमित्तं यणस्त्वजिति कारणभेदात् । आह्व इत्यादावपि आलोपपूर्वत्वयोरेकोद्देश्यकत्वेऽपि लोपस्य अजादिङ्किदार्द्धधातुकं निमित्तं पूर्वत्वस्य तु नेति निमित्तैक्याभावात् । शुन इत्यत्रापि न दोषः । संप्रसारणस्य भसंज्ञानिमित्तकत्वात् । संप्रसारणनिबन्धनपूर्वत्वस्यापि भसंज्ञानिमित्तकत्वे बाधकाभावात् । प्रयोजकसाधारणस्यैव निमित्तताया विवक्षितत्वात् ।
वस्तुतस्तु शुन इत्यत्र पूर्वत्वमेवेष्टं विप्रतिषेधसूत्रीयाकरग्रन्थप्रामाण्यात् । अल्लोपे उदात्तनिवृत्तिस्वराद्यापत्तिरिति तत्र निरूपयिष्यमाणत्वात् । अल्लोपपरासिद्धवत्सूत्रसल्थकैयटादिग्रन्थस्य प्रौढिमात्रत्वात् । तेन द्यवतीत्यत्रापि नातिव्याप्तिः । यण्गुणयोरेकोद्देश्यकत्वेऽपि ऊकारसार्वधातुकरूपनिमित्तभेदात् । मैवम् । ईयतुरित्यत्र तदभावात् । सवर्णदीर्घे प्रथम इकार उद्देश्यो यणि तु द्वितीय इति कार्यिभेदात् । न च "एकः पूर्वपरयोः" इति द्वितीय इकारोऽपि सवर्णदीर्घे कार्यीति वाच्यम् । तथाऽपि यणि अतुसोऽकारो निमित्तम्, सवर्णदीर्घे तु अभ्यासोत्तर इकार इति भेदात् । ननु स्थानेद्विर्वचनपक्षेऽतुसोऽकारस्यापि द्वित्वनिमित्तत्वात् । चक्रतुरित्यत्र यणः स्थानिवद्भावार्थं साक्षआद्वा समुदायघटकतया वा द्वित्वप्रयोजकस्यैव द्वित्वनिमित्तत्वस्वीकारात् । लक्ष्यानुरोधादिहापि तथाश्रयणे बाधकाभावात् ।
तथा च अकारस्य द्वितीयेकारप्रयोजकतया सवर्णदीर्घनिमित्तत्वमप्यस्ति । यण्‌निमित्तत्वं तु तस्य स्पष्टमेवेति चेत् । मैवम् । स्योन इत्यत्र यण्‌निमित्ते ऊकारे तस्य निमित्ततया गुणेऽप्यार्द्धधातुकतया तस्य निमितत्त्वात् । आह्व इत्यत्र संप्रसारणं पूर्वत्वे निमित्तम्, तत्र च कित्त्वमिति किदार्धधातुकनिमित्तकमातोलोपं प्रत्यपि तस्य निमित्ततया समानाश्रयत्वापत्तेश्च । न चैकनिमित्तेत्यस्यैकधर्मावच्छिन्ननिष्ठनिमित्तत्वमर्थः । ईयतुरित्यत्र सवर्णदीर्घयण्‌निमित्तयोरिकाराकारयोरच्‌त्वरूपैकधर्मावच्छिन्नत्वादिति वाच्यम् । विश्न इत्यत्र शत्वतुगागमनिमित्तयोर्नकारच्छकारयोरपि इल्त्वरूपैकधर्मावच्छिन्नत्वात् ।
किं च पूर्वोक्तरीत्या यण्‌सवर्णदीर्घयोः स्थानैक्यसंपादने "इजादेश्च" इति सूत्रे ऋ ऋ अतुस इत्यत्र सवर्णदीर्घयणोः प्राप्तौ परत्वात्सवर्णदीर्घे ऋ अतुसिति स्थिते एकादेशस्यान्तादिवद्भावे ऋकारस्य धातुग्रहणेनोपादाने "ऋच्छत्यॄताम्" इति गुणे रपरत्वे च अरतुरिति, अभ्यासत्वेन ग्रहे तु "उरत्" इति अत्वे रपरत्वे हलादिः शेष "अत आदेः" इति दीर्घे आतो लोपेऽतुरिति रूपं स्यादिति भाष्यकाराशङ्कायाम् ऋ ऋ अतुसित्यववस्थायामाङ्गत्वादुरदत्वमेव स्यादित्याशङ्क्य "वार्णादाङ्गम्" इत्येतत्समानाश्रयविषयकं वर्णद्वयाश्रयं तु सवर्णदीर्घत्वमिति भिन्नाश्रयत्वमिति कैयटविरोधः ।
अपि च "एकाचो द्वे" इत्यनेन प्रथमस्य "अजादेः" इति च द्वितीयस्य द्विर्वचनं विरोधाभावात्समुच्चीयतइति पक्षे द्वितीयद्विर्वचनस्यानर्थक्यम् । तथा हि---अटेः सनि इटि च अटिस इति स्थिते---प्रथमद्विर्वचनम् । अट्‌ अट्‌ हलादिशेषेण टकारनिवृत्तौ द्वितीयद्विर्वचनम्, हलादिशेषः । अ अ अट्‌ इति त्रयाणामकाराणां द्वयोरकारयोर्वा पररूपे विशेषाभावः । तत्र हलादिशेषात्पूर्वमेव द्वितीयं द्विर्वचनं स्यादित्याशङ्क्य कैयटेनोक्तम्---
नित्यत्वात्पूर्वं हलादिः शेषः । कृताकृतप्रसङ्गित्वात् । द्वितीयद्विर्वचनं तु शब्दान्तरप्राप्त्याऽनित्यम् । तद्धि कृते हलादिशेषेऽटः प्राप्नोति अकृते तु टशब्दस्य । अन्तरङ्गत्वाच्च "अतो गुणे" इति पररूपं "सन्यतः" इतीत्वस्य बाधकम् । "सन्यत" इतीत्वं हि सनमभ्यासं चापेक्षमाणं बहिरङ्गम् । "प्रागभ्यासविकारेभ्योऽङ्गाधिकार" इति पक्षे इत्वमाङ्गं न भवति इति ।
वार्णादाङ्गं बलवत् इत्यपि नास्ति सत्यपि वा इत्वस्याङ्गत्वेनानाश्रयत्वादाङ्गवार्णयोरत्र परिभाषाऽनुपस्थानमितिउक्तरीत्या च सनो द्वित्वनिमित्ततया द्वितीयाकारसम्पादनद्वारा पूर्वाकारपररूपे निमित्तत्वमस्तीति इत्वपररूपयोरेकनिमित्तकत्वं स्यादिति दिक् ।
अत्रोच्यते । समाननिमित्तप्रयुक्तत्वमेव समानाश्रयत्वमिह विवक्षितम् । सनभ्यासाश्रयत्वादित्वस्य पररूपस्य वर्णमात्रापेक्षत्वाच्च भिन्नाश्रयत्वमिति कैयटोक्तेः । न चैवम् ईयतुरित्यत्र अभ्यासोत्तरस्य ईकारस्य दीर्घयणौ प्रति स्थानित्वेन समानाश्रयत्वमित्यादिग्रन्थविशेषलेखनमसङ्गतं स्यादिति वाच्यम् । तथा सत्यकारस्यैव पररूपमित्वं च प्रति स्थानित्वात्समानश्रयत्वापत्तेः । न चोक्तस्थलेऽतिव्याप्तिपरिहारः कथमिति वाच्यम् । विवक्षितस्य तत्र सत्त्वात् । तथा हि---अङ्गकार्यप्रतियोगिकोद्देश्यत्वाधिकरणं सत् यद्वार्णकार्यनिमित्तत्वाधिकरणं तदपर्याप्तवार्णकार्योद्देश्यताकत्वम् । उद्देश्यत्वपर्याप्त्यधिकरणैक्ये सति एकधर्मिपर्याप्तत्वं चेत्यन्यतरवन्निमित्तताकत्वं तद् । व्याश्रयत्वेनोदाहृतेषु आङ्गकार्योद्देश्यत्वाधिकरणस्य वार्णकार्यनिमित्तत्वाधिकरणत्वाभावान्नातिव्याप्तिः । विच्छ्‌न इत्यत्राङ्गकार्यशत्वोद्देश्यस्य छकारस्य वार्णकार्ये तुकिनिमित्तत्वात् अतिव्याप्तिरिति तदपर्याप्तवार्णकार्योद्देश्यत्वनिवेशः । इ इ अतुस् इत्यत्र आङ्गकार्यानुद्देश्यस्य द्वितीयस्य इकारस्य वार्णकार्ये सवर्णदीर्घे निमित्तत्वात्तदुद्देश्यत्वाच्चाव्याप्तिवारणायावृत्तित्वमपहाय अपर्याप्तत्वनिवेशः । पूर्वपरोभयपर्याप्तत्वान्न दोषः । आङ्गकार्यनिमित्तत्ववार्णकार्योद्देश्यत्वयोः सामानाधिकरण्यस्य समानाश्रयत्वेनोदाहृतेष्वभावादसम्भववारणाय आङ्गकार्योद्देश्यत्ववार्णकार्यनिमित्तत्वयोः सामानाधिकरण्यं निवेशितम् । आङ्गकार्यप्रतियोगिकोद्देश्यत्वाधिकरणं यत्तदपर्याप्तवार्णकार्योद्देश्यताकत्वमित्युक्ते यद्यपि सि ऊ नः पृच्छती त्यादौ चातिव्याप्तिः । गुणोद्देश्ये इकारे ऊकारे च यण्तुकोरुद्देश्य तायाः पर्याप्तेः, तथाऽपि ऋ ऋ अतुस् अटिटिषतीत्यत्र उरदत्त्वं "सन्यत" इतीत्वं चेत्युभयरूपाङ्गकार्यप्रतियोगिकोद्देश्यत्वाधिकरणयोरभ्यासऋकाराकारयोः सवर्णदीर्घरूपवार्णकार्यप्रतियोगिकोद्देश्यत्वपर्याप्त्यधिकरणत्वाभावादतिव्याप्तिः स्यादतः वर्णकार्यनिमित्तत्वाधिकरणेत्युक्तम् । तयोस्तु न वार्णकार्यनिमित्तत्वम् । द्वितीययोरेव तथात्वात् । तथा चाङ्गकार्योद्देश्यत्वसमानाधिकरणं यद्वार्णकार्यनिमित्तत्वाधिकरणं तस्याप्रसिद्धत्वात्तत्र न दोषः । द्वितीययोराङ्गकार्यानुद्देश्यत्वादाद्ययोश्च वार्णकार्यं प्रत्यनिमित्तत्तावात् । वार्णकार्यनिमित्तत्वाधिकरणं यद्‌ तदपर्याप्तवार्णकार्योद्देश्यताकत्वमित्युक्तेः तत्रैवातिव्याप्तिः । द्वितीययोः सवर्णदीर्घोद्देश्यत्वपर्याप्त्यधिरणत्वात् । तन्निमित्तत्वाच्च । एवं पृच्छतीत्यादौ तथा तुको निमित्तस्य छकारस्य तुगुद्देश्यत्वाभावात् ह्रस्वस्यैव तथात्वात् । अत आङ्गकार्यप्रतियोगिकोद्देश्यत्वाधिकरणं सदित्युक्तम् । उक्तस्थले त्वाङ्गकार्यं प्रति तेषामनुद्देश्यत्वान्न दोषः । कृ अ इत्यत्राव्याप्तिवारणाय उद्देश्यत्वपर्याप्तीत्यादि । तत्र ऋकारमात्रे यण्‌वृद्‌ध्युभयोद्देश्यत्वस्याकारमात्रे तदुभयनिमित्तत्वस्य पर्याप्त्या नातिव्याप्तिः इत्येषा दिक् ।
अत्र वदन्ति । उक्तपरिभाषायास्समानाश्रयमात्रविषयकत्वमाकरानुरोधाद्वा कल्प्यते धर्मिग्राहकप्रमाणबलाद्वा । नाद्यः । "अजादेः" इति सूत्रे पूर्वपक्षे इयटिषतीतिरूपार्थं कैयटेन सामान्येन "वार्णादाङ्गं बलवत्" इत्याश्रीयते, न तु समानाश्रयाङ्गवार्णविषयमेवेतीत्वमेव प्रवर्तते न पररूपमिति इत्यभिहितत्वात् । नान्त्यः । असवर्णग्रहणसार्थक्यान्यथाऽनुपपत्तेः वार्णादाङ्गस्य बलवत्त्वज्ञापनमात्रेणोपक्षीणतया सामानाश्रयमात्रविषयकत्वपर्यन्तं तदसामर्थ्यात् । विधेयद्वयस्यैकोद्देश्यकत्वरूपसमानाश्रयत्वस्यैव तद्विषयतया यथोक्तसमानाश्रयत्वासिद्धेश्च ।
किं चैवं सौत्थितिरित्यादौ समानाश्रये ज्ञापितत्वादकृतव्यूहपरिभाषाया अपि तद्विषयएव प्रवृत्तिः स्यात् । न चेष्टापत्तिः । सेदुषीमित्यादौ तदप्रवृत्तिप्रसङ्गात् । न च तत्र समानाश्रयत्वं नास्तीति वाच्यम् । समानश्रयत्वेन 'वार्णादाङ्गं बलीय" इति वृद्धिप्रसङ्गादिति कैयटेनोक्तत्वात् ।
एतेन युगपत्प्राप्तिस्थलमात्रविषयकत्वमस्या इत्यपि निरस्तम् । वृद्धेः प्रत्ययनिमित्तकतया पूर्वं प्राप्त्यभावात् ।
किञ्च विश्ववाह्‌ अस् इत्यत्र सम्प्रसारणं बहिरङ्गं गुणे कार्येऽसिद्धमिति यस्यान्तरङ्गं कार्यं प्रसज्यते तस्यैव बहिरङ्गस्यासिद्धत्वं स्यात् । ततश्चाक्षद्यूरित्यादौ बहिरङ्गस्याप्यूठो यण्‌प्राप्त्यभावादसिद्धत्वं न प्राप्नोतीति "नाजानन्तर्ये" इति तन्निषेधो भाष्यकारेरुपन्यस्तोऽनर्थकः स्यात् । अधीत्य प्रेत्येत्यत्र बहिरङ्गस्यैकादेशस्यासिद्धत्वप्रतियोगिनः तुक्‌प्रसक्त्यभावादेवासिद्धपरिभाषाप्रवृत्तिविरहे "षत्वतुकोरसिद्धः" इत्यत्र तुग्ग्रहणेन "नाजानन्तर्ये" इति परिभाषाज्ञापनस्याप्यनुपपत्तेश्च । न चैवं यथोद्देशपक्षविलयापत्तिः, ज्ञापकसमानदेशत्वस्यानुपपत्त्यविषयतया तदसिद्धेरिति वाच्यम् । लक्ष्यानुरोधेन तत्कल्पनात् । अन्यथा ज्ञापकसमानदेशत्वनियमे तवापि कार्यिकालपक्षविलयापत्तेः । व्याश्रयेऽप्येतत्प्रवृत्तौ "यजयाच्च" इत्यत्र नङो ङित्करणं ज्ञापकमिति सीरदेवादिभिरुक्तत्वाच्च । अन्यथा तुकोऽन्तरङ्गत्वात्प्रवृत्तौ लघूपधत्वाभावादेव गुणप्रसक्त्यभावात्तन्निषेधार्थङित्त्वस्य वैयर्थ्यापत्तेः । च्यवन्ते प्लवन्तइत्यादौ गुणे कृते एकादेश इति न्यासकारोक्तेश्च । सुन इत्यत्राल्लोपस्य कैयटेनोक्तत्वाच्च । न च तत्र समानाश्रयत्वमेव, आङ्गकार्येऽल्लोपे उद्देश्यस्य अकारस्यैव वार्णकार्ये "संप्रसारणाच्च" इति पूर्वरूपे निमित्तत्वात् संप्रसारणादचि परे पूर्वरूपमेकादेशः स्यादिति व्याख्यानात् तदपर्याप्तोद्देश्यताकत्वस्य च सत्त्वादिति वाच्यम् । तत्र निमित्ततावच्छेदकधर्मानवच्छिन्नत्वेनाप्युद्देश्यताया विशेषणीयत्वात् । उक्तपूर्वरूपे चाच्‌त्वस्यैव निमित्तत्वोद्देश्यत्वोभयावच्छेदकत्वात् । अन्यथा आह्व इत्यादौ आलोपपूर्वत्वयोर्व्याश्रयत्वाभिधानस्यासङ्गत्यापत्तेः ।
नन्वेवं विश्र इत्यत्र व्याश्रयस्यापि शादेशस्य सिद्धौ पूर्वोक्तव्याश्रयेषु दोषापत्तिरिति चेत्, सत्यम् । "वार्णादाङ्गम्" इत्यस्य अनित्यत्वात् न तत्र प्रवृत्तिः । तत्र च मानम् "च्छ्‌वोः" इति सतुक्कनिर्देशः । न चाच इत्यस्यानुपादाने स्थानिवत्त्वेन तुको निषेधार्थं तदति वाच्यम् । अच इत्यस्यान्यार्थमावश्यकत्वात् । न च तत्र मानाभावः । षाष्ठभाष्यस्यैव तथात्वात् । अन्यथा आङ्गत्वात् शत्वे कृते तुक्‌प्रसक्त्यभावात्तदसङ्गत्यापत्तेः । तेन पूर्वोक्तव्याश्रयेषु न दोषः । न च सतुक्कनिर्देशस्य प्रकृतपरिभाषायाः समानाश्रयमात्रविषयकत्वज्ञापकत्वमेवास्तु इति वाच्यम् । विषयविशेषावच्छेदेन सङ्कोचे गौरवात् । निरुक्तसमानाश्रयत्वस्य गुरुत्वाच्च । नन्वत्र तुक्‌प्रसक्तिरेव नास्ति, "अकृतव्यूह" इति न्यायात् । मैवम् । तस्याप्यनित्यत्वे सतुक्कनिर्द्देशस्य मानत्वात् । एवं च नङो ङित्त्वं गुणनिषेधार्तमेव । सीरदेवाद्युक्तिस्तु यथाश्रुतार्थाभिप्राया ।
एतेन नङो ङित्त्वमेवाकृतव्यूहपरिभाषाज्ञापकम् । "समर्थानाम्" इति तु माऽस्तु । "समर्थसूत्रं कर्त्तव्यम्, क्रियते च समर्थानां प्रथमाद्वा" इति भाष्यस्वारस्यादित्यपि व्याख्यातम् ।
अथ "राल्लोपः" इत्यत्रापि सतुक्कस्यानुवृत्त्यापत्तौ हूः हुरौ इत्यादौ वितुक्कस्य छस्य लोपो न स्यात् । न चानुवृत्तिसामर्थ्याच्छुद्धशकारस्यैव तत्रोपादानम्, रेफोत्तरच्छकारस्य तुगभावनैयत्यादिति वाच्यम् । वकारमात्रानुवृत्तेः सम्भवात् छकारस्यानुवृत्तावेव मानाभावात् ।
अत्राहुः---सतुक्कवितुक्कौ द्वावपि निर्दिश्येते । न च समाहारद्वन्द्वे एकवचनस्य इतरेतरयोगे तु बहुवचनस्यापत्तिरिति वाच्यम् । छकारयोस्समाहारद्वन्द्वं कृत्वा वकारेण सह इतरेतरयोगे द्वन्द्व इति व्याख्यानात् । आदेशेऽपि द्वितीयशकारप्रश्लेषः ।
यद्वा "न ध्याख्या" इति मूर्च्छेः परस्या निष्ठाया नत्वनिषेधाल्लिङ्गाच्छुद्धस्य छकारस्य "राल्लोप" इत्यत्रान्वयः । छलोपं विना रेफात्परत्वाभावेन नत्वप्रसक्तिविरहात् इति दिक् ।
प्रकृतमनुसरामः । अच इत्यस्य प्रत्युदाहरणं तु द्यूत्वा स्यूत्वेति । अन्यथा ऊठः स्थानिवत्त्वाद्यण्‌ न स्यात् । न चातिदेशानां स्वाश्रयानिवर्त्तकत्वात्स्वाश्रयमत्राच्‌त्वं भविष्यतीति वाच्यम् । विधिग्रहणसामर्थ्यात्स्वाश्रयनिवृत्तेः वतिनिर्द्देशादभावस्याप्यतिदेश इत्यस्य वक्ष्यमाणत्वात् । ननु आदेशत्वपर्याप्त्याश्रयस्य ऊठो न यण्‌निमित्तस्य ऊकारस्य च नादेशत्वपर्याप्त्याश्रयत्वम्, तस्य समुदाये पर्याप्तेरिति चेन्न । अनुबन्धानामनेकान्तत्वाद् । एकान्तत्वेऽपि पूर्वप्रध्वंसित्वादूकारस्यैवादेशत्वपर्याप्त्याश्रयत्वात् । एवमभिगत्येत्यत्रापि मकारलोपस्य परनिमित्तकत्वात् तस्य स्थानिवद्भावे "ह्रस्वस्य पिति कृति" इति तुक् न स्यात् । ननु अक्राष्टामित्यत्र सिचो लोपस्य परनिमित्तकत्वात्तस्य स्थानिवद्भावे "षढोः क सि" इति कत्वं स्यादिति कुतो न प्रत्युदाहृतमिति चेन्न । "पूर्वत्रासिद्धे न स्थानिवत्" इत्यनेनैव निषेधात् । परस्मिन्निति किम् । युवजानिः । जायाया निङ आकारादेशत्वात्पूर्वस्य यकारस्य "लोपो व्योः" इति लोपे कर्त्तव्ये स्थानिवद्भावो मा भूत् । व्याघ्रस्येव पादावस्य व्याघ्रपात् । "पादस्य लोपोऽहस्त्यादिभ्य" इत्यपरनिमित्तको लोपः । ततो गर्गादित्वाद्यञ्‌ । वैयाघ्रपद्यः । "पादः पद्" इति पदादेशे कार्येऽकारलोपस्य न स्थानिवत्त्वम् । न च वचनसामर्थ्यम् । एकादेशस्यादिवद्भावेन पादेनेत्यादावप्यापत्तेः । द्विपदिका इत्यत्र पद्भावस्य चारितार्थ्याच्च । तत्र "पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च" इति वुन् अकारलोपश्च । न च तत्रापि स्थानिवद्भावः । "यस्येति च" इति लोपे सिद्धेऽपि पुनर्लोपवचनसामर्थ्यात्तस्य परनिमित्तकत्वाभावात् । "पादस्य लोपः" इत्यस्य तु न सामर्थ्यम् । व्याघ्रपादित्यादौ भसंज्ञाविरहे सावकाशत्वात् । "परस्मिन्" इत्युक्ते तु पादेनेत्यादौ न पद्भावः । वैयाघ्रपद्य इत्यादौ पद्भावस्य सावकाशत्वात् । तत्रैकादेशस्य स्थानिवद्भावात् । वर्णग्रहणे जातिग्रहणादचोरादेशेऽपि तत्प्रवृत्तेः । अत एव श्रायसौ गौमतौ चातुरौ आनुडुहौ इत्यादावेकादेशस्यादिवद्भावेन प्रसक्तौ नुमामौ न । एवं "परस्मिन्" इत्यनुक्तौ औदवाहौ इत्यत्र एकादेशस्यादिवत्त्वात् भसंज्ञायां वाह् इत्यस्य ऊठ्‌ स्यात् । उदकं वहतीति उदवाहः । कर्मण्यण् । उदकस्योदः संज्ञायाम् । बाह्वादित्वादिञ्‌ । आदीध्ये आवेव्ये इत्यत्र इकारस्य टेरेत्वम् अपरनिमित्तकम्, तस्य स्थानिवत्त्वाद् "यीवर्णयोर्दीधीवेव्योः" इति लोपः स्यात् । पूर्वविधाविति किम् । नैधेयः । निपूर्वाद्धाञः किः । आतो लोपः । "द्व्यचः" "इतश्चानिञः" इति ढक् । आल्लोपस्य स्थानिवत्त्वात् त्र्यच्‌कत्वात् उक्तविध्यप्रवृत्तिर्मा भूत् । त्र्यच्‌के द्व्यच्कार्याणामप्रवृत्तेः । न च पूर्वस्येति पाठेऽपि कार्ये कर्त्तव्ये इत्यर्थस्याक्षेपसम्भवाद्विधिग्रहणवैयर्थ्यम् । पूर्वस्य पूर्वस्मादिति समासद्वयलाभार्थत्वात् । पञ्चमीसमासोदाहरणं तु तन्वन्तीति प्रागेवोक्तम् ।
ननु "असिद्धं बहिरङ्गमन्तरङ्गे" इत्यत एवैतद् गतार्थम् । न च "नाजानन्तर्ये" इति निषेधः । यत्रानतरङ्गे अच आनन्तर्यम्, तत्रैव तदिति कैयटसिद्धान्तात् । अत्र तु बहिरङ्गे यणि अजानन्तर्यस्यापेक्षितत्वात् । मैवम् । यत्रान्तरङ्गबहिरङ्गयोर्मध्येऽन्यतरत्राजानन्तर्यं तत्र तन्निषेधप्रवृत्तेर्हरदत्तेन स्वीकारात् ।
अत्रेत्थं प्रत्यवतिष्ठन्ते । यत्रोत्तरकालप्रवृत्तिकेऽजानन्तर्यापेक्षा तत्र "असिद्धं बहिरङ्गम्" इति परिभाषा न प्रवर्त्ततइति कैयटमतमेव युक्तम्, न तु द्वयोर्मध्येऽन्यतरत्रेति हरदत्तमतम् । पचावेदमित्यत्र "एत ऐ" इत्यप्रवृत्तिमाशङ्क्य बहिरङ्गत्वेन गुणस्यासिद्धत्वादिति भाष्यहरदत्ताद्युक्तस्यासङ्गतिप्रसङ्गात् । पूर्वप्रवृत्तिके गुणेऽजानन्तर्यसत्त्वे निषेधापत्तेः । कैयटरीत्या तु गुणोत्तरप्रवृत्तिकऐत्वे अजानन्तर्यानपेक्षणेन निषेधाप्रवृत्त्या बहिरङ्गत्वेनासिद्धत्वोपपत्तेः । "न धातुलोप" इति सूत्रे प्रेद्ध इत्यत्र बहिरङ्गत्वेनासिद्धत्वमाश्रित्य समादधता भाष्ये ण विरोधाच्च ।
किं च "न पदान्त" इति सूत्रे दद्ध्यत्रेति वृत्तिग्रन्थमुपादाय स्थानिवत्त्वनिषेधसामर्थ्यान्न बहिरङ्गपरिभाषाप्रवृत्तिरिति हरदत्तोक्तिविरोधः । तद्रीत्या बहिरङ्गे यणि अजानन्तर्यसत्त्वेन "नाजानन्तर्ये" इति निषेधादेव तदप्रवृत्तिसिद्धौ सामर्थ्यानुधावनवैयर्थ्यात् ।
किं च "संयोगान्तलोपे यणः प्रतिषेधः" इत्यस्य बहिरङ्गपरिभाषया प्रत्याख्यानपरभाष्यवार्त्तिकविरोधः । बहिरङ्गे यण्यजानन्तर्यसत्त्वेन बहिरङ्गपरिभाषाया अप्रवृत्त्यापत्तेः । तस्माद्धरदत्तमतं पूर्वापरस्वग्रन्थविरोधात् भाष्यविरोधाच्चोपेक्ष्यमिति ।
अत्रेदं विचारणीयम् । यत्रा कार्यविधावानन्तर्येणाचोराश्रयणं तत्र निषेधादनुपस्थानं परिभाषायाः, यथाऽक्षद्यूरिति । तत्र हि "इको यणचि" इति वचनादचोराश्रयणमिति । अस्मिंस्तु प्रतिषेधसूत्रे नास्त्यचोराश्रयणमिति तावद् नधातुलोपसूत्रे कैयट ग्रन्थः । तत्र "अचोः" इति द्वित्वं विवक्षितं न वा । नाद्यः । धर्मिग्राहकमानविरोधात् । "षत्वतुकोरसिद्धः" इत्यत्रान्तरङ्गेऽज्द्वयानन्तर्यस्यानपेक्षितत्वात् । इणः परस्य यस्य षत्वविधानात् । ह्रस्वस्य तुग्विधानाच्च । न द्वितीयः । दद्ध्यत्रेत्यत्राप्यचः परस्य यरो द्वित्वविधानादजानन्तर्यसत्त्वादुक्तनिषेधापत्त्या स्थानिवत्त्वनिषेधसामर्थ्यानुसारस्यावश्यकत्वात् । न च यत्र परवर्त्तिनोऽचो निमित्तत्वं तत्रैव "नाजानन्तर्ये" इति निषेधप्रवृत्तिः, यथाऽक्षद्यूरित्यादौ, दद्ध्यत्रेत्यत्र तु पूर्ववर्त्तिन एव तथेति न तत्प्रवृत्तिरिति वाच्यम् । धर्मिग्राहकविरोधआत् । बहिरङ्गे अचोरानन्तर्यस्थले ज्ञापितायाः परिभाषाया यत्रान्तरङ्गेऽचोरानन्तर्यं तत्रैव प्रवृत्तिरित्यस्य दुर्घटत्वात् । तस्मादयमत्र हरदत्ताभिप्रायः---
अचोरिति द्वित्वं विवक्षितमेव । तदाश्रयणं चान्तरङ्गे बहिरङ्गे वेत्यत्र नाग्रहः । ज्ञापके बहिरङ्गएवाचोरानन्तर्यापेक्षायामपि लक्ष्यानुरोधेन तन्नियमस्य परिभाषायामनन्तर्भावात् । अत एव धिन्वन्ति कृष्वन्ति यणादेशे कृते वलादिलक्षण इट्‌ प्राप्नोति, स्थानिवद्भावान्न भवतीति भाष्यकृद्भिरुक्तम् । "नाजानन्तर्ये" इति निषेधाप्रवृत्तौ बहिरङ्गपरिभाषयैव गतार्थत्वापत्तेः ।
किं च कर्त्रर्थमित्यत्र रेफद्वयश्रवणार्थम् उपण्‌रपरसूत्रे परेणाण्‌ग्रहणमस्तु इत्याशङ्क्य रेफादेशस्य कृतेऽपि रपरत्वे "रो रि" इति लोपस्यावश्यकतया रेफद्वयश्रवणं नास्तीति भाष्यएवोक्तम् । तत्रासिद्धपरिभाषाप्रवृत्तौ तु लोपानुपपत्त्या रेफद्वयश्रवणार्थत्वस्य निर्बाधत्वापत्तेः । पूर्वप्रवृत्ततया यणादेशे अजानन्तर्यसत्त्वेन "नाजानन्तर्ये" इति निषेधप्रवृत्तावेव तद्भाष्यस्य सामञ्जस्याद् । उत्तरकालप्रवृत्ते लोपे एकस्याप्यचोऽनपेक्षितत्वेन उक्तनिषेधस्य योजयितुमशक्यत्वात् ।
एतेन तत्रत्योक्तपूर्वपक्षविरोधोद्भावनेन हरदत्तमतदूषणमप्यपास्तम् । सिद्धान्तविरोधस्य कैयटमतएवोद्भाव्यत्वात् । "न पदान्त" इतिसूत्रस्थग्रन्थस्य च नाजानन्तर्यपरिभाषा व्यतिरेकेणापि तत्र नानुपपत्तिरित्याशयेन प्रवृत्तत्वात् । कैयटमतेऽपि अजिति द्वित्वस्याविवक्षिततया वृत्रहभ्यामित्यादौ एतत्प्रतिषेधप्रवृत्त्यापत्त्या "ह्रस्वस्य पिति कृति" इति तुगागमापत्त्या असिद्धो नलोप इति भाष्योक्त्या "नलोपः सुप्स्वर" इति "असिद्धं बहिरङ्गम्" इति वेति कैयटोक्त्या च विरोधात् । अनित्यत्वोक्तेश्च "एत ऐ" इत्यत्र हरदत्तमतेऽपि साम्यात् ।
यत्तु "एत ऐ" इत्यस्याचः स्थाने जायमानत्वेऽपि अच आनन्तर्याभावान्न दोष इति । तदसत् । आनन्तर्यं ह्यव्यवहितपूर्वापरीभावो वा निमित्तकार्यिणोरन्यतरस्याच्‌त्वं वा । नाद्यः । अजिति द्वित्वविवक्षायामेव पर्यवसानात् । नान्त्यः । पचावेदमित्यत्रापि सत्त्वात् । "यणः प्रतिषेधः" इतिवार्त्तिकप्रत्याख्यानस्य च "झलो लोपाद्‌" इत्येतदभिप्रायकत्वाद्, एतत्प्रतिषेधानित्यत्वाभिप्रायकत्वाद्वा, असिद्धपरिभाषायाः कार्यकालत्वेऽप्येतत्परिभाषाया यथोद्देशपरत्वाद्वेति दिक् ।
अत्रायं सिद्धान्तः---अन्तरङ्गं बलवद्" इति परिभाषा निरपवादा । "असिद्धं बहिरङ्गम्" इति तूक्तापवादा ।
यत्तु विप्रतिषेधसूत्रे पूर्वपरिभाषा गतार्थेति भाष्यम् । तदभ्युच्चयमात्रमिति भागवृत्तिकैयटलघुविवरणकारादयः ।
वृहद्विवरणकारास्तु--"नाजानन्तर्ये" इति परिभाषा माऽस्तु । तज्ज्ञापकेनासिद्धपरिभाषाऽनित्यत्वस्यैव ज्ञाप्यत्वादित्याहुः । "नाजानन्तर्ये" इति भाष्यमप्यसिद्धपरिभाषाया अनित्यत्वपरतयैव नेयमिति दीक्षिताः ।
बस्तुतस्तु विषयविशेषावच्चिन्नमनित्यत्वं समर्पयितुं नाजानन्तर्यपरिभाषाध्रौव्यमिति भाष्याशयः । अत एव वृत्तिकारसीरदेवाभ्यामुक्तम्---"नलोपः सुप्स्वर" इति सूत्रे कृतितुग्ग्रहणेनासिद्धपरिभाषाया अनित्यत्वं ज्ञाप्यते । तेनाम् इत्यत्र बहिरङ्गस्यैकादेशस्यासिद्धत्वेनान्तरङ्गमुत्वं सिध्यति । पपुषः पश्येत्यत्र बहिरङ्गस्य संप्रसारणस्यासिद्धत्वात् "वस्वेकाजाद्‌घसाम्" इतीट्‌ च न भवतीति । अत एव बहिरङ्गपरिभाषाया अनित्यत्वाद् या सेत्यत्र बहिरङ्गमपि त्यदाद्यत्वमन्तरङ्गे टापि नासिद्धमिति हरदत्तः ।
केचित्तु यथोद्देशपक्षेऽसिद्धपरिभआषायास्तत्राप्रवृत्त्या कार्यकालपक्षे च "नाजानन्तर्ये" इति निषेधात् तुग्ग्रहणं सार्थकमेवेत्याहुः । "न यासयोः" इति ज्ञापकादेव तत्र बहिरङ्गपरिभाषाया अप्रवृत्तेः इत्यास्तां तावत् ।
प्रकृतमनुसरामः । ननु पूर्वस्येति षष्ठ्या कार्यित्वनिमित्तत्वरूपसंबन्धद्वयस्योपसंग्रहसिद्धे विधिग्रहणं माऽस्तु । तत्रापि पूर्वस्मान्निमित्तत्वेनाश्रितादिति व्याख्येयत्वात् । अन्यथा हेगौरित्यत्र गकारात्परस्य विधौ वृद्धेः स्थानिवत्त्वाद् "एङ्‌ह्रस्वाद्‌" इति संबुद्धिलोपापत्तेः । सत्यम् । योगविभागार्थं तत्, तेन पूर्वस्य विधौ स्थानिवदेव न तु स्वाश्रयम् ।
यद्वा---विधिग्रहणसामर्थ्याच्छास्त्रीयेऽशास्त्रीये च विधिमात्रे स्थानिवत्त्वम् । तेन पटयतीत्यादौ टिलोपाभाववेलायाम् "अत उपधाया" इति वृद्धेर्निमित्ताभावादेवाभावात् टिलोपे कृतेऽपि न प्रवृत्तिः । अशास्त्रीयस्यापि वृद्ध्यभावस्यातिदेशात् ।
ननु पूर्वसूत्राद्विधिग्रहणानुवृत्त्यैव सिद्धिः । यद्वा---स्थानिवदिति वतिबलेनाभावोऽप्यतिदिश्यते, उशीनरवन्मद्रेषु यवाः सन्तीतिवत् । तदुक्तम्--
काममतिदिश्यतां वा सच्चासच्चापि नेह भारोऽस्ति इति ।
इति चेत्, सत्यम् । तथाऽपि पूर्वस्यैव विधौ स्थानिवत्त्वम्, न तु पूर्वपरयोर्विधाविति नियमार्थत्वात् । तेन ईयतुरिति सिद्धम् । अन्यथा इणोऽतुसि यणआदेशे "द्विर्वचनेऽचि" इति स्थानिरूपातिदेशादिकारस्य द्वित्वे तत्काले यणोऽपहारात् अन्तरङ्गत्वात्सवर्णदीर्घः स्यात् । व्याश्रयत्वेन "वार्णादाङ्गम्" इत्यप्रवृत्तेः । न च सवर्णदीर्घानन्तरं यणि बाधकाभावान्निमित्तस्य विनाशोन्मुखत्वान्न सवर्णदीर्घः । कृतेऽपि यणि स्थानिवद्भावेन निमित्तविघाताभावात् । इ अतुस् इति स्थिते "अन्तादिवच्च" इत्यभ्यासग्रहणेन ग्रहणादभ्यासह्रस्वे "दीर्घ इणः किति" इति दीर्घे तत्सामर्थ्याद्यणभावे इ अतुरिति स्यात् । उक्तरीत्या तु सवर्णदीर्घस्य पूर्वपरोभयविधित्वाद्यणादेशस्य स्थानिवद्भावानुपपत्त्या सवर्णदीर्घस्य निमित्तविघातापत्त्या अकृतव्यूपरिभाषया तदप्रवृत्तौ द्वितीयस्य इकारस्य यणादेशे पूर्वस्य दीर्घे च सिद्धमिष्टम् । इह सन्निधिसाम्येऽपि स्थान्यपेक्षमेव पूर्वत्वं गृह्यते, न त्वादेशाद् निमित्ताद्वा । तेन वैयाकरणः सौवश्व इत्यत्र यणादेशस्य स्थानिवद्भावमाश्रित्य प्राप्तौ "एचोऽयवायाव" इति आयावादेशौ न स्तः । एचो यणादेशोत्तरकाले प्रवृत्त्या अनादिष्टादचः पूर्वत्वस्य विरहात् । तदुक्तम्---
अचः पूर्वत्वविज्ञानादैचोः सिद्धमिति ।
न च स्थानिन आदेशेनापहृतत्वात्कथं तदपेक्षपूर्वत्वोपादानम् । पूर्वत्वे तस्योपलक्षणत्वात् ।
अथैवं निराद्येत्यत्र जग्ध्यादेशः घात्यादित्यत्र वधादेशश्च स्यात् । तत्र हि---ण्यल्लोपौ" इति पूर्वविप्रतिषेधेन पूर्वं णिलोपस्ततः प्रत्ययलक्षणेन वृद्धिः । तथा चानादिष्टादचो णिच इकाराद् आद् घात् इत्यनयोः पूर्वत्वं नास्ति । एकदेशविकृतन्यायेन च अदिहन्ग्रहणाभ्यां तद्ग्रहणमिति चेन्न । स्थानिद्वारा तयोरप्यनादिष्टादचः पूर्वत्वात् । न च स्थानिनि तस्यार्थसिद्धत्वेऽपि शास्त्रीयत्वाभावादति देशानर्हत्वात् कथमादेशस्यानादिष्टादचः पूर्वत्वलाभ इति वाच्यम् । "अचः परिस्मिन्" इत्यतिदेशस्यैव शास्त्रीयकार्यत्वात्स्थानिवत्सूत्रेण तस्यैवातिदेशसंभवात् । "न पदान्त" इति सूत्रे सवर्णग्रहणञ्चेह लिङ्गम् । अन्यथाऽल्लोपानन्तरप्रवृत्तस्यानुस्वारस्य स्वरूपतोऽनादिष्टादचः पूर्वत्वाभावादेव स्थानिवद्भावाप्रसक्त्या तन्निषेधवैयर्थ्यात् । नन्वेवम् ब्राह्मणकण्डूतिरिति न सिद्ध्येत्, कण्डूयतेः क्तिचि अल्लोपयलोपौ, अल्लोपस्य स्थानिवत्त्वादुवङ्‌ तस्य स्थानिद्वाराऽनादिष्टादचः पूर्वत्वाद्‌ "अचः परस्मिन्" इति स्थानिवद्भावादकारेण व्यवधानान्नोठ्‌, नापि "लोपो व्योः" इति वलोपः । "हलि च" इति दीर्घे कण्डूव्‌तिरित्यस्यापत्तेः । न चोवङः स्थानिद्वाराऽनादिष्टादचः पूर्वत्वेऽपि न तस्यात्र कार्यम्, किं तु वकारमात्रस्य, स च नादेशत्वपर्याप्त्याश्रय इति तस्यापि स्थानिद्वारकमनादिष्टादचः पूर्वत्वं नास्तीति वाच्यम् । "सर्वे सर्वपदादेशा" इति न्यायेन कण्डू इत्यस्य कण्डुव् इत्यादेशः । तस्य कण्डू इत्यादेशे कार्येऽल्लोपस्य स्थानिवत्त्वसौलभ्यात् ।
अत्राहुः---स्थानिद्वारकमनादिष्टादचः पूर्वत्वमनित्यम् । कण्डूतिरिति भाष्योदाहरणसामर्थ्यात् । तितउमाचष्टे तितापयतीति हरदत्तग्रन्थाच्च । अन्यथा णौ टिलोपे च तस्य स्थानिवत्त्वाद् "अचो ञ्णिति" इति वृद्ध्यभावेऽपि "अत उपधाया" इति वृद्ध्याऽऽकारे तस्य स्थानिद्वारा उकारात्पूर्वत्वेन उकारलोपस्य स्थानिवद्भावात्पुको दुर्लभत्वात् । न च पुक आकारान्तसमुदायावयवत्वादाकारमात्रस्य च पूर्वत्वान्न पुग्विधावुकारलोपस्य स्थानिवद्भाव इति वाच्यम् । उक्तन्यायेन आकारान्तस्यापि पूर्वत्वादिति ।
यत्तु तितउ णिच्‌ इति स्थिते वृद्धिटिलोपयोर्नित्यत्वे परत्वाद् "अत उपधाया" इति वृद्धिः, ततष्टिलोपे आदन्तस्य स्वत एवानादिष्टादचः पूर्वतया स्थानिवद्भावस्य दुर्वारतया पुको दुर्लभत्वम् । तस्मात् शपि णिचो गुणे तस्य वृद्धौ आयादेशे तितायतीत्येव रूपम् । न च तिता णिच्‌ इति स्थितेऽन्तरङ्गत्वाद् आद्‌गुणे शप्ययादेशे तितयतीत्यस्यापत्तिः । अकृतव्यूहपरिभाषया पूर्वमाद्गुणस्याप्रवृत्तेः । वृद्ध्या तन्निमित्तविघातस्योत्पत्स्यमानत्वात् । अकृतव्यूहपरिभाषाया अन्तरङ्गपरिभाषाऽपवादत्वात् । न च शपि गुणस्य "अचः परिस्मिन्" इति स्थानिवत्त्वादाद्‌गुणस्य निमित्तस्य विघातो न भवतीति वाच्यम् । पूर्वपरयोर्विधौ स्थानिवत्त्वाभावात् । लुङि तु तिता णिच् चङ्‌ तिप्‌ इति स्थिते "तनोतेर्डउः सन्वच्च" इति व्युत्पत्तिपक्षे "अनभ्यासस्य" इति द्वित्वनिषेधे "चङ्‌परनिर्ह्रासे" इति टिलोपस्य स्थानिवत्त्वनिषेधेन ह्रस्वाभावे णिलोपस्य स्थानिवत्त्वादसिद्धत्वाद्वाऽतोलोपाभावे दीर्घविधौ स्थानिवद्भावनिषेधात्सवर्णदीर्घेऽतितादित्येव न त्वतितापदिति ।
तच्चिन्त्यम् । टिलोपस्य नित्यत्वात् । "अचः परस्मिन्" इति कार्यातिदेशेन वृद्धिप्राप्तावपि "लक्षणान्तरेण प्राप्नुवन्ननित्यः" इत्यनित्यत्वात् । किं त्वनित्यमपि अनादिष्टादचः पूर्वत्वमिह नेष्यतइत्यत्र प्रमाणं चिन्त्यमिति ।
वस्तुतस्तु स्थानिद्वारकमनादिष्टादचः पूर्वत्वमित्यत्र मानाभावः । अशास्त्रीयतयाऽतिदेशानर्हत्वात् । अत एव आह्वा अ इत्यत्र संप्रसारणे आतोलोपस्य स्थानिवद्भावात्तन्निमित्ते यणादेशे च आह्व इति सिद्धमित्याशङ्क्य आतोलोपस्य स्थानिवद्भावो न भवति उकारस्यानादिष्टादचः पूर्वत्वाभावादिति भाष्यम् । व्याख्यातं च कैयटेन---
नन्वनादिष्टादचः पूर्वो वकार इति तदादेशस्यापि स्थानिवद्भावादनादिष्टादचः पूर्वत्वं भविष्यति, नैतदस्ति, शास्त्रीयकार्यसिद्धये स्थानिवद्भावो विधीयते, न त्वनादिष्टादचः पूर्वत्वे लौकिके इति ।
यत्तु "अचः परस्मिन्" इत्यतिदेश एव शास्त्रीयं कार्यमित्यादि, तदसत् । अतिदेशस्य शास्त्रीयत्वविरहानुद्धारात् । अतिदेशनिष्ठशास्त्रीयताया अकिञ्चित्करत्वात् । यद्रूपवैकल्यादुपदेशाप्रवृत्तौ सत्यामतिदेशो मृग्यते तद्रूपनिष्ठशास्त्रीयत्वस्यैवापेक्षितत्वात् । अन्यथाऽपशब्दानुकरणस्याप्यसाधुत्वं स्यात् । असाधुत्वमाश्रित्यासाधुप्रयोगनिषेधे प्रवर्त्तयितव्येऽसाधुत्वस्यापेक्षिततया तस्यापि शास्त्रीयत्वापत्तेः । "प्रकृतिवदनुकरणम्" इति हि तत्रातिदेशशास्त्रम् । ब्राह्मणेन नापभाषितवै इति निषेधोऽतिदेश्यः । तद्धटकं चासाधुत्वम् । प्रकृतेऽपि "स्थानिवदादेशः" इति अतिदेशशास्त्रम् । "अचः परिस्मिन्" इति स्थानिवद्भावोऽतिदेश्यः । तद्धटकं चानादिष्टादचः पूर्वत्वमिति साम्यात् । न चेष्टापत्तिः । ऋलृक्‌शूत्रस्थभाष्यादिस्वपरग्रन्थविरोधात् । अत एवद्यूत्वेत्यत्र यणादेशानुपपत्तिरेव भाष्ये उपन्यस्ता, न तु ऊठः स्थानिवत्त्वात् "लोपो व्योः" इति यकारलोपापत्तिरपि, अनादिष्टादचः पूर्वत्वाभावादिति कैयटेनोक्तम् । "ख्यत्यात्" इति सूत्रेऽपि आदिष्टादचः पूर्वत्वात्सखीयतेः क्वौ अल्लोपस्य न स्थानिवत्त्वमिति शङ्कायां तत्रोक्तम् । क्वौ लुप्कं न स्थानिवदिति च समाहितम् । "लोपो व्योः" इति सूत्रेऽपि कण्डूरित्यत्रातोलोपस्य स्थानिवत्त्वादुवङ्‌ स्यादित्याशङ्क्योक्तम्---
तत्रैव क्विबाश्रय ऊठ्‌ करिष्यते ऊठि च कर्त्तव्ये नास्ति स्थानिवद्भावः । आदिष्टादचः पूर्वत्वात् । अत एव कण्डुवौ कण्डुव इत्यादावूठ्‌ । अवङि कर्त्तव्ये नास्त्यल्लोपस्य स्थानिवद्भाव इति ।
स्थानिद्वारके त्वनादिष्टादचः पूर्वत्वे गृह्यमाणे तदनित्यत्वपरतया बहूनां ग्रन्थानां कदर्थनं स्यात् ।
यत्तु स्थवीयानित्यत्र गुणलोपयोस्तुल्यकालत्वात् गुणस्य कथमनादिष्टादचः पूर्वत्वमित्याशङ्क्य स्थानिनोऽनादिष्टादचः पूर्वत्वात्तद्‌द्वारेण गुणस्यापि भविष्यति, तत्र स्थानिवद्भावे सति त्वकारेण व्यवधानादवादेशाप्रसङ्ग इति कैयटेनोक्तम् । तदभ्युपेत्यवादमात्रम् । उक्तयुक्तेः । अज्झलादेशेऽपि स्थानिवदिति पक्षमुपक्रम्य लिखितत्वाच्च । इयेषेत्यादौ "अभ्यासस्यासवर्णे" इति इयङुवङोर्निमित्तविघातकत्वं गुणस्योपपादयितुं सवर्णग्रहणसार्थक्यस्य स्वयमेवोक्तत्वात् । तस्य प्रत्याख्येयत्वाच्च । निराद्येत्यादौ चासिद्धपरिभाषया समाधानात् । आश्रीयमाणायामेव प्रकृतौ स्थानिवद्भाव इति पक्षे जग्ध्यादेशे णेर्निमित्तत्वेनानाश्रयणात्स्थानिवत्त्वानुपपत्त्योक्तरीत्यैव समाधेयत्वाद् । अत्र च पक्षे विधीयते इति विधिः । कर्मणि किप्रत्ययः । पूर्वस्येति शेषे षष्ठी । सा च न स्थानेयोगा । अनुवादे परिभाषाऽनुपस्थानात् । एतेनाऽऽयन्नासन्निति व्याख्यातम् । "इणोयण्‌" "श्रसोरल्लोपः" इत्यनयोः स्थानिवद्भावेन अजादित्वादाट्‌प्रवृत्तेः । पूर्वस्य तदवयवस्य तद्विकारस्य वा विधावित्यर्थादागमादिविधावपि स्थानिवत्त्वप्रवृत्तेः । "अचः" इत्यत्र त्वादेशपदसमभिव्याहारात्स्थानषष्ठी । इहापि स्थानेग्रहणानुवृत्तेर्वा ।
भाष्ये तु निमित्तापेक्षं आदेशापेक्षं वा पूर्वत्वमित्यपि पक्षद्वयमुक्तम् । वैयाकरणादौ तु ऐचोरसिद्धत्वान्न दोषः । नाजानन्तर्यपरिभाषा त्वनित्या । न च निमित्तापेक्षमिति पक्षे वैयाकरणादौ कथमतिप्रसङ्गो य्वोरेव निमित्तत्पूर्वत्वादैचोश्च विधेयत्वादिति वाच्यम् । तयोरपि तदवयवत्वादिति न्यासकारः ।
अत्र विधिरिति भावे किः । पूर्वस्येति कर्मणि षष्ठीत्यपि बोध्यम् । ननु निमित्तापेक्षया पूर्वत्वे द्वाभ्यामित्यादौ त्यादाद्यत्वस्य स्थानिवद्भावात् "सुपि च" इति दीर्घः "ईद्यति" इतीत्वस्य स्थानिवत्त्वादिगन्तलक्षणो गुणो लवनं लावक इत्यादौ गुणवृद्ध्योः स्थानिवत्त्वादवावादेशौ च न स्यातामिति चेत्, अत्र भाष्यम्---
स्वाश्रया एते विघयो भविष्यन्तीति ।
यद्यपि विधिग्रहणसामर्थ्यादत्रातिदेशे स्वाश्रयनिवृत्तिरिति सिद्धान्तः, तथाऽपि "द्वयोरेकस्य डतरच्" "देयमृणे" "किरतौ लवने" इत्यादिनिर्देशात्सिद्धिरिति कैयटः ।
पूर्वत्वं च व्यवहितसाधारणम् । पूर्वं मथुरायाः पाटलिपुत्रमित्यादिदर्शनात् । पूर्वस्येति साक्षादुपादानात् "तस्मिन्निति निर्द्दिष्टे" इत्यस्यानुपस्थितेः । एवं च स्वरिविधौ स्थानिवद्भावनिषेधोऽपि सङ्गच्छते । चिकीर्षक इत्यत्र सनकारापेक्षया ईकारस्य रेफषकाराभ्यां व्यवहितत्वात् । स्वरविधौव्यञ्जनमविद्यमानवदित्यस्य सत्त्वेऽपि स्थानिवद्भावे तदभावात् । अत एव चङ्‌परनिर्ह्रासे निषेधोपसंख्यानं वक्ष्यते । तेन पटयति अवधीदित्यादौ स्थानिवत्त्वम् । भाष्यमते वधादेशस्यादन्तत्वात् । "आर्द्धधातुके" इत्यस्य विषयसप्तमीत्वादित्यादि प्रागुक्तम् । न च पटयतीत्यत्र सुबन्ताण्णिजुत्पत्त्याऽन्तवर्त्तिविभक्त्या पदत्वाज्जश्त्वापत्तिः, तद्विधौ स्थानिवद्भावनिषेधादिति वाच्यम् । कर्मसमर्पकात्प्रातिपदिकादेव णिजुत्पत्तेः । सुबन्तादिति पक्षेऽपि "णाविष्ठवद्" इत्यतिदिष्टभसंज्ञया पदसंज्ञाया बाधात् । एतेन पट्‌व्या मृद्व्या इति सर्ववृत्त्युक्तत्वान्मूर्द्धाभिषिक्तसूत्रोदाहरणमिति भाष्यं व्याख्यातम् । तथा हि---पटु ई आ इति स्थिते परयणादेशे कृते निमित्तात्पूर्वत्वे गृह्यमाणे परयणादेशनिमित्तादाकारदव्यवहितपूर्व उकारो न भवति इति तस्य यणादेशे कर्त्तव्ये यणः स्थानिघत्त्वं न स्यात् । अतो व्यवहितस्यापि पूर्वत्वाश्रयणात्सिद्धम् । न च पूर्वयणादेश एव प्रथमं स्यादिति वाच्यम् । परयणादेशस्य नित्यत्वात् । न च सति स्थानिवद्भावे पूर्वयणादेशस्यापि कृताकृतप्रसङ्गित्वान्नित्यत्वमेवेति वाच्यम् । तथाऽपि शब्दपरविप्रतिषेधेन परयणादेशस्याधिकबलत्वात् । पूर्वापरविषयभेदादेकस्यापि लक्षणस्य भेदात् । एकस्य च कार्यित्वनिमित्तत्वयोर्विरोधात्परत्वेन व्यवस्थाश्रयणात् ।
नन्वेवं कर्त्र्या इत्यत्र स्वरो न स्यात् । कर्तृ ई आ इति स्थिते हि यदि नित्यत्वात्परयणादेशः स्यात्तस्य स्थानिवद्भावात्पूर्वस्य यण उदात्तयणोऽनन्तर आकारो नेति उदात्तत्वं न स्यात् । ईकारस्यानुदात्तत्वात् । यदा त्वन्तरङ्गत्वात्पूर्वं पूर्वयणादेशः, तदा ङीप उदात्तत्वं तस्यापि यणि आकारस्य तदिति सिद्धम् । मैवम् । पूर्वयणआदेशमेवोदात्तस्थानिकमाश्रित्य विभक्त्युदात्तसिद्धेः । न च परयणादेशेन व्यवधानं स्वरविधौ व्यञ्जनस्याविद्यमानवद्भावात् ।
भाष्यकारास्त्वाहुः---स्वार्थद्रव्यलिङ्गसंख्याकारकाणां प्रतीतिक्रमः प्रक्रियादशायामावश्यकः । तथा हि---नागृहीतविशेषणन्यायेन प्रथमं सामान्यमभिधीयते । ततस्तदाश्रयो द्रव्यम् । तस्य लिङ्गसङ्ख्याश्रयत्वेनान्तरङ्गत्वात् । ततो लिङ्गम् । द्वित्वादिसंख्याया वस्त्वन्तरापेक्षतया बहिरङ्गत्वात् । द्वित्वादिव्यवच्छेदकतया एकत्वस्यापि तथात्वात् । ततः संख्या । कर्मादिकारकशक्तीनां द्रव्यविजातीयक्रियापेक्षतया बहिरङ्गत्वात् । ततः परिशेषात् । कारकमिति । एवं चार्थप्रतीतिक्रमेणैव शब्दे कार्याणि प्रवर्त्तन्ते । अतो विभक्तिनिमित्तकयणादेशादीकारनिमित्तकयणादेश एव बलवान् । एतेन शब्दपरविप्रतिषेधोऽप्यपास्तः । बहिरङ्गस्यासिद्धतया दुर्वलत्वात् । अतो नेदमुदाहरण् । अकृतव्यूहपरिभाषा त्वनित्येति ।
स्यादेतत् । स्थानिनो यत्र कार्ये निमित्तत्वेनाश्रयणं तत्र स्थानिवत्, उतानाश्रयणेऽपि । नान्त्यः । श्लेष्म3घ्न पित्त3घ्न द3ध्यश्व म3ध्वश्व इत्यादौ अल्लोपयणादेशयोः स्थानिवद्भावेन संयोगसंज्ञाविरहात् गुरुत्वानिबन्धनप्लुतानुपपत्तेः । द्विर्वचनवरेयलोपानामुत्तरसूत्रे उपादानापत्तिश्च । "अनचि" इति पर्युदासात्तत्सादृशस्य हल एव तत्राश्रयणम्, न त्वच इति प्रथमपक्षे स्थानिवत्त्वाप्रसक्त्या तत्परित्यागाल्लाघवम् ।
ननु वरेयलोपेऽचोऽनाश्रयणेऽपि आकारलोपविधौ "अचि ङ्किति" इति प्रकृतिराश्रितैव, तत्कथम्भाष्ये वरेशब्दपाठ इति, मैवम्, यङवयवाकारस्य प्रत्ययत्वाभावात् । अजादौ प्रत्यये परे च आकारलोपविधानात् । अदुग्धेत्यत्र क्सस्य "अलोऽन्त्यस्य" इति अल्लोपे तस्य स्थानिवत्त्वाद् "झलो झलि" इति सिचो लोपो न स्यादिति लुग्विधेयः स्यात्, घ्नन्तीत्यत्राल्लोपस्य स्थानिवत्त्वादानन्तर्यविरहात्कुत्वं च न स्यात् । नाद्यः । निराद्येत्यत्र जग्ध्यादेशप्रसङ्गात् । तत्र णेरनाश्रयणेन स्थानिवत्त्वानुपपत्तेः । अकुर्व्याशामित्यत्र "ये च" इत्युकारलोपस्य अलुन्याशामित्यत्र " ई हल्यघोः" इति ईत्वस्य अजज्ञ्याशामित्यत्र जन जनने इत्यस्माद्व्यत्ययेन तङि जनी प्रदुर्भावे इत्यस्माद्वा छान्दसत्वात् श्लौ "ये विभाषा" इत्यात्वविकल्पस्य राय्याशामित्यत्र "रायो हलि" इत्यात्वस्य च प्रसङ्गात् । सर्वत्र स्थान्यनाश्रयणात् । द्वितीयपक्षे तु नायं दोषः । व्यवहितपूर्वविधावपि स्तानिवत्त्वप्रवृत्तेः ।
अत्र भाष्यम् । अविसेषेणेत्येव पक्षो युक्तः । स्वाश्रयकार्वनिवृत्तेरुक्ततया उकारलोपादीनामप्रसक्तेः । संयोगसंज्ञायाः पूर्वपरोभयविधित्वेन स्थानिवत्त्वाप्रसक्तेः । प्रतिषेधन्तराणां च सूत्रएव कृतत्वात् । तदेव चाविशेषेणेत्यत्र ज्ञापकम् । "लुग्वादुह" इत्यत्र लुग्ग्रहणं त्वावश्यकम् । अदुहीत्यत्र वकारस्याझल्‌त्वात् । घ्नन्तीत्यत्र तु श्रुतिकृतमानन्तर्यमाश्रीयते, स्थानिवत्त्वकृतं तु व्यवधानमविघातकम् । वचनसामर्थ्यात्तत्र प्रवृत्तेः । अत एव हननमित्यदौ नातिप्रसङ्गः इति सप्तमे वक्ष्यते ।
स्यादेतत् । पूर्वविधाविति पञ्चमीसमासो माऽस्क्त । बेभिदिता माथितिकः अपीपचन्निति भाष्योदाहरणत्रयस्यान्यथासिद्धेः । तथा हि---बेभिद्यशब्दात्तृच्‌ । नित्यत्वादल्लोपयलोपौ । तत "एकाच" इतीट्‌प्रतिषेधः स्यात् । उपदेशेत्यस्य एकाचि अनुदात्ते चेत्युभयविशेषणत्वात् । द्विः प्रयोगश्च द्विर्वचनम् । अल्लोपस्य स्थानिवत्त्वे तुव्यवधानान्नोक्तनिषेध इति । तन्न । विहितविशेषणाश्रयणात् । तृचश्च यङन्तादेवोत्पत्त्या उपदेशे य एकाच्‌ भिदिति ततोऽनुत्पत्तेः । मथितं पण्यमस्य माथितिकः । "तदस्य पण्यम्" इति ठक् । तत इकादेशः । "यस्येति च" इत्यल्लोपः । तान्तत्वात्कादेशोऽपि न प्रसज्यते । "ठस्येक" इत्यत्र स्थान्यादेशयोरकारस्योच्चारणार्थतया वर्णमात्रस्य स्थानित्वादल्विधित्वादनल्विधाविति इकारादेशस्य स्थानिवत्त्वनिषेधात् । समुदायस्य तथात्वेऽपि सन्निपातपरिभाषया समाधानात् । अल्लोपस्याजादित्वनिबन्धनभसंज्ञानिमित्तकतया तत्कृततकारान्तत्वमादाय अजादित्वविघातककादेशस्याप्रवृत्तेः । अपीपचन्नित्यपि न प्रयोजनम् ।
ननु झेः "इतश्च' इति इकारलोपएकदेशविकृतन्यायेन झ्‌ इत्यस्य झिभावानपायात् "झोऽन्तः" इत्यन्तादेशे चङकारस्य तदकारेण सह पररूपे तस्य परं प्रत्यादिवद्भावात् झिग्रहणेन ग्रहणात् "सिजभ्यस्त" इति जुसादेशः स्यात्, स्थानिवद्भावे तु णिलोपस्य पररूपपस्य वा व्यवधानान्नेति चेद्, न । वेत्तेरनन्तरं लङ एव झिः संभवतीति तत्साहचर्यादभ्यस्तादपि लङादेशस्यैव झेर्जुसादेशविधानात् ।
न च सिचा साहचर्य्याल्लुङादेशस्यैव झेरस्त्विति वाच्चम् । परसाहचर्य्यस्य बलवत्त्वात् । "विप्रतिषेधे परम्" इति न्यायात् । अत एव भवतेर्यङ्‌लुङन्ताल्लुङि अबोभूवन्निति माधवः । न चैवम् "अदभ्यस्ताद्‌" इत्यस्यैव वारणार्थं पञ्चमीसमासावश्यकत्वम् । पररूपे झस्याभावात् । अल्विधौ अन्तादिवद्भावानुपपत्तेः । झकारस्यादादेशे कर्त्तव्येऽल्विधित्वेन स्थानिवद्भावासंभवाच्च ।
अत्राहुः---नेह साहचर्यं नियामकतया भगवतोऽभिमतम् । अपीपचन्नित्युदाहरणात् । "द्वित्रिचतुर्" इति सूत्रे कृत्वोऽर्थग्रहणात्तस्यानित्यत्वात् । तस्मादबोभूवुरित्येव युक्तम् । "आतः" इति नियमस्य सिचः परत्वमाश्रित्य यो जुस्प्राप्तस्तन्मात्रं विषय इति माधवादिभिरुक्तत्वात् । अभ्यस्ताश्रयस्य जुसो दुर्वारत्वात् । तन्नियमस्य लाघवात्सामान्यविषयकत्वेऽपि "अदभ्यस्ताद्" इत्यदादेशेऽबोभूवदिति रूपान्तरमस्तु । नित्यत्वेन वुको गुणबाधकत्वात् । अबोभूवन्निति तु चिन्त्यमेव । अन्तादेशस्य दुर्लभत्वात् ।
अत्राहुः---मथितयतेः क्वपि टिलोपणिलोपयोः "वरेपृक्तस्य" इति लोपे च मथित् । तेन चरतीति ठक् । तस्येकादेशार्थं पञ्चमीसमास आवश्यकः । एतादृशकल्पनायां च माथितिक इति भाष्योदाहरणस्यैव मानत्वात् । नन्वेवं विगणय्येति न स्यात् । अयादेशे कर्त्तव्येऽल्लोपस्य स्थानिवत्त्वात् । अनुगमय्य इत्यादिमित्संज्ञेषु चरितार्थतया ऽऽरम्भसामर्थ्यविरहात् । मैवम् । पूर्वस्माद्विधौ स्थानिवद्भावस्यानित्यत्वात् । तथा चाष्टमे हरदत्तेनोक्तम् । अनित्यः पूर्वस्माद्विधौ स्थानिवद्भावः । "निष्ठायां सेटि" इति सेड्‌ग्रहणादिति । तथा हि । न तावदनिड्‌व्यावृत्त्यर्थं तत् । ण्यन्तात्तदसम्भवात् ।
न च संज्ञपितः पशुरित्यत्र "यस्य विभाषा" इति प्रतिषेधः, "सनीवन्त" इति विकल्पितेट्‌कत्वादिति वाच्यम् । तत्रैकाच इत्यनुवृत्तेः । अन्यथा दरिद्रातेरिट्‌प्रतिषेधापत्तेः । यदि च पूर्वस्माद्विधौ स्थानिवत्त्वं नित्यं स्यात्, तदा निषेधाप्रसक्तिरेव । णिचा व्यवधानात् । तस्मादनित्यत्वं ज्ञाप्यम् इति । "वस्वेकाज्‌" इति सूत्रे कैयटेनाप्युक्तम्, पूर्वस्मादपि विधावित्येतदनित्यमिति । परिद्रढय्य गत इति णिलोपस्यासिद्धत्वं व्याश्रयत्वात् परिहृत्य पूर्वस्मादिति स्थानिवत्त्वमाशङ्क्य प्रबेभिदय्य प्रस्तनय्येति भाष्योदाहरणसामर्थ्यान्नेति माधवः ।
यद्वा---"लघुपूर्वाद्" इत्यत्र वर्णरूपान्यपदार्थग्रहणाद्वर्णग्रहणे च जातिग्रहणाद्व्यवधानेऽपि न दोष इति दीक्षिताः ।

       न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु 57 ।

पदस्य चरमावयवे द्विर्वचनादौ च विधेये परनिमित्तोऽजादेशो न स्थानिवत् । कानि सन्ति, कौ स्तः । यणावादेशयोः कार्ययोः "श्नसोरल्लोपः" इत्यल्लोपो न स्थानिवत् । न च अनादिष्टादचः पूर्वत्वाभावादेव न तथेति वाच्यम् । वाक्यादपोद्‌धृत्य पदानि संस्क्रियन्तइति पक्षे तत्सत्त्वात् । "युष्मद्युपपदे" इत्यादौ पदान्तरसापेक्षतयाऽपि पदसंस्कारदर्शनात् । अत एवाङ्गसंज्ञासूत्रे स्त्री इयतीत्यत्र पदान्तरनिरपेक्षपदसंस्कारपक्षे स्त्रीशब्देकारस्यानादिष्टादचः पूर्वत्वाभावादिदमादेशलोपस्य न स्थानिवत्त्वमिति कैयटेनोक्तम् । पक्षेपदोक्त्या प्रकृतोक्तपक्षस्यापि तदभिमतत्वात् । हरदत्तस्तु यद्यपि व्याकरणेन पदान्येव व्युत्पाद्यन्ते, न वाक्यम्, तथाऽपि वाक्यगते स्त इत्यादिपदे व्युत्पाद्यमाने कावित्यादेः पदस्यासत्यपि निमित्तत्वे सन्निधानमविरुद्धमित्यनादिष्टादचः पूर्वत्वमित्याह ।
केचित्तु गोचो गोचेत्यादौ "अचः" इत्यल्लोपस्य "अवङ्‌ स्फोटायनस्य" इत्यवङ्‌विधौ स्थानिवत्त्वनिषेधः । तत्रौकारस्यानादिष्टादचः पूर्वत्वादित्याहुः ।
अत्रेदं तत्त्वम् । विधिशब्दो भावसाधनः । पदान्तस्येति कर्मषष्ठ्या समासः । अन्तशब्दश्चरमावयवपरः । तथा च पदचरमावयवनिष्ठं यत्र विधेयत्वं तत्र स्थानिवद्भावनिषेधः । कानि सन्ति कौ स्त इत्यत्र यदि यकारवकारौ स्यातां वस्तुतः पदान्तौ स्याताम् इति पदान्तविधित्वसम्भवः । तदुक्तम्---
योऽसौ पदान्तो यकारो वकारो वाऽन्ते श्रूयेतेति ।
कैयटेन च व्याख्यातम्---"यकारवकारौ विधीयमानावेव पदान्तौ भवत इत्यस्ति पदान्तताया विधानम्" इति ।
क्वचित्तु पदसंज्ञाविधानेन, यथा वेतस्वानित्यादिवक्ष्यमाणापत्तौ । तदुक्तं विवरणकारैः---
स्वरूपेण सकारः स्थितोऽपि पदान्तत्वेन विशिष्टो विधेयएवेति । षडिक इत्यत्र तु धर्मधर्मिणोरुभयोरपि पूर्वसिद्धत्वान्न कथमपि पदान्तत्वविशिष्टविधानमिति नोक्तनिषेध इति वक्ष्यामः ।
नत्वत्र विधिवाक्येषु विधेयतावच्छेदकत्वेन पदान्तत्वातिदेशापेक्षा । "इको यणचि" इत्यादौ स्थानितावच्छेदकतया आदेशतावच्छेकतया वा तदनुल्लेखादसङ्गतिप्रसङ्गात् ।
यदि तु विधीयते इति कर्मव्युत्पत्त्या विधिशब्दो विधेयपरः । पदान्तस्येति शेषे षष्ठी स्थानित्वार्था । तथा च पदचरमावयवनिष्ठं यत्स्थानित्वं तन्निरूपितं यत्र विधेयत्वं तत्र न स्थानिवत्त्वमिति व्याख्यायेत, तर्हि षडिक इति न सिध्येत् । तथा हि---अनुकम्पितः षडङ्गुलिदत्तः षडिकः । "बहुचो मनुष्यनाम्न" इति ठच्‌ । "ठाजादावूर्ध्वम्" इति ङ्गुलिशब्दस्य लोपः । "यस्येति च" इत्यकारलोपः । तत्र षट्‌ इत्यस्य प्रत्ययलक्षणेनान्तर्वर्तिविभक्तिमाश्रित्य क्रियमाणा पदसंज्ञा तुल्यावधिकतया भसंज्ञया बाध्येत । तथा च जश्‌त्वेन डत्वं न स्यात् । न च "यस्य" इत्यल्लोपस्य स्थानिवद्भावादकारान्तस्य भसंज्ञा षान्तस्य च पदसंज्ञेति भिन्नावधिकत्वान्न बाध्यभादकभाव इति वाच्यम् । "न पदान्त" इति निषेधप्रवृत्त्यापत्त्या भसंज्ञाया अपि षान्तएव विश्रामात् । न च जश्‌विधित्वादेवात्र स्थानिवत्त्वनिषेधः । जश्‌विधावेव तत्प्रवृत्तेः । इह तु पूर्वमेव जश्त्वस्य निष्पत्तेः, षकाररूपापत्तेरेवात्र विधेयत्वात् । नापि पूर्वत्रासिद्धे न स्थानिवदित्यस्य प्रवृत्तिः । हेतोरुक्तत्वादित्याकरानुसारी ग्रन्थः ।
अत्र केचित्---कर्मसाधनविधिशब्दपक्षेऽपि पदान्तस्य स्थाने विधौ कर्तव्यएव स्थानिवत्त्वनिषेधो भसंज्ञा तु न पदान्तस्थानिकेति कथं निषेधप्रवृत्तिः । न च पदान्तस्थानिको यो विधिस्तद्विरोधिविधिं प्रत्यपि स्थानिवद्भावनिषेधः, अस्ति च पदान्तस्थानिकं जश्त्वं तद्विरोधी भसंज्ञाविधिः, जश्त्वस्य पदसंज्ञापेक्षत्वादिति वाच्यम् । तादृशार्थपरत्वे मानाभावात् । पदान्तस्थानिके विधौ स्थानिवत्त्वनिषेधमात्रेणोपपत्तेः । कानि सन्तीत्यादौ चरितार्थत्वादधिकपरत्वे प्रयोजनाभावात् । एतेन जश्‌भावसाधि काया अकारान्तनिष्ठभसंज्ञायाः साधकोऽयं स्थानिवद्भावः । तद्व्यतिरेके भसंज्ञाया अपि षकरान्तनिष्ठत्वापर्तौ तया पदसंज्ञाबाधे जश्भावानुपपत्तेरित्यपास्तम् । जश्भावनिमित्तत्तवेनानाश्रयणात् । अकारात्पूर्वभागस्यान्तर्विर्त्तिविभक्त्या पदत्वेन तत्सिद्धेश्च । अत एव जशि नेति पूर्वत्रालसिद्धे न स्थानिवदिति च निषेधयोरप्रवृत्तिः । जशि कर्त्तव्ये स्थानिवद्भावो नेत्यर्थे जश्‌संबन्धिन एव ग्रहणेन जश्‌भावेन सह बाध्यबाधकभावो निष्पाद्यनिष्पादकभावो वा यस्य संबन्धस्तस्यैव स्थानिवत्त्वनिषेधात् । भावसाधनपक्षेऽपि षडिक इत्यस्य सिद्धेश्च । जश्‌भावस्य विधेयस्य पदान्तत्वसत्त्वात् । न च जश्‌भावस्य पूर्वमेव निर्वृत्त्या पदान्तस्य विधेयत्वं नास्तीति वाच्यम् । भसंज्ञाया अपि संभावितत्वादकृतव्यूहपरिभाषया "अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते" इति न्यायाच्च तदप्रवृत्तेः । कर्मसाधनपक्षेऽपि पदान्तस्थानिकविधेयाभावाच्च । न च पदान्तत्वेन सिद्धस्य भत्वात्षकाररूपापत्तिर्विधेयेति वाच्यम् । द्विर्वचनादिसाहचर्येण शास्त्रीयस्यैव विधेयस्योपादानादिति ।
तदत्यन्तमसत् । अनादिष्टादचः पूर्वत्वेन दृष्टस्य पदचरमावयवस्य स्थाने विधौ कार्ये परनिमित्तोऽजादेशो न स्थानिवदिति वाक्यार्थः । तथा च "दध्यत्रेत्यत्र संयोगान्तलोपप्रसङ्गे पदान्तविधिं प्रति नेत्ययमपि प्रतिषेधो नास्ति, पदान्ते विधेये स प्रतिषेधो न च लोपोऽभावात्मकत्वात्पदान्त" इति कैयटग्रन्थविरोधः । एवं वृक्षव् इत्यत्र विधेयस्य वलोपस्यावयवत्वाभावात् "न पदान्त" इति णिलोपस्य स्थानिवत्त्वनिषेधो नेति कौस्तुभमनोरमाग्रन्थविरोधः । त्वद्रीत्या लोपप्रतियोगिनो वकारादेः पदान्तत्वसत्त्वान्निषेधस्य दुर्वारत्वात् । एवं वेतस्वानित्यत्र कर्मसाधनपक्षेधनपक्षे न दोष इत्येतत्परभाष्यविरोधः । तदस्मिन्नस्तीत्यर्थे कुमुदनडवेतसेभ्यो ड्‌मतुप् । डित्त्वादकारलोपः । "तसौ मत्वर्थे" इति भसंज्ञायां रुत्वाभावः । न च तस्य चातुरर्थिकत्वान्निर्वृत्ताद्यर्थकत्वे तथाऽपि दोष इति वाच्यम् । तत्रानभिधानमित्यभिप्रायेणोक्तत्वात् । तत्र सान्तस्य भसंज्ञायां क्रियमाणायामल्लोपस्य स्थानिवद्भावात्सान्तत्वं नास्तीति भसंज्ञा न स्यात् । न च "न पदान्त" इति निषेधः । भसंज्ञायाः पदान्तस्थानिकत्वाभावात् । तथा च पदान्तस्थानिके विधौ यद्विरोधी तद्विधिं प्रत्यपि न स्थानिवद्भाव इत्यर्थोऽवश्यं वाच्यः । अस्ति च पदान्तस्थानिको रुत्वविधिः । तद्विरोधी भसंज्ञाविधिः । तं प्रति अल्लोपस्य स्थानिवद्भावनिषेधे सति तस्य भसंज्ञा सिद्धा । तथा चाधिकार्थपरत्वे मानाभाव इत्यसंबद्धमेवाभिधानम् । अत एव स्थानिवद्भावनिषेधव्यतिरेकेणैव यस्य पदान्तत्वं सिद्धम्, तस्य विधौ "न पदान्त" इति निषेधः कर्मसाधनविधिशब्दपक्षे प्रवर्त्ततइति भाष्यकैयटयोरेव स्पष्टम् । वेतस्वानित्यत्र हि स्थानिवद्भावनिषेधं विना सकारो न पदान्तत्वेन सिद्धः । स्थानिवद्भावसत्त्वेऽकारान्तएव पदसंज्ञाविश्रामात् । कानि सन्तीत्यत्र च "न पदान्त" इति निषेधं विनाऽपि इकारस्य पदानतत्वसत्त्वाद्यणादेशे कर्तव्येऽल्लोपस्य स्थानिवद्भावनिषेधसौलभ्यम् । भावसाधनपक्षेऽपि तत्सिध्यतीति त्वन्यदेतत् । एवं षडिक इत्यत्र "न पदान्त" इति निषेधप्रवृत्तिं विना षकारो न पदान्तत्वेन सिद्धः अतो दुर्लभैव तत्रैतन्निषेधप्रवृत्तिः ।
न चान्तर्वर्त्तिविभक्त्या तस्य पदान्तत्वं सिद्धमेवेति वाच्यम् । स्तानिवद्भावनिषेधाभावे तुल्यावधिकया भसंज्ञया तद्‌बाधापत्तेरुक्तत्वात् । एतन्निषेधस्यैव तत्पदसंज्ञायामुपजीव्यत्वात् वेतस्वानित्यतो विशेषाभावात् ।
यत्तु कानि सन्तीत्यत्रैव निषेधोपपत्तिरिति तन्न । पदान्तस्थानिके विधौ यस्य बाध्यबाधकभावो निष्पाद्यनिष्पादकभावो वा सम्बन्धस्तस्य स्थानिवत्त्वनिषेध इत्यवश्यं वाच्यम् । जश्त्वविधितो वैषम्याभावात् । निष्पाद्यनिष्पादकभाव आदेशस्य विवक्षितः स्थानिनो वा ? । नाद्यः । अल्लोपस्य यणादेशेन तदभावात् । नान्त्यः । षडिक इत्यत्राकारस्यापि स्वान्तनिष्ठभसंज्ञाद्वारा जश्त्वरूपे पदान्तस्थानिकविधावनुगुणत्वात् निषेधस्य दुर्वारत्वात् । ननु साक्षादनुगुणत्वं निवेश्यमितिचेन्न । साक्षात्त्वप्रवेशे गौरवात् । किं च, साक्षात्त्वम् हि किं संज्ञामात्रानपेक्षत्वम्, उत स्वभिन्नवृत्तिसंज्ञाऽनपेक्षत्वम्, उत स्वमात्रवृत्तिसंज्ञाऽनपेक्षत्वम् ? । नाद्यः अकारस्याप्यच्त्वेन रूपेण यण्यनुगुणत्वात् । न द्वितीयः । अच्त्वस्यापि अकारभिन्नवृत्तित्वात् । नान्त्यः । अप्रसिद्धेः । अथ यस्यां व्यक्तौ यत्र निमित्तत्वपर्यवसानं तत्पर्य्याप्तसञ्ज्ञातिरिक्तसञ्ज्ञानपेक्षत्वं तदर्थ इति चेद् । अणादितञ्ज्ञाया अप्यकारपर्याप्ततया तदतिरिक्ताया अच्सञ्ज्ञाया एवापेक्षितत्वात् । अथ भेदप्रतियोगिन्यां सञ्ज्ञायां प्रकृतकार्यनिमित्तत्वमपि वाच्यम् अणआदिसञ्ज्ञास्तु न तथा इति चेन्न । तथापि यथोद्देशे अचि परतो यत्कार्यं दृष्टं यद्‌ आदेशेऽपि भवतीति कार्यातिदेशेन लोपे सत्यपि "अचः परस्मिन्" इत्यनेनैव यणादीनां प्रसक्त्या अकारे निमित्तत्वपर्यवसानाभावात् । नच कार्यकालपक्षे शास्त्रीयत्वाविशेषात् अकारनिष्ठाया एवाच्संज्ञाया लोपोत्तरमतिदेशः, यणादेशस्तु "इकोयणचि" इत्यनेनैवेति चेद् । तथापि अकारे निमित्तत्वस्यानन्वयात् । अच्सञ्ज्ञाया लोपेऽतिदेशेऽपि निमित्तत्वस्य फले एव विश्रामात् ।
एवं पर्यवसानं फलोपधायकत्वं सम्भावनामात्रं वा ? । नाद्यः । निषेधात्प्रकृते फलानुपधानात् । नान्त्यः । अच्त्वेन इकारादीनामपि तथात्वात् । अत्र स्थानिवद्भावेन फलानुपधानं तत्राकः सवर्णे दीर्घ इत्यपवादेनेति तु विशेषः । न च कानि सन्तीत्यत्र इकारे न निमित्तत्वसम्भावना, अकारलोपेऽपि तदभावात् इति वाच्यम् । लोपे सति अकारेऽपि तदभावात् । स्थानिवद्भावप्रयुक्ता सम्भावना विवक्षितेति चेत् । तर्हि सा पक्षद्वयेऽपि लोपस्यैव नत्वकारस्येत्युक्तमेव ।
ननु अतिदेश्यतावच्छेदकधर्मो यादृशः प्रकृते निमित्ततावच्छेदकत्वेन निर्णीतस्तदवच्छिन्नायां यस्यां व्यक्तौ पदान्तस्थानिकविधिनिरूपितनिमित्तत्वं सम्भावितं तद्‌वृत्तितदतिरिक्तधर्मानपेक्षत्वं विवक्षितम्, प्रकृतेऽतिदेश्यतावच्छेदको निमित्ततावच्छेदकत्वेन निर्णीतो धर्मोऽच्त्वं तदवच्छिन्नायां लोपव्यक्तौ कानि सन्तीत्यत्र यणादेशनिमित्तत्वं सम्भावितं तादृशलोपवृत्तिर्योऽच्त्वातिरिक्तो धर्मस्तदनपेक्षत्वं यणादेशे प्रसञ्जनीये लोपस्यास्त्येवेति चेद् । सत्यम् । अच्त्वस्य केवलस्य यणादेशानापादकत्वात् । कार्यान्तरविशिष्टस्यैव तस्य तदापादकत्वात् । नहि यद्यत्र परतोऽच्‌ स्यात् तदा यणादेशः स्यादित्यापादयितुं शक्यम् । पूर्वस्य इक्‌त्वाभावे प्रगृह्यत्वे वा सत्यपि तस्मिंस्तदनुत्पत्तेः । तस्मात्तदभावप्रयोजकाभावप्रतियोगित्वमेवानुगुणत्वम् वाच्यम् । यथा चाच्‌त्वस्य कानि सन्तीत्यत्र तथात्वम् तथा षडिक इत्यत्र अकारस्यापि । तदभावे षकारान्त एव भसञ्ज्ञाप्रसङ्गात् जश्त्वाभाव प्रयोजकत्वात् इति स्थानिवत्त्वनिषेधो दुर्वारः स्यात् इति दिक् । सिद्धान्ते तु पदान्तस्य यत्र विधीयमानत्वं तत्र स्थानिवत्त्वनिषेधः । षडिक इत्यत्र तु जश्त्वस्य पूर्वसिद्धत्वान्न निषेध इति सति स्थानिवद्भावे भपदसञ्ज्ञयोर्भिन्नाबधिकतया षान्तस्य पदसञ्ज्ञासिद्धिः । तेन न पदसञ्ज्ञाविरहप्रयुक्तषकाररूपतापत्तिः । न च षकाररूपताविधानमादायैव निषेधापत्तिः । तस्यापदान्तत्वात् । अन्यथा जश्त्वापत्तेः । अनुकम्पितो वागाशीर्दत्तो वाचिकइत्यत्र तु "एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्य" इति समस्तस्यैवोत्तरपदस्य लोपस्वीकारः ।
यत्तु अकृतव्यूहपरिभाषया अन्तरङ्गानपीतिपरिभाषया वा षडिक इत्यत्रापि न पूर्वं जश्त्वमिति । तत्र नाद्यः । उक्तरीत्या निमित्तस्य विनाशोन्मुखत्वाभावात् । शङ्कामात्रस्याप्रयोजकत्वात् । न द्वितीयः । स्वादिष्वितिपदसञ्ज्ञाया अङ्गमात्रविश्रान्ततया लुकि दुर्लभत्वेऽपि सुबन्तत्वप्रयुक्तायास्तस्या अतथात्वेन लुक्यपि प्रत्ययलक्षणेन सुलभत्वात् । अन्यथा पञ्च सप्तेत्यादौ नलोपो न स्यात् । राजपुरुष इत्यादावपि तथा । तत्रापि लुक एव स्वीकारात् । अन्यथा ऽत्राल्लोपापत्तेः । गोमत्प्रिय इत्यादौ नुमाद्यापत्तेश्च । पदसञ्ज्ञा त्वन्तर्वर्तिविभक्त्याश्रयेण षकारान्तस्वेति कैयटोक्तेश्च विभक्तेरश्रूयमाणतया सुबन्तस्य पदसञ्ज्ञायामपि षकारान्त एव पर्यवसानमित्येवंपरत्वात् ।
अथ भावसाधनपक्षे ब्रह्मबन्धूरित्यत्र धकारस्य जश्त्वं स्यात् ऊङा सहैकादेशस्य परादिवद्भावेनोङ्‌ग्रहणेन ग्रहणात् । तस्मिन्परे स्वादिष्वितिपदसञ्ज्ञाया धकारान्ते प्रसङ्गात् । नच भसञ्ज्ञया बाधः । तत्र स्थानिवद्भावप्रवृत्त्या तस्या उकारान्त एव विश्रामात् । एवं वेतस्वानित्यत्र सकारस्य रुत्वापत्तिः, पदान्तत्वे विधीयमाने स्थानिवत्त्वनिषेधात् पदसञ्ज्ञायाः सकारान्ते सुस्थत्वात् ।
अत्र भाष्यम् "पदे अन्तः पदान्तः" पदे परतोऽन्त इति यावत् । तस्य विधौ न स्थानिवत् । ड्‌मतुप्तु न पदमिति सस्य रुत्वे कर्तव्ये भवत्येव स्थानिवद्भावनिषेध इति भत्वस्यापि सकारान्त एव विधानात् अवधिभेदाभावाद्भसञ्ज्ञया पदसञ्ज्ञाबाधः ।
"यद्वा यथाऽन्यानि पदकार्याणि उपप्लवन्ते रुत्वं जश्त्वं, एवमिदमपि पदकार्यमुपप्लोष्यते । किम् ? भसञ्ज्ञा नामेति" ।
अस्यार्थः । भसञ्ज्ञायां पदमित्यनुवर्तते पदं सद्भसञ्ज्ञं भवतीति पदत्वसद्भावे तन्निमित्तकं रुत्वं माभूदिति भसञ्ज्ञायामपि पदविषयकत्वात्पदान्तविधित्वमस्तीति स्थानिवत्त्वनिषेधात्सान्तस्यैव भसञ्ज्ञेति तया पदत्वबाधान्न रुत्वम् । पूर्वं पदसञ्ज्ञैव भसञ्ज्ञोपजीव्या, पश्चात्तु भसञ्ज्ञया तद्‌बाध इत्यन्यदेतद् ।
प्रकृतमनुसरामः । द्विर्वचने सुद्‌ध्युपास्यः ।" अनचि च" इति द्वित्वे कर्तव्ये यणादेशो न स्थानिवत् । न च असिद्धं बहिरङ्गमिति द्वित्वानुपपत्तितादवस्थ्यम् । हरदत्तमते नाजानन्तर्ये इति तन्निषेधात् । स्थानिवद्भावनिषेधसामर्थ्याच्च ।
वरे इति निपातनान्न विभक्तेर्लुक् । तन्निमित्तोऽजादेशो न स्थानिवत् । यायावरः । यातेर्यङन्तात् "यश्च यङः" इति वरच् । अतो लोपः । तस्य "आतोलोप इटि च" इत्याकारलोपे कर्तव्ये न स्थानिवत्त्वम् । स्यादेतत् । अतो लोपस्य परनिमित्तकत्वमेव नास्ति आर्द्धधातुके इति विषयसप्तम्या आर्द्धधातुकोत्पत्तेः पूर्वमेवातो लोपप्रवृत्तेः । अत एव "अचो यत्" इत्यत्र वृत्तौ वक्ष्यते `अच्‌ ग्रहणं किम् ? यावता हलन्ताण्ण्यतं वक्ष्यति । अजन्तभूतपूर्वस्यापि यथा स्यात् दित्स्यं धित्स्यम्' इति ।
अत्र हरदत्तादयः---`वरेग्रहणसामर्थ्यात्परसप्तमीपक्षोऽप्यस्ति । अत एव "अनुदात्तेतश्च हलादेः" इत्यत्र आदिग्रहणम् । असति हि तस्मिन्हलन्तादिति विज्ञायेत । ततश्च जुगुप्सनो मीमांसन इत्यत्र युज्न स्याद् इति । यदि च विषयसप्तमी स्यात् प्रागेव प्रत्ययोत्पत्तेरतो लोपे सति हलन्तत्वादेव तत्रापि युच् सिद्ध्येदिति आदिग्रहणं व्यर्थं स्याद्' इति ।
एवं यातेर्यङन्तात् क्तिचि अतो लोपे यलोपविधौ स्थानिवत्त्वनिषेधाद्यलोपे तस्य स्थानिवद्भावादाकारलोपे पुनर्यकारलोपे यातिरिति रूपम् ।
न च पुनराकारयकारयोर्लोपे प्रत्ययमात्रश्रवणापत्तिरिति वाच्यम् । आलोपस्य स्थानिवत्त्वात् आभीयत्वेनासिद्धत्वाद्वा । न च स्वस्य स्वं प्रत्येव कथमसिद्धत्वमिति वाच्यम् । चिणोलुङ्‌न्यायेन तत्सम्भवात् । वक्ष्यति च वार्त्तिकम्---
"चिणो लुकि तग्रहणानर्थक्यं संघातस्याप्रत्ययत्वात्तलोपस्य चासिद्धत्वाद्" इति ।
अस्यार्थः---चिणो लुग्विधौ अकारितरामित्यादौ तरबादेर्लोपो मा भूदित्येतदर्थकं तग्रहणं व्यर्थं तङ्‌तरसमुदायस्य प्रत्ययत्वाभावात् । न च तकारलोपोत्तरं तरपो लोपापत्तिः । तलोपस्यासिद्धत्वात् । न चाभेदे तदनुपपत्तिः । विषयभेदेन लक्षणभेदाश्रयणादिति ।
भाष्ये तु कण्डूयतेः क्तिचि कण्डूतिरिति यलोपोदाहरण् ।
वृत्तौ तु क्तिन्नित्युक्तम् । तत्र यद्यपि अप्रत्ययेन बाधितत्वात्कण्डूयेत्येव भवितव्यमिति भाष्योक्त्या च क्तिनो दौर्लभ्यम् । तथाऽपि `क्तिन्नाबादिभ्य' इति क्तिन् । `क्तिचीत्येव युक्तः पाठः' इति हरदत्तः । अल्लोपयलोपौ । न च अल्लोपस्य स्थानिवत्त्वादुवङ्‌प्रसङ्गः यलोपं प्रत्येव स्थानिवत्त्वनिषेधादिति वाच्यम् । इष्टापत्तेः । "छ्‌वोः" इति तस्य ऊठः सम्भवात् । न च तं प्रत्युवङादेशस्य स्थानिवत्त्वापत्तिः । आदिष्टादचः पूर्वत्वात् । अत एव ऊठः पुनरुवङ् नेति हरदत्तादयः । एवं तेष्ठीयतेः क्तिचि अल्लोपयलोपयोरल्लोपस्य स्थानिवत्त्वादियङि "लोपो व्योः" इति यलोपे तेष्ठितिरिति रूपम्, पेपीयतेस्तु एरनेकाच इति यणि यलोपे च पेप्तिः, शो तनूकरणे इत्यस्माद् यङन्तात् क्तिजादिषु कृतेषु "पूर्वत्रासिद्धे न--" इति स्थानिवत्त्वनिषेधाच्छस्य षत्वे ष्टुत्वे च शाष्टिरिति विशेषः ।
आकर्षिकः । चरतीत्यर्थे "आकर्षाद्‌" इति ष्ठल्‌ । "लिति" इति ककाराकारस्योदात्तत्वे कार्ये "यस्येति च" इति अकारलोपो न स्थानिवत् । न च वचनसामर्थ्यं गतिः । कारक इत्यादौ चरितार्थत्वात् । "स्वरविधौ व्यञ्जनमविद्यमावद्" इति रेफादेर्व्यवधायकत्वानुपपत्तेः । आनन्तर्यसम्भवे व्यवहितानाश्रयणात् । न च ष्ठलो लित्करणसामर्थ्यादकारेण व्यवधाने स्वरसिद्धिः । आकारस्यापि पक्षे उदात्तत्वापत्तेरिति कैयटः ।
अन्ये तु तु श्रुतिकृतमेवानन्तर्यं लित्करणसामर्थ्यादाश्रीयते । घ्नन्तीत्यादौ कुत्ववदिति, तन्न युक्तमित्याहुः ।
तत्र चिकीर्षक इत्यादौ ईकारस्योदात्तत्वे कर्त्तव्येऽतो लोपो न स्थानिवदिति उदाहरणम् बोध्यम् । शिण्ढि इत्यत्र सवर्णानुस्वारयोः कर्त्तव्ययोः श्नसोरल्लोपो न स्थानिवत् ।
ननु श्नसोरल्लोपे कृते अनुस्वारप्रवृत्तेः अनुस्वारस्यानादिष्टादचः पूर्वत्वाभावात् स्थानिवत्त्वप्रसक्तिरेव नास्ति । नच स्थानिद्वारकमनादिष्टादचः पूर्वत्वमिति वाच्यम् । अशास्त्रीयत्वेन तस्यातिदेशानर्हत्वात् ।
यत्तु हरदत्तादिभिरुक्तम् । अनादिष्टादचः पूर्वत्वापेक्षे "अचः परस्मिन्" इत्यतिदेशे कर्त्तव्ये "स्थानिवदादेश" इत्यतिदेशः प्रवर्त्तत इति । तन्न । पूर्वसूत्रे निराकृतत्वात् । तथा हि । अनादिष्टादचः पूर्वत्वमतिदिश्यते "अचः परस्मिन्" इत्यतिदेशो वा । नाद्यः । अशास्त्रीयत्वात् । नान्त्यः । "अचः परस्मिन्" इत्यतिदेशस्य प्रकृतेऽपि स्थानिन्यप्रवृत्ततया तदादेशेऽतिदेष्टुमशक्यत्वात् । स्थानिन्यदृष्टस्यातिदेशानर्हत्वात् । आवश्यकं च हरदत्तस्य तत् । अन्यथा लोलुव इत्यादौ इयङुवङोः कृतयोर्लघूपधगुणप्राप्त्या तद्वारणार्थं "न धातुलोप---" इति सूत्रारम्भ इति तत्सिद्धान्तानुपपत्तेः । स्थानिद्वारकमनादिष्टादचः पूर्वत्वमाश्रित्याल्लोपस्य स्थानिवद्भावादेव गुणप्रसक्तेस्तत्र वारयितुं शक्यत्वात् ।
न च तत्सूत्रप्रत्याख्यानाद् भाष्यकारस्य स्थानिद्वारकमष्यनादिष्टादचः पूर्वत्वमिति अभिप्राय आवश्यक इति वाच्यम् । तत्सूत्रप्रत्याख्याने भाष्यकृतस्तात्पर्यविरहात् । "आतोऽनुपसर्ग" इति सूत्रस्थबाष्यविरोधस्य पूर्वमेव दर्शितत्वाच्च । न च तद्भाष्यादिकं स्थानिद्वारकस्यानादिष्टादचः पूर्वत्वस्यानित्यत्वाभिप्रायकमेवेति वाच्यम् । स्थानिद्वारकस्यानादिष्टादचः पूर्वत्वस्य युक्तिशास्त्रोभयविरुद्धत्वेन `स ह्यादिष्टादचः पूर्वः' इत्यादिभाष्यस्यैव बलवत्त्वात् । अत एव "अक्षय्यं हि वै चातुर्मास्ययाजिनः सुकृतं भवति" इत्येतदपेक्षया कृतकत्वलिङ्गकविनाशित्वानुमानसहकृतायाः "तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते" इति श्रुतेः प्राबल्यमिति भामत्यादावुक्तम् । अत एव कण्डूतिरित्यत्रादिष्टादचः पूर्वत्वात् पुनरुवङ्‌नेत्युक्तम् । सत्यम् । आदेशापेक्षं निमित्तापेक्षं वा पूर्वत्वमिति पक्षद्वये स्थानिवत्त्वप्रसक्त्या निषेधोपपत्तिः । एतेनोक्तनिषेधादेव स्थानिद्वारकस्यानादिष्टादचः पूर्वत्वस्य ग्रहणमित्यपास्तम् ।
केचित्तु हरितशब्दादाख्यानण्यन्ताद्विचि हरिल्लुनातीत्यत्र "तोर्लि" इति लत्वे कर्त्तव्येऽतो लोपस्य णिलोपस्य वा स्थानिवत्त्वनिषेधार्थं सवर्णग्रहणम् । न च पूर्वत्रासिद्धे न स्थानिवदित्यत एव सिद्धिः । "तस्य दोषः संयोगादिलोपलत्वणत्वेषु" इति तन्निषेधादित्याहुः ।
अन्ये तु प्रतिपदोक्तमेव लत्वं तत्र गृह्यते न तु परसवर्णविधिप्रयोज्यं व्यवहितप्रतीतिकत्वादित्याहुः ।
अपरे तु रेफोत्तरं विधेयलकारप्रश्लेषात् "तोर्लि" इति लत्वमपि प्रतिपदोक्तमेव, परसवर्णस्यानुवृत्तौ गौरवप्रसङ्गात् ।
वस्तुतस्तु "पूर्वत्रासिद्धीये न स्थानिवद्‌" इत्याश्रित्य सवर्णग्रहणस्य सिद्धान्तेऽपि प्रत्याख्येयत्वान्नायं दोषः इत्याद्यवधेयम् ।
यद्यपि परसवर्णविधौ स्थानिवत्त्वनिषेधस्य तत्स्थानिनोऽनुस्वारस्यापि विधौ स्थानिवत्त्वप्रतिषेधमन्तरेणानुपपन्नतयाऽनुस्वारविधावपि तन्निषेध इति पृथगनुस्वारग्रहणवैयर्थ्यम्, तथापि यत्र परसवर्णप्रसक्तिर्नास्ति शिंषन्तीत्यादौ तत्रानुस्वारो न स्यादिति शङ्कावारणार्थं तत् ।
प्रतिदीव्नेत्यत्र "हलि च" इति दीर्घे कार्ये भसंज्ञानिमित्तकोऽल्लोपो न स्थानिवत् । प्रतिपूर्वाद्‌ दिवः "कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः" इति कनिन् ।
वृत्तौ तु "उपधायां च" इति दीर्घ इति पठ्यते, तद् लेखकैः प्रमादाल्लिखितम्, दिवेर्वकारस्यानुपधात्वात् ।
"उपधायां च" इति सूत्रे प्रतिदीव्नेत्यत्र "हलि च" इति दीर्घ इति वृत्तावेव लिखितत्वादिति हरदत्तादयः ।
दीक्षितास्तु `आचारक्विबन्तात्क्विपि समाधेयम् । तत्र प्रतिदिवन् इति नान्तम्, तस्यैव धातुसंज्ञा तया वकारस्योपधात्वसम्भवात् । नच्, अल्लोपात्पूर्वमकारस्यैव "अनुनासिकस्य क्विझलोः" इति दीर्घापत्तिः । अकृतव्यूहपरिभाषया भाविनमल्लोपमालोच्यान्तरङ्गस्यापि दीर्घस्याप्रवृत्तेः । न च स्थानिवत्त्वाभावेऽपि "असिद्धं बहिरङ्गम्" इति परिभाषयाऽल्लोपस्यासिद्धत्वाद्दीर्घानुपपत्तिः । कृति तुग्ग्रहणेन तस्या अनित्यत्वज्ञापनात् । यथोद्देशपक्षे तत्परिभाषायास्तत्राप्रवृत्तेश्च । एतस्योभयपक्षेऽपि वाच्यत्वाद्' इति आहुः ।
"सग्धिश्च मे" "बब्धां ते हरी" । अदेः क्तिन् "बहुलं छन्दसि" इति घस्लादेशः । "घसिभसोर्हलि च" इत्युपधालोपः । "झलो झलि" इति सलोपः । धि परे सिचो लोप इत्यस्य भाष्यकृताऽनङ्गीकारात् ।
वार्तिकमते तु छान्दसत्वात्सलोप इति कैयटहरदत्तादयः । "झषस्तथोः" इति प्रत्ययतकारस्य धत्वम् । तत् प्रति पूर्वस्माद्विधाविति उपधालोपस्य न स्थानिवत्त्वम् । तस्यानित्यत्वात् । घकारस्य "झलां जश्‌ झशि" इति जश्त्वेन गकारे कर्तव्ये उपधालोपो न स्थानिवत् । समाना ग्धिः सग्धिः "समानलस्य छन्दस्यमूर्द्धप्रभृत्युदर्केषु" इति समानस्य सादेशः । द्वितीये भसेर्लोट्‌, तसस्ताम्, शपः श्लुः । अन्तरङ्गत्वाद् द्वित्वम् । अभ्यासकार्यम् । तत उपधालोपादि प्राग्वत् ।
जक्षतुः । घसेर्लिट् अतुस् । "गमहन" इत्युपधालोपः "खरिच" इति चर्त्वेन घस्य कत्वे कर्त्तव्ये न स्थानिवत् ।
अत्र वार्तिकम्---
"स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्" ।
भावरूपस्त्वादेशः स्थानिवदेवेत्यर्थः । तेन पञ्चारन्त्यः, दशारत्न्यः । जसादिषु "छन्दसि वा वचनं प्राङ्‌ णौ चङ्‌युपधायाः" इति गुणाभावे यण्‌ । तस्य स्थानिवद्भावाद् "इगन्तकालकपाल---" इत्यादिना पूर्वपदप्रकृतिस्वर इति भाष्यम् ।
न चेदमसिद्धपरिभाषया गतार्थमिति वाच्यम् । अकृतव्यूहपरिभाषया पूर्वं यणोऽप्रवृत्तेः । बहुखट्वक इत्यत्र स्थानिवद्भावात् "ह्वस्वान्तेऽन्त्यात्पूर्वम्" इति खकाराकारस्य उदात्तत्वं न भवति, किं तु "कपि पूर्वम्" इत्येव । प्राचितीक इत्यत्र तु `ह्वस्वान्त' इत्यस्य प्रवृत्तिरिति कैयटहरदत्तादयः ।
किर्योः गिर्योः, व्युत्पत्तिपक्षे "हलि च" इति दीर्घः प्राप्तो यणः स्थानिवद्भावान्नास्ति ।
अच इत्यधिकारे "भुजेः किच्च" "कॄगॄशॄदॄकुटिभिदिच्छिदिभ्यश्च" इति इः । स च कित् । "कॄग्रो रिच्च" इति हरदतन्यासकाराभ्यामुपन्यस्तं तु क्वचिदुणादिवृत्तावन्वेषणीयमिति दीक्षिताः ।
(अन्ये) इह "उपधायां च" इति सूत्रे वृत्तिकारोक्तरीत्या किर्योरित्यादिकमव्युत्पत्तिपक्षाश्रयेणापि सिद्धम् । वाय्वोरित्यत्र "लोपो व्योः" इति वकारलोपस्तु असिद्धपरिभाषया निषेद्धुं शक्यः । अत उक्तवार्त्तिके स्वरेत्येवावश्यकमित्याहुः ।
"क्विलुगुपधात्वचङ्‌परनिर्ह्रासेषूपसंख्यानम्" । पूर्वत्रासिद्धे च "तस्य दोषः संयोगादिलोपलत्वणत्वेषु" ।
अयमर्थः---क्वौ विधिं प्रति न स्थानिवत् । लवमाचक्षाणो लौः । णिचि टिलोपः, क्वौ णिलोपश्चेत्युभयं वकारस्य क्विब्निमित्ते ऊठि कार्ये न स्थानिवत् । "एत्येधत्यूठ्‌सु" इति वृद्धिः । ये तु "क्वौ लुप्तं न स्थानिवत्" इति पठन्ति तेषामेतन्न स्यात् । तथा पिपठिषतेः क्वौ अतो लोपे नपुंसके बहुवचने झलच्लक्षणे नुमि कर्त्तव्ये अतो लोपस्य स्थानिवत्त्वनिषेधः स्यात् । क्वौ परे कृतत्वात् इति नुम्प्रसङ्गात् । `क्वौ विधिम्" इति पक्षे तु नुमः क्विनिमित्तत्वाभावाद्भवत्येव स्थानिवत्त्वम् । पूर्वत्रापि क्विनिमित्तकस्य णिलोपस्य स्थानिवत्त्वनिषेधेऽपि णिनिमित्तकस्य टिलोपस्य स्थानिवत्त्वप्रसङ्गादूठोऽनुपपत्तेः । इदं च हरदत्तग्रन्थे स्पष्टम् । कैयटेनापि "क्वौ विधिं प्रति" इत्यर्थो व्यवस्थितो न तु "क्वौ लुप्तम्" इतीत्युक्तम् । क्वचित् "क्वौ लुप्तम्" इत्यप्याश्रीयते एवेति तदर्थः । अत एव "ख्यत्यात्परस्य" इति सूत्रे `सखीयतेः सखीः लूनीयतेर्लूनीः' इति भाष्यम् । सखीयादिभ्यः क्विपि कृते ऽल्लोपयलोपयोश्चाल्लोपस्य स्थानिवत्त्वादिकारस्य यणा भाव्यम् । ततो यलोपे स्थानिवत्त्वनिषेधाद्, आदिष्टादचः पूर्वत्वात्स्थानिवत्त्वाप्रसङ्गाद्वा यलोपः स्यादित्याशङ्क्य क्वौ लुप्तं न स्थानिवदिति समाधत्त कैयटः ।
अत्र "लोपाजादेश एव न स्थानिवद्" इति पक्षमाश्रित्य आदिष्टादच इत्याद्युक्तम् । देवयतेर्दयूरिति तूभयथाऽपि सिध्यतीति हरदत्तः ।
ननु "क्वौ विधिं प्रति" इति पक्षे ऊठ्‌ सिद्ध्यति तथाऽपि तस्य स्थानिद्वाराऽनादिष्टादचः पूर्वत्वाद् णिलोपस्य स्थानिवत्त्वाद् "अचो ञ्णिति" इति वृद्धिः स्यात्, तस्मात् "क्वौ लुप्तम्" इत्यवश्याश्रयणीयम् । अत एव इदं तु क्वौलुप्तस्योदाहरणं देवयतेर्दयूरिति कैयटेनोक्तम् । तत्कथमुभयथाऽपीति चेन्न । स्थानिद्वारकपूर्वत्वे मानाभावस्योक्तत्वात् । न च पक्षद्वयेऽपि प्रत्ययलक्षणेन दयूरित्यत्र वृद्धिर्दुर्वारेति वाच्यम् । बहिरङ्गस्य ऊठो वृद्धिं प्रत्यसिद्धत्वात् । तथा च स्थानिवद्भावे सत्यपि न क्षतिः । न चैकदेशविकृतन्यायेन "दिव औद्‌" इत्यस्यापत्तिः । निरनुबन्धपरिभाषया अधातुग्रहणानुवृत्तेर्वा तत्समाधानस्य भाष्ये वक्ष्यमाणत्वात् ।
इदं च सर्वमार्द्धधातुके इति परसप्तमीपक्षे । विषयसप्तमीत्वे त्वतो लोपस्य परनिमित्तकत्वाभावात् न स्थानिवत्त्वप्रसक्तिरिति बोध्यम् । ध्वनितं चेदं "लोपो व्योः" इति सूत्रे यलोपक्विलोपयोर्विप्रतिषेधं वदता भाष्यकृता तदुपपादयता कैयटेन चेति स्पष्टमाकरविदाम् ।
लुका लुप्ते न स्थानिवत् । आमलक्याः फलमामलकम् । "नित्यं वृद्धशरादिभ्यः" इति मयट् । "फले लुक्", "लुक्‌तद्धितलुकि" इति ङीषो लुक् । परनिमित्तको "यस्येति च" इत्यल्लोपो न स्थानिवत् । अन्यथा स्थानिवद्भावादीकारस्य परत्वमस्तीत्यकारलोपः स्यात् । फलेलुक्‌प्रत्याख्यानपक्षे तु पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः पञ्च इन्द्राण्यो अग्नाय्यश्च देवता अस्य पञ्चेन्द्रः, पञ्चाग्निः । आद्ये "आर्हाद्‌" इति ठक् । तस्य "अद्यर्द्धपूर्व" इति लुक्‌ । "अन्तरङ्गानपि" इति न्यायेन यणः पूर्वं तत्प्रवृत्तावपि स्थानिवत्त्वाद्यण्‌प्रसङ्गः । अविरविकन्यायेन पटुशब्दादेव तत्र ठक् न तु पट्वीशब्दादिति कल्पने च प्रतिपत्तिगौरवम् । न च "भस्याढे तद्धिते" इति पुंवद्भावः । भत्वे भाविन्येव तद्विधानाद् अत्र तु लुकि तदभावात् । "ठक्‌छसोश्च" इत्यस्यापि लुमता लुप्ते प्रत्ययलक्षणाभावेन दुर्लभत्वात् । द्वितीये पुंवद्भावविरहात्स्पष्टमुदाहरणम् । "सास्य देवता" इत्यण् । "द्विगोर्लुगनपत्ये" इति लुक् । ततो ङीब्ङीषोः लुक् । तत्सन्नियुक्त ऐकारः आनुक्‌च श्रूयेत । न च सन्नियोगशिष्टन्यायेन तन्निवृत्तिः । तद्धितलुकि परे स्त्रीप्रत्ययलुको विहिततया तन्निमित्ताया ङीपोङीषश्च निवृत्तेः स्वपूर्वयोरैकारानुगागमयोर्निवृत्तौ कार्यायाम् "अचः परस्मिन्" इति स्थानिवत्त्वप्रवृत्तेः ।
केचित्तु वरे इत्यत्र वर ई इति प्रश्लेषात् ईकारे परतो विधौ न स्थानिवदिति व्याख्याय प्रकृतवार्तिके लुग्ग्रहणं नारभ्यमिति वदन्ति । स्पष्टं चेदं पदमञ्चर्य्याम् । केचित्तु एवं सति पञ्च गार्ग्यायण्यो देवता अस्य पञ्चगार्ग्यः इत्यत्र ङीषो लुकि ष्फप्रत्ययस्य लुक् न सिद्ध्येत् ङीष्‌लुकः स्थानिवद्भावेन तद्धितलुकः परत्वाभावात् । ईकारे परतो यो विधिस्तत्रैव त्वया स्थानिवद्भावनिषेधोपगमात् । अस्य च तथात्वाभावात् । एवं पञ्चभिः श्वश्रूभिः क्रीतः पञ्चश्वशुर इत्यत्राकारोकारलोपः स्यात् । ऐनेयः श्यैनेय इत्यादौ "यस्येति च" इति ङीपो लोपे नकारस्यापि निवृत्तिः स्यात् । नकारस्य पूर्वमेव निष्पन्नतया कार्यत्वाभावात् स्थानिवदादेश इत्यस्याप्रवृत्तेः । निवृत्त्यभावरूपकार्यस्याशास्त्रीयत्वात् । न च ङीब्‌नकारयोः सह विधानेन ईकारपरिविध्यभावान्नोक्तनिषेध इति वाच्यम् । आनुगैकारयोर्ङीषा ङीपा च सह विधानेन पञ्चेन्द्र इत्यादेरसिद्धेः इत्याहुः । तन्न । ष्फप्रत्ययेन सहैव ङीषो लुक्‌प्रवृत्तेः । तत्र हि "प्राचां ष्फ तद्धितः" इति स्त्रीत्वं ष्फप्रत्ययस्यैवार्थो ङीष्‌ तु षित्त्वसामर्थ्याद्भवतीति सिद्धान्तः ।
उपधात्वे कर्त्तव्ये न स्थानिवत् । पारिखीयः । अन्यथा परिखाशब्दाच्चातुरर्थिकेऽणि कृते तन्निमित्तकस्य आलोपस्य स्थानिवद्भावात् खकारोपधत्वाभावाद् "वृद्धादकेकान्तखोपधाद्" इति छो न स्यात् । उपधासंज्ञायाः पूर्वविधित्वात् । न च पटयतीत्यादौ टिलोपस्य स्थानिवद्‌भावनिषेधात् पकाराकारस्य उपधासंज्ञायां सत्याम् "अत उपधायाः" इति वृद्ध्यापत्तिरिति वाच्यम् । उपधासंज्ञानिबन्धनप्रत्ययविधावेवोक्तनिषेधप्रवृत्तेरिति सिद्धान्तात् । न चैवं सौरी बलाका इति यलोपोदाहरणे उपधाविधौ स्थानिवत्त्वनिषेधादेव तदन्यथासिद्ध्यभिधानं भाष्ये कथमिति वाच्यम् । अनास्थावादमात्रत्वात् । तत्र हि "तेनैकदिक्" इत्यणन्तात् ङीप् । एकस्याण्‌निमित्तको द्वितीयस्य चाकारस्य ङीब्‌निमित्तको लोपः । तद्द्वयस्यापि यकारलोपे स्थानिवत्त्वनिषेधः । द्वितीयलोपस्य त्वाभीयत्वात्समानाश्रयत्वाच्चासिद्धतया यकारस्योपधासंज्ञायां तल्लोपसिद्धेः । तथा चोपधात्वं यलोप एवोक्तम्, न तु प्रत्ययविधाविति । यलोपस्यैव सौरीत्युदाहरणमिति स्पष्टम् ।
चङ्‌परनिर्ह्रासश्चङ्‌निमित्तको ह्रस्वः । वादितवन्तं प्रयोजितवान् अवीवदद्वीणां परिवादकेन । प्रथमणिचो लोपस्य स्थानिवत्त्वे सत्याकारस्यानुपधात्वात् "णौ चङ्‌युपधायाः" इति ह्रस्वो न स्यात् । यस्तु चङ्‌परो द्वितीयो णिच् तदङ्गसंबन्धित्वस्याकाररूपायामुपधायामभावात् । प्रथमणिजङ्गसंबन्धित्वस्य सत्त्वेऽपि प्रथमणिचश्चङ्‌परत्वाभावात् । एवं वारिशब्दाद्‌ "तत्करोति" ण्यन्ताच्चङ्‌ अवीवरत् । इकारलोपो न स्थानिवत् । न च "नाग्लोपि" इति निषेधः । परत्वात् वृद्धौ सत्यां टिलोप इत्यभ्युपगमात् । अत एव हलकलयोरदन्तत्वं निपातयिष्यते । कुत्वेऽपि न स्थानिवत् । अर्चयतेरौणादिकः कप्रत्ययः अर्कः, पाचयतेः क्तिच्‌ पाक्तिः । "चोः कुः " इति कुत्वं प्रति णिलोपो न स्थानिवत् । कुत्वमुपलक्षणम् । अतेव लेहयतेर्लेढिः दोहयतेर्दोग्धिः, याजयतेर्याष्टिः, वेशयतेर्वेष्टिरिति सिध्यतीति बोध्यम् । कुत्वोपादानस्य पूर्वत्रासिद्धीये न स्थानिवदित्येतन्मूलकत्वात् । तदपि न्यायसिद्धम् । "अचः परस्मिन्" इत्यतिदेशं प्रति त्रैपादिकस्यासिद्धतया तद्विधौ तदप्रवृत्तेः । न च राम इत्यादौ विसर्गो न स्यात् । न्यायसाम्येन स्थानिवत्सूत्रस्याप्यप्रवृत्तौ सुबन्तत्वाभावात्पदत्वानुपपत्तेरिति वाच्यम् । "प्रत्यय" इत्यादिज्ञापकेन तत्प्रवृत्तेः । न चैवं द्विर्वचनसवर्णानुस्वारदीर्घजश्चरोऽपि सूत्रे नोपादेया इति वाच्यम् । इष्टापत्तेः । तथा च वार्त्तिकम्---
"द्विर्वचनादीनि च वरेयलोपस्वरवर्जम्" इति ।
स्यादेतत् । दीर्घग्रहणपरित्यागे स्थलान्तरीये दीर्घविधौ स्थानिवत्त्वापत्त्या "चिण्‌णमुलोः" इति सूत्रे यङन्ताण्णिजन्ताद्वा णिचि चिणि अशंशामि अशामि इति सर्वैरुदाहृतम् न सिद्ध्येत् । न च दीर्घग्रहणसमार्थ्यात् । अहीडीत्येतदर्थत्वात् । अहेडीत्येतन्निवृत्त्यर्थत्वाच्च । तथा हि--"हेड्ट अनादरे" घटादिः, ह्रस्वः । हिडयति । अत्र चिण्‌णमुलोः कृतयोः ह्रस्वविकल्पस्यैव विधाने अहिडि अहेडीति स्यात् । दीर्घे तु अहिडि अहीडीति रूपमिति कैयटादौ स्पष्टम् ।
अत्राहुः---णित्वजात्यैक्यं गृहीत्वा अशामीति, यङ्‌लुगन्तात् त्वशंशामीति सि्दधम् । यङि तल्लुकि वा अर्थस्वरयोरविशेषात् । ग्राहितमित्याद्यपि पूर्वस्याद्विधौ स्थानिवद्भावेन णिचा व्यवधाने "ग्रहो ऽलिटि" इति दीर्घस्याप्रवृत्तेः । न च सूत्रमते दीर्घविधौ स्थानिवद्भावनिषेधात् दीर्घो दुर्वारः । विहितविशेषणाश्रयणात् । एतेन जरीगृहितेत्यपि व्याख्यातम् ।
माधवाचार्यास्तु यङ्‌लुगन्ताद्ग्रहेस्तृजादाविटो दीर्घः जाग्रहीतेत्यादि इत्याहुः ।
तत्राहुः---द्विः प्रयोगो द्विर्वचनं षाष्ठमिति सिद्धान्ताद्‌ ग्रहेर्विहितत्वम् । यङ्‌लुकोऽनैमितिकतयाऽज्ज्ञलादेशतया लुको लुप्तत्वाच्च स्थानिवद्भावोऽपि नेति तस्याशयः ।
एतच्च भाष्यकैयटविरुद्धम् । "एकाचो द्वे " इति सूत्रे हि "ग्रहेरङ्गाद्" इति भाष्यव्याख्यायां कैयटेनोक्तम्---`जरीगृहितेत्यत्र ग्रहेर्विहितं यद्‌ आर्द्धधातुकमिति विहितविशेषणान्न दीर्घः । तृचो `जरीगृह्' इत्यङ्गं न तु ग्रहिः, विशेषणसामर्थ्याद्धि यथाश्रुतरूपाश्रयणम्' इति ।
इदं च यद्यपि यङ्‌प्रक्रमेणोक्तम् तथाऽपि यङ्‌लुक्यपि न दीर्घ इति तदभिप्रायोऽन्यसाम्यादिति ।
अत्रेदं वक्तव्यम्---यङ्‌लुकः किंचिन्निमित्तकत्वाभावेन तदुत्तरं प्रत्ययोत्पत्तौ बाधकाभावात् यथाश्रुतरूपाश्रयणे ग्रहेर्विहितत्वानपायात् । न च द्वित्वादिप्रवृत्त्यनन्तरमेवार्द्धधातुकोत्पत्तिः । अन्तरङ्गतया आर्द्धधातुकस्यैवोत्पत्तेः । यङन्ते तु ग्रह्यशब्दोत्तरमेवार्द्धधातुकोत्पत्त्या यथाश्रुतरूपप्रच्यव इति वैषम्यम् । न च जरीगृहित्यङ्गमिति कैयटविरोधः । शुद्धस्य ग्रहेरङ्गव्यावृत्तावेव तत्तात्पर्यात् । यङ्‌लोपस्य परनिमित्तकत्वाद्यथाश्रुते वाधात् । तत्पूर्वं जरीग्रह्यशब्दात् तृजिति तेनैवोक्तत्वाच्च । अस्तु वा तत्र यङः श्रूयमाणतया तन्निमित्तं द्वित्वादि पूर्वमेव, लुकि तु प्रत्ययलक्षणाद्यपेक्षस्य द्वित्वादेः पश्चादेव प्रवृत्तिरिति माधवाशयः । "ग्रहोऽ लिटि" इति सूत्रे एकाच्‌ग्रहणस्य हरदत्तेनानुवर्तितत्वेऽपि यथा यङ्‌लुङन्ते दीर्घप्रवृत्तिस्तथोक्ता तत्रेति दिक् ।
"तस्य दोषः संयोगादिलोपलत्वणत्वेषु" ।
तस्य पूर्वोक्तनिषेधस्य । तेन स्थलत्रये पूर्वत्रासिद्धेऽपि स्थानिवत्त्वप्रवृत्तिरित्यर्थः । तेन, काक्यर्थम्, वास्यर्थम्, इत्यत्र पदान्ते यः संयोगस्तदाद्यवयवयोः सकारककारयोः "स्कोः" इति कलोपो न ।
ननु "स्कोः" इत्यत्र इत्यनुवृत्त्या तस्य च "स्कोः" इत्यत्र व्यभिचारावारकत्वेन वैयर्थ्यात् उपसर्जनेऽपि संयोगे विशेषणतया झलन्तो यः संयोगः तदाद्योः स्कोर्लोप इत्यर्थाद् बहिरङ्गतया यणोऽसिद्धत्वाद्वा नायमतिप्रसङ्ग इति चेन्न । कुस्मयतेः क्विपि कूरिति माधवाद्युदाहृतस्यानुपपत्तिप्रसङ्गात् । संयोगादीत्यस्यानुपादाने संयोगान्तलोपे णिलोपस्थानिवद्भावनिषेधापत्तेः । दध्यत्र इति भाष्यव्याख्यायां "पूर्वत्रासिद्धे न स्थानिवत् इति नास्ति, संयोगादिपदस्य संयोगोपलक्षितलोपोपलक्षणत्वात्" इति कैयटोक्तेः पूर्वपक्ष्यभिप्रायवर्णनमात्रपरत्वात् । नपदान्तसूत्रशेषे स्कन्दयतेः स्कन् तक्षयतेस्तगिति तेनैवोक्तत्वात् ।
"यत्तु सिद्धकाण्डे श्चुत्वकत्वे " इति वार्तिकव्याख्याने मधुपूर्वात् श्चोततेः क्विबन्ताण्णिजन्तात् क्विपि मधुगितीष्यते मधुडिति प्राप्नोतीति तेनोक्तम्, तत्र सकारोपदेशसामर्थ्यान्न संयोगादिलोप इति भावः । न च सन् श्चोततीत्यत्र "शि तुक्" इत्यप्रवृत्त्या चरितार्थत्वमिति वाच्यम् । "क्वौ लुप्तं न स्थानिवत्" इति समाधेयत्वात् । कुस्मयतौ तु सामर्थ्याभावात् संयोगान्तलोपस्यैव प्रवृत्तेः । तक्षिरक्षिभ्यां ण्यन्ताभ्यां क्विपि तक् रक् इत्याद्यसिद्धेश्च । संयोगस्य तत्र झलन्तत्वात् । संयोगादिलोपे कर्त्तव्ये णिलोपस्य स्थानिवद्भावे तु तदपर्वृत्त्या संयोगान्तलोपे च स्थानिवत्त्वनिषेधेन तत्प्रवृत्त्या उक्तसिद्धेः । न च "काष्ठशगेव नास्ति" इति भाष्यादयं प्रयोगो नास्तीति वाच्यम् । काष्ठशक्‌स्थातेत्यत्र झल्परसंयोगादेः ककारस्य लोपमाशङ्क्य तथोक्तत्वात् यत्र ककारस्य संयोगादिलोपप्रसक्तिस्तत्रैवानभिधानस्योक्तत्वात् । अत्र च णिलोपस्य स्थानिवत्त्वेन तदप्रसङ्गात् । अत एव कान्तेभ्यः क्विब्‌ नास्तीति व्याख्यातारः ।
लत्वे यथा---निगार्यते, निगाल्यते । णिलोपस्य स्थानिवद्भावाद् "अचि विभाषा" इति लत्वविकल्पः ।
अथ प्रत्ययलक्षणेनैव लत्वम् । न च वर्णाश्रयत्वाम्, धातोः स्वरूपग्रहणमे तत्प्रत्यये कार्यविज्ञानात् । एतच्च भ्रूणहत्येति तकारनिपातनेन ज्ञापयिष्यते । यद्वा, अन्तरङ्गतया णिलोपात् पूर्वमेव लत्वमिति चेत्, मैवम् । `प्रत्ययलक्षणसूत्रमितरव्यावृत्तिमात्रफलकम्, स्थानिवद्भावस्तु स्थानिवत्सूत्रेणैव' इति भाष्ये वक्ष्यमाणत्वात् अजादिप्रत्ययनिमित्तके लत्वे च विशेषणतया अलाश्रयणाद् "अनल्विधौ" इति निषेदात् । नाप्यन्तरङ्गत्वेन सिद्धिः । अकृतव्यूहपरिभाषाविरोधात् ।
किं च "उपसर्गस्यायतौ" इति सूत्रे अयतिपरत्वम् उपसर्गस्य विशेषणं रेफस्य वेति पक्षद्वयम् । आद्ये प्लायत इति लत्वार्थं स्थानिवद्भावोपयोग आवश्यकः, अन्यथा एकादेशे कृते पौर्वापर्यरूपव्यपवर्गाभावः । अयतिनिष्ठपरत्वनिरूपितपूर्वत्वशालिन उपसर्गस्येति तदर्थात् । उभयत आश्रये च अन्तादिवद्भावनिषेधात् । द्वितीये एकादेशस्य परादित्वेन ग्रहणाद्रेफापेक्षयाऽयतेः परत्वेन प्लायते इत्यस्य सिद्धावपि पल्ययते इत्यत्र लत्वं न स्यात्, यकारेण व्यवधानात् । न च वचनसामर्थ्यम् । प्लायते इत्यत्र सावकाशत्वात् । न च तत्रापि स्थानिवद्भावात् अकारेण व्यवधानम् । पूर्वत्रासिद्धे तन्निषेधात् । लत्वविधौ स्थानिवद्भावप्रतिप्रसवे तु येननाव्यवधानन्यायेनोभयत्र लत्वसिद्धिरिति दिक् ।
"णत्वे माषवपनी" इति भाष्यम् । "प्रातिपदिकान्त---" इति सूत्रेण समासान्तस्य नकारस्य णत्वं विधीयमानम् अल्लोपस्य स्थानिवत्त्वनिषेधात् ङीबुत्पत्तेः प्राक्‌ समासविधानात्प्राप्नोतीति कैयटः ।
अत्र प्रत्यवतिष्ठन्ते---बहिरङ्गतयाऽल्लोपस्यासिद्धतया नकारस्य प्रातिपदिकान्तत्वाभावः । प्रहिणोति प्रमीणातीत्यादौचैकदेशविकृतन्यायेनैव "हिनुमीना" इत्यस्य प्रवृत्तेः । न च प्रियाष्ट्‌न इत्यत्र णत्वनिवृत्तिसिद्ध्यर्थमिदम् । कार्यकालपक्षे बहिरङ्गतयैव सिद्धेः । एतेन प्रियाष्ट्‌ण इति णत्वस्वीकारपरः पदमञ्जरीग्रन्थोऽपास्त इति ।
तदसत् । तत्र णत्वस्य पूर्वमुपपादितत्वात् ।
यत्तु "अनितेरन्तः" इति सूत्रे हे प्राण्‌ इति णत्वार्थम् "पदान्तस्य" इति निषेधबाधाय "अन्तः" इति योगं विभज्य पदान्तस्यानितेर्णत्वं विधीयते । यद्वा, समीपार्तमन्तशब्दमादाय निमित्तसमीपवर्त्तिनोऽनितिनकारस्य तादृशस्य वा अनितेर्नकारस्य णत्वं योगविभागं विनाऽपि सिद्धम् । आद्ये प्राणिति इत्यादावेकेनाऽऽकारेण व्यवधानेऽप्यारम्भसामर्थ्यात् णत्वम् । द्वितीये तु एकादेशस्य आदिवद्भावात् रेफादव्यवहितस्यानितेः संभवात्सिद्धम् । पर्यनितीत्यत्र तु द्वयेनैकेन वा व्यवधानान्न णत्वमित्यष्टमे व्याख्यातम् । इह णत्वग्रहणे तु पर्यनितीत्यत्रेव प्राणिति इत्यत्रापि द्वाभ्यामेकेन वा वर्णेन व्यवधानात् णत्वं न स्यात् । न च वचनसामर्थ्यम् । निरणिति दुरणितीत्यत्र चारितार्थ्यात् । न चैवं "निर्दुरोरनितेः" इत्येव ब्रूयात् इति वाच्यम् । अनितिं प्रत्युपसर्गत्वाभावेऽपि णत्वापत्तेः । निरानयतीत्यत्र निरो ण्यर्थविशेषकत्वेन णत्वस्यानिष्टत्वात् । किं च, अनितेर्विजन्तान्निष्पन्नान् शब्दस्य निश्शब्देन "निरादयः क्रान्ताद्यर्थे" इति समासे भसंज्ञायामल्लोपे निर्न इत्यत्र णत्वं स्यात् । हे प्राणित्यत्र णित्वप्रतिप्रसवायावृत्त्यर्थम् अक्षरलाघवाच्च "अन्तः" इत्यस्यैव युक्तत्वात् । तस्मादाष्टमिकभाष्याद्यालोचनया अत्र णत्वग्रहणं न कार्यमिति । तदप्यसत् । तन्मात्रपरत्वे "रादनितेः" इत्यस्यैवापत्तेः । रान्तादुपसर्गात्परस्यानितेर्ण इति व्याख्यानसंभवात् । "अनितेः" इत्यस्य प्रयोजनान्तराभावात् "पदान्तस्य" इति निषेधस्यापवादसंभवाच्चेति दिक् ।
यद्यपि "न मु ने" इत्यत्र योगविभागादसिद्धताया अनित्यत्वमाश्रित्य स्थलत्रये स्थानिवत्त्वं सुसाधम्, तथाऽपि तादृशविशेषस्य दुर्ग्रहतया वार्तिकारम्भ एव श्रेयान् ।

द्विर्वचनेऽचि 58 ।

द्वित्वनिमित्तमचमाश्रित्य कृतोऽजादेशः स्थानिवत् स्यात् द्वित्वे कर्त्तव्ये । "अचः परस्मिन्" इत्यस्यानादिष्टादचः पूर्वस्य विधावेव प्रवृत्तेः साच्‌कस्य द्वित्वे कर्त्तव्ये अप्राप्तः स्थानिवद्भावो विधीयते । निमित्तापेक्षया पूर्वस्य विधाविति पक्षेऽपि द्विर्चनस्य विधौ स्थानिवत्त्वनिषेधादिति कैयटः । रूपातिदेशश्चायम् । चक्रतुः, चक्रुः । कृ अतुस कृ उस्, इति स्थिते यणः पश्चात् उक्तातिदेशेन कृ इत्यस्य "लिटि धातोः" इति द्वित्वम् । कार्यातिदेशस्वीकारे तु यणादेशे सति प्रकृतेरनच्‌कत्वात् एकाचो विहितं द्विर्वचनं न प्राप्नोतीति स्थानिवद्भावादनेन सूत्रेण यण्‌सहितस्यैव द्विर्वचनं स्यात् । रूपातिदेशत्वे च प्रमाणं वक्ष्यते ।
अत्र पञ्च पक्षाः संभवन्ति । तथा हि--अचीत्यादेशोपलक्षणम् । द्विर्वचने इति विषयनिर्द्देशः । अचि योऽजादेशः सद्वित्वे स्थानिवदिति प्रथमः ।, द्विर्वचन इति विषयनिर्द्देशः तस्मिन्तकर्तव्ये स्थानिवद्भवत्यचि परे इति द्वितीयः ।, द्विर्वचनपदमर्शआद्यजन्तम् अधिकरणल्युडन्तं वा । द्वित्वनिमित्तत्वविशेषितं च अज्‌ग्रहणम् आदेशोपलक्षणम् । द्विर्वचननिमित्तेऽचि योऽजादेशः स स्थानिवदिति तृतीयः ।, उक्तविधमेवाऽज्‌ग्रहणं स्थानिवद्भावविशेषणम् । अजादेशः स्थानिवत् द्विर्वचननिमित्तेऽचि परे इति चतुर्थः ।, द्विर्वचनग्रहणमावर्त्तते । एतेनाज्विशेष्यते तेन च स्थानिवद्भावो विशेष्यते । अपरेण विषयो निर्दिश्यते । द्वित्वे कर्त्तव्ये अजादेशः स्थानिवत् द्वित्वनिमित्ते अचि परे इति पञ्चमः ।
अत्र नाद्यः । द्वित्वनिमित्तत्वरहितमचमाश्रित्य कृतस्याप्यजादेशस्य स्थानिवत्त्वप्रसङ्गात्, अचो द्वित्वनिमित्तत्वेनाविशेषितत्वात् । ततश्चाचिकीर्त्तदित्यत्र णिचि परे कृतस्य "उपधायां च" इति ऋकारस्थानिकस्य इकारादेशस्यापि स्थानिवत्त्वे "चङि" इति कॄ इत्यस्य द्वित्वे "उरद्‌" इत्यत्त्वे च अचकीर्त्तदिति स्यात् । दुद्यूषति ऊठमाश्रित्य कृतयणादेशस्य स्थानिवत्त्वे दिव्‌शब्दस्य द्वित्वे दिद्यूषतीति स्यात् । भवनमिच्छतीति क्यजन्तात्सनि ल्युटि कृतयोर्गुणावादेशयोः स्थानिवत्त्वे बुभवनीयिषतीति स्यात् ।
न द्वितीयः । दुद्यूषति इत्यादिदोषद्वयतादवस्थ्यात् । अचिकीर्तदित्यत्र तु इत्वस्य तकारव्यवधानान्न दोषः । स्थानिवद्भावभाजो ह्यादेशस्य स्थानिवत्त्वविधानवेलायाम् अचि अनन्तरे स्थानिवत्त्वेन भाव्यम्, तथैवाचि परतः तद्विधिनिर्वाहात् । एवं पपावित्यत्र "आत औ णलः" इत्यौकारेण सह पाशब्दस्य वृद्धौ सम्प्रति आदेशात्परोऽज्‌ नास्तीति स्थानिवत्त्वं न स्यात् । जग्मतुरित्यादौ "गमहन" इत्युपधालोपो व्यवहितत्वान्न स्यात् ।
न तृतीयः । कालावधारणविरहे द्वित्वोत्तरमपि स्थानिरूपावस्थानप्रसङ्गात् ।
न चतुर्थः । पपावित्यादिदोषसाम्यात् । कालावधारणाभावाच्च ।
न पञ्चमः । जग्मतुरित्याद्यनुपपत्तेः । लोपप्रतियोग्यपेक्षयाऽतुसादेः अव्यवहितपरत्वाभावात् । तस्मादुक्तरीत्या पूर्वव्याख्यानमेव युक्तम् ।
तथा हि---द्विर्वचननिमित्तत्वेन अज्विशेषणात् अचिकीर्तदित्यादौ नातिव्याप्तिः । इत्त्वे णिचो द्वित्वे च चङो निमित्तत्वात् । आदेशोपलक्षणाच्च पपावित्यादौ नाव्याप्तिः । पुनर्द्विर्वचनोपादानाच्च कालावधारणलाभात् द्वित्वोत्तरमादेशावस्थानम् ।
अथ द्विर्वचननिमित्तेऽचि परे विधीयमानं स्थानिवत्त्वं चक्रतुरित्यादौ न स्यात् । अतुसो द्वित्वनिमित्तत्वेऽपि तदवयवस्याकारमात्रस्य तन्निमित्तत्वविरहात् । न चारम्भसामर्थ्यम् । चकार चक्रे इत्यादौ द्वित्वयण्‌निमित्तयोरेकमात्रपर्याप्ततया तत्र चरितार्थत्वात् ।
यदि तु, परस्मिन्नित्यनुवर्त्य तत्राचीति विशेषणम् । व्याख्येयम् "यस्मिन्विधिस्तदादावल्ग्रहणे" इति अजादौ परस्मिन्निति, चक्रे इत्यादौ तु व्यपदेशिवद्भावादजादित्वमिति कल्प्यते । एवमपि न निर्वाहः । अजादेर्द्विर्वचननिमित्तत्वेऽपि यणं प्रत्यच एव निमित्तत्वात् ।
वस्तुतो "विधौ परिभाषोपतिष्ठते नानुवादे" इति न्यायेन "यस्मिन्विधिः" इति परिभाषाप्रवृत्तिरेव दुर्ल्लभा । अचियोऽजादेश इत्यस्यानुवादत्वात् । तत्राऽऽदेशस्यानुवाद्यतया तद्विशेषणत्वात् अचीत्यस्य तदादिग्रहणपरिभाषाया अप्रवृत्तेः ।
अत्रोच्यते । अचि परतो द्विर्वचनं दृष्टमित्येतावतैवाचो द्विर्वचननिमित्तत्वम् अत्र । तदाहुः---
`तद्भावभावितामात्रेणेह निमित्तत्वम्' इति । तथा च साक्षाद्वा समुदायघटकतया (वा) द्वित्वोपयोगित्वमात्रं विवक्षितमिति ।
यत्तु द्विर्वचनेनाक्षिप्तः प्रत्ययोऽत्राचीत्यनेन विशेष्यते, परस्मिन्नित्यनुवर्त्तते । अमीषां मध्ये देवदत्तात्परमानयेत्युक्ते यथा सजातीयेन मनुष्यान्तरेणाव्यवहितपर आनीयते तथेहापि प्रत्ययान्तरेणाव्यवहितपरो गृह्यते । तेन द्वित्वनिमित्ते अजदौ प्रत्यये प्रत्ययान्तरेणाव्यवहिते सति योऽजादेशः स स्थानिवदिति सूत्रार्थः । वक्ष्यमाणज्ञापकबलेन णिचा व्यवहिते प्रवृत्तावपि दिदवनीयिषतीत्यादावनेकप्रत्ययव्यवधानन्नातिप्रसङ्गः । अपीप्यदित्यत्र वर्णव्यवधानेऽपि प्रत्ययान्तराभावात्प्रवृत्तिः । अनुवादे परिभाषाऽनुपस्थानेऽपि निर्द्दिष्टपरिभाषालभ्यार्थसिद्धिश्च । अत एवेह परस्मिन्नित्यनुवर्त्तते इति न्यासकारः । द्विर्वचनेन प्रत्ययाक्षेपं णिज्भिन्नप्रत्ययव्यवहिते ज्ञापकस्याप्रवृत्तिं च वदतः कैयटस्याप्ययमेवाशय इति ।
तन्न । "यस्मिन्विधिः" इति परिभाषाप्रवृत्तेर्दुर्लभत्वात् । निर्द्दिष्टपरिभाषाप्रवृत्तिं विना तदर्थस्यानुपपत्तेश्च । तथा हि---अमीषामिति निर्धारणे मनुष्यत्वस्य प्रतियोगितावच्छेदकतया तद्विषयस्यापि मनुष्यत्वलाभात्, परशब्दस्य चाव्यवहितपरार्थकत्वात् तथा (अर्थ---) लाभात् । प्रकृते च यदपेक्षमव्यवधानं तस्य प्रत्ययत्वग्राहकाभावात् । ऊर्णुनविषतीत्यर्थं तद्भावभावितामात्रेणेत्यस्यावश्यमाश्रयणीयत्वाच्च । तथा हि---ऊर्णोतेः सनि "सनिवन्त---" इति इटि च ऊर्णु इस् इति स्थिते "विभाषोर्णोः" इति ङित्त्वविरहेण गुणावादेशौ । "सन्यङोः" इति सन्नन्तस्य द्वित्वविधानेऽपि सनो द्वित्वप्रयोजकतया तस्मिन्कृतयोः स्थानिवत्त्वात् नुशब्दस्य द्वित्वे अभ्यासे उकारश्रवणम् । अत्र हि इडभावे "इको झल्" इति सनः कित्त्वापत्त्या गुणविरहात् इटः सन्निष्ठझलादित्वविघटकत्वेन गुणनिमित्तत्वम्, अवादेशे तु स्पष्टमेव । द्वित्वनिमित्तं तु सनेव, तत्र विशेषणान्तरानुपादानात् । तथा च निमित्तकोटावप्रविष्टस्याप्यचस्तत्र विद्यमानत्वमात्रेण निमित्तत्वमाश्रित्यैव तत्र गुणादेः स्थानिवत्त्वमिति ।
नन्वेवम् अरिरिषतीति न स्यात् । ऋधातोः सनि "स्मिपूङ्‌रञ्ज्वशां सनि" इति इटि गुणे च तस्य इस्‌शब्दनिमित्तकस्य स्थानिवत्त्वे "अजादेर्द्वितीयस्य" इति इसो द्वित्वप्रसक्त्या अरीषतीतिरूपप्रसङ्गात् । रिस् इत्यस्य द्वित्वं तु तत्रेष्टमिति चेत् । मैवम् । इस्‌शब्दस्य कार्यित्वेन द्वित्वनिमित्तत्वाभावात् । न हि कार्यी निमित्ततयाऽऽश्रीयते । शयितरीति ज्ञापकात् । अन्यथा शीङोङित्त्वेन गुणनिषेधापत्तेः । न चैवम् ऊर्णुनविषतीत्यपि न स्यात् । सन्नन्तस्य द्वित्वविध्यविशेषेण तत्रापि इस् इत्यस्य द्वित्वनिमित्तत्वासंभवादिति वाच्यम् । मत्वर्थीयेन इनिना कार्योपहितस्यैव निमित्तत्वनिषेधात् । ऊर्णोतौ नुशब्द एव प्रवृत्त्या सनो द्वित्वानुपधानात् । अरिरिषतीत्यत्र तु रिशब्दस्य द्वित्वभागितया सनो द्वित्वोपहितत्वमिति वैषम्यात् । नन्वेवं जेघ्रीयते देध्मीयते इत्यादावपि घ्रीय् ध्मीय् इत्यादेर्द्वित्वभागितया यङो द्वित्वनिमित्तत्वाभावादेवानतिप्रसङ्गे तद्वारणार्थमचीत्युक्तमिति भाष्यवृत्त्यादिग्रन्थाः कथं संगच्छन्तामिति चेन्न । 'अनुस्वारो व्यञ्जनं च अक्षराङ्गम्" इत्यस्मादनन्तरं "स्वरान्तरे व्यञ्जनान्युत्तरस्य" इति प्रातिशाख्ये सूत्रितत्वात् घ्रीय इति समुदाये यकारस्योत्तरावयवतया घ्री इत्यादेरेव द्विरुक्तिरिति तदभिप्रायात् । यदि तु षाष्ठवार्त्तिकभाष्यरीत्या "नटभार्यावद्व्यञ्जनानि" इत्याश्रित्य द्वितीयैकाजवधिकस्य द्विर्वचनमाश्रीयते तदा तु अधिजगे इति अज्ग्रहणस्य व्यावर्त्त्यं बोध्यम् । "गाङ्‌ ल्लिटि" इति द्विलकारकनिर्देशमाश्रित्य "लावस्थायामेव गाङादेशविधानम्" इति भाष्ये उक्तत्वात् ।
ननु वार्तिकमते लिटीत्यादीनां परसप्तमीत्वाभ्युपगमात् गाङादेशस्य परनिमित्तकत्वेऽपि भाष्यकृता विषयसप्तमीत्वाभ्युपगमान्नेदमपि प्रयोजनमिति चेत्,
तर्हि जग्ले इत्याद्युदाहरणम् । अशिति प्रत्यये परे आत्वविधानात् ।
अथानैमित्तिकमात्वं शिति तु प्रतिषेध इति वक्ष्यमाणरीतिराश्रीयते तदा अचीति नोपादेयमेव ।
अथ भसेः क्वसौ "घसिभसोर्हलि च" इत्युपधालोपे कृते तस्य स्थानिवत्त्वनिषेधार्थमस्तु इति चेत् ।
अत्र कैयटहरदत्तादयः---
"तत्र सत्यसति वा स्थानिवद्भावे न कश्चिद्विशेषः प्स्वानितिरूपसाम्यात् । न च सति द्वित्वे पकारद्वयमिति वाच्यम् । "दृष्टानुविधिश्चन्दसि भवति" इति सिद्धान्तात् । भाषायां क्वसुर्दुर्लभ एव उपधालोपश्च छान्दस एव" इति ।
अचीत्येतदेव रूपातिदेशे प्रमाणम् । कार्यातिदेशे तु घ्री, गा, ग्ला इत्येषामेव द्वित्वेन भाव्यमिति तत्र स्थानिवद्भावनिषेधार्थस्य अचीत्यस्य वैयर्थ्यं स्यात् । रूपातिदेशस्वीकारे तु घ्रा, इङ्‌, ग्लै इत्येषां द्वित्वापत्तौ इष्टरूपं न सिध्यतीति तत्र स्थानिवद्भावो मा प्रवर्त्तिष्टेत्येतदर्थकतया तत्सार्थक्यम् । तदुक्तम्---"अज्ग्रहणं तु ज्ञापकं रूपस्थानिवद्भावस्य" इति ।
अज्ग्रहणप्रत्याख्यानपक्षे तु स्थानिवदिति शब्दाधिकारमाश्रित्य स्थानिवत्सूत्रे कार्यातिदेशपरत्वेन निश्चितस्थानिवच्छब्दस्य अत्र लक्ष्यानुरोधात् रूपातिदेशपरत्वं कल्प्यम् । पूर्वसूत्रादच इति षष्ठ्यन्तमनुवर्त्य तेनादेशो विशेषणीयः ।
ननु अच इत्यादेशविशेषणं किमर्थमिति चेत् न । शुशावेत्यत्र वृद्ध्यावादेशयोरिव सम्प्रसारणस्यापि स्थानिवत्त्वे श्विशब्दद्वित्वे शिशावेति रूपं मा भूत् । न च "सम्प्रसारणं तदाश्रयं च कार्यं बलीयः" इति लावस्थायामेव तत्प्रवृत्त्या द्वित्वेन सह समाननिमित्तकत्वमेव नेति वाच्यम् । व्यतिशुशुवाते इत्यादौ दोषस्य दुर्वारत्वात् । "विभाषा श्वेः" इत्यस्य लावस्थायां प्रवृत्तावपि ईजाते ईजाथे इत्यादावतिप्रसङ्गात् कित्त्वस्यादेशविध्यनन्तरप्रवृत्तिकत्वात् । न च तस्यापि लावस्थायामेव विधिरस्त्विति वाच्यम् । अन्तरङ्गैरादेशैर्बाधितत्वात् । "स्वापेश्चङि" इति सम्प्रसारणस्य स्थानिवद्भावे "न सम्प्रसारणे सम्प्रसारणम्" इति निषेधात् अशूषुपत् इत्यत्राभ्यासे उवर्णानुपपत्तेश्च । अच इत्युक्ते तु सुप् इत्यस्यैव द्वित्वे तत्सिद्धिः ।
द्वित्वे कर्त्तव्ये इत्युक्त्या तदुत्तरमादेशरूपस्यैवावस्थानम् । अन्यथा प्रकृतिभाव एव स्यात् । निन्यतुरित्यादौ तु पूर्वमियङ्‌प्रवृत्तावपि द्वित्वोत्तरम् "एरनेकाचः" इति तदपवादो यण्‌ । यद्वा । "प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते" इति न्यायात् पूर्वमेव इयङ् न प्रवर्त्तते । आभीयत्वेन इयङोऽसिद्धत्वात् वा यणिति बोध्यम् ।
स्यादेतत् । स्थानिवद्ग्रहणं निवर्त्य "न पदान्त---" इति सूत्राद्‌ नञ्ग्रहणं चानुवर्त्य उक्तस्थले अजादेशनिषेध एव व्याख्यायताम् भाष्यारूढत्वसाम्यात् । स्थानिवदित्यत्र शब्दाधिकारत्वानाश्रयणेन लाघवात् नपदान्तसूत्रानन्तरपाठानुग्रहाच्चेति । मैवम् । नकारस्य स्वरितताया अत्रापि कल्प्यत्वात् । स्थानिवच्छब्दे च तस्याः क्लृप्तत्वात् । अच्‌पदादेशपदयोरनुवृत्त्यर्थं पूर्वतरसूत्रानुसन्धानकल्पनस्यावश्यकतया "न पदान्त---" इति सूत्रानुसन्धानकल्पने गौरवाच्च ।
स्यादेतत् । द्वित्वनिमित्तमचमाश्रित्य कृतस्यैव अजादेशस्य स्थानिवद्भावविधाने चुक्षावयिषतीत्यादौ णिनिमित्तकस्य वृद्ध्यावादेशादेस्तदनुपपत्या अभ्यासे उकारश्रवणं न स्यात् अकारस्यैव तत्प्रसङ्गात् । एवम् उडुडावयिषति । उडुरिवाचरति उडवति ण्यन्तात्सन् । चङि औडूडवत्, नुनावयिषति, अनूनवत्, ऊर्णुनावयिषति, और्णूनवत्, पुस्फारयिषति अपुस्फुरदित्यादौ "चिस्फुरोर्णौ" इत्यात्वम् इत्यादौ इति चेत्, अत्र वार्तिकम्---
"ओः पुयण्जिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्य" इति ।
अस्यार्थः---"ओः पुयण्‌ज्यपरे" इति सूत्रेण अभ्यासोकारस्य इत्त्वं विधीयते पवर्गयण्‌जकारेष्ववर्णपरेषु परतः । तत्र यद्यपि पिपविषते यियविषति इत्यत्र पूङो यौतेश्च सनि "स्मिपूङ्‌रञ्ज्वशाम्---" इति, "सनीवन्ते" इति च इट्‌ गुणावादेशौ द्वित्वे कर्त्तव्ये "द्विर्वचनेऽचि" इत्यस्य प्रवृत्त्या अभ्यासे उकारसम्भवात् तस्य इत्त्वविधानेन पकारयकारांशः सार्थक एव, तथाऽपि वर्गप्रत्याहारजकाराणां ग्रहणं णौ कृतस्यादेशस्य स्थानिवत्त्वं ज्ञापयति । आदेशविशिष्टानामेव द्वित्वेऽभ्यासे उवर्णस्याप्रसिद्धेः । अभ्यासाकारस्य "सन्यतः" इति इत्त्वस्य सिद्धेश्च । तद्व्यतिरेकेण पवर्गयण्‌जकाराणामवर्णपराणां दुर्लभत्वात् । सनि चैषामिटो दुर्लभत्वात् । अबीभवत्, अमीमवत्, अलीलवत्, अरीरवत्, बिभावयिषतीत्यादि । तथा च द्वित्वनिमित्तस्याचो णिचा व्यवधानेऽपि णिज्निमित्तकस्याप्यजादेशस्य स्थानिवद्भावे सिद्धे चुक्षआवयिषतीत्यादिकं निराबाधम् । येननाव्यवधानन्यायेन द्वित्वनिमित्तस्याचो णिज्मात्रेण व्यवधानमाश्रीयते न तु निनवनीयिषतीत्यादौ ल्युट्‌क्यजादिभिरिति नातिप्रसङ्गः । अत एव `णौ कृतं स्थानिवद्‌' इति पठन्ति ।
नन्वेवमप्यचिकीर्त्तदित्यत्र णिचि कृतस्य इत्त्वस्यापि स्थानिवत्त्वं स्यात् ।
मैवम् । अवर्णपर एव हलि स्थानिवत्त्वानुमानात् । तथा च भाष्यम्---"तुल्यजातीयस्य ज्ञापकम् । कश्च तुल्यजातीयः ? यथाजातीयकाः पुयण्‌जयः । कथञ्जातीयकाश्चैते ? अवर्णपराः" इति । वार्त्तिककारस्तु सूत्रमेतत्प्रत्याचख्यौ । तथाहि---षष्ठे द्वित्वप्रकरणान्ते पठ्यते---
"द्विर्वचनं यणायवायावादेशाल्लोपणिलोपोपधालोपकिकिनोरुत्त्वेभ्यः पूर्वविप्रतिषेधेन" इति ।
अस्यार्थः---दध्यत्रेत्यादौ सावकाशो यण्‌, चयनं चायको लवनं लावक इत्यादौ आयादेशादयश्चत्वारः, गोदः कम्बलद इत्यादावाल्लोपः, श्लेष्मघ्न इत्यादावुपधालोपः, कारणा हारणा इत्यादौ णिलोपः, निपूर्त्ता इत्यादावुत्त्वं च । किरतीत्यादौ "ऋत इद्धातोः" ितीत्त्वस्याप्येतदुपलक्षणम् । तेन ततुरिरित्यादिकमपि सेत्स्यति । द्वित्वं तु बिभिदतुरित्यादौ सावकाशम् । तथा चोभयप्रसङ्गे पूर्वविप्रतिषेधात् द्वित्वं तेषां बाधकम् । तेन चक्रतुः, विवाय, लुलाव, विवयिथ, लुलविथ, पपतुः, जघ्नुः, जग्मतुः, आटिटत्, ततुरिरित्यादि सिद्धम् । न चैवम् इयङोऽत्रानुपादानान्निन्यतुरिति न स्यादिति वाच्यम् । "प्रकल्प्य च" इति न्यायेन भाविनं यणमालोच्य पूर्वमियङ्‌ न प्रवर्त्तत इत्युक्तत्वात् । तस्मान्नारम्भणीयमेतद्वचनमिति ।
भाष्यकारास्त्वाहुः---
विप्रतिषेधोऽयमयुक्तः, आल्लोपादीनां नित्यत्वात् द्वित्वस्यानित्यत्वेन तुल्यबलत्वाभावात् । अथापूर्वोऽयं वाचनिको विप्रतिषेधस्तदा तदेव गौरवम् । अपि च नित्यानामिवान्तरङ्गाणामपि वचनेन बाधापत्तौ निनवनीयिषतीत्यादावभ्यासे उकारश्रवणं स्यात् । अथ नित्यानामेवोक्तवचनं वारकं न त्वन्तरङ्गाणामपि, तथाऽपि चुक्षावयिषतीत्यादौ वृद्ध्यादेरन्तरङ्गत्वात्पूर्वं प्रवृत्तौ ततो द्वित्वे अभ्यासह्रस्वे "सन्यत" इति इत्त्वे च इकारस्य श्रवणं स्यात् । तथा च तद्‌बाधनाय "उत्परस्यातः" "ति च" इत्युत्तरं "ओदौदादेशस्य चुटुतुशरादेः" इति वचनं कल्प्यम् । अभ्यासस्येत्यनुवर्त्तते ।
अस्यार्थः---आदौतोरादेशो यस्मिन्नङ्गे तत्सम्बन्धी चुटुतुशरादिश्च योऽभ्यासस्तस्य योऽकारस्तस्य उत्स्यादिति । चुक्षावयिषति, उडुडावयिषति, नुनावयिषति, ऊर्णुनावयिषति, शुशावयिषति, पुस्फारयिषति । यद्यप्यन्त्ये "शर्पूर्वाः खयः" इति पकारशेषे शरादित्वं नास्ति तथाऽपि अभ्याससञ्ज्ञाप्रवृत्तिकाले तद्‌ बोध्यम् । ओदौदादेशस्य किम् ? "चायृ पूजायाम्" चिचाययिषति । "खद स्थैर्ये" चिखादयिषति । चुटुतुशरादेः किम् ? बिभावयिषति । अतः किम् ? ऋजुम्, ऋणम्, ऋतुम्, अंशुं, वा, आख्यत् आर्जिजत्, आर्णिणत्, आर्तितत्, आंशिशत् । अत्र परत्वाद्‌ वृद्धौ टिलोपे सणिच्‌कस्य द्वित्वं मा भूत् । "अभ्यासस्य" इत्यनुक्तौ तु चुटुतुशरादेरिति अङ्गस्य अतो वा विशेषणं स्यात् । तथा च शीतं लुनाति शीतलूः सूर्यः तमाख्यातुमिच्छति शिशीतलयिषतीत्यत्र तकारोत्तरस्याकारस्य उत्त्वं स्यात् । तस्माद्वचनद्वयमपि वार्त्तिककृता पठनीयम् । "ओः पुयण्‌ज्यपरे" इत्यपि तथैव । पिपविषते यियविषति जिजावयिषतीत्यादौ इत्त्वं यथा स्यात् । पू यु इत्यनयोः सनि इटि परत्वाद्‌ गुणे पूर्वविप्रतिषेधेनावादेशात्पूर्वं द्वित्वस्य तन्मते प्रवृत्तेः । "जुचङ्‌क्रम्य" इत्यत्र निर्दिष्टः सौत्रो जुधातुः । तस्माण्ण्यन्तात्सन् । तत्र चुटुतुशरादेरित्युत्त्वे प्राप्ते तद्‌बाधनाय इत्त्वस्य वक्तव्यत्वात् । न च टुटुतुशरादेरित्यत्र चुशब्दस्थाने चकारमात्रं पठनीयम् । तथाच नात्रातिप्रसङ्ग इति वाच्यम् । गुङ्‌ घुङ्‌ ध्वनौ । णिचि चङि ताभ्यां, सनि च अजूगवत्, अजूघवत्, जुगावयिषति, जुघावयिषतीत्यादेरसिद्धेः । एवं दिदवनीयिषतीत्यत्रापि तवर्गादित्वादुत्त्ववारणाय वचनान्तरमारम्भणीयम् ।
अथवा "सन्यत" इत्यस्मान्मण्डूकप्लुत्या सन्ग्रहणमनुववर्त्य येननाव्यवधानन्यायेन णिज्भिन्नव्यवधाने उत्त्वं नेति व्याख्येयम् ।
नन्वेवमपि तनुशब्दादाचारक्विबन्ताद्धेतुमण्णौ सत्यसति वा सन् तितनावयिषति तितनविषतीत्यत्राप्युत्त्वं स्यात् ।
मैवम् । अभ्यसस्यावयवः ओदौदादेशस्य तु यथासम्भवमवयव आदेशो वा योऽकारस्तस्य उत्वमिति वार्त्तिकार्थः । चुक्षावयिषतीत्यवयवः । पुस्फारयिषतीत्यादेशः । तितनावयिषतीत्यत्र तु तदुभयाभावान्न दोषः । एवं च अत इत्यपि सार्थकम् । अन्यथा आटिटदित्यादौ चङ्‌परे णौ यदङ्गं तदवयवे लघौ सन्वदतिदेशात् आर्जिजदित्यादावपि प्रसङ्गाभावेन तद्वैयर्थ्यं स्यादिति सूत्रापेक्षया वार्त्तिकमते महागौरवमिति ।
स्यादेतत् । प्रकृतसूत्रं वार्तिकं चेत्युभयमपि मास्तु । "ओः पुयण्‌" इत्येव ज्ञापकम् । अन्तरङ्गं नित्यं च बाधित्वा द्विर्वचनं भवतीति द्वित्वानन्तरं च यथासम्भवं यणादिप्रवृत्तिरिति ।
अत्र कैयटः---ज्ञापकं सामान्यापेक्षं विशेषापेक्षं वा । नाद्यः । अचिकीर्तदित्यादौ इत्त्वं बाधित्वा पूर्वं द्वित्वप्रवृत्तावभ्यासे अकारश्रवणापत्तेः । नान्त्यः । चक्रतुरित्यादेरसिद्धेः । तस्मात्सूत्रमावश्यकम् । तद्‌विषये च इष्टसिद्ध्यर्थं भाष्योक्तरीत्या ज्ञापकमाश्रयणीयमिति दिक् ।
अत्र वोपदेवेन काव्यकामधेनावित्थं व्यवस्थापितम्---अङ्कयतेश्चङि णिचमाश्रित्य कृतस्य अतो लोपस्य स्थानिवद्भावात् कशब्दस्य द्वित्वे आञ्चकदिति रूपमेके स्वीकुर्वन्ति तच्च मुनित्रयविरुद्धम् । तथाहि---किं "द्विर्वचनेऽचि" इति स्थानिवत्त्वं, ज्ञापकेन वा । नाद्यः । णिचो द्वित्वनिमित्तत्वाभावात् । द्विर्वचनावृत्त्या द्वित्वनिमित्तमचमाश्रित्य कृतस्यैवाजादेशस्य स्थानिवत्त्वमिति भाष्यवार्त्तिकयोरुक्तत्वात् । नान्त्यः---ज्ञापकस्य सजातीयविषयकत्वमाश्रित्य अवर्णपर एव हलि स्थानिवत्त्वमिति भाष्य एव स्थापितत्वात् । पूर्वविप्रतिषेधवार्तिकदूषणपरभाष्यप्रामाण्यादेव तथा लाभात् । आञ्चकदित्यादावभ्यासे अकारस्य भाष्यसंमतत्वे हि तदर्थमपि वार्तिककृता यत्नान्तरं कल्पनीयमिति गौरवमप्यापादयेत् । तदभावात्तु ज्ञायतेऽभ्यासे इकार एव भाष्याभिमत इत्यल्लोपस्य स्थानिवत्त्वमनिभिमतम् इति । तस्मादुकारादेश एव स्थानिवत् । अभ्यासात्परस्य अवर्णपरहलस्तत्रैव सम्भवादिति सिद्धम् ।
यत्तु काशिकायाम् "पूर्वत्रासिद्धम्" इति सूत्रे ऊढशब्दात् णिचि चङि औजढदित्युदाहृत्य क्त्यन्तस्य तु औजिढदित्युक्तम् । न्यासकृता च णौ कृतस्य टिलोपस्य स्थानिवद्भाव इति व्याख्यातम् । सरस्वतीकण्ठाभरणकारेण च "णिच्यनित्" इति सूत्रितम् । तत्सर्वं महाभाष्यविसंवादान्निर्मूलम् । इत्थमेव दुर्गगुप्तेन दुर्गटीकायाम्, त्रिलोचनदासेन कातन्त्रपञ्जिकायाम्, वर्द्धमानमिश्रेण कातन्त्रविस्तरे, हेमसूरिणा हैमव्याकरणे, प्रदर्शितम् । एतच्च ज्ञापकमजन्तस्यापवर्गपरस्यावर्ण एवेति वेदि तव्यमिति प्रदर्शितम् । अभिनवशाकटायनेन च शब्दानुशासने णिनिमित्तादपि प्राग्द्विः तच्चावर्णपरे इति प्रदर्शितम् । तस्मादाञ्चिकत् औजिढत् इत्येव साधीयः । तथैव नन्दिक्षीरस्वाम्यादिभिर्धातुपारायणेषूदाहृतम्---
शुष्किका शुष्कजङ्घा च क्षामिमानौजिढत्तथा । इति
वैयाघ्रपद्यवार्तिकेऽपि इकारपाठ एव सांप्रदायिकः । श्रोत्रियास्तु प्रमादाज्जिस्थाने जं पठन्ति । क्षेमेन्द्रेणापि जैनेन्द्रन्यासे स्पष्टमेवोक्तमिति । वैयाघ्रपद्यवार्त्तिकं च पूर्वत्रासिद्धमित्यस्य प्रयोजनाभिधानपरम् । तथा हि---शुष्किकेत्यत्र "उदीचामातः स्थाने यकपूर्वायाः" इति इत्त्वविकल्पो न भवति "शुषः कः" इति निष्ठाकत्वस्यासिद्धतया ककारस्याकारात् पूर्वत्वाभावात् । एवं शुष्कजङ्घेत्यत्र "न कोपधायाः" इति पुंवद्भावनिषेधस्य न प्रवृत्तिः । क्षामिमानित्यत्र "मादुपधायाश्च" इति वत्त्वं न भवति, "क्षायो मः" इति मत्वस्यासिद्धतया मकारस्यानुपधात्वात् । औजिढदित्यत्र ढत्वस्यासिद्धत्वात् ह्‌ति इत्यस्य द्वित्वम् ।
अत्र वदन्ति ।
वोपदेवमहाग्राहग्रस्तो वामनदिग्गजः ।
कीर्तेरेव प्रसङ्गेन माधवेन विमोचितः ।।
तथा हि---किं वामनोक्तौ वार्त्तिकदूषणपरभाष्यविरोधः, किं वा ज्ञापकस्य सजातीयविषयकत्ववर्णनपरभाष्यविरोधः ? । नाद्यः । "नित्यानित्ययोर्विप्रतिषेधानुपपत्तिः, दिदवनीयिषति इत्याद्यसिद्धिश्च" इति दूषणयोर्भाष्ये ऽनुक्तत्वात् दूषणान्तरोपलक्षणं भाष्यमिति स्थिते औजढत् इत्यभ्यासे अकारश्रवणार्थं सोऽपि विधेयः स्यात् इति दूषणान्तरस्यापि वार्त्तिकोपरि देयत्वात् । तदेवं वार्त्तिकं रचनीयम्---"ओदौदादेशस्य चुटुतुशरादेरभ्यासस्योत्सनि" ततः "अल्लोपवतो णिचोऽत्‌" । अल्लोपवतोऽङ्गस्याभ्यासस्य णिचोऽत् स्यात् औजढत् आञ्चकत् इति ।
न द्वितीयः । यत्र द्विरुक्तौ अभ्यासोत्तरखण्डस्य आद्योऽजवर्णस्तत्र स्थानिवदिति भाष्यस्य फलितार्थः । अस्ति च ह्‌तशब्दस्य द्विरुक्तौ प्रक्रियादशायानुत्तरत्रावर्णः । न च पुनः प्रवृत्तेन टिलोपेनापहारात् न तस्य प्रयोगसमवाय इति वाच्यम् । प्रयोगसमवायित्वस्य भाष्येऽनुक्तत्वात् । एवं च नुनावयिषतीत्यादौ द्वित्वप्रवृत्तिवेलायामवर्णाभावेऽपि पश्चाद्भाविनं तमाश्रित्य यथा स्थानिवद्भावस्तथा ह्‌तशब्दस्य पश्चात्तद्विरहेऽपि । तथा हि---अवर्णपरत्वं द्वित्वप्रवृत्तिवेलायां विवक्षितम् उत परिनिष्ठिते रूपे ? । नाद्यः । चुक्षावयिषति इत्यादावभावात् । नान्त्यः । आञ्चकत् इत्यादौ तदभावात् । तस्मात्प्रक्रियादशायामेव तदित्यवश्यमङ्गीकार्यम् । एतेन वोपदेवन्यस्ता अपि ग्रन्था व्याख्याताः प्रक्रियादशायामवर्णपरत्वस्य विवक्षितत्वात्, वामनोक्तौ तद्विरोधाभावात् ।
अद्यजीगपत् इत्यत्र तु स्थानिवत्त्वप्रवृत्तावजादित्वात् णिच एव द्वित्वापत्त्या उभयत्राप्यवर्णपरत्वाभावात् न स्थानिवत्त्वम् अचिकीर्त्तत् इत्यादिवत् । एवं सत्युवर्णस्थानिकस्यैवादेशस्य स्थानिवत्त्वमिति दुराग्रहो निर्मूल एव । अत एव "लोपः पिबतेरीच्चाभ्यासस्य" इति सूत्रे अपीप्यत् इत्यत्र पिबतेर्णौ युकि चङि उपधालोपे च तस्य स्थानिवत्त्वात् पाय्‌शब्दस्य द्वित्वमिति वृत्तिः सङ्गच्छते ।
अत्रेदं वक्तव्यम्---स्थानिवद्भावप्रवृत्तिवेलायाम् अवर्णपरत्वं यत्र हलोऽस्ति तत्रत्य आदेशः स्थानिवत् इति भाष्याभिप्रायो न तु त्वदुक्तान्यतरत्र गौरवात् प्रमाणाभावाच्च ।
एतेन भाष्यस्य दूषणोपलक्षणत्वात् "अल्लोपवतो णिचोऽत्‌" इति वचनारम्भोऽप्यापाद्यत्वेनाभिमत इत्यपास्तम् । वाचनिकविप्रतिषेधपरत्वेन प्रवृत्ते वार्त्तिके भाष्यस्य दूषणोपलक्षणत्वे प्रमाणाभावात् । नित्यानित्ययोर्विप्रतिषेधानुपपत्तिरिति दूषणस्य प्रसिद्धविप्रतिषेधपरत्वमात्रविषयकत्वात् ।
यत्तु उकारादेशस्यैव स्थानिवत्त्वे अचिकीर्त्तत् इत्यत्रातिप्रसङ्गशह्काभाष्यमसङ्गतं स्यात् इति ।
तत् तुच्छम् । णिचि कृतं स्थानिवद्भवतीति यथाश्रुतार्थबोधदशायामेव तत्प्रवृत्तेः । सिद्धान्तविरोधेन शङ्काया असङ्गत्युक्तौ शङ्कामात्रोच्छेदापत्तेः । अन्यतान्यतरत्रावर्णपरत्ववादिनस्तवापि तदसङ्गतेर्दुरुद्धरत्वात् । तत्र प्रक्रियादशायामप्यवर्णपरत्वाभावात् ।
एतेन प्रयोगसमवायित्वं विशेषणं भाष्यानुक्तमिति निरस्तम् ।
ऊर्णुनावयिषति इत्यादावपि स्थानिवत्त्वप्रवृत्तिदशायाम् अवर्णस्य हलपेक्षया परत्वात् । "कथं जातीयकाश्चैते अवर्णपराः" इति भाष्योक्तेश्च ।
युक्तं चैतत् । अवर्णपरपवर्गयण्‌जकारेषु परतो विधीयमानमभ्यासोकारस्य इकारादेशविधानं हि स्थानिवद्भावं ज्ञापयति इत्युभयसिद्धम् । अस्ति चात्र स्थानिवत्त्वप्रवृत्तिवेलायां पवर्गादीनामवर्णपरत्वमिति यथोक्तार्थलाभात् । अत एव "तुल्यजातीयस्य ज्ञापकम्" इति भाष्यम् । तेन तुल्यजातीयस्य स्थानिवत्त्वमित्यर्थात् तत्प्रवृत्तिवेलायामवर्णपरत्वस्य स्पष्टमेवोक्तत्वात् । प्रथमोपस्थितं स्थानिवद्भावमुपेक्ष्य द्विरुक्तावभ्यासोत्तरखण्डस्याद्योऽजवर्ण इत्यर्थपरत्वे मानाभावात् । एवं च "अल्लोपवतो णिचोऽत्" इति वचनापादनमपि दूरापास्तम् । अभ्यासेऽकारस्य प्रमाणसिद्धत्वाभावेन तदर्थं वचनारम्भस्य निष्फलत्वात् । प्रक्रियादशायाम् अवर्णपरत्वमित्यस्य न्यासाद्यनभिमतत्वाच्च ।
अत एव "स्तौतिण्योः" इति सूत्रे सिषेचयिषति इत्यत्र सिचेर्हेतुमण्णौ गुणे सनि इटि गुणायादेशयोः कृतयोः गुणस्य स्थानिवद्भावात् सिच्‌शब्दस्य द्वित्वमिति न्यासकारेणोक्तम् । तत्रोत्तरखण्डे अकाराभावेन त्वदुक्तरीत्या औजढत् इत्यत्रत्यतद्ग्रन्थस्य व्याख्यातुमशक्यत्वात् ।
एतेन सिचो द्वित्वमिति न्यासस्य भाष्यविरोधादुपेक्ष्यत्वमिति परास्तम् । औजढत् इत्यत्राप्यल्लोपस्थानिवत्त्वस्य भाष्यविरुद्धतया स्वयमेव प्रक्रियादशायामवर्णपरत्वाभिप्रायं कल्पयित्वा वचनानर्हत्वात् । अत एव औजढत् इत्यादिसिद्धये सामान्यापेक्षं ज्ञापकमुक्त्वा अचिकीर्त्तत् इत्याद्यनुरोधेन तदनित्यत्वं सीरदेवेन स्वीकृतम् । तस्मात्सामान्यापेक्षं ज्ञापकमित्येव वामनन्यासकारादीनामभिप्रायः न तु त्वदुक्तः ।
परं तु "विशेषापेक्षं ज्ञापकम्" इति भाष्यविरोधादेव तेषामनुपादेयत्वमित्यन्यदेतदिति रहस्यम् ।
अत एव अदन्तेषु ऊन धातोर्माधवीयधातुवृत्तौ, "नोनयतिध्वनयति" इति सूत्रे काशिकापदमञ्जर्य्योश्च औनिनत् इत्यभ्यासे इकारपाठः संगच्छते ।
एतेन तत्सर्वं लिपिप्रमादप्रयुक्तमेव । स्थलान्तरस्थवामनमाधवग्रन्थविरुद्धत्वात् इत्यपि निरस्तम् । भाष्यसंमतार्थसंवादिन इकारपाठस्यैव वामनादितात्पर्यविषयत्वावश्यकत्वेन वैपरीत्यात् ।
नन्वेवम् अकारान्तत्ववैयर्थ्यमिति चेन्न । तद्‌बलेन वृद्धौ सत्याम् अह्कापयति आञ्चीकपत् इत्यादिरूपाभ्युपगमात् ।
यदि तु चिति इत्यादाविदित्करणस्य णिज्विकल्पज्ञापकतायाः क्लृप्तत्वात् इहापि तथैवेत्याग्रहस्तथापि न क्षतिः । णिजभावपक्षे अनेकाच्‌त्वात् आम्, अङ्क्यात् इत्यादौ "अनिदिताम्" इति उपधालोपाप्रवृत्तिरित्यतोऽपि सार्थकतानिर्वाहात् ।
यत्तु अभ्यासे अकारश्रवणार्थतया अदन्तत्वसार्थक्यमिति । तच्चिन्त्यम् । इकारस्यैव तत्र व्यवस्थापितत्वात् ।
अथ सर्वमतेऽप्यभ्यासे जकारश्रवणानुपपत्तिः "पूर्वत्रासिद्धीयमद्विर्वचने" इति ढकारस्यैव सिद्धत्वात् इति चेन्न । तस्यानित्यतया ह्रतिशब्द एव तत्प्रवृत्तेरित्यास्तामतिविस्तरः ।।

इति श्रीसिद्धान्तसुधानिधौ प्रथमस्याध्यायस्य प्रथमे पादे अष्टमाह्निकम् ।


********************-----------------