सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः १/आह्निकम् ५

विकिस्रोतः तः
← आह्निकम् ४ श्रीसिद्धान्तसुधानिधिः
आह्निकम् ५
[[लेखकः :|]]
आह्निकम् ६ →

इदूदेद्‌ द्विवचनं प्रगृह्यम् 11 ।
(1.1.5)

ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । प्रदेशाः "प्लुतप्रगृह्या" इत्यादयः । हरी एतौ । विष्णू इमौ । गङ्गे अमू । नन्विह तपरत्वं किमर्थम् । व्यक्तिपक्षे ईदूतोर्दीर्घत्वादनण्त्वेन सवर्णग्राहकत्वाभावेन तत्कालग्रहणार्थत्वायोगात् । न च उदात्तानुदात्तस्वरितगुणयुक्तानां दीर्घाणामीदूतां ग्रहणार्थमिति वाच्यम् । गुणानामभेदकत्वादेव तदुपपत्तेः । जातेः पदार्थत्वपक्षेऽपि दीर्घोच्चारणसामर्थ्यादेव ह्रस्वव्यावृत्तेः । प्लुतव्यावृत्तेश्च सिद्धान्तेऽप्यनिष्टत्वाद्‌ इति चेत् । अत्र भाष्यम्---
व्यक्तिः पदार्थो भेदकाश्च गुणा इति पक्षे उदात्तादिगुणयुक्तानां दीर्घाणां संग्रहाय तपरत्वमिति ।
न च व्यक्तावेव पदार्थे एकारस्याण्त्वाद् ग्रहणकशास्त्रेण प्लुतग्रहो मा भूदित्येतदर्थं तपरत्वमिति वाच्यम् । तपरसूत्रे ऽण्‌पदमनुवर्त्त्य तथाऽर्थस्यापि वक्ष्यमाणत्वात् ।
अत्र वदन्ति---तथाऽपि तात्परत्वेनैव उकारस्य गुणान्तरयुक्तदीर्घसंग्राहकत्वसिद्धेरेकारस्य तु अण्‌त्वादेव तत्सिद्धेरुभयत्र तपरत्वमसन्देहार्थमेव । तद्वरं गुणानामभेदकत्वपक्षमाश्रित्य इकारांशे तपरत्वमसन्देसार्थमेवास्तु इत्याशयेन सर्वत्र तपरत्वमसन्देहार्थमिति वृत्तिकृतः ।
वस्तुतस्तु पञ्चमीसमासेन तात्परस्य तत्कालग्राहकत्वे मानाभावादूकारे तपरत्वम्, एकारस्त्वतपर एव निर्दिष्ट इति सुवचमिति ।
तत्र एकारः केवल एवेत्येतत् "किमर्थम् ईदादीनां तपराणां प्रगृह्यसंज्ञा" इतिभाष्यविरुद्धम् । तेन त्रयाणामपि तपरत्वनिर्देशप्रतीतेः ।
ननु प्रगृह्यसंज्ञां तप्रति प्लुतस्यासिद्धत्वात् द्विमात्र एव प्रगृह्यसंज्ञेति प्लुतानुपसंग्रहेऽपि न क्षतिः । न च "प्लुतप्रगृह्या अचि" इति प्रकृतिभावेन स्वरसन्धिप्रकरणे प्लुतस्य सिद्धत्वज्ञापनाद्दोषो दुर्वार इति वाच्यम् । प्लुतशब्दस्य लक्षणया तत्स्थानिपरत्वसम्भवे ज्ञापकत्वायोगात् । श्रुतार्थापत्तिमूलकवाक्यान्तरकल्पनापेक्षया लक्षणाया एव युक्तत्वात् । प्लुतत्वप्रयुक्तप्रकृतिभावे प्लुतस्य सिद्धत्वज्ञापनेऽपि प्रगृह्यत्वप्रयुक्तप्रकृतिभावेऽसिद्धत्वात् । मैवम् । प्लुतस्यासिद्धत्वे "अप्रगृह्यस्य" इतिपर्युदासाप्रवृत्तौ " अणोऽप्रगृह्यस्यानुनासिकः" इत्यनुनासिकस्य दुर्वारत्वात् ।
अथात्रैकारस्याण्‌त्वेन प्लुतग्राहकत्वेऽपि ईद्‌तोः कथं तत्, दीर्घाणामनण्‌त्वेन सवर्णग्राहकत्वाभावात् । न च जातिपरो निर्द्देशः । ह्रस्वेष्वतिप्रसङ्गापत्तेः । दीर्घव्यक्तिसमवेतैव जातिर्विवक्षितेति चेद्, न । प्लुतानुपग्रहतादवस्थ्यात् । न चेष्टापत्तिः । अग्नी 3 इति इत्यादौ "अप्लुतवदुपस्थिते" इत्यनेन लौकिकइतिशब्दे परे प्लुतस्याप्लुतवद्भावविधानेन प्लुतनिमित्तकप्रकृतिभावनिषेधेऽपि प्रगृह्यत्वनिबन्धनस्य प्रकृतिभावस्येष्टत्वात् । तथा च षष्ठे वार्त्तिकम्---
वद्वचनं प्लुतकार्यप्रतिषेधार्थं प्लुतप्रतिषेधे हि प्रगृह्यप्लुतनिषेधप्रसङ्गोऽन्येन विहितत्वात् इति ।
प्लुतकार्यप्रकृतिभावनिषेधे स्वरसन्धेरावश्यकतया प्लुतस्य श्रवणाभावध्रौव्यात् प्लुत एव निषिध्यताम्, किमतिदेशार्थवद्वचनेनेति तत्र शङ्काऽर्थः । उभयनिमित्तकप्रकृतिभावप्राप्त्या प्लुतप्रयुक्ततन्निषेधेऽपि प्रगृह्यत्वप्रयुक्तप्रकृतिभावसत्त्वात्प्लुतश्रवणसिद्धिः, प्लुतनिषेधे तु श्रवणं न स्यादिति समाधानार्थः । न चैवम् "अप्लुतवद्" इत्यस्य वैयर्थ्यापत्तिः, प्लुतनिमित्तकप्रकृतिभावमात्रनिषेधस्य विशेषानुपपादकत्वादिति वाच्यम् । यत्र प्रगृह्यसंज्ञा नास्ति तत्र चरितार्थत्वात् । यथा सुश्लोका3इति सुश्लोकेति । अत्र भाष्यम्---
यथोद्देशं संज्ञापरिभाषमिति पक्षे प्रगृह्यसंज्ञां प्रति प्लुतस्यासिद्धतया द्विमात्रत्वबुद्धेरविघातात्सिद्धा प्रगृह्यसंज्ञा, कार्यकालपक्षे तु प्रगृह्यसंज्ञायाः "अणोऽप्रगृह्सस्य" इत्येतत्समानदेशतया तां प्रति प्लुतस्यासिद्धत्वाभावादनुनासिकप्रवृत्तिः स्यात् ।
ननु संज्ञापरिभाषस्य कार्यार्थत्वात् कार्यकालपक्ष एव न्याय्य इति चेत्, अत्राहुः---"प्रयोजनविशेषानवगमेऽपि सामान्यतः किञ्चित्प्रयोजनवत्ताज्ञानमात्रेण यथोद्देशपक्षोपपत्तिः । यथा---विशिष्याश्रूयमाणभाव्यकेषु विधिषु इष्टसामान्यस्य भाव्यत्वमादायांशत्रयवैशिष्ट्यं भावनायाः सम्पाद्य तदुत्तरमार्थवादिकः कल्पितो वा इष्टविशेषो व्यवस्थाप्यते तद्वत्, महावाक्यार्थपर्यालोचनया तु कार्यकालपक्ष" इति ।
अत्र हरदत्तः---संज्ञां प्रति प्लुतस्यासिद्धत्वेऽपि अनुनासिकपर्युदासं प्रति न तथा । ततश्च यस्यानेन संज्ञा कृता द्विमात्रस्य न सोऽनुनासिकविधौ स्थानी, किं तु त्रिमात्रः । न च स्थानिवद्भावेन त्रिमात्रस्यापि प्रगृह्यत्वम् । अल्‌विधौ तदयोगात् । ईकारान्तद्विवचनस्य प्रगृह्यसंज्ञतया विशेषणतया ईकारादिरूपाल्सापेक्षत्वात् ।
किं चावश्यं "सिद्धः प्लुतः स्वरसंधिषु" इत्याश्रयणीयम्, दणअड आढकमिति प्लुतस्य दीर्घेण निवृत्तिर्यथा स्यात् । अत एव सुश्लोका 3 इति सुश्लोकेति इत्यत्र गुणो भवन् प्लुतमेव निवर्त्तयति, न स्थानिनम् । आदेशे प्लुतश्रवणप्रसङ्गात् । तत्कथं यथोद्देशपक्षेऽपीष्टसिद्धिरिति । अत्र कैयटः---
"शास्त्रासिद्धत्वाश्रयणाच्च प्लुतबुद्धावसत्यां प्रगृह्यत्वे विधीयमाने द्विमात्रविषया बुद्धिः प्रवर्त्तते" इति ।
अयमर्थः---द्विमात्रस्य त्रिमात्रेणापहारेऽपि "पूर्वत्रासिद्धम्" इत्यनेन शास्त्रासिद्धत्वबोधनात् त्रिमात्रएव द्विमात्रत्वबुद्ध्या प्रगृह्यसंज्ञा क्रियते, न तु द्विमात्रे कृतां प्रगृह्यसंज्ञां त्रिमात्रे अतिदिशामः, येनाल्विधित्वात्तदभावशङ्का स्यात् । एवं च त्रिमात्रएव प्रगृह्यसंज्ञाप्रवृत्तिः । द्विमात्रत्वबुद्ध्या संज्ञाप्रवृत्तावपि वस्तुतो धर्मिणस्त्रिमात्रतया तत्रैव विश्रामात्, रजतभ्रमजन्यप्रवृत्तेः शुक्तिविषयकत्ववत् । न चाहार्यारोपेण कथं शास्त्रप्रवृत्तिः । शास्त्रेणैव तस्य शास्त्रप्रवृत्तिप्रयोजकत्वोक्तेः । शास्त्रस्य वस्तुतोऽसिद्धत्वासम्भवात् । एतेन सुश्लोकेतीत्यादावादेश प्लुतः श्रूयेतेत्यप्यपास्तम् । द्विमात्रबुद्ध्यैव क्रियमाणेन गुणेन तद्‌बुद्धिविशेष्यप्लुतस्यैव निवृत्तेरर्थसिद्धत्वादिति दिक् ।
चत्वारोऽत्र पक्षाः सम्भवन्ति । ईदादीनां विशेष्यत्वं द्विवचनस्य च विशेषणत्वम्, द्विवचनसंज्ञं यदीदादि तत् प्रगृह्यमित्यर्थ इत्याद्यः । प्रत्ययग्रहणपरिभाषया द्विवचनपदं द्विवचनान्तपरम्, ईदादीनां विशेषणत्वात्तदन्तविधिः, ईदाद्यन्तं द्विवचनान्तमिति द्वितीयः । ईदाद्यन्तं यद्‌ द्विवचनं तदन्तमिति तृतीयः । द्विवचनमेव संज्ञि वक्ष्यमाणयुक्तेः, ईदाद्यन्तं द्विवचनं प्रगृह्यसंज्ञमिति वाक्यार्थ इति चतुर्थः ।
तत्राद्ये पचेते इत्यादौ संज्ञा न स्यात्, एकारस्य द्विवचनावयवत्वेऽपि द्विवचनत्वाभावात् । न च मुख्यानुपपत्त्या शास्त्रप्राणाण्याद्गौणे प्रवृत्तिः । गङ्गे इत्यादौ "अन्तादिवच्च" इत्यादिवद्भावेन एकारस्य मुख्यद्विवचनत्वेन तत्र चारितार्थ्यात् । द्वितीयेऽपि कुमार्योरगारं कुमार्यगारम् वध्वोरगारम् वध्वगारमित्यादावतिप्रसङ्गः । प्रत्ययलक्षणेन द्विवचनान्तत्वात् । स्वरूपत ईदूदन्तत्वाच्च । तृतीयेऽपि अशुक्ले शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रे इत्यत्र प्रथमाद्विवचनस्य "नपुंसकाच्च" इति शीभावे च्विप्रत्यये "सुपो धातुप्रातिपदिकयोः" इति शीलोपे "अस्यच्वौ" इति शुक्लशब्दान्त्याकारस्य ईत्वे तद्धितान्तत्वादुत्पन्नस्य सुप्रत्ययस्याव्ययत्वाल्लुकि कृते शीशब्द ईकारान्तं द्विवचनं प्रत्ययलक्षणेन च पदं तदन्तमित्यतिप्रसङ्गः ।
ननु पक्षद्वयेऽपि न दोषः । "ईदूतौ च सप्तम्यर्थे" इत्यत्र सप्तमीत्येवोक्तेऽपि प्रत्ययलक्षणेन "सोमोगौरी अधिश्रित" इत्यत्र प्रगृह्यसंज्ञासिद्धौ अर्थग्रहणेन प्रगृह्यसंज्ञाप्रकरणे प्रत्ययलक्षणं नास्तीति ज्ञापयितुं शक्यत्वात् । शुक्लास्तामित्यत्र "अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते" इति न्यायादौकारस्यैव लोपेन शीभावाप्रवृत्तेः प्रत्ययलक्षणे सत्यपि दोषाभावाच्च । ईदाद्यन्तत्वस्य तावताऽप्यलाभाद् इति चेत्, मैवम् । तथाऽपि तदन्तग्रहणदौर्लभ्यादेव पक्षद्वयस्य दुष्टत्वात् । "संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति" इति "सुप्तिङन्तं पदम्" इत्यन्तग्रहणेन ज्ञापितत्वात् । तस्मादीदूदेदन्तं यद्द्विवचनमित्येव युक्तम् । सन्निधानेन द्विवचनस्यैव संज्ञित्वप्रतीतेः ।
न चैवं यथोक्तोदाहरणेषु ईदादिस्वरूपेषु तदन्तत्वं नास्तीति वाच्यम् । व्यपदेशिवद्भावेन तदन्तत्वसम्भवात् ।
अत्र "मणीवादीनां प्रतिषेधो वक्तव्यः" इति पठित्वा मणीव रोदसीव दम्पतीवेति वृत्तिकृतः ।
केयटादयस्तु भाष्यवार्त्तिककाराभ्यामपठितत्वादप्रमाणमेतत् । मणीवोष्ट्रस्येति तु प्रयोगो वाशब्दस्योपमानार्थस्य । रोदसीत्वेत्यादिस्तु छान्दसः प्रयोग इत्याहुः ।
एवं च न्यायसाम्यान्मुनित्रयानुक्तानां "तुरीयस्येष्टिः" "शंसिदुहिगुहिभ्यो वा" "क्नमेके छन्दसि भाषायां च" इत्यादीनां वृत्तिकृन्मात्रोक्तानामियमेव गतिः । नन्वेवम्---
स्फुटोत्पलाभ्यामलिदम्पतीव तद्विलोचनाभ्यां कुटकुड्‌मलाशया । निपत्य बिन्दू हृदि कज्जलाविलौ मणीव नीलौ तरलौ विरेजतुः ।।
इति नैषधस्य का गतिः, वाशब्दस्यात्रासङ्गतेः पौरुषेयत्वाच्चेति चेत्, अत्राहुः---इवार्थस्य वाशब्दस्यायं प्रयोगः । न च तत्र मानाभावः ।
वं प्रयेतसि जानीयादिवार्थे च तदव्ययम् ।
इतिविश्वदर्शनात् । "कादम्बखण्डितदलानि व पङ्कजानि" इत्यादिप्रयोगात् । "व वा यथा तथैवैवम्" इत्यमरव्याख्यायाम् "शात्रवं व पपुर्यशः " इति कालिदासप्रयोगस्य तद्व्याख्यातृभिरुदाहृतत्वाच्च ।
यत्तु अमरे अयमेव पाठो युक्तः, न तु वद्वेति क्षीरस्वाम्युक्तः । प्रातिपदिकप्रक्रमे तद्धितस्य वतेरननुगुणत्वात् । अपत्यसमूहादिपर्यायमध्ये अण्‌फञ्‌वुञादीनामनुक्तेश्चेति । तच्चिन्त्यम् । तद्धितत्वमात्रेण प्रक्रमविरोधे यथेत्यादीनामप्यनुपादानप्रसङ्गात् । प्रकृतिनिर्मुक्तस्य तथात्वे तु प्रकृतिविशेषस्य नियतत्वस्योपाधित्वात् । थादीनां प्रकृतिविशेषोत्तरमेव विहितत्वात् । वतेस्तु तदभावात् । अत एव अणादीनामित्यादिकमपास्तम् । तेषामपत्यसमूहाद्यर्थविशेषासाधारणरूपाभावात् । प्रकृतिविशेषगर्भतया तु "गार्भिणं गणे" इत्यादिना तत्तत्प्रकरणे बहुशो दर्शितत्वात् । वतेश्च सादृश्यएव विधानात् ।

अदसो मात् 12 ।

अस्मात्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात्किम् । अमुकेऽत्र । न चात्र एकारस्याननुवृत्तेरेव नातिप्रसङ्ग इति वाच्यम् । माद्‌ग्रहणसामर्थ्यादेवैकाराननुवृत्तिलाभात् । अदश्शब्दसम्बन्धिमकाराव्यवहितोत्तरस्य तस्यासम्भवात् । न च अमू आसाते इत्यत्र पूर्वेणैव सिद्धिरिति वाच्यम् । तत् प्रति मुत्वस्यासिद्धतया औकारान्तत्वात् । न चैवमनेनाप्यनिर्वाहः । आरम्भसामर्थ्यादत्र मुत्वस्यासिद्धत्वाभावात् । यद्वार्त्तिकम्---
आश्रयात्सिद्धत्वं यथा रोरुत्वे इति ।
किं च स्त्रीनपुंसकयोर्द्विवचने मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वमेवाश्रित्य पूर्वेण प्रगृह्यत्वसिद्धिः । तत एव प्रकृतिभावानुनासिकपर्युदासावपि सिद्धौ । कार्यकालपक्षे तु "अणोऽप्रगृह्यस्य" इत्यत्रोपस्थितेन सूत्रेण संज्ञायां क्रियमाणायां मुत्वस्य सिद्धत्वाल्लिङ्गत्रयेऽपि द्विवचनेऽनुनासिकपर्युदासः । पूर्वेणैव सिद्धः । एतत्सूत्रँ तु बहुवचनार्थं पुंसि द्विवचने प्रकृतिभावार्थं चेति विवेकः ।

शे 13 ।

अयं प्रगृह्यः । अस्मे इन्द्राबृहस्पती । न युष्मे वाजबन्धवः । आद्ये चतुर्थीबहुवचनस्य द्वितीये द्वितीयाबहुवचनस्य च स्थाने "सुपां सुलुग्" इत्यादिसूत्रेण शे आदेशः । शित्त्वात्सर्वादेशत्वम् । "शेषे लोपः" इति टिलोपः । न चान्त्ये संज्ञावैयर्थ्यम् । पदपाठकाले इतिशब्दप्रयोगे सार्थक्यात् । एवम् "अस्मे धत्त वसवो वसूनि" इत्यादिकमपि बोध्यम् । काशे कुशे वंशे इत्यादौ लोमादित्वात् शप्रत्ययान्ते हरिशे बभ्रुशे इत्यादौ च लक्षणप्रतिपदोक्तपरिभाषया न दोषः ।

निपात एकाजनाङ्‌ 14 ।

आङ्‌भिन्न एकाच्‌ स्वरूपो निपातः प्रगृह्यसंज्ञः । अ अवद्य । इ इन्द्रः । उ उमेशः । अ निषेधाक्षेपयोः । इ विस्मये । उ जुगुप्सादिषु । अत्रैकाच्‌शब्दे कर्मधारयः, लाघवात् । "व्याहरति मृगः" इत्यादिनिर्देशाच्च । तेन प्रेदं ब्रह्मेत्यादौ नातिप्रसङ्गः ।
नन्वेवं एकग्रहो व्यर्थः । निपातस्याचः संज्ञयैव सिद्धेः । न चाजन्तस्य निपातस्येत्यर्थवारणाय तदिति वाच्यम् । विशेषणवैयर्थ्यापत्तेः । हलन्तस्य प्रगृह्यत्वे सत्यपि क्षत्यभावात् । न च पुरोऽस्तीत्यादौ सकारान्तस्य प्रकृतिभावे रोरुत्वं न स्यादिति वाच्यम् । संज्ञां प्रति रुत्वस्यासिद्धत्वात् । न चैकदेशविकृतन्यायेन रेफान्तस्य संज्ञाप्रसङ्गः । प्रकृतिभावं प्रत्यपि रुत्वस्यासिद्धत्वात् । सिद्धकाण्डस्थकार्यात्परस्य च सकारान्ते प्रसक्त्यभावात् । न चाजन्तस्यैव संज्ञा, न त्वज्मात्रस्येत्यर्थलाभाय विशेषणं स्यादिति वाच्यम् । "आद्यन्तवदेकस्मिन्" इति अज्मात्रस्याप्यजन्तत्वात् ।
न च विशेषणसामर्थ्याद्व्यपदेशिवद्भावपरित्यागः । तदन्तविधिपरित्यागेनापि तस्य चारितार्थ्यसम्भवात् । न च विनिगमकाभावः । "अनाङ्‌" इत्यस्यैव तत्त्वात् । व्यपदेशिवद्भावमात्रबाधे हि तद्व्यर्थं स्यात् । आङः केवलाच्स्वरूपत्वेन प्राप्तेरेवाभावात् । अचो विशेष्यत्वे तु तदन्तविधिशङ्काऽपि नेति किमेकपदेनेति प्राप्ते । भाष्यकृतः---
अच्‌समुदायग्रहणशङ्कानिरासायैकग्रहणं कुर्वन्नाचार्यो ज्ञापयति---वर्णग्रहणेषु व्यक्तिसंख्या न विवक्ष्यते, किं तु जातिरेव निर्देश्यतइति ।
तेन "हलन्ताच्च" इति सूत्रे यद्वक्ष्यति वार्त्तिककारः---
दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धमिति,
तत् सूत्रेणैव संगृहीतं भवति । तस्यार्थो हि दम्भेः सिद्धमित्यन्वयः । कित्त्वमिति शेषः । तत्र हेतुः हल्ग्रहणस्य जातिवाचकत्वादिति । दम्भेः सन् । "सनीवन्त" इत्यादिविकल्पादिडभावः । "दम्भ इच्च" इति इत्वम् । पक्षेईत्वञ्च । "अत्र लोप" इत्यभ्यासलोपः । दिन्भ्सति दीन्‌भ्सति इति स्थिते---"हलन्ताच्च" इति सनः कित्त्वमिष्यते । इकः समीपो यो हल् ततः परः सन्‌ कित्स्यादिति तस्यार्थः । प्रकृते च इकः परत्वं नकारे, न तु ततः परः सन् । भकारेण व्यवधानात् । भशब्दात्तु परः सन्, न तु भशब्द इकः परः । नकारेण व्यवधानादिति कित्त्वं न स्यात् । जातिवाचकत्वे तु नकारभकारयोर्हल्‌त्वरूपैकधर्मावच्छिन्नतया इष्टसिद्धिः । ततः कित्त्वान्नलोपः । भषूभावेन दस्य धत्वम् । भकारस्य चर्त्वेन पकार इति धिप्सति धीप्सतीति सिद्धम् ।
ननु अच्‌समुदायनिवृत्त्यर्थमेवैकपदं स्यात् । अइउ अपेहीत्यत्र हि समुदायस्यैव संज्ञा स्यात्, न तु पूर्वयोरिति तत्र गुणादिकं स्यादिति चेत्, अत्राहुः---
संज्ञाया विधेयत्वात् प्राधान्यम्, संज्ञिनस्तु गुणत्वमिति पशुना यजेतेतिवदेकत्वस्य विवक्षयैव समुदायनिरास इति ।
यद्यपि समुदायकार्येणावयवानां कार्यनिर्वाह एकाज्‌द्विर्वचनन्याये बीजम्, न चात्र तथा, समुदायसंज्ञयाऽवयवानां प्रकृतिभावानिर्वाहादिति न तस्यात्र विषयः, तथाऽपि समुदायग्रहणशङ्कानिरासायैव कृतमेकग्रहणं ज्ञापकमिति बोध्यम् । निपात इति किम् । चकारात्र । णलोऽकारस्य प्रकृतिभावो मा भूत् । न चार्थवद्ग्रहणन्यायेन निर्वाहः । अन्वयव्यतिरेकाभ्यां प्रत्ययस्याप्यर्थवत्त्वात् । केवलयोः निपातप्रत्यययोरप्रयोगस्यापि तुल्यत्वात् । एवम् अत सातत्यगमने "अन्येभ्योऽपि" इति डप्रत्ययः, टिलोपः, अ आगच्छेत्येतदपि प्रत्युदाहरणम् । यद्यपि नञिवयुक्तन्पायेनापि आङ्‌भिन्नो निपात एव गृह्यते, तथाऽपि तन्न्यायस्य व्यभिचारित्वान्न दोषः । भेदप्रतियोगितावच्छेदकतया ङकारनिवेशस्तु ङितः प्रगृह्यसंज्ञा यथा स्यादित्येतदर्थः । तद्विवेकस्तु भाष्ये---
ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः ।
एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ।।
आ उष्णम्, ओष्णम् । आङीषदर्थइति ङिन्निर्दिष्टः । आ इतः, एतः । प्रादौ ङित्पठितः । आ उदकान्तात्, ओदकान्तात् । आ अहिच्छत्रात्, आहिच्छत्रात् । "आङ्‌ मर्यादाऽभिविध्योः" विना तेनेति मर्यादा । सह तेनेत्यभिविधिः । परिच्छेद्यमध्ये अवधेरनन्तर्भावे अन्तर्भावे चोभयम् । तथा चावधित्वार्थकपदसमभिव्याहृतपदस्य स्वार्थतदुत्तरोभव्यवच्छेदपरत्वे मर्यादा, स्वार्थोत्तरमात्रव्यवच्छेदपरत्वेऽभिविधिरिति बोध्यम् । अत्र ङित्त्वात् न प्रकृतिभावः ।
अङित्तु यथा---आ एवं नु मन्यसे । पूर्वप्रक्रान्तवाक्यार्थस्यान्यथात्वाद्योतनार्थ आकारः । पूर्वमेवं नामंस्थाः, सम्प्रति त्वेवं मन्यसे इत्यर्थः । वाक्यारम्भसूचनायाकारः इत्यपरे । आ एवं किल तत् । स्मृतेः सूचक आकारः । ततः स्मृतोऽर्थो निर्दिश्यते । अत्र च वाक्यस्मरणयोरङित्त्वे एव तात्पर्यम् । तेन ईषदर्थादिचतुष्टयानन्तर्भावेऽपि उभयभिन्ने ङित्त्वमेव । तेन अभ्र आँ अप इत्यत्र सप्तम्यर्थवृत्तेरप्याकारस्य "आङोऽनुनासिकः" इति सिध्यतीति ग्रन्थकृतः । अत एवैतच्छब्देन पूर्वार्द्धोक्तार्थचतुष्टयपराकारपरामर्शात् ङिद्विधावुद्देश्यपरामर्शकत्वाभावान्नान्वादेशत्वमित्येनादेशविरहः सङ्गच्छते । उभयभिन्नार्थे ङित्त्वस्यैव चतुर्थचरणानुसारेणार्थसिद्धत्वात् ।
केचित्तु पूर्वमेतच्छब्देनानुपादानान्नान्वादेशत्वमित्याहुः । तन्न । शब्दान्तरेणाप्यन्वादेशत्वस्य भाष्यकृता वक्ष्यमाणत्वात् । तस्मादीषदर्थादिषु वर्ततइति वृत्तिर्न विधेया, किन्तु परिचायकतामात्रेणोपात्तेति न तथेति दीक्षिताः इत्यन्यत्र विस्तरः ।
अत्र वदन्ति---"अनाङ्‌" इत्यस्य पर्युदासत्वं न युक्तम् । तथा हि । अशब्दो वासुदेवार्थकः । "आङ्‌ मर्यादाऽभिविध्योः" इत्यव्ययीभावः । आ आत् अं "ह्रस्वो नपुंसके प्रातिपदिकस्य" इति ह्रस्वः । अशब्दस्य स्वाभाविकमाङ्‌भिन्नत्वं स्थानिवद्भावकृतं निपातत्वं चाश्रित्य अ इतः एत इत्यत्र प्रगृह्यसंज्ञाप्रसङ्गात् । "आसमुद्रक्षितीशानाम्" इतिवत्समासः । न च आङ्‌भावातिदेशे आङ्‌भिन्नत्वव्यपदेशनिवृत्तिः । गुरुवद् गुरुपुत्रे वर्तितव्यमित्यत्र गुरुत्वस्येव आङ्‌वद्भावेन आङ्‌त्वस्यानतिदेशात् । अतिदेशे वा "आङयमकारः" इत्याहार्यबुद्धेराङ्‌भिन्नोऽयमिति बुद्धावविरोधात् । अतिदेशानां च स्वाश्रयानिवर्त्तकत्वात् । ब्राह्मणवदस्मिन्क्षत्रिये वर्तितव्यमित्यत्र क्षत्रियत्वव्यपदेशनिवृत्त्यभावात् ।
अस्तु वा एकादेशेऽपि स्थानिवद्भावेनैव परावर्णगतस्याङ्‌भिन्नत्वस्याश्रयणम् । कैयटादावपि परादिवद्भावेनैकादेशस्याङ्‌भिन्नत्वाश्रयणात् । तस्मात्प्रसज्यप्रतिषेध एव युक्तः । वाक्यभेदासमर्थसमासाश्रयणस्य कार्यानुरोधेनादोषत्वात्, "अनचि" "अशिति" इत्यादिवत् । अत एवोत्तरसूत्रे प्रतिषिद्धार्थोऽयमारम्भ इति भाष्यं सङ्गच्छते इति ।
इदं त्ववधेयम् । पर्युदासपक्षे नञिवयुक्तन्यायबलादेव निपातलाभसम्भवेऽपि निपातपदोपादानं स्वयमेव यो निपातस्तस्यैव प्रगृह्यत्वम्, न तु स्थानिवद्भावप्रयुक्तनिपातत्वकस्येत्येतदर्थकम् । तेन नोक्तदोषः । अतिदेशेनैव तत्र निपातत्वस्यानीयमानत्वात् । निपातग्रहणस्य चोत्तरार्थत्वेऽपि "इहकिञ्चित्त्रपो इति" इति न्यायेनात्रोपादानस्यापि प्रयोजनसम्भवे सति त्यागायोगात् । एवम् एकग्रहणस्याप्यत्र पूर्वोक्तरीत्या प्रयोजनाभावान्मुख्यार्थकमेवैकपदं व्याख्यायताम् । "एके मुख्यान्यकेवलाः" इत्यमरोक्तेः । तच्चौपदेशिकत्वरूपमत्र ग्राह्यम् । तेन मुख्यत्वस्य सामानाधिकरण्येन निपातत्वलाभादातिदेशिकनिपातत्वमाश्रित्य नोक्तदोषः । न चैवं "वर्णग्रहणे जातिग्रहणम्" इत्यत्र ज्ञापकानुपपत्तिः । अपृक्तसंज्ञासूत्रे एकग्रहणस्यापि भाष्यएव तज्ज्ञापकत्वोक्तेः । एतेन तत एव सिद्धावत्रत्यमेकग्रहणं व्यर्थमित्यपि शङ्काऽन्तरं परास्तम् । विनिगमकाभावाच्च । वक्ष्यति तत्र तथैव कैयटः ।
नन्वेवमपि "प्रतिषिद्धार्थम्" इति भाष्यविरोधो दुर्वार इति वाच्यम् । अदोऽभवदित्यत्रातिप्रसङ्गसङ्काया लक्षणप्रतिपदोक्तपरिभाषया समाधानस्य च तदुक्तस्यानुपपत्त्या तद्ग्रन्थस्य प्रौढिवादत्वात् । न चोत्तरग्रन्थ एव प्रौढिवादो लक्षणप्रतिपदोक्तपरिभाषाया वर्णग्रहणेष्वप्रवृत्तेरिति वाच्यम् । तथाऽपि गोऽभवदित्यत्रातिप्रसङ्गसङ्कादेरनुपपत्तेः । "अनाङ्‌" इत्यत्र प्रसज्यप्रतिषेधपक्षे वाक्यभेदासमर्थसमासाश्रयणापत्तेश्च । आङ्‌भावातिदेशेन तद्भिन्नत्वव्यपदेशानिवृत्तावपि तत्कार्याणां निवृत्तेश्च । गुरौ गुरुभिन्नत्वव्यपदेशसत्त्वेऽपि गुरुत्वप्रयुक्तकार्यप्रवृत्तेः । आहार्यबुद्धेरपि शास्त्रप्रामाण्येन कार्यनियामकत्वात् । असिद्धस्थले तथैव क्लृप्तत्वात् ।

ओत् 15 ।

ओकारान्तो निपातः प्रगृह्यः । आहो इति । उताहो इति । निपात इति किम् । "नियुत्वान्वायवायाहि" "विष्णउरुगायेव ते सोमः" इत्यादौ मा भूत् ।
वृत्तिकृतस्तु गवित्ययमाहेत्यपि प्रत्युदाहरन्ति ।
अत्र वदन्ति---"तत्र प्रगृह्यसंज्ञासत्त्वेऽपि न क्षतिः । प्रकृतिभावविधौ पदान्ताधिकारादेव तदप्रसक्तेः । गवित्ययमाहेत्यत्र च विभक्तिश्रवणाभावादनुकार्यानुकरणयोरभेदविवक्षयाऽर्थवत्त्वाभावेन प्रातिपदिकत्वाभावाद्विभक्तेरनुत्पत्त्या पदान्तत्वाभावात् । "अपदं न प्रयुञ्जीत" इत्यस्य चापरिनिष्ठितप्रयोगनिषेधार्थत्वात् । प्रकृते च गो इति स्वरूपस्यैव परिनिष्ठितत्वात् । अत एवेह "लोपः शाकल्यस्य" इति न प्रवर्ततइति । न चैवं "हेऽलयो हेऽलय इति कुर्वन्त" इत्यत्र कथं रुत्वयत्वयलोपा इति वाच्यम् । तत्र भेदविवक्षया सुप्रत्ययं कृत्वा "हल्‌ङ्याब्‌भ्यः" इति विभक्तिलोपेन "प्रकृतिवदनुकरणम्" इत्यतिदेशेन वा पदान्तत्वात् । तस्मात्प्रकृतिभावविधौ पदान्तग्रहणानुवृत्तिर्नास्तीत्यभिप्रायेण वृत्तिग्रन्थो योज्यः" इति । नन्वाहो इत्यादयो निपातसमुदायाः, आह उ आहो, उत आह उ उताहो इत्यादि, ततः पूर्वेणैव संज्ञा सिद्धा आदिवद्भावेन । न च आहो इतीत्यादौ "उञ ऊँ" इत्यस्यापत्तिः । ञकारानुबन्धस्यैव तत्र ग्रहणात् । न च निरनुबन्धउकारे मानाभावः । तत्रैव भाष्ये वक्ष्यमाणत्वात् । न च आ उ इत्यनयोरेकादेशे ओ इत्यत्रान्तवद्भावेन आङ्ग्रहणेन तद्ग्रहणेन "अनाङ्‌" इति प्रतिषेधः स्यादतस्तन्निरासायेदम् । अन्यथा "ओषु यातं मरुतः" "ओषु यातं बृहती शक्वरी च" "ओचित्सखायं सख्याववृत्याम्" इत्यादौ प्रगृह्यसंज्ञाऽनापत्तेः । न चाच्‌परत्वाभावात्तत्सत्त्वेऽपि न विशेष इति वाच्यम् । कस्याञ्चिच्छाखायाम् ओ अयातमिति पाठे विशेषसम्भवात् । प्रतिषेधार्थोऽयमारम्भ इति भाष्यस्यैव च तत्र प्रमाणत्वात् । न च नैतद्भाष्यकृतो विवक्षितम्, अदोऽभवदित्यादावतिप्रसङ्गस्याग्रे शङ्कितत्वात्, प्रतिषिद्धार्थत्वे तत्र प्रसक्तेरेवाभावादिति वाच्यम् । उभयार्थत्वेऽप्यविरोधात् । विध्यर्थत्वात्परत्वाद् "अनाङ्‌" इति प्रतिषेधबाधकत्वस्य च सम्भवादिति समाहितत्वात् ।
अस्तु वा "अनाङ्‌" इति पर्युदास एव, तथाऽपि आङनाङोरेकादेशस्यादिवद्भावेन अनाङ्‌ग्रहणेन ग्रहणात् । तत्किमर्थमिदं सूत्रमिति चेत्, अत्र भाष्यम्---
एकनिपाता इमे इति ।
अखण्डा एव, न तु निपातसमुदायाः । अतोऽपूर्वविधिरेवायमम् । अत एव "ओषु यातं मरुतः" इत्यादौ पदपाठकाले ऐकपद्येनैव पाठः । एवम् आम् आहो देवदत्तेतीत्यत्र "आम एकान्तरमामन्त्रितम्" इति निघातप्रतिषेधोऽपि ।
अथ तथाऽपि अदश्शब्दात् च्विप्रत्यये "ऊर्यादिच्विडाचश्च" इति गतिसंज्ञायां "कुगतिप्रादयः" इति समासे अनदः अदः अभवत् अदोऽभवत् इत्यत्रातिप्रसङ्गः । गतिसंज्ञाविधेः "प्राग्रीश्वरान्निपाताः" इत्यधिकारान्तर्भावेन च्विप्रत्ययान्तानां निपातत्वात् । न च लक्षणप्रतिपदोक्तपरिभाषया निर्वाहः । वर्णग्रहणेषु तदप्रवृत्तेः । अन्यथा हरये इत्यादौ "एचोऽयवायावः" इत्यस्याप्रवृत्त्यापत्तेः । चक्रे इदम् इत्यादौ चारितार्थ्यात् ।
किञ्च तथाऽपि अगौर्गौरभवत् गोऽभवद् इत्यादौ दोषो दुर्वारः । "गमेर्डोः" इति ओकारस्य स्वरूपत उच्चारणेन प्रतिपदोक्तत्वात् इति चेत्, अत्र भाष्यम्---
गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्यय इति ।
तद्यथा---"गौरनुबन्ध्योऽजोऽग्नीषोमीयः" इति न वाहीकोऽनुबध्यतइति । अयमर्थः । "स्वं रूपम्" इत्यत्र रूपग्रहणेनार्थग्रहणस्यापि ज्ञापितत्वात् अर्थवतः कार्येण भवितव्यम् । अर्थश्च द्वेधा, मुख्यो गौणश्च । तत्पदशक्तिविषय आद्यः । गौणस्तु सादृश्यनिमित्तकवृत्तिविषयः । गुणनिमित्तकवृत्तिसम्बन्धित्वेन शब्दवदर्थेऽपि स्वारसिकगौणपदप्रयोगात् । तत्र प्राथम्यान्मुख्यार्थस्यैव ग्रहणम् । वृत्त्यन्तरस्य तद्‌बाधएव समुल्लासात् । शक्यार्थभानस्यापि तत्राभ्युपगमेन तत्पूर्वकत्वाच्च । शक्यसमवेतगुणप्रकारकबोधत्वस्यैव स्वशक्यगुणवत्तारूपवृत्तिज्ञानकार्यतावच्छेदकत्वोपगमात् । ततश्च गोऽभवदित्यत्र प्रकृतेरेव कर्तृत्वम् । "सङ्घीभवन्ति ब्राह्मणाः" "पटीभवन्ति तन्तवः" इत्यादौ वचनव्यवस्थायाः "त्वद्भवति देवदत्तः" "मद्भवसि त्वम्" "त्वद्भवाम्यहम्" इत्यादौ पुरुषव्यवस्थायाश्च तत एवोपपत्तेः ।
प्रकृतित्वमत्रारोपविषयत्वं बोध्यम् । तत्र च गोत्वादिकमारोपितमेव, न मुख्यमिति । न च गौणेऽपि गुणानामेव प्रवृत्तिनिमित्तत्वाभ्युपगमात्कथं वाहीकादौ गोत्वारोप इति वाच्यम् । स्वोत्प्रेक्षाप्रभवारोपविषयीभूतार्थवृत्तित्वं गौणत्वमिति मतेन तदुक्तेः । अत्र हि शब्दस्य स्वाभिधेयं विनाऽन्यत्र गुणयोगमात्रेण प्रवृत्त्यभावात् । आरोपविषये विषयितावच्छेदकधर्मस्यैवारोपः । न च विविक्तत्वेन तदनुपपत्तिः । शुक्तिकादौ चाकचक्यादिसादृश्येन रजतत्वाद्यारोपवत् "योषा वाव गौतमाग्निः" इति पञ्चाग्निविद्यायां रेतोमयहविः प्रक्षेपरूपहोमाधिकरणत्वसादृश्येन योषायामग्नित्वारोपवत् जाड्यक्रूरत्वादिसादृश्येन वाहीकमाणवकादौ गोत्वसिंहत्वाद्यारोप इत्यास्तां प्रासङ्गिकम् । तस्मान्न गौणे प्रगृह्यसंज्ञेति । नन्वेवं गौस्तिष्ठति गामानयेत्यादौ गौणे वृद्ध्यात्वादिकमपि न स्यादिति चेत्, अत्र कैयटहरदत्तादयः---
पदकार्येष्वयं न्यायो न प्रातिपदिककार्येषु इति ।
तथा हि । स्वार्थे वृत्तात्प्रातिपदिकाद्विभक्तावुत्पन्नायां कार्येषु कृतेषु शब्दान्तरसन्निधानाद्गौणत्वं प्रतीयते । गोऽभवदित्यत्र तु गौणत्वं विना च्विप्रत्यय एव दुर्लभ इति वैषम्यम् ।
किञ्च गुणक्रिययोः श्रौतः क्रियासम्बन्धः "श्वेतं छागमालभेत" इत्यादौ वाक्यीयात्तु न्यायात्परस्परेण श्वेतस्य आश्रयापेक्षायां व्यक्तिवचनन्यायेन छागपरत्वम्, छागस्य च गुणाकाङ्क्षायां श्वेतपरत्वमिति पार्ष्ठिकः परस्परावच्छेदः । शाब्दान्वयस्तु क्रियायामेवेति भाट्टसिद्धान्तः । एवं गां वाहीकमानयेति पूर्वं क्रियासम्बन्धापेक्षया विभक्तावुत्पन्नायां पश्चात्सामानाधिकरण्याद्‌ गौणार्थप्रादुर्भावो भवतीति । तदेतदुक्तं भाष्यकृद्भिः---
यत्तु शब्दाश्रयं तच्छब्दमात्रे भवति, शब्दाश्रये च वृद्ध्यात्वे इति ।
यत्तु वाक्यसंस्कारपक्षे वृद्ध्यात्वप्रवृत्तितः प्रागेव गौणार्थावगतेः आद्यमयुक्तमिति, तदसत् । गौणार्थावगतिमात्रस्याकिञ्चित्करत्वात् । तस्य कार्यप्रवृत्तावनुपयुक्तत्वात् । अन्यथा गामानयेति मुख्यार्थे वृद्ध्यादेरप्रवृत्तिप्रसङ्गात् ।
यदपि "किञ्चेत्यादिकं न युक्तम्, ब्रूते पाठयेत्यादिक्रियान्वयायैव गौणताया आश्रयणीयत्वात्" इति, तदप्यसत् । "अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति" इत्यादावपि अरुणया क्रीणातीति वाक्ये गुणमात्रस्य क्रयसाधनत्वानुपपत्त्या तदर्थं प्रागेव क्रयसाधनद्रव्यसम्बन्धेन क्रयान्वयापत्तौ तत्सिद्धान्तभङ्गप्रसङ्गात् । अयोग्यताज्ञानस्य शाब्दधीप्रतिबन्धकतया तदभावेन स्वरूपसतैवारुण्यस्य क्रयभावनायामन्वये ज्ञाते पश्चादेव योग्यताकाङ्क्षायाममूर्तत्वेन साक्षादयोग्यत्वेऽपि द्रव्यपरिच्छेदरूपव्यापारद्वारा करणत्वयोग्यतानिर्णयः । प्रथमं तु कारकान्तरवदेव भावनायामारुण्यस्य सम्बन्ध इत्यादेस्तत्र निरूपितत्वात् । प्रकृतेऽपि तद्रीत्या पूर्वं गौणत्वप्रत्यये बीजाभावात् ।
यदप्युक्तम्, "कटोऽपि कर्म भीष्मादयोऽपि" इति पक्षे उक्तिसम्भवेऽपि सामानाधिकरण्याद्भीष्मादेर्द्वितीयेति भाष्योक्तपक्षान्तरे त्वदुक्तन्यायावतारो नास्तीति, तदप्यसत् । पार्ष्ठिकपरस्परावच्छेदावस्थाभिप्रायेणैव तदुपपत्त्या पूर्वं गौणत्वप्रत्ययस्यानावश्यकत्वात् । एतत्पक्षे पूर्वं सामानाधिकरण्यस्यैवानङ्गीकारात् ।


यदप्याहुः---महद्‌भूतश्चन्द्रमा इत्यादौ "आन्महतः" इत्यात्वं विशिष्टरूपग्रहणेन क्रियमाणं गौणे न भवतीति युक्तम्, इह तु "ओद्‌" इति वर्णपुरस्कारेण विधीयमाना प्रगृह्यसंज्ञा कथं गौणार्थवृत्तेर्न भवेत् । निपातसंज्ञा तु तस्यापि मुख्यैव । अत एव श्वशुरसंज्ञस्य कस्यचिदपत्ये श्वाशुरिरित्यत्र "अत इञ्‌" प्रवर्त्तते । वर्णाश्रयत्वात् । न तु "राजश्वशुराद्‌" इति यत् । विशिष्टरूपोपादानात् । अन्यथा इञ्यतोस्तुल्ययोगक्षेमतैव स्यात् । गोशब्दे वृद्ध्यात्वे अपि वर्णाश्रयत्वादेव, न तु प्रातिपदिककार्यत्वात् । "गोतः" इति तपरत्वस्य ओकारान्तोपलक्षणार्थत्वात् इति, तदपि चिन्त्यम् । अकारादीनामैक्यपक्षे बाहुक इत्यादौ चरितार्थानां "नौद्व्यचः" इत्यादीनां घटिक इत्यादौ प्रवृत्तिर्न स्यादित्याशङ्कापराणाम् अइउण्‌सूत्रस्थभाष्यादिग्रन्थानां विरोधात् । प्रकृतसूत्रस्थोक्तभाष्यविरोधाच्च ।
यत्तु "राजश्वशुरात्" इत्यादि, तदसत् । श्वशुरपदस्य हि भार्याभर्त्रन्यतरजनकत्वे सति पुँस्त्वं शक्यतावच्छेदकम्, संज्ञाश्वशुरस्य तु व्यक्तिस्वरूपं शक्यम्, शब्दस्वरूपं च शक्यतावच्छेदकम् । आद्यं प्रसिद्धिवशाच्छीघ्रोपस्थितिकम्, न त्वन्त्यमिति विशेषः । श्वशुरशब्दस्य स्वरूपेणोपादानस्थले शीघ्रोपस्थित्यर्थवाचके चरितार्थं शास्त्रं द्वितीये न प्रवर्तते । "अत इञ्‌" इत्यत्र त्वकारान्तस्य संज्ञाश्वशुरेऽपि सत्त्वात्कथं न इञ्‌ प्रत्ययः प्रवर्त्तेत । तदुपस्थितौ प्रथमश्वशुरपदार्थबोधस्यानपेक्षितत्वेन तच्छब्दस्य प्रथमोपस्थितत्वाभावात् ।
प्रकृते तु ओकारान्तनिपातस्य प्रगृह्यसंज्ञाविधाने ओदन्तत्वविशिष्टनिपातत्वावच्छिन्नतया च्विप्रत्ययान्तगोशब्दोपस्थितौ गौणार्थज्ञानस्य शक्यार्थज्ञानपूर्वकत्वनियमेन च्व्यन्तगोशब्दस्य गौणत्वं प्रागेव प्रतीयतइति वैषम्यम् । ननु तथाऽप्युद्देश्यतावच्छेदकरूपानपायाद् दुर्वारैव संज्ञेति चेन्न । निपातत्वं ह्यत्रोद्देश्यतावच्छेदकम्, ओदन्तत्वं तूद्देश्यतावच्छेकतावच्छेदकम् । तद्धटकसम्बन्धो यदि सामानाधिकरण्यमात्रं तर्हि "अथोपयन्त्रा सदृशेन युक्ताम्" इत्यत्रैकादेशश्य पूर्वान्तत्वेन ग्रहणादोकारान्तत्वं निपातत्वं चास्तीति "अथातो ब्रह्मजिज्ञासा" इत्यादावप्यथशब्दस्य प्रगृह्यसंज्ञा स्यात् । तथा च यस्यां व्यक्तौ ओदन्तत्वनिपातत्वयोः समनियतत्वं तत्रोक्तविधिप्रवृत्तिरिति वक्तव्यम् । गोशब्दे च निपातत्वाभावदशायामप्योदन्तत्वमस्त्येवेति न प्रवृत्तिः । अहो इत्यादौ उभयमप्यस्तीति नाव्याप्तिः । एतेन निपातसंज्ञा तस्यापि मुख्यैवेत्यपास्तम् । उक्तरीत्या उद्देश्यतावच्छेदकरूपवैकल्यात् । संज्ञामात्रस्याकिञ्चित्करत्वात् । एतेन "गौणमुख्ययोः" इति भाष्यं व्याख्यातम् । यस्य ओदन्तस्य निपातत्वाभावः कदाऽपि नास्ति सोऽत्र गृह्यतइत्यर्थात् ।

सम्बुद्धौ शाकल्यस्येतावनार्षे 16 ।

ऋषिर्वेदः । "तदुक्तमृषिणा" इत्यादिदर्शनात् । "ऋषिर्वेदे वसिष्ठादौ" इत्यभिधानाच्च । अवैदिके इतिशब्दे परे सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्यः । विप्णो इति । विष्णविति । अनार्षे किम् । ब्रह्मबन्धवित्यब्रवीत् । इतौ किम् । विष्णोऽत्र ।

उञ ऊँ 17 ।

इह त्रैरूप्यमिष्टम् । आदेशविकल्पे प्रगृह्यत्वविकल्पे च ऊँ इति । उ इति । विति । उभयाभावपक्षे यणादेशः । तच्चैकस्मिन्सूत्रे न सिध्यति । उञ इत्यस्य श्रुतेनादेशेन सम्बन्धे शाकल्यपदानुवृत्त्या आदेशविकल्पे तदभावपक्षे "निपात एकाजनाङ्‌" इति प्रगृह्यसंज्ञाया नित्यतया रूपद्वयस्यैवापत्तेः । अतो योगविभागं कृत्वा व्याख्येयम् । "उञः" शाकल्यस्येति इतौ प्रगृह्यमिति चानुवर्तते । अस्य इतिशब्दे परे प्रगृह्यसंज्ञा वा स्यात् । उ इति । विति । ततः "ऊँ" इति द्वितीयो योगः । अत्र यदि प्रगृह्यस्य शाकल्यस्येत्युभयमपि नानुवर्त्तत, तदा प्रगृह्यस्य उञ ऊँ आदेशे उञ इति समुदायाश्रयेणाल्विधित्वाभावेन स्थानिवत्त्वेन तस्य प्रगृह्यत्वे ऊँ इतीत्येकमिष्टम् । अप्रगृह्यस्य ऊँ आदेशे यणि कृते आन्तरतम्येन सानुनासिकवकारयुक्तं द्वितीयं त्वनिष्टमपि रूपं स्यात् ।
यदि तु प्रगृह्यस्य उञ इत्येवानुवर्त्तेत, तदा प्रगृह्यस्य उञो नित्यमादेशविधाने ऊँ इति विति इति च द्वे एव रूपे स्याताम् ।
यदि तु शाकल्यग्रहणमात्रमनुवर्त्तेत, तदा प्रगृह्याप्रगृह्ययोरादेशविकल्पे ऊँ इति उ इति द्वे प्रगृह्यस्य । अप्रगृह्यत्वपक्षे च आदेशस्य यणादेशेसानुनासिकवकारयुक्तं शुद्धस्य यणादेशे च निरनुनासिकवकारयुक्तं चेति द्वे रूपे इति मिलित्वा रूपचतुष्टये सानुनासिकवकारयुक्तं रूपमनिष्टं स्यात् । अत उभयानुवृत्त्या प्रगृह्यस्यादेशविकल्पे सति इष्टरूपत्रयसिद्धिः । तेन प्रगृह्यस्य ऊञ ऊँ आदेशो वा स्यादित्यर्थः । ननु शाकल्यस्यैव मते प्रकृतिभावः, तत्रैव ऊँ इत्यादेशः । ततश्च उ इति इत्येतद्रूपं न स्यात् । आदेशनिर्मुक्ते प्रगृह्यसंज्ञायां मानाभावादिति चेत्, मैवम् । शाकल्यपदस्य विकल्पमात्रतात्पर्यकत्वात् । एतदर्थमेव योगविभागाश्रयणात् । अत एव "ऊँवाशाकल्यस्य" "शाकल्यस्याचार्यस्य मते वा ऊँ अयमादेशः" इति भाष्यं शाकल्यश्रुतेरेव फलं वाग्रहणेन प्रतिपादयतीति व्याख्यातम् ।
केचित्तु शाकल्यग्रहणस्य यथाश्रुतत्वेऽपि "निपात एकाज्‌" इत्येव सिद्धे "उञः" इति सूत्रं नियमार्थम्, शाकल्यभिन्नमते उञः प्रगृह्यत्वं नेति तदर्थः । "ऊँ" इति सूत्रे च प्रगृह्यस्य उञ इत्येतावतैव शाकल्यलाभे पुनः शाकल्यानुवृत्त्या इतरेषामपि मते पाक्षिकप्रगृह्योऽस्तीत्यनुमीयते । अत उ इतीति सिद्धमित्याहुः, तच्चिन्त्यम् । श्रौतनियमविरुद्धानुमानस्य मूलोच्छेदपराहतत्वात् । तद्विरोधेनानुवृत्तावपि मानाभावप्रसङ्गात् ।
यदप्याहुः । "ऊँ" इति सूत्रे पुनः शाकल्यानुवृत्तिसामर्थ्यात् शब्दाधिकाराश्रयणात् पूर्वसूत्रानुवृत्तशाकल्यादन्य एव शाकल्यो गृह्यते । शकलस्य ऋषेरपत्यद्वयसत्त्वे बाधकाभावात् । न च द्वितीयशाकल्यमते प्रगृह्यसंज्ञाया अनुक्तत्वात् आदेशस्य प्रगृह्यत्वं न स्यादिति वाच्यम् । प्रगृह्यस्य उञ आदेशविधानेऽनुवादसामर्थ्यादेव तल्लाभात् । "ढकि लोपः" इत्यादौ अगत्याऽनुवादसामर्थ्यादपि पदार्थप्राप्तेः स्वीकारादीति, तदपि चिन्त्यम् । श्रुत्यैव लाभे तत्पर्यन्तानुसरणानौचित्यात् । "यदेतनूँ इति पदकारैरुच्यते" इत्यनुकरणे "यरोऽनुनासिके" इत्यनुनासिकादेश इति हरदत्तः ।

ईदूतौ च सप्तम्यर्थे 18 ।

विकल्पस्य इतिशब्दस्य च निवृत्तिः । सप्तम्यर्थे वर्त्तमानम् ईदूदन्तं शब्दरूपं प्रगृह्यसंज्ञं स्यात् । अध्यस्यां मामकीतनू । उभयत्र "सुपां सुलुग्‌" इति सप्तम्या लुक् । पदपाठकाले इतिशब्दस्य तदुत्तरं प्रयोगादुदाहरणत्वम् । "सोमोगौरी अधिश्रितः" इति । संहितायामप्युदाहरणत्वम् । ईदूताविति किम् । प्रियः सूर्ये प्रियो अग्ना भवाति । अग्निशब्दात्सप्तम्या डादेशः । सप्तम्यर्थे किम् । धीती । मती । सुष्टुती । तृतीयाया ईकाररूपः पूर्वसवर्णः । अत्र वार्त्तिकम्---
ईदूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद्भवेत् ।
पूर्वस्य चेत्सवर्णाऽसावाडाम्‌भावः प्रसज्यते ।।
वचनाद्यत्र दीर्घत्वं तत्रापि सरसी यदि ।
ज्ञापकं स्यात्तदन्तत्वे मा वा पूर्वपदस्य भूत् ।।
अयमर्थः । ईदूतौ सप्तम्यादित्येवास्तु किमर्थमर्थग्रहणम्, सप्तमीसहचरितं यदीदूदन्तम्, यद्वा---सप्तम्यां परतस्तत् प्रगृह्यसंज्ञमित्यर्थे "सोमोगौरी अधिश्रितः" इत्यादौ लुप्तायामपि सप्तम्यां प्रत्ययलक्षणेन प्रगृह्यत्वसिद्धेरिति प्रश्नः । संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणाभावादर्थग्रहणं विना सप्तम्या एवं संज्ञिनीत्वाल्लुप्तायाश्च कार्याभावात् प्रत्ययं निमित्तीकृत्यान्यस्य कार्यविधानएवप्रत्ययलक्षणानुशासनात्स्वकार्ये तदभावाच्च गौरी इत्यत्र प्रगृह्यसं ज्ञा न स्यादतोऽर्थग्रहणम् । तेन च संज्ञाया अर्थनिबन्धनत्वेन प्रत्ययश्रवणानपेक्षत्वाल्लुप्तायामपि सप्तम्यां प्कृतिभावस्य संज्ञेत्यभिप्रायेणोत्तरं लुप्तइति ।
ननु गौरी इत्यत्र न सप्तम्या लोपः, किन्तु धीती मती सुष्टुतीत्यादाविव "अकः सर्वणे" इति एकादेशः । तस्य चादिवद्भावाद्भवत्येव ईकारः सप्तमीति नेदं प्रयोजनमित्याह---पूर्वस्यचेदित्यादि । दूषयति---आडाम्‌भाव इति । एकादेशं बाधित्वा परत्वादाङ्गत्वाच्च "आण्‌नद्याः" इतियाट्‌ । "ङेराम्‌नद्याम्नीभ्यः" इति सप्तम्या आमित्यादेशश्च स्यादित्यर्थः । ननु सप्तमीलोपं विना ईदूदन्तत्वाभावादन्यत्र च संज्ञायाः प्रयोजनाभावादेतादृशस्थले तल्लोपस्य सार्वत्रिकत्वात्तत्र प्रवृत्तिं विना संज्ञाया वैयर्थ्यप्रसङ्गात्तत्सामर्थ्यादेव लुप्तायामपि सप्तम्यां संज्ञा भविष्यत्येवेत्याह---वचनादिति । यत्र सप्तम्याश्छन्दस ईकारादेशः, तत्रैव संज्ञाविधानस्य चरितार्थत्वापत्त्या सामर्थ्यस्योपक्षीणत्वात्सप्तमीलोपस्थले संज्ञा न स्यादेवेत्याह---यत्र दीर्घत्वमिति । यथा---"दृतिं न शुष्कं सरसी शयानम्" इत्यत्र सरः शब्दात्परस्य सप्तम्येकवचनस्य "इयाडिया जीकाराणामुपसंख्यानम्" इति ई इत्यादेशः । तत्र सप्तम्याः श्रूयमाणत्वेन संज्ञाविधानस्य चारितार्थ्यादिति ।
ननु तत्रापि न सप्तम्या ईकारादेशः । प्रयोजनाभावात् । किन्तु सरसीशब्दोत्तरसप्तम्या लोप एवेति संज्ञाविधेः सामर्थ्यमस्त्येवेत्याह---तत्रापीति । यदि इत्यसंदेहे सन्देहः, "शास्त्राणि चेत्प्रमाणं स्युः" इत्यादिवत् । "सरसी तु महासरः" इति शब्दार्णवात् । "दक्षिणापथे महान्ति सरांसि तु महासरः" इति शब्दार्णवात् । "दक्षिणापथे महान्ति सरांसि सरस्य इत्युच्यन्ते" इति भगवदुक्तेः । "साधर्म्यं दधति गिरां महासरस्य_" इत्यादिदर्शनाच्च । ननु तथआऽपि सरसीशब्दस्यैव लुप्तसप्तमीकस्यायं प्रयोगो, न तु सरः शब्दस्येत्यत्र किं मानम्, तन्मात्रार्थमर्थपदोपादानस्य सन्दर्भविरुद्धत्वादिति चेत्, अत्राहुः---
सरसीशयानमित्यत्रान्तोदात्तपाठ एव मानम् । गौरादिमध्ये "पिप्पल्यादयश्च" इति पाठात्तदन्तः पातिनो ङीषन्तसरसीशब्दस्यैव अन्तोदात्तत्वात् । असुन्प्रत्ययान्तस्य सरः शब्दस्य नित्स्वरेणाद्युदात्तत्तवापत्तेरिति । तस्मादर्थग्रहणं माऽस्त्विति सिद्धम् । ननु प्रगृह्यसंज्ञाप्रकरणे प्रत्ययलक्षणं नास्तीति ज्ञापनार्थमेतत्स्यादित्याह---ज्ञापकं स्यादिति । उक्तार्थस्येति शेषः । तस्य प्रयोजनमाह---तदन्तत्वे इति । "ईदूदेद्‌ द्विवचनं प्रगृह्यम्" इति सूत्रे ईदूदेदन्तं द्विवचनान्तमिति, ईदूदेदन्तं यत् द्विवचनं तदन्तमिति पक्षश्च सिद्धो भवतीत्यर्थः । ननु तत्र तदन्तविध्यभावादेव तत् पक्षद्वयंनिरस्तम् । अत एतदर्थज्ञापनमनुपयुक्तमेवेत्यत आह---मावेति । पूर्वपदस्येति । वाप्यामश्वो वाप्यश्वः नद्यामातिर्नद्यातिरितिसमासे लुप्तसप्तमीकयोः वापीनदीशब्दयोः प्रत्ययलक्षणेन सप्तम्यन्तत्वात्प्रगृह्यत्वं मा भूदित्यर्थं सार्थकमेवार्थग्रहणमित्यर्थः । नन्वर्थग्रहणेऽपि तत्रातिव्याप्तिर्दुर्वारा । सप्तम्यर्थस्य प्रतीयमानत्वात् इति चेत्, मैवम् । जहत्स्वार्थवृत्तिपक्षे समासे विशिष्टशक्तिस्वीकारेण पूर्वपदस्यानर्थकत्वात् ।
अजहत्स्वार्था वृत्तिरितिपक्षेऽपि पूर्वपदे सप्तम्यर्थे लक्षणैव । अर्थपदोपादाने तु विशेष्यतासम्बन्धेन सप्तमीपदजन्योपस्थितिमत्त्वस्य लाभात् । समासे प्रतीयमानस्याधिकरणत्वादेस्तथात्वाभावादेव तद्वारणं बोध्यम् ।
अत्रेदमवधेयम् । अयं योगश्छान्दस एव । तेन ययीपपीवातप्रमीशब्दानां पप्तम्येकवचने ईकारान्तानामपि न प्रगृह्यसंज्ञा । अन्यथा एषामेव श्रूयमाणसप्तमीकानामीदन्तत्वसम्भवेन "तत्रापि सरसी यदि" इत्येतत्पर्यन्तानुधावनवैयपर्थ्यापत्तेः । एतेन उकारान्तस्य भाषायामसम्भवात्तदनुसार इत्यपि निरस्तम् ।
इहदत्तोऽप्येवम् । अत एवन प्रसादकारेण वैदिकप्रक्रियायामेवेदं सूत्रमुपन्यस्तम् ।

दाधा घ्वदाप् 19 ।

दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युः दाब्‌दैपौ विना । प्रदेशाः "नेर्गदनद" इत्यादयः । दारूपाश्चत्वारः । डुदाञ्‌ दाने । दाण्‌ । दो अवखण्डने । देङ्‌ पालने । धारूपौ द्वौ । डुधाञ्‌ धारणपोषणयोः । धेट्‌ पाने । एजन्तानाम् "आदेच उपदेशे" इत्यात्वेन दारूपत्वम् । अनैमित्तिकमात्वं शिति तु प्रतिषेध इति सिद्धान्तात् । न चानुकरणस्य धातुत्वं नास्तीति वाच्यम् । "प्रकृतिवदनुकरणम्" इत्यतिदेशेन तत्सम्भवात् । न च प्रकृतावेव कृतात्त्वानामनुकरणमस्तु किमतिदेशेनेति वाच्यम् । तेषामात्वाभावस्थले प्रणिद्यति प्रणिदयतइत्यादौ घुसंज्ञाऽनापत्तेः । ततश्चतुर्णां दारूपाणां द्वयोश्च धारूपयोरेकशेषोत्तरं द्वन्द्वः । प्रातिपदिकसंज्ञां प्रति अतिदेशाप्रवृत्त्याश्रयेण विभक्त्यन्तत्वात् । "निरनुबन्धकग्रहणे न सानुबन्धकस्य" इत्यस्या लक्षणप्रतिपोदक्तपरिभाषायाश्च नेह प्रवृत्तिः । विशिष्यैव सर्वेषामुपादानात् । अदाबिति किम् । दाप् लवने । दातं बर्हिः । छिन्नमित्यर्थः । "दो दद् घोः" इति ददादेशाभावः । दैप् शौधने । अवदातं मुखम् । घुत्वाभावाद् "अच उपसर्गात्तः" इत्यस्य न प्रवृत्तिः । उद्देश्यसमर्पके दा इत्यत्र अनयोरप्यनुकरणशङ्कानिरासार्थञ्चेदम् । तेनानयोरनुकृतत्वाभावेऽपि न क्षतिः । न च दीङोऽपि कथमत्र नोपादानम्, "मीनातिमिनोतिदीङां ल्यपि च" इति तस्याप्यादन्तत्वादिति वाच्यम् । तत्स्वरूपानुकरणे आत्वानुपपत्तेः । तेन हि गुणोत्तरमात्वं विधीयतइति वार्त्तिकमतम् ।
गुणादिनिमित्ते प्रत्यये परे इति तु भाष्यमतम् ।
उभयथाऽपि नैमित्तिकतया अनुकरणे प्रवृत्त्यभावात् । "आदेचः" इत्यात्वं तु अनैमित्तिकत्वादनुकरणेऽपि प्रवर्ततइति वैषम्यम् ।
वार्तिककृतस्तु एजन्तानुकरणत्वे प्रमाणाभावाद्गौरवाच्च प्रयोगएव ये आकारान्ताः प्रयुज्यन्ते तदनुकरणानामेवायमेकशेषेण निर्देशः, "दाधा" इति पृथक्‌पदं वा सामान्यानुकरणम् । नन्वेवं प्रणिद्यति प्रणिदयते इत्यादौ घुसंज्ञाऽभावे णत्वं न स्यात् । शिति आत्वनिषेधात् कृतात्वानामेव च त्वया घुसंज्ञास्वीकारात् इति चेत्, सत्यम् । वचनेनैव समाधेयत्वात् । तथा च कात्यायनवार्त्तिकम्---
घुसंज्ञायां प्रकृतिग्रहणं शिदर्थमिति ।
भारद्वाजीयास्तु शिद्विकृतार्थमिति पठन्ति । अयमर्थः---"दाधाप्रकृतयो घुसंज्ञाः" इति सूत्रं कार्यम् । दाधा इत्यंशेन प्रयोगे आदन्तानां घुसंज्ञा । प्रकृतिपदं च सन्निधानात् दाधाप्रकृतिपरम् । तथा च तत्स्थले आत्वाभावेऽपि येषामात्वं यत्र क्वचिद्विहितं तेषामपि घुसंज्ञा । आत्वानुपधानेऽपि तत्प्रकृतित्वस्य आत्वादेशस्थानितावच्छेदकरूपवत्त्वस्य सत्त्वात् । तेन प्रणिद्यति इत्यादि सिद्धम् ।
भाष्यकृतस्त्वाहुः---"नेर्गद" इति सूत्रे घुमास्यतीत्यत्र घुशब्दाव्यवहितोत्तरप्रकृतिपदमवश्यं पठनीयम्, घुप्रकृतिमेति । अन्यथा प्रणिमयतइत्यत्र णत्वानुपपत्तेः । लाक्षणिकत्वेन मेङो माशब्देन ग्रहीतुमशक्यत्वात् । प्रकृतिग्रहणे तु प्रकृतिपदस्य सन्निधानान्माप्रकृत्यर्थकत्वेन मेङ्‌ग्रहणसिद्धेः । न चैवं मीनातिमिनोत्योरपि "मीनातिमिनोति" इत्यादिना कुत्रचिदात्वविधानेन तयोरपि माप्रकृतित्वाण्णत्वापत्तिः । माङिति ङकारानुबन्धस्यापि पाठ्यत्वात् । अन्यथा मा माने इत्यस्यापि ग्रहणापत्तेः । एवं घुमाङ्‌प्रकृतीति पाठमपहाय "घुप्रकृतिमाङ्‌" इत्यादि पठनीयम् । घुश्च प्रकृतिश्च माङ्‌ चेति द्वन्द्वे प्रकृतिपदं सन्नि हितत्वात्पूर्वोत्तरोभयप्रकृतिपरम् । एवं च घुप्रकृतीत्युक्ते घुशब्देन दाधारूपाणामुपस्थितौ तत्प्रकृतित्वेन धातुस्वरूपलाभात् प्रणिद्यति प्रणिदयतइत्यादौ घुसंज्ञआं विनाऽपि णत्वं सिद्धमिति घुसंज्ञायां प्रकृतिग्रहणं व्यर्थम् ।
यत्तु भारद्वाजीयैरुक्तम्, "विकृतार्थम्" इति, तदपि न । "गामादाग्रहणेष्वविशेषः" इति परिभाषया लाक्षणिकस्यापि दारूपस्य घुसंज्ञासिद्धेः । अस्यां च दैपः पित्त्वमेव लिङ्गम् । तद्धि अदाबित्यत्र पर्युदासप्रतियोगिकुक्षौ दैपोऽपि निवेशोऽस्तु इत्यर्थम् । लक्षणप्रतिपदोक्तपरिभाषया दाग्रहणेऽप्रवृत्तौ तु दैप आत्वस्य लाक्षणिकतया तस्य प्रतियोगिबहिर्भावस्तदवस्थ एव स्यादिति तद्वैयर्थ्यमेव स्यात् । ननु तथाऽपि धेटो घुसंज्ञा न स्यात् । न चेष्टापत्तिः । प्रकृतिशब्देन णत्वसिद्धावपि घुसंज्ञाप्रयुक्तकार्यान्तराणामसिद्धिप्रसङ्गात्, सत्यम् । "दो दद् घोः" इत्यत्र धेटो निवृत्त्यर्थं कृतेन द इत्यनेन तस्यापि घुसंज्ञाज्ञापनात् । घुत्वाभावे स्थानितावच्छेदकानाक्रान्तत्वादेव तस्य तद्भावाप्रसक्तौ तन्निवृत्त्यर्थयत्नानौचित्यात् । न च दधाति निवृत्त्यर्थत्वेन सार्थक्यम् । "दधातेर्हिः" इति तस्य ह्यादेशविधानात्सामान्यविशेषन्यायेनैव घुशब्दस्य दधात्यन्यपरत्वोपपत्तेः । न च दृङ्‌धृङोर्णिचि दारयति धारयतीत्यत्र दाधारूपत्वात् तत्रातिप्रसङ्गः, वृद्ध्या आकारे कृते दाधा इत्येतयोरर्थवत्त्वात्, रपरत्वस्य पश्चादेव प्रवृत्त्या तदङ्गभूतत्वेन तदन्यत्वाप्रवर्तकत्वात् इति वाच्यम् । "सिद्धं तु प्रसङ्गे रपरत्वाद्‌" इति वार्त्तिकरीत्या आर्‌ इत्यादेशस्यैव वृद्ध्या विधानात् दार् धार्‌ इत्यनयोरेवार्थवत्त्वात् तदवयवयोर्दाधा इत्यनयोरत्राग्रहणात् । "अर्थवद्ग्रहणे नानर्थकस्य" इति न्यायात् । दापयति धापयतीत्यादौ तु पुगागमात्पूर्वमेव घुसंज्ञाप्रवृत्तौ पुग्विशिष्टस्यापि घुग्रहणेन ग्रहणम् ।
अभ्युपेत्यापि ब्रूमः---दार्‌ धार्‌ इत्येतदवयवयोर्दाधारूपयोर्घुसंज्ञायामपि प्रनिदारयतीत्यादौ न णत्वप्रसङ्गः । घुसंज्ञानिरूपितं यस्योपसर्गत्वं ततः परस्य नेर्णत्वविधानात् । तत्र च रेफविशिष्टं प्रत्येवोपसर्गत्वम्, न तु तन्निर्मुक्तपूर्वभागनिरूपितम् । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इति नियमात् ।
नन्वेवं दापयतिधापयत्योरपि तन्न स्यादिति चेत्, न । पूर्वप्रवृत्तसंज्ञाया आगमोपजनेऽपि तदवस्थत्वात् । यदा तु उपसर्गस्य ण्यर्थविशेषकत्वम्, तदादाधारूपं प्रत्युपसर्गत्वाभावान्नित्यं णत्वं न भवत्येव, किन्तु "शेषे विभाषा" इति वैकल्पिकमेवेति । तदेवं मतत्रयं पर्यवसन्नम् । "पूर्वोक्तास्त्रय आदन्तास्त्रयश्च एङन्ता विशिष्य घुसंज्ञाः" इति सूत्रकारस्य, "प्रयोगे आकारान्तानां दाधारूपाणां तत्प्रकृतीनां च" इति वार्त्तिककारस्य, "प्रयोगे आकारान्तानामेव संज्ञा, तत्प्रकृतीनां तु णत्वविधौ प्रकृतिग्रहणाण्णत्वमात्रम्, न तु घुसंज्ञा" इति भाष्यकारस्य मतमिति । एवं स्थिते उपदिदीषतइत्यत्र दीङस्सन्प्रत्यये "सनि मीमाघुरभ" इत्यादिना इस्‌भावः स्यात् । "मीनातिमिनोतिदीङां ल्यपि च" इति दीङ आत्वविधानेन तस्य दाप्रकृतित्वात् वार्तिकमते घुसंज्ञत्वात् । अन्यमतद्वये तु नायं दोष इति स्पष्टमेवेति चेत्, उच्यते---
यदि ईकारान्तस्यैव दीङ आत्वविधानम्, तदाऽयं दोषः स्यात्, न त्वेवम्, किन्तु गुणे कृते एकारान्तस्यैव आत्वं विधीयते । ततश्च दाप्रकृतित्वं दे इत्यस्यैव न तु दी इत्यस्य । उपदिदीषतइत्यत्र च एजन्तत्वाभावेन दाप्रकृतित्वं नास्तीति घुसंज्ञाविरहात् । दाभावनिरूपितस्थानित्वस्य तत्प्रयोज्यनिवृत्तिप्रतियोगित्वरूपस्य एजन्तएव विश्रान्तेः ।
न चैवस् आदन्तत्वनिमित्तकयुच्‌प्रत्ययाद्यसिद्धिः ।" आकारान्तलक्षणः प्रत्ययविधिः" इति विशिष्यैव वार्त्तिककृता तस्य विहितत्वात् । नन्वेवमपि वार्त्तिकभाष्यकारयोर्मते उपादास्तेत्यत्र "स्थाघ्वोरिच्च" इति इत्वं स्यात्, प्रयोगे आदन्तत्वस्यात्र सत्त्वेन भाष्यमतेऽपि घुसंज्ञत्वात्, इति चेत्, अत्र वार्त्तिकं तावत्---
दीङः प्रतिषेधः स्थाघ्वोरित्त्वे इति ।
तथा च वाचनिक एव तदभावः ।
भाष्यकृता तु संनिपातलक्षणन्यायेन समाहितम् । तथा हि---पूर्वोक्तरीत्या एजन्तानामात्वविधानाभ्युपगमे युच्‌प्रत्ययादिसिद्ध्यर्थं वार्तिकान्तरकरणे गौरवात् एज्विषये आत्वं विधीयते । गुणवृद्धिनिमित्तकप्रत्यये विवक्षिते इति यावत् । तथा च प्रत्ययोत्पत्तिपूर्वमेव दीङादीनामादन्तत्वात्सिद्धस्तल्लक्षणप्रत्यय इति लाघवम् । एवं सति आत्वे अकित्त्वसन्निपातो निमित्तम् । कित्त्वे सति गुणवृद्धिनिषेधेन एज्वियानुपपत्तेः । ततश्चाकित्त्वसंनिपातकृतमात्वं सिचः कित्त्वप्रवर्तिकां घुसंज्ञां न प्रवर्तयति । कित्त्वेन एज्विषयापहारे घुसंज्ञानिमित्तस्य आत्वस्य निमित्तविघातापत्तेः ।
स्यादेतत् । सूत्रमते प्रणिदातेत्यादौ दीङ आत्वे कृते णत्वं न भवति, घुसंज्ञाविरहात् । भाष्यवार्त्तिकमते तु णत्वापत्तिः, प्रयोगे आदन्तत्वात् दाप्रकृतित्वाच्च घुसंज्ञासत्त्वादिति द्वयोः सूत्रकृता सह विरोधः । एवं प्रणिदीयते प्रणिदीन इत्यादौ भाष्यमते "नेर्गद" इति नित्यं णत्वम्, तत्र प्रकृतिग्रहणेन घुसंज्ञाया अनपेक्षितत्वात् ।
वार्त्तिकमते तु "शेषे विभाषा" इति वैकल्पिकम् । एजन्तानामेव दाप्रकृतित्वोपगमेन ईदन्तस्याप्रकृतित्वादिति द्वयोः परस्परविरोधो दुर्वार इति चेत्, अत्राहुः---
भाष्यरीत्या सर्वत्र दीङो नित्यं णत्वमिति स्थिते सूत्रवार्तिकमतेऽपि "शेषे विभाषा" इत्यस्य दीङशे व्यवस्थितविकल्पत्वमाश्रित्य नित्यणत्वमेव स्वीकार्यम् । "यथोत्तरं मुनीनां प्रामाण्यम्" इति सिद्धान्तात् इति । नन्वदाबिति पर्युदासप्रतियोगित्वं दाप् लवनइत्यस्यैव स्यान्न तु दैषः, पकारविशिष्टस्यात्वायेगादिति चेत्, मैवम् । अनुबन्धानामनेकान्तत्वपक्षे पकारस्यानवयवत्वेन धातोरेजन्तत्वानपायात् । एकान्तत्वपक्षेऽपि "उदीचां माङो व्यतीहारे" इति कृतात्वस्य मेङो निर्देशेन "नानुबन्धकृतमनेजन्तत्वम्" इत्यस्य ज्ञापितत्वात् । उभयथाऽप्यात्वप्रवृत्तौ बाधकाभावात् । न चायं माङ्‌ माने इत्यस्यैव निर्देशः स्यादिति वाच्यम् । तस्य कर्मव्यतीहारविवक्षायामेव व्यतीहारे वृत्तेः । मेङस्तु स्वभावादेव तद्वृत्तित्वात् । तस्मादेव व्यतीहारे त्काप्रत्ययस्यानेन विधानात् । प्रणिदानव्यतीहारशब्दयोरेकार्थत्वात् । भाष्यबलात्पूर्वकालान्यार्थत्काप्रत्ययस्य मेङोऽनभिधाननिर्णयाच्च । एवं च मेङ इति पठनीये माङ इति पाठस्य ज्ञापकत्वमव्याहतम् ।
वस्तुतस्तु दैपः पित्त्वमेवात्र ज्ञापकम् । तद्धि पर्युदासे दैपो ग्रहणार्थमेव । आत्वाप्रवृत्त्या तत्पर्युदासाभावे तु तद्वैयर्थ्यापत्तेः । लक्षणप्रतिपदोक्तपरिभाषाया अप्रवृत्तिज्ञापनेनैव तच्चरितार्थमिति चेन्न । उद्देश्यासिद्धितादवस्थ्ये तावन्मात्रस्य व्यर्थत्वात् ।
भाष्यकृतस्तु दाबेवायं न दैबस्तीत्याहुः । न चैवं दायतीति रूपं न स्यादिति वाच्यम् । दिवादिषु पाठात् श्यन्प्रत्ययेन तत्संभवात् । न ह्यत्र स्वरे भेदः । दायतीत्यादौ उभयथाऽप्याद्युदात्तत्वात् । "तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्‌न्विङोः" इति सूत्रेण अदुपदेशाभ्यां शप्‌श्यन्‌भ्यां परस्य तिबादेरनुदात्तत्वविधानात् । न च ताच्छीलिके चानशि दायमान इत्यत्र स्वरभेदः स्यात्, चानशो लादेशसार्वधातुकत्वाभावेन अनुदात्तत्वाभावात्, श्यनि नित्स्वरेण धातोराद्युदात्तत्वम्, शपि तु पित्त्वात्तस्यानुदात्तत्वम्, चानशस्तु चित्स्वरेणान्तोदात्तत्वमिति वाच्यम् । श्यन्स्वरस्य सतिशिष्टत्वेऽपि "अन्यत्र विकरणेभ्यः" इति पर्युदासेन तत्राप्यन्तोदात्तत्वात् । "सतिशिष्टोऽपिविकरणस्वरः सार्वधातुकस्वरं न बाधते, यदयं तासेः परस्य लसार्वधातुकस्यानुदात्तत्वं शास्ति, लसार्वधातुक एव तज्ज्ञापकं स्यान्नेत्याह, अविशेषेण ज्ञापकम्" इति "आत्ममाने खश्च" इति सूत्रे भाष्यदर्शनात् । ततश्च यथा तत्र खश्‌स्वरेण श्यन्स्वरस्य बाधः, एवमिह चानश्‌स्वरेणापि इत्यर्थप्रतीतेरित्याहुः ।
न चैवमपि दापयतीत्यस्यापि पर्युदासापत्तिः । यथोद्देशपक्षे अन्तरङ्गत्वात्पुगागमात्पूर्वमेव घुसंज्ञाप्रवृत्तेः । ननु कार्यकालपक्षे णत्वघुसंज्ञयोः समानदेशत्वात्पुकं प्रति तयोरसिद्धत्वेन "अन्तरङ्गबहिरङ्गयोः" इतिन्यायानवतारात् प्रागेव पुक्, ततो घुसंज्ञा न स्यादिति चेत्, अत्र भाष्यम्---
दाधा घ्वपिदिति वक्ष्यामीति ।
तथा च भेदप्रतियोगितावच्छेदकपित्त्वस्य दापयतीत्यत्राभावान्न दोषः ।
यद्वा---उक्तधातू बकारान्तावेव । सूत्रमपि बकारान्तम् । चर्त्वेन तु पकारश्रवणम् । अतो न दोष इति ।

आद्यन्तवदेकस्मिन् 20 ।

असहायेऽपि आदाविवान्तइव च कार्यं स्यात्, एकस्मिन्नित्युपमेये सप्तमीदर्शनादाद्यन्तवदिति सप्तमीसमर्थाद्वतिः । मथुरावत् पाटलिपुत्रे प्राकार इत्यादौ तथादर्शनात् । एकशब्दश्चासहायवाची, न तु सङ्ख्यावाची । एकत्वस्य वस्तुमात्रे सत्त्वेनाव्यावर्त्तकत्वात् । असहायत्वं चात्र तत्‌कार्योद्देश्यतावच्छेदकधर्मपर्याप्त्याश्रयत्वे सत्येकत्वरूपं ग्राह्यम् । न संख्यावाचीत्यस्य चोक्तविशेषणांशविनिर्मुक्तसंख्याया वाच्यत्वव्यवच्छेदे तात्पर्यम् । भवति हि आद्युदात्तविधावुद्देश्यतावच्छेदकस्य प्रत्ययत्वस्य पर्याप्त्याश्रयः औपगव इत्यादौ अकारादिः । तव्यदादौ तु तावद्वर्णा इति विशेष्यदलेन तद्वारणम् ।
तत्रादिवत्त्वे प्रयोजनानि । प्रत्ययाद्युदात्तत्वम्, तैत्तिरीय इत्यादौ इव औपगव इत्यादावपि यथा स्यात् । "ञ्नित्यादिर्नित्यम्" आहिचुम्बकायनिः आग्निवेश्य इत्यादाविव गार्ग्यः कृतिरित्यादावपि स्यात् । "आर्द्धधातुकस्येड्‌ वलादेः" इतीट्‌ करिष्यतीत्यादाविव जोषिषदित्यादावपि स्यात् । "यस्मिन्विधिस्तदादावल्ग्रहणे" इति अजादौ विधीयमानौ इयङुवङौ श्रियो भ्रुव इत्यादाविव श्रियौ भ्रुवौ इत्यादावपि स्याताम् । "आडजादीनाम्" ऐक्षिष्टेत्यादाविव अध्यैष्टेत्यादावपि यथा स्यात् ।
अथान्तवत्त्वे प्रयोजनानि । "ईदूदेद् द्विचनम्" इति प्रगृह्यत्वं पचेते इत्यादाविव खट्‌वे इत्यादावपि यथा स्यात् । "नपुंसकस्य झलचः" इति नुम् "मिदचोऽन्त्यात्परः" इत्यनेन कुण्डानीत्यादाविव यानीत्यादावपि अन्ते यथा स्यात् । "अचोऽन्त्यादि टि" इति संज्ञया "टित आत्मनेपानां टेरे" इत्येत्वं कुर्वाते इत्यादाविव कुर्वे इत्यादावपि स्यात् । "सुपि च" इत्यकारान्तस्याङ्गस्य दीर्घत्वं घटाभ्यामित्यादाविव आभ्यामित्यादावपि यथा स्यात् । "येन विधिः" इत्यजन्तस्य विधीयमानो यत् जेयमित्यादाविव अध्येयमित्यादावपि यथा स्यात् ।
तथा हि---"परस्मिन् सति यस्मात्पूर्वं नास्ति स आदिः" "पूर्वस्मिन्सति यस्मात्परं नास्ति सोऽन्यः" इति निरूढौ व्यवहारः । एतदनुसारेण वर्णानामाद्यन्तत्वयोर्निरूप्यमाणयोः स्ववृत्तिधर्माश्रयप्रागभावाधिकरणकालवृत्तित्वे सति तद्धर्माश्रयध्वंसानधिकरणकालवृत्तित्वम् आदित्वम् । स्ववृत्तिधर्माश्रयध्वंसाधिकरणकालवृत्तित्वे सति तद्धर्माश्रयप्रागभावानधिकरणकालवृत्तित्वं चान्तत्वं फलति । स्वपदं लक्ष्यत्वाभिमततत्तद्व्यक्तिपरम् । तद्‌वृत्तिधर्मश्च तद्विधावुद्देश्यतावच्छेदकीभूतो ग्राह्यः । तद्धर्माश्रयश्च तत्तत्प्रत्ययव्यक्त्यन्तर्गत एव ग्राह्यः । अन्यथा तदप्रसिद्ध्यापत्तेः । मध्यस्थेऽतिव्याप्तिवारणाय उभयत्र विशेष्यम् । तच्च इयादावस्ति न त्वकारमात्रे । अतो मुख्ये चरितार्थं शास्त्रम् अनुत्तरत्वापूर्वरूपं गौणमादित्वमन्तत्वं चादायकेवले न प्रवर्त्तेत । अत इदं सूत्रम् । यस्तु वार्त्तिकम्---
अपूर्वानुत्तरलक्षणत्वादाद्यन्तयोः सिद्धमेकस्मिन्निति ।
अपूर्वत्वमेवादित्वम्, अनुत्तरत्वमेवान्तत्वाम्, तेन सर्वत्रापि मुख्यत्वादेव सिद्धेः सूत्रमेतद्व्यर्थमिति, तत्र भाष्यम्---
गोनर्दीयस्त्वाह---
सत्यमेतत्, सति त्वन्यस्मिन्निति ।
तथा च स्वारसिकप्रतीत्यनुरोधादुक्तविशिष्टधर्म एव आद्यन्तपदशक्यतावच्छेदक इत्युक्तवार्त्तिकमयुक्तमित्यर्थः । एकस्मिन्निति किम् । सभासंनयने भवः साभासंनयनः । अत्र भशब्दोत्तरमाकारमाश्रित्य "वृद्धिर्यस्याचामादिः" इति वृद्धसंज्ञा मा भूत् ।
अथ "वृद्धिर्यस्याचामादिः" इतिवृद्धसंज्ञासूत्रस्थेनैव आदिपदेनात्र दोषो नास्तीति चेन्न । तत्रत्यादिशब्दस्य मुख्यादिपरत्वाभावात् । अन्यथा जानातीति ज्ञा ब्राह्मणी इत्यादौ ज्ञापदस्यापि वृद्धत्वानापत्त्या ज्ञीय इत्यत्र छप्रत्ययानापत्तेः । इहैकग्रहणे तु मध्यावसानस्थानां आदित्वातिदेशविरहात् तद्व्यावर्त्तकतया तत्रत्यस्य आदिशब्दस्य सार्थक्यात् ।
अत्र न्यासकारः---अतिदेशसूत्रे एकग्रहणाभावे वृद्धसंज्ञासूज्ञगतमादिग्रहणमनातिदेशिकप्रतिपत्यर्थं सत् असहायानां ज्ञादीनामेव वृद्धसंज्ञां वारयेत् । सभासन्नयने तु स्यादेव, स्वोत्तरगतानामचां चतुष्टयमपेक्ष्य अनातिदेशिकस्य आदित्वस्य तत्र सत्त्वादिति ।
तत्र वदन्ति---अत्रैकग्रहणाभावे यत्र मुख्यमादित्वं नास्ति स सर्वोऽप्यतिदेशविषयः स्यात् । ततश्च यथा ज्ञादीनां न वृद्धत्वं तथा सभासन्नयनस्यापि न स्यात् । असहायवन्मध्यगतेऽपि मुख्यादित्वव्यवहाराभावात्, तत् कथमुक्तवैषम्यमिति ।
न्यासकृतस्त्वयमभिप्रायः---व्यवहारानुरोधेन लक्षणकरणम् । तदुक्तमाचार्यैः--
सिद्धानुगममात्रं हि कर्तव्यं तु परीक्षकैः ।
न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ।।
इति । ततश्चायमादिरित्युक्ते तदुत्तरस्य अन्त इत्युक्ते च पूर्वस्य नियमत आकाङ्क्षा, न तु पूर्वाभावस्योत्तराभावस्य चेति सर्वसिद्धम् । पूर्वत्वान्तत्वयोरुत्तरपूर्वत्वमात्रनिरूप्यत्वात्, कादाचि त्कापेक्षायाश्च शब्दशक्त्यव्यवस्थापकत्वात् ।
एतच्च न्यासेऽपि स्पष्टमेवोक्तम्---"द्वितीयादिकं सहायमपेक्ष्याद्यन्तशब्दौ प्रवर्तेते । तथा हि---लौकिकः सति परस्मिन्सहाये पूर्वमादिरिति व्यवहरति" इत्यादिना । अत एव "दैशिकयोः परत्वापरत्वयोः तृतीयापेक्षत्वम्, कालिकयोस्तु परस्पराश्रयापेक्षत्वम्" इति दीधितिकारादयः । न हि भरतो लक्ष्मणात्पूर्वः लक्ष्मणो भरतात्कनिष्ठ इत्यनयोर्गौणत्वम् । न चैवमाद्युदात्तत्वं मध्यमस्यापि स्यादिति वाच्यम् । प्रत्ययादिपदसमभिव्याहारादेव प्रत्ययत्वाद्युपाध्यवच्छिन्नादिप्रतीतेः, दशरथस्याद्यपुत्र इत्यादौ तदन्यतत्पुत्रत्वावच्छिन्नापेक्षया तत्प्रत्ययवत् । इत्यास्तां प्रासङ्गिकम् ।
ननु "व्यपदेशिवदेकस्मिन्" इत्येव युक्तम् । इयाय आरेत्यादौ इण्‌ऋधातोश्च धात्ववयवत्वं प्राथम्यं एकाच्‌त्वं चाश्रित्य इकारऋकारयोर्द्वित्वं यथा स्यात् । "एकाचः" इति हि बहुव्रीहिः । एवं "स देवान्यक्षद्‌" इत्यादौ यजेः पञ्चमलकारे "सिब्बहुलं लेटि" इति सिप्, तस्य षत्वं च यथा स्यात् । प्रत्ययस्यावयवो यः सकारस्तस्य षत्वविधानात्, "आद्यन्तवद्‌" इत्युक्त्या च आदित्वान्तत्वप्रयुक्तकार्यसिद्धावप्युक्तकार्याणामसिद्धेः । व्यपदेशस्तु मुख्यो व्यवहारः, स यस्य निमित्तवशादस्ति स व्यपदेशी, यस्तु व्यपदेशहेत्वभावेऽपि कार्यं प्रति तद्वद्वर्तते स व्यपदेशिवत् । तथा च एकस्मिन्नपि मुख्यइव कार्यं स्यादिति वचनार्थः इति चेत्, अत्र भाष्यकाराः---
अवचनाल्लोकविज्ञानात्सिद्धमिति ।
वचननिरपेक्षाल्लोकव्यवहारात्सिद्ध्या "आद्यन्तवद्‌" इति "व्यपदेशिवद्‌" इति चोभयमपि नारम्भणीयम् । इण्‌धातुर्हि प्रयोगभेदाद्बहुरूपः, एति इतः यन्तीत्यादिः । इयायेत्यत्रत्य इकारस्तदवयव इव भासते ।
यद्वा---अर्थवतो धातोर्वर्णरूपोऽयमेकोऽच्‌ इति क्रियावाचकतावच्छेदकतदन्यधर्माभ्यां भेदव्यपदेशः । एवं सिप्रत्ययो जोषिषदित्यादाविट्‌सहितः, वक्षदित्यादौ केवलोऽपीति प्रत्ययस्यायं सकार इति । लोकेऽपि बहुपुत्रवदेकपुत्रेऽपि अयं मे ज्येष्ठः पुत्रोऽयं मध्यमोऽयं कनिष्ठ इति । असूतायामसोष्यमाणायां च प्रथमगर्भेण हतेति व्यवहरन्ति ।
नन्विमे गौणा व्यवहाराः । आद्यस्य पुत्रान्तरव्यावृत्तितात्पर्यकत्वात्, द्वितीयस्य च तद्गर्भध्वंसासमानकालीनगर्भेणेत्यर्थात् । शास्त्रं च मुख्ये चरितार्थं कथं गौणे प्रवर्त्तेतेति चेन्न । निरूढतया मुख्यतुल्यकक्षत्वात् । "ऋदोरप्‌" इति अनुदात्तार्थपित्त्वाच्च । आद्युदात्तत्वाप्रसक्तौ तद्बाधनार्थस्य तस्य वैयर्थात् । "इट ईटि" इति ज्ञापकाच्च । अन्यथा सिचः सकारमात्रस्य वल्‌रूपत्वेन वलादित्वाभावादिटोऽनुपपत्तेः ।

तरप्तमपौ घः 21 ।

एतौ घसंज्ञौ स्तः । रचयति रुचिः शेणीमेतां कुमारितरा रवेः । घरूपेत्यनेन "तसिलादिषु" इति प्राप्तं पुंवद्भावं बाधित्वा ह्रस्वः । नद्यास्तरो नदीतर इत्यत्र तु न । तमप्प्रत्ययसाहचर्यात् । तमशब्दस्यापि प्रातिपदिकस्य सम्भवे तु पकारानुबन्धसामर्थ्यात् ।
वस्तुतस्तु घसंज्ञायां सत्यामपि न क्षतिः । समानाधिकरणे स्त्रीलिङ्गे परे ह्रस्वविधानात् । सामानाधिकरण्यं च स्वार्थिकस्यैव, न तु तरतीति व्युत्पन्नस्य तरादेः ।
भाष्ये तु "यदा सैव नदी स एव तरस्तदा प्राप्नोति" इत्युक्तम् । तत्र भावे स्त्रियां क्तिन्प्रत्यये तीर्णिरिति भाव्यमित्याशङ्क्य कैयटः---"तीर्यते तर इति सामान्येन पदं व्युत्पाद्य पश्चान्नद्या विशेष्यते" इति । तत्र परिहारः---"स्त्रीलिङ्गेषु गादिष्वित्येवं तद्‌" इति । तरशब्दस्य च स्त्रीत्वाभावात् । अन्यथा महीषीव रूपं महिषीरूपमित्यत्रापि ह्रस्वापत्तेः । "सुप्सुपा" इति समासः । महिषीवेयमाकृतिरित्यर्थः ।
अत्र वदन्ति---आतिशायनिकप्रत्ययप्रकरणएव "तादी घः" "पितौ घः" इति वा सूत्रमपहाय प्रकरणपरित्यागेनोक्तसूत्रारम्भः स्वार्थिकोऽपि तरप्रत्ययोऽस्तीति ज्ञापनार्थः । तेन "अल्पाच्‌तरम्" इत्यादि सिध्यतीति ।
केचित्तु सामान्यापेक्षज्ञापकमाश्रित्य ईयसुनोऽपि स्वार्थिकत्वम् । तेन "अहो महीयस्तव साहसिक्यम्" इत्यादि सिद्धमित्याहुः ।
वामनस्तु काव्यालङ्कारे शब्दशुद्धिप्रकरणे महत्त्वप्रतियोग्यपेक्षायामप्यातिशायनिका इत्याह ।
यदपेक्षयाऽतिशयः प्रत्याय्यते तदप्रयोगेऽपि तस्य गम्यमानत्वमात्रेण भवन्तीत्यर्थः । "देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे" इत्यत्र "छान्दसस्तमप्‌" इति भाष्यं तस्यानुकूलम् । अन्यथा स्वार्थिकत्वेनैवोपपत्तेः ।

बहुगणवतुडति संख्या 22 ।

एते संख्यासंज्ञाः स्युः । बहुकृत्वः । संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् । बहुधा । संख्याया विधार्थे धा । बहुभिः क्रीतो बहुकः । संख्याया अतिशदन्तायाः कन् । बहुशः । "संख्यैकवचनाच्च वीप्सायाम्" इति शस् । एवमुत्तरेषु "यत्तदेतेभ्यः परिमाणे वतुप्‌" "आ सर्वनाम्नः" इत्यात्वम् । यावत्कृत्व इत्यादि । किमः संख्यापरिमाणे डति च । कतिकृत्व इत्यादि ।
ननु एकादिशब्दानामपि संज्ञेयं विधेया । अन्यथा प्रदेशेषु "कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः" इति न्यायेन पारिभाषिकसंख्यैव गृह्येत, न तु लोकसिद्धा । सर्वार्थप्रत्यायनशक्तिमतः शब्दस्यार्थविशेषे व्यवहाराय नियमे तन्मात्रपरत्वात् । अन्यथा संज्ञाविधानवैयर्थ्यापत्तेः । न चैवं "नदीपौर्णमास्याग्रहायणीभ्यः" इत्यत्रापि तथापत्तिः । पौर्णमास्यादिशब्दोपादानसामर्थ्येन तत्र कृत्रिमनद्या अनुपादानात् । मैवम् । संख्याकार्यातिदेशार्थत्वादस्य सूत्रस्य संज्ञाविधायकत्वाभावात् । वतिमन्तरेणापि बहुशस्तदर्थप्रत्ययात् ।
यद्वा---अत्रापि तथानियमाभावात् । "कर्तरि कर्मव्यतिहारे" "शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे" इत्यादौ व्यभिचारात् । न च तत्र सामर्थ्यात्तथात्वम् । अत्रापि यत्नविशेषसद्भावात् । "संख्याया अतिशदन्तायाः कन्" इत्यत्र तिशब्दान्तायाः शच्छब्दान्तायाश्च संख्यायाः पर्युदासेन लौकिकसंख्याग्रहणस्य ज्ञाप्यत्वात् । विंशतीत्यादेः त्रिंशदित्यादेश्चापारिभाषिकत्वात् । पारिभाषिक्यास्तस्यास्तदन्तत्वविरहात् । न च कतीति पारिभाषिक्येव संख्या तिशब्दान्ताऽस्तीति वाच्यम् । अर्थवद्ग्रहणपरिभाषया डतिप्रत्ययैकदेशतिशब्दस्य भेदप्रतियोगित्वेनानुपादानात् । तदुक्तम्---
उभयगतिरिह शास्त्रे भवतीति ।
अथ एव बहुगणशब्दयोर्वैपुल्यसङ्घार्थयोर्नेह ग्रहणम्, किन्तु संख्यार्थयोरेव । स च नियमार्थः---अनियतबहुत्वावाचकानां मध्येऽनयोरेव संख्यासंज्ञा, न तु भूर्यादीनाम् । तेन बहुत्ववाचकत्वाभाववतोरेकद्विशब्दयोर्नियतबहुत्ववाचिनां त्र्यादीनां च न व्यावृत्तिः । विशेष्यविशेषणभावाभ्यां तेषां निर्धारणप्रतियोगितावच्छेदकानाक्रान्तत्वात् ।
भाष्यकृतस्त्वाहुः---"बहुपूगगणसङ्घस्य तिथुक्‌" "वतोरिथुक्‌" "षट्‌कतिकतिपयचतुरां थुक्‌" इति सूत्रैः डटि परे आगमानां विधानसामर्थ्यात्तेषां संख्यात्वं ज्ञापयते । अन्यथा संख्यात्वं विना डट एवानुपपत्तेः । तथा चेदं सूत्रं च कर्तव्यमेवेति ।
न चैवं पूगादीनामपि कृत्वसुजादिकमपि संख्याकार्यं स्यात्, बहुगणशब्दयोः कार्यसामान्ये संख्यात्वं ज्ञाप्यते, पूगादीनां तु विशेषापेक्षमेवेति वैषम्ये मानाभावादिति वाच्यम् । लक्ष्यानुरोदेन तदङ्गीकारात् ।
एतदनुरोधात्सूत्रमेतदावश्यकमिति कौस्तुभकृतः ।
अत्र शब्दान्तराणामपि संख्याकार्यविशेषसिद्ध्यर्थानि वार्तिकानि ।
अध्यर्द्धग्रहणं च समासकन्‌विध्यर्थम् ।
अर्द्धेनाधिकमध्यर्द्धम् । एकदेशार्थकार्द्धशब्दस्याधिशब्देन समासे यौगिकार्थप्रत्ययेन संख्याप्रत्ययाभावात्त्रिभागादिशब्दवत्संख्यावाचित्वाभावादिदं विध्यर्थम् । अध्यर्द्धेन शूर्पेण क्रीतम् अध्यर्द्धशूर्पम् । "दीक्‌संख्ये" इत्यनुवर्तमाने " तद्धितार्थोत्तरपदसमाहारे च" इति क्रीतार्थकतद्धितविवक्षायां शूर्पशब्देन सह समासः । ततः "शूर्पादञन्यतरस्याम्" इति अञ्‌ ठञ्‌ वा । "अध्यर्द्धपूर्व" इति तस्य लुक् । अध्यर्द्धेन क्रीतमध्यर्द्धकम् । "संख्याया अतिशन्तायाः" इति कन् । समासविध्यर्थमिति, सम्बन्धसामान्ये षष्ठी । तेन समासस्य समासनिमित्तककार्यस्य वा विधेयत्वे इत्यर्थः । तेन द्विगुनिमित्तो लुगपि सिद्धः । एवं च "अध्यर्द्धपूर्वाच्च द्विगोः" इत्यत्राध्यर्द्धग्रहणं प्रत्याख्येयम् । द्विगुत्वादेव सिद्धेः । तदुक्तम्---
लुकि चाग्रहणमिति ।
अन्ये तु एकः अध्यर्द्धः द्वौ इत्यादिरीत्या लोके गणनदर्शनादध्यर्द्धशब्दोऽपि संख्यार्थ इत्याहुः ।
तद्रीत्या सार्द्धादीनां शब्दानां संख्यात्वव्यावृत्त्यर्थतया "अध्यर्द्ध" इति वार्तिकं नियमार्थम् । वाक्यभेदेन च द्वितीयो नियमः---उक्तकार्यद्वयएव संख्यात्वं न तु कार्यान्तरेषु । तेन कृत्वसुजादयो नेति कैयटः ।
अर्द्धपूर्वपदश्च पूरणप्रत्ययान्तः ।
संख्यापदं समासकन्विध्यर्थमिति चानुवर्तते । पूरणप्रत्ययान्ते उत्तरपदे अर्द्धेशब्दे च पूर्वपदे यत्र तादृशसमासरूपपूर्वपदस्य शब्दान्तरेण समासे कनि च कार्ये संख्या संज्ञा इत्यर्थः । अर्द्धपञ्चमैः शूर्पैः क्रीतम् अर्द्धपञ्चमशूर्पम् । अर्द्धपञ्चमेन क्रीतम् अर्द्धपञ्चमकम्, पूर्ववत्समासादि ।
अधिकग्रहणञ्चालुकि समासोत्तरपदवृद्ध्यर्थम् ।
अधिकपदस्य संख्याविशेषणत्वेऽपि संख्यात्वाभावादयमप्यपूर्वविधिः । अधइकया षष्ठ्या क्रीतोऽधिकषाष्टिकः । अधिकसाप्ततिकः । "तद्धितार्थ" इति समासः । प्राग्वतेष्ठञ्‌ । अलुकीति वचनात्‌ लुकि कर्त्तव्ये संख्यासंज्ञा नास्तीति "संख्यापूर्वो द्विगुः" इति न द्विगुसंज्ञा । तेनाध्यर्द्धपूर्वेति ठञो न लुक् । "संख्यायाः संवत्सरसंख्यस्य च" इत्युत्तरपदवृद्धिः । अन्यथा षष्टिशब्दस्य संख्यापरत्वाभावात्तदप्रवृत्तेः । ननु उत्तरपदवृद्ध्यर्थमित्यत एव लुगभावस्याक्षेपसम्भवात्पृथक् तद्ग्रहणं व्यर्थमिति चेत्, अत्राहुः---
अर्हत्यर्थात्परेष्वर्थेषु ये प्रत्ययास्तेषां लुगप्रसङ्गेन तत्रैवोत्तरपदवृद्धेः सावकाशतया तन्मात्रेणालुक आक्षेप्तुमशक्यत्वादिति ।

ष्णान्ता षट्‌ 23 ।

षान्ता नान्ता च सङ्ख्या षट्‌संज्ञा स्यात् । षट्‌ तिष्ठन्ति । षट्‌ पश्य । पञ्च सप्तेत्यादि । "षड्‌भ्यो लुक्" इति जश्शसोर्लुक् । सङ्ख्येति किम् । विप्रुषः । पामानः ।
नन्वत्र संख्यापदं नास्ति । न च पूर्वसूत्रात्तदनुवृत्तिः । तस्य संज्ञात्वेन लौकिकसंङ्ख्यावाचकत्वाभावात् । उच्यते---
अतिदेशपक्षे संख्यापदानुवृत्तेः सुस्थत्वात् । संज्ञापक्षेऽपि "ष्णान्ता" इत्यत्र स्त्रीलिङ्गविशेष्यस्याकाङ्क्षितत्वादस्वरितस्यापि सङ्ख्यापदस्यानुवृत्त्या शब्दाधिकारेणात्र तस्याभिमतार्थपरत्वसिद्धेः । एतच्च पूर्वसूत्रे भाष्ये स्पष्टम् ।
नन्वत्र "उपदेश" इति वक्तव्यम् । प्रत्ययोत्पत्तिकाले इति तदर्थः । अन्यथा शतानि सहस्राणीत्यादौ नुमः पूर्वावयवत्वेन संख्याया नान्तत्वसम्पत्त्या षट्‌संज्ञायां जसादेर्लुक्‌प्रसङ्गादिति चेन्न । सर्वनामस्थानसंनिपातकृतस्य नुमस्तल्लोपप्रवर्तकषट्‌संज्ञां प्रति निमित्तत्वानुपपत्तेः ।
अथ तथाऽपि अष्टन् आम् इति स्थिते परत्वान्नित्यत्वाच्च "अष्टन आ विभक्तौ" इत्यात्वे कृते नान्तत्वाभावात् षट्‌संज्ञाऽनुपपत्त्या "षट्‌चतुर्भ्यश्च" इति नुडागमो न स्यादिति तदर्थमेवोपदेशग्रहणमावश्यकमिति चेन्न । यथोद्देशपक्षे अन्तरङ्गतया भिभक्त्युत्पत्तेः प्रागेव षट्‌संज्ञाप्रवृत्तौ तस्या एव स्थानिवद्भावेनाकारान्ते सुलभत्वात् ।
अथ कार्यकालपक्षे नुड्‌विध्येकवाक्यतापन्नायाः षट्‌संज्ञाया अपि विभक्तिसापेक्षतयाऽन्तरङ्गत्वाभावादात्वस्यैव प्रथमं प्रवृत्तेर्दोषतादवस्थ्यम्, यथोद्देशपक्षेऽपि षट्‌संज्ञायां नकारस्योपजीव्यत्वादल्‌विधित्वादतिदेशदौर्लभ्यमिति चेत्, सत्यम् । "अष्टनो दीर्घात्" इति स्वरसूत्रे दीर्घग्रहणेन कृतात्वस्यापि षट्‌संज्ञाज्ञापनात् ।
तथा हि---अष्टन्‌शब्दस्य "त्रः संख्यायाः" इत्याद्युदात्तप्रसङ्गेऽपि घृतादिपाठादन्तोदात्तत्वम् । तस्य अष्टभिरिति मध्योदात्तम्, अष्टाभिरित्यन्तोदात्तं चेति रूपद्वयमिष्टम् । तत्र च "षट्‌त्रिचतुर्भ्यो हलादिः" इति विभक्तेरुदात्तत्वं प्राप्तम्, तद्बाधेत्वा च"झल्युपोत्तमम्" इति मध्योदात्तत्वं प्राप्तम्, षट्‌त्रिचतुर्भ्यः परा या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं भवतीति तस्यार्थः । तद्बाधनार्थम् "अष्टनो दीर्घाद्‌" इति सूत्रम् । दीर्घान्तादष्टनः परा सर्वनामस्थानभिन्ना विभक्तिरुदात्ता स्यादिति तदर्थः । आत्वाभावपक्षे तत्प्रवृत्तिर्मा भूदिति दीर्घपतोपादानम् । यदि त्वात्वपक्षे षट्‌संज्ञा न स्यात्तदा "अष्टनः" इति विभक्त्युदात्तस्य तत्रैव सावकाशतया आत्वाभावपक्षे "झल्युपोत्तमम्" इत्यनेन परत्वादेव विभक्त्युदात्तबाधोपपत्तौ दीर्घादित्यस्य वैयर्थ्यं स्यात् । आत्वपक्षेऽपि षट्‌संज्ञायां तु विभक्त्युदात्तस्य "झल्युपोत्तमम्" इत्येतन्निर्मुक्तविषयाभावाद् येननाप्राप्तिन्यायेन तदपवादत्वादात्वाभावपक्षेऽपि मध्योदात्तबाधः स्यात्, अतो "दीर्घाद्‌" इत्युक्तम् । तथा चाष्टभिरित्यत्र विभक्त्युदात्तस्य प्राप्त्यभावात् "झल्युपोत्तमम्" इति मध्योदात्तसिद्धिः ।
न चाष्टावित्यत्रान्तोदात्तत्वं सावकाशम्, तत्र विभक्तेर्झलादित्वाभावेन मध्योदात्तप्रसक्त्यभावादिति वाच्यम् । "एका देश उदात्तेनोदात्तः" इत्यनेनैव गतार्थत्वात् । अष्टन्‌शब्दोऽन्तोदात्त इत्युक्तत्वात् । "अष्टनः" इति सूत्रे अन्तोदात्तादुत्तरपदादित्यतोऽन्तोदात्तपदानुवृत्तेराकरसंमतत्वात् । एतेन "कदष्टन्नित्यस्याव्ययपूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वात्कदष्टाधिति शसि विभक्त्युदात्तत्वं सावकाशम्" इति शङ्काऽप्यपास्ता । तत्रान्तोदात्तत्वाभावेन "अष्टनः" इति विभक्त्युदात्तस्य प्रवृत्त्यनुपपत्तेः ।
यद्यपि मनोरमादौ "अष्टनो दीर्घाद्‌" इति सूत्रे अन्तोदात्तपदं नानुवर्तते, उत्तरत्र मण्डूकप्लुत्या तदनुवृत्त्युपपत्तेः" इत्यप्युक्तम्, तथाऽपि तदभ्युपेत्यवादमात्रं बोध्यम् ।
एतेन षट्‌संज्ञापेक्षया लाघवात्कृतात्वस्याष्टनः षट्‌स्वरसत्तैव ज्ञाप्यताम्, ज्ञापकस्य स्वरप्रकरणस्थत्वात्, तत्र षट्‌संज्ञाया अनुपस्थितत्वात्, बाधकषट्‌स्वरनिमित्ततया तदुपस्थितौ तु षट्‌स्वरस्यैव प्रथमोपस्थितत्वाच्च । अर्थापत्तेः साक्षादुपपादकविषयताता औत्सर्गिकत्वात्, इत्यपि निरस्तम् । यद्व्यतिरेकेणानुपपत्तिप्रतिसन्धानं तस्यैवार्थापत्त्या कल्प्यत्वात् । तदुक्तम्---
अनियम्यस्य नायुक्तिर्नानियन्तोपपादकः ।
इति । आत्वपक्षे यदि षट्‌संज्ञा न स्यात्तदा दीर्घादिति व्यर्थं स्यात् इत्येवोपपत्तेः । न च यदि षट्‌स्वरो न स्यादित्येवापादकमस्त्विति वाच्यम् । षट्‌संज्ञानिमित्तकस्वराभावस्य षट्‌संज्ञाव्यतिरेकप्रयुक्ततया तस्या एव प्रथमोपस्थितत्वात् । षट्‌स्वराभावस्यापादकत्वे तु तदभावस्यैव साध्यत्वं स्यात् । अन्यथा विपर्ययपर्यवसानात् । आपादकव्यतिरेकसाध्यकप्रमाणएव तर्कस्य सहकारित्वात् । तच्च प्रमाणमनुमानमर्थापत्तिर्वेत्यन्यदेतत् ।
तथा च यदि षट्‌स्वर एव अर्थापत्तिविषयस्तदा "दीर्घाद्‌" इत्यस्य वैयर्थ्यमेव स्यात् । आत्वपक्षे मध्योदात्तरूपस्य षट्‌स्वरस्यानिष्टत्वात् । इष्टत्वे "अष्टनः" इति सकलस्यैव सूत्रस्य वैयर्थ्यापत्तेश्च । तस्मात्षट्‌संज्ञैव ज्ञाप्यते । तन्निबन्धनस्वरप्रसक्तेः "अष्टनः" इतिसूत्रोपयुक्तायास्तत एव निर्वाहात् । नुट्‌प्रवर्तकतया तद्वैयर्थ्याभावाच्चेति सर्वनिर्वाहात् । अत एव "भवत्यात्वे कृते षट्‌संज्ञा" इत्येव भाष्कारैरुक्तम् । अत एव च पूर्वसूत्रे "डटि परे विधीयमाना आगमा डटो निर्वाहकं संख्यात्वं ज्ञापयन्ति" इत्येवोक्तम् । अन्यथा तत्र डट एव ज्ञापनापत्तेः । आकारान्ते षट्‌स्वरसत्ताज्ञापने प्रयोजनाभावाच्च । अष्टाभिरित्यादौ "अष्टनः" इति विभक्त्युदात्तस्यैव प्रवृत्तेः । प्रियाष्टाभिरित्यादौ च गौणत्वात्षट्‌स्वरानुपपत्तेः । "षट्‌त्रिचतुर्भ्यः" इति बहुवचननिर्देशात् । अन्यथा समाहारे द्वन्द्वं कृत्वैकवचनमेव ब्रूयात् । "झल्युपोत्तमम्" इत्यत्राप्यर्थाधिकारेण षडर्थप्राधान्यएव प्रवृत्तेरुचित्वात् । अत एव "चतुरः शसि" इति सूत्रे "षड्‌भ्यः परयोर्जश्शसोर्लोपविधानाद् बहुवचनान्तराणां च हलादित्वनियमात् तदर्थं "षट्‌त्रिचतुर्भ्यः" इतिसूत्रस्थस्य हलादिरित्यस्य नोपयोगः" इत्युक्तं भाष्यकृद्भिः । गौणेऽपि तत्प्रवृत्तौ त्वजादिवचनान्तरव्यावृत्त्यर्थत्वसम्भवात्तदसङ्गत्यापत्तेः । परमाष्टाभिरित्यादावपि षडादिभ्यो विहितत्वाभावादप्रवृत्तेः । "षट्‌त्रिचतुर्भ्यः" इत्यत्र विहितविशेषणस्य हरदत्तेनोक्तत्वात् इत्यादेः स्वयमेवोक्तत्वात् ।
वस्तुतस्तु दीर्घग्रहणेन कृतात्वस्थले षट्‌स्वरसत्ताज्ञापनपक्षे प्रियाष्टाभिरित्यादि प्रयोजनं स्यादेव । एतज्ज्ञाप्यस्वरप्रवृत्तौ षडर्थप्राधान्यादेरनपेक्षितत्वात् । "झल्युपोत्तमम्" इत्यनेन स्वरविधानएव तस्यापेक्षितत्वात् ।
अथ षट्‌संज्ञैवानेन ज्ञाप्यते, ततो "झल्युपोत्तमम्" इत्यनेनैव स्वरप्रवृत्तिराशङ्क्यते इति चेत्तर्हि सिद्धमस्मदिष्टम् । तस्मादुक्तयुक्त्यैव षट्‌स्वरप्रवृत्तिर्न ज्ञाप्यतइति बोध्यम् ।
यत्तु आत्वपक्षे षट्‌स्वरस्येव तदभावे तदभावज्ञापनेनापि "दीर्घाद्‌" इत्यस्य सार्थक्याद्विनिगमनाबिरहादुभयज्ञापनापत्तिरिति, तच्चिन्त्यम् । "स्वरतिसूतिसूयति" इत्यत्र लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्" इत्यस्येव "लुग्विकरणस्यैव ग्रहणम्" इत्यस्यापि ज्ञापनापत्तेः । तेनाप्युभयनिर्देशवैयर्थ्योद्धारात् । इष्ट एवार्थो ज्ञाप्यते इत्यस्याप्युभयसाधारणत्वात् । यत्किञ्चिदर्थज्ञापनेन सर्वज्ञापकानामपि सार्थक्यसम्भवात् । सर्वत्रापि ज्ञापकानां तत्तदर्थविशेषविषयकत्वोच्छेदापत्तेश्च ।
यदप्युक्तम् । "दीर्घाद्‌" इत्यस्य योगविभागार्थतया सार्थक्यम् । तत्र हि दीर्घेति लुप्तपञ्चम्यन्तम् । आदिति प्रथमान्तम् । दीर्घादित्यनुवृत्तस्याष्टनो विशेषणम् । अत एव "दीर्घादष्टनः" इति न सूत्रितम् । आदिति प्रथमान्तन विशेषणविशेष्ययोर्दीर्घाष्टनोर्व्यवधानापत्तेः । "दीर्घाद्‌" इति सूत्रेऽष्टनो ऽनुवृत्तेरसम्भवाच्च । दीर्घान्तादष्टन्‌शब्दात्परस्य असर्वनामस्थानविभक्तेराकार उदात्त इत्यर्थः । इदञ्चाष्टानामित्यत्रान्तोदात्तार्थमिति । तदत्यन्तमसत् ।
इदं हि " अष्टन आ विभक्तौ" इत्यत्र हलीत्यपकर्षपक्षे तदभावे वा । नाद्यः । नान्तत्वसन्निपातकृतस्य नुटस्तद्विघातकमात्वं प्रति निमित्तत्वानुपपत्तेः । न च तस्या अनित्यत्वान्न दोषः । अकृतव्यूहपरिभाषया नुटो दुर्लभत्वात् । भाविना आत्वेन निमित्तस्य विनाशोन्मुखत्वात् । "नोपधायाः" इति दीर्घेण नकारलोपेन च पञ्चानामित्यादिवदष्टानामित्यस्यापि सिद्ध्या संनिपातन्यायाप्रवृत्तिस्वीकारवैयर्थ्याच्चेति तस्य दूष्यत्वात् । एतेनोक्तयोगविभागोऽपि निरस्तः ।
"षट्‌त्रिचतुर्भ्यो हलादिः" इत्यनेनैव विभक्त्याकारस्योदात्तत्वसिद्धेः ।
यत्तु उक्तयोगविभागआदित्यनेन "अष्टन आ विभक्तौ" इत्यात्वस्य ग्रहणम्, प्रतिपदौक्तत्वात्, न तु "नोपाधायाः" इत्यस्य, विलम्बितप्रतीतिकत्वात् । तच्च संनिपातपरिभाषायाः प्रवृत्तौ दुर्लभमिति नात्र सन्निपातपरिभाषायाः प्रवृत्तिरिति, तदसत् । "अष्टनः" इत्यात्वपरत्वानुरोधेन सन्निपातन्यायो बाध्यताम् उत "नोपधायाः" इति दीर्घेऽप्येतत्प्रवृत्त्याऽसिद्धत्वं बाध्यतामित्यत्र विनिगमकाभावात् । न चैवं लक्षणप्रतिपदोक्तपरिभाषाया असिद्धत्वस्य चेत्युभयोर्बाधापत्तिः । त्वन्मतेऽप्यकृतव्यूहसन्निपातपरिभाषयोर्बाधात् ।
यदप्युक्तम् । नलोपस्यासिद्धत्वेनाष्टनो दीर्घान्तत्वाभावात् "नोपधायाः" इति दीर्घपक्षे नोक्तयोगप्रवृत्तिरिति, तदप्यसत् । "नलोपः सुप्स्वर" इत्यादिनियमात् । न चायं स्वरविधिर्भवत्येवेति वाच्यम् । नकारान्तस्य स्वरे विधेयएव तदङ्गीकारात् । पञ्चार्ममित्यादौ तथैव दृष्टत्वात् । कार्यान्तराणामपि तत्राङ्गसम्बन्धित्वात् । अत्र च विभक्त्याकारस्य स्वरविधानेन वैषम्यात् । नापि द्वितीयः । तत्र "नोपधायाः" इति दीर्घस्यैव वाच्यतया प्रतिपदोक्तस्य आत्वस्य दुर्लभत्वात् । स्वेच्छया योगविभागे छान्दसत्वकल्पने बीजाभावात् । असर्वनामस्थानविभक्तिपदयोः प्रथमान्तयोः षष्ठीकल्पनेऽपि प्रमाणाभावात् ।
इदं चाभ्युपेत्योक्तम् । अष्टानामित्यत्र विभक्त्याकारोदात्तस्योक्तरीत्यैव सिद्धत्वादुक्तयोगविभागएव बीजाभावात् । तत्प्रवृत्तिविचारस्य निरवकाशत्वात् ।
यत्तु आम्पराष्टन्‌शब्दे षट्‌स्वराप्रवृत्तिज्ञापनमस्य फलम् । तस्याप्यात्वाभावपक्षेऽन्तोदात्तत्वाभाव इति । तदसत् । अप्रामाणिकफलानुरोधेन कल्पनाऽनुल्लासात् । अन्यथा स्वेच्छया योगविभागं कृत्वाऽनेकेषां फलानां ज्ञापयितुं शक्यत्वात् । तस्मात्कृतात्वस्य षट्‌संज्ञैव ज्ञाप्यते इति सिद्धम् ।
नन्वेवं दीर्घग्रहणेन आत्वविकल्पज्ञापनानुपपत्तिः । उक्तरीत्या चरितार्थत्वात् । मैवम् । स्ववैयर्थ्यप्रयोजकव्यतिरेकप्रतियोगिन एकस्यानेकस्य वा ज्ञाप्यत्वात् । उभ्यज्ञापनं विना दीर्घग्रहणवैयर्थ्यानुद्धारादात्वाभावपक्षे मध्योदात्तबाधो मा भूदित्येतदर्थस्य दीर्घग्रहणस्य आत्वाभावपक्षं विना वैयर्थ्यतादवस्थ्यादिति दिक् ।
यद्वा आकारप्रश्लेषोऽप्यत्र बोध्यः । षकारो नकार आकारश्चान्ते यस्य इत्यर्थः । नन्वेवं द्वाभ्यामित्यादौ "झल्युपोत्तमम्" इत्यस्य द्व्यचि पदे प्रवृत्त्यभावात् "षट्‌त्रिचतुर्भ्यः" इति विभक्त्युदात्तेनान्तोदात्तत्वं स्यात् । न चेष्टापत्तिः । "आ द्वाभ्यां हरिभ्यामिन्द्र याहि" इत्यादावाद्युदात्तस्यैव पठ्यमानत्वात् । मैवम् । नकारस्थानिकस्यैवाकारस्य संज्ञायामुपादानात् । न चात्र प्रमाणाभावः । सनिधानस्यैव तथात्वात् । अत एव घुसंज्ञासूत्रे "नेर्गद" इत्यत्र "घुप्रकृतिमाङ्‌" इति पाठे प्रकृतिपदेन पूर्वोत्तरप्रकृतिपरामर्श इति सिद्धान्तः ।
वस्तुतस्तु "हलो यमां यमि लोपः" इति द्वितीयनकारप्रश्लेषेण नकारस्थानिक आकारोऽत्र व्याख्येयः । उक्तस्वरदोषोपन्यासपरभाष्यं त्वभ्युपेत्यवादमात्रम् । एतेनैकादेशेऽतिप्रसङ्गशङ्कापरग्रन्थोऽपि व्याख्यातः ।
अथवा सप्तमे योगविभागः कर्त्तव्यः । "षड्‌भ्यो लुक्" इत्यत्र "षड्‌भ्यो यदुक्तं तत्कृताकारादष्टनोऽपि भवतीति तदर्थः । तेन नुट् सिद्धः । न च यदुक्तमित्यध्याहारे मानाभावः । भाष्यस्यैव मानत्वात् । न चैवं जश्शसोर्लुगप्यतिदिश्येतेति वाच्यम् । औश्त्वविधानवैयर्थ्यापत्तेः । एतेनानुमानिकवचनकल्पनापेक्षया आकारान्ते षट्‌संज्ञाविरहकल्पनमेव युक्तमिति निरस्तम् । अतिदेशस्य लुग्विषयकत्वं नास्तीत्यस्यैव कल्प्यत्वात् । नान्तत्वावस्थायामेव लुग्वारणार्थं त्वन्मतेऽपि विधिसामर्थ्यस्यावश्याश्रणीयत्वात् । न चाष्टनो यदुक्तं तत्षड्‌भ्योऽपि स्यादिति विपरीतार्थापत्तिः । योगविभागस्येष्टसिद्ध्यर्थत्वनियमात् । अन्यथा योगविभागमात्रोच्छेदापत्तेः ।
यद्वा "अष्टन आ विभक्तौ" इत्यनन्तरं "रायः" इति योगं विभज्य "हलि" इत्युभयशेषतया व्याख्येयम् । तेन हलादावेव विभक्तौ परत आत्वविधानात् नुट एव प्राथम्यम् । न चैवं जश्शसोरात्वं न स्यादिति वाच्यम् । "अष्टाभ्यः" इत्यात्वविशिष्टनिर्देशेन तत्र तदनुमानात् । अन्यथा अष्टा इति अष्ट इति वा ब्रूयात् ।
न चैवं प्रयाष्टौ प्रियाष्टा इत्यत्रानुपपत्तिः । प्रियाष्टानौ प्रियाष्टान इत्यादेरेव साधुत्वादिष्टापत्तेः । यद्भाष्यम्---
यथालक्षणमप्रयुक्ते इति ।
तदत्र मा भूदात्वमित्यर्थ इति कैयटः ।
केचित्तु भवत्येवात्रात्वमिति भाष्यार्थ इत्याहुः, तच्चिन्त्यम् । शङ्काया अपकर्षपक्षविषयकत्वेन तत्रैव समाधानस्य युक्तत्वात् । तत्र च हलादित्वाभावेन आत्वप्राप्तिविरहेण कैयटव्याख्याया एव युक्तत्वात् । तदयं फलितार्थः । प्रथमं तु यथोद्देशाद्दीर्घादाकारतो विभागाभ्याम् अष्टानामितिशब्दे समाधयः पञ्च पर्यवस्यन्ति । अयं चात्र विशेषः ।
औङष्टान्तेष्वाम्‌ङिदोष्षु नात्वं गौणे मतेऽन्तिमे ।
भवत्येव तु तत्रात्वमाद्ये पक्षचतुष्टये ।।
तथा हि---हलादिविभक्तावात्वविधानमिति पक्षे प्रियाष्टा इति बहुव्रीहौ औङमारभ्य टापर्यन्तम् आमि ङेङसिङस्‌ङिषु ओस्‌द्वये च आत्वं न प्राप्नोति । एषामजादित्वात् । न च "ग्रहणवता प्रातिपदिकेन" तदन्तविधिनिषेधादत्रात्वप्रसक्तिरेव नेति वाच्यम् । "पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च" इत्यनेन तत्सत्त्वात् । न च लुङ्‌लुटोरिवात्वस्यापि गौणे न प्रवृत्तिरिति वाच्यम् । तद्विधौ बहुवचननिर्देशादर्थप्राधान्यलाभः, आत्वविधौ तु एकवचननिर्देशान्नेति वैषम्यात् । तदिह कुत्र भाष्यतात्पर्यमिति चेत्, मैवम् । आत्वविधावेकवचननिर्देशात्स्वरूपस्य ग्रहणं नार्थस्य, तेनोपसर्जनेऽप्यष्टनि भवति । "तत्रापि विकल्पितत्वात्प्रियाष्टा पियाष्टानौ प्रियाष्टान इत्यपि भवति" इति वदता हरदत्तेन हलीत्यपकर्षे भाष्यस्य तात्पर्यं नास्तीति स्पष्टमेवोक्तत्वात् ।
यत्तु "अष्टाभ्यः" इति सूत्रे "तदन्तग्रहणात्परमाष्टौ इत्युक्त्वा प्रियाष्टान इत्यत्रात्वस्याभावादौश्‌ न भवतीतिवृत्तिग्रन्थविरोधाद्यथा पुनर्गौणतायामात्वं न भवति । तथा तद्विधावेव वक्ष्यत इति तत्रत्यहरदत्तग्रन्थविरोधाच्चोक्तहरदत्तग्रन्थो न युक्त इति । तच्चिन्त्यम् । वक्ष्यते इत्यत्र वृत्तिकारेणेत्यस्य विवक्षितत्वात् । आत्वाभावप्रयोजकश्च हलीत्यपकर्षस्तत्र स्पष्ट एव । यथाश्रुतवृत्तिग्रन्थस्य चानुपपन्नत्वात् । "अष्टाभ्यः" इत्यर्थप्राधान्यनिर्देशेन बहुव्रीहौ गौणत्वमेवौश्त्वाभावप्रयोजकम्, न त्वात्वाभाव इत्यस्य स्पष्टत्वात् । आत्वाभावस्यौशभावं प्रत्यप्रयोजकत्वात् । ननु तथाऽपि हलीत्यपकर्षे भाष्यतात्पर्यं नास्तीत्यस्य कथं सिद्धिरिति चेत्, उच्यते---
पक्षचतुष्टयविहोधस्यैव तत्र हेतुत्वात् । बहुभिर्गम्यमानस्य तात्पर्यस्यैकेन बाधानुपपत्तेः । जघन्यानामपि भूयसामनुग्राह्यतया समानकक्षाणां सुतरामेव तथात्वात् । न हि चरमोक्तं बलवदित्ययं नियमः । "कर्त्तुः क्यङ्‌" इति सूत्रे "सलोपोऽप्सरस एव पयस्यतइत्येव भवितव्यम्" इत्यस्य पश्चादुपन्यासेऽपि "न त्वयं स्थितः पक्षः" इति कैयटेनोक्तत्वात् । लाघवानुगृहीते प्रमाणतात्पर्यस्य कपिञ्जलाधिकरणादौ व्यवस्थितत्वाच्च । हलीत्यपकर्षपक्षे च सन्निपातपरिभाषादिबाधस्योक्तरीत्या स्पष्टत्वात् । दीर्घग्रहणेन कृतात्वस्य षट्‌संज्ञा ज्ञाप्यते इति पक्षे च तदभावात् ।
यत्त्वाकारान्ते षट्‌संज्ञायां फलाभावः । न च नुडेव फलम् । हलीत्यपकर्षेण नुटः पूर्वमात्वाप्रवृत्तेः । प्रियाष्ट्‌न इत्यर्थं तस्यावश्यकत्वादिति । तदसत् । हलीत्यपकर्षे विप्रतिपद्यमानं प्रति उक्तयुक्तेरुद्भावयितुमशक्यत्वात् । अन्यथा आकारान्तस्य षट्‌संज्ञयैव सिद्धौ "हलि" इत्यपकर्षे फलाभाव इत्यस्याप्यनिवार्यत्वात् । प्रियाष्ट्‌न इत्यस्य आत्वाभावपक्षउपपत्तेः ।
वस्तुतो "हलि" इत्युभयशेषत्वविवक्षायाम् "रायष्टनोरा हलि विभक्तौ" इत्येकमेव सूत्रं कुर्यात् । भाष्यस्याप्येतत्पक्षे निर्भरतायां तथैव न्यासः कार्यत इत्येवावक्ष्यत् ।
यत्तु "रैशब्दश्छान्दसः" इति पक्षे अष्टनोऽपि छन्दस्येवात्वं स्यादिति, तन्न । छान्दसशब्दसहचरितशब्दान्तरस्यापि छन्दस्येव कार्यमित्यत्र मानाभावात् । सम्बुद्धौ नलोपनिषेधस्यापि छन्दस्येवापत्तेः । "क्यजन्त एव रैशब्दः छान्दसः" इति कैयटोक्तेश्च ।
यदपि रैशब्देऽप्यात्वविकल्पापत्तिरिति । तदप्यसत् । विकल्पबोधकपदाभावात् । दीर्घादिग्रहणेन ज्ञाप्यमानस्य त्वात्वविकल्पस्य लिङ्गलिङ्गिनोः सामानाधिकरण्यनियमात् । अष्टन्‌शब्दमात्रविषयकत्वात् । गौरादिषु मातामहशब्दपाठेन "पितां ङीषनित्यः" इति ज्ञापितेऽपि गौरादिङीषस्तथात्वानङ्गीकारात् । एते न "अष्टन आ विभक्तौ" इति सूत्रे "हलि" इत्युपादाने "रायः" इत्यत्र तदनुवृत्तिर्न स्यात् । "योऽचि" इत्यज्ग्रहणेनोत्तरत्र हल्‌पदाननुवृत्तेर्ज्ञापितत्वात् । "युष्मदस्मदोरनादेशे" इत्यात्वस्य हलादिविभक्तिविषयकत्वार्थं तदुपादानादित्यपि निरस्तम् । एकयोगत्वे उक्तदोषानवतारात् ।
वस्तुतो यत्वमुत्सर्गस्तस्य हलादावात्वमपवाद इति तत्रत्यमज्ग्रहणं प्रत्याचक्षाणेन भाष्यकारेण "युष्मदस्मदोः" इत्यत्र हल्पदानुवृत्तिरेव ज्ञाप्यतइति बोध्यम् ।
यदप्याहुः । आत्वाभावपक्षे अल्लोपे ष्टुत्वे च प्रियाष्ट्‌ण इति रूपमिति हरदत्तोक्तिरपि चिन्त्या । पूर्वस्माद्विधावल्लोपस्य स्थानिवद्भावादकारेण व्यवधानात् ष्टुत्वस्य दुर्लभत्वात् । न च "पूर्वत्रआसिद्धीये न स्थानिवत्" इति वाच्यम् । "तस्य दोषः संयोगादिलोपलत्वणत्वेषु" इति निषेधाण्णत्वविधौ तदप्रवृत्तेः । न च तत्र "रषाभ्याम्" इति प्रतिपदोक्तमेव णत्वं गृह्यते, ष्टुत्वविधिलभ्यस्य विलम्बितप्रतीतिकत्वादिति वाच्यम् । मूर्द्धन्यग्रहणानुवृत्त्या तत्रत्यणग्रहणस्य भाष्ये प्रत्याख्यातत्वात् । न चैवं पूष्ण इत्यादावपि णत्वानुपपत्तिः । "अट्‌कुप्वाङ्‌" इत्यनेनैव तत्र णत्वसिद्धेरिति । तच्चिन्त्यम् । णत्वमात्रविश्रान्तविधेयतावच्छेदकताकत्वेन तथाऽपि प्रतिपदोक्तत्वस्य सुलभत्वात् । यस्य विधौ णशब्दोपादानं तस्यैव णत्वस्य प्रतिपदोक्तत्वम् इति णकारप्रत्याख्यानेऽपि सत्त्वाच्च । प्रत्याख्यानाभावविशिष्टोपादानस्याप्रयोजकत्वात् । वचनविशेषपरिचायकत्वमात्रेण तस्योपयोगात् । प्रत्याख्यातानामपि वचनानां ज्ञापकतया भाष्यकारैरुपन्यासात्सत्त्वनियमानपेक्षस्यौपलक्षणत्वस्य सुतरामुपपत्तेः । "निष्ठायां सेटि" इति सूत्रस्य भाष्यकृता प्रत्याख्यातस्यापि तत्रत्यसेटीतिपदस्य पूर्वस्माद्विधौ स्थानिवत्त्वमनित्यमित्येतज्ज्ञापकतायाः सर्वसंमतत्वात् । अपदान्तस्थानिकादेशसाहचर्याच्च । संयोगस्य पदान्तत्वापेक्षायामपि लोपस्य तत्प्रतियोगिनोः सकारककारयोश्चापदान्तत्वात् ।
न च निलयतइति लत्वं पदान्तस्थानिकमपीति वाच्यम् । तत्र स्थानिवद्भावतत्प्रतिषेधयोरप्रवृत्तेः । साहचर्यस्य नियामकत्वमनित्यमित्युक्तौ तु पञ्चमीसमासस्यापि तथात्वमिति तुल्यत्वात् । प्रवृत्तेरौत्सर्गिकत्वमित्यस्याप्युभयसाधारण्यात् । "पूर्वविधौ" इति पञ्चमीसमासस्य "तस्य दोषः" इत्यत्र णत्वग्रहणस्य च भवद्भिरेव निरस्तत्वाच्च । न च "असिद्धं बहिरङ्गमन्तरङ्गे" इत्यल्लोपस्यासिद्धत्वात्तथाऽपि न ष्टुत्वमिति वाच्यम् । यथोद्देशपक्षे तस्याः ष्टुत्वविधावप्रवृत्तेः । ष्टुत्वस्य तां प्रत्यसिद्धत्वात् ।
यत्तु फलैक्याय कार्यकालपक्ष एवेह न्याय्य इति । तन्न । फलैक्यं हि "रषाभ्याम्' इत्यत्र णग्रहणतत्प्रत्याख्यानयोवो । "तस्य दोषः" इत्यत्र णत्वग्रहणतत्प्रत्याख्यानयोर्वा । "अचः परस्मिन्" इत्यत्र पञ्चमीसमासतत्प्रत्याख्यानयोर्वा । नाद्यः । णग्रहणेन लक्षणप्रतिपदोक्तपरिभाषया तदभावेच "तस्य दोषः" इति णत्वप्रत्याख्यानेन ष्टुत्वस्य सुलभत्वात् । न द्वितीयः । णत्वग्रहणे प्रतिपदोक्तपरिभाषया तदभावे च बाधकाभावादेव ष्टुत्वस्य निश्चितत्वात् । न तृतीयः । पञ्चमीसमासपक्षे प्रतिपदोक्तन्यायेन तदभावे च तत एव ष्टुत्वस्य प्रमितत्वात् । तदैक्यसंपादकतया यथोद्देशपक्षस्यैवात्र युक्तत्वात् ।
वस्तुतस्तु "न पदान्त" इति सूत्रे "द्विर्वचनादीनि वरेयलोपस्वरवर्जम्" इति वार्त्तिकभाष्याभ्यां वक्ष्यते । तथा च णकारादिसाधारणधर्मो यत्र विधेयतावच्छेदकस्तस्यापि "तस्य दोषः" इत्यत्र णत्वपदेनोपादाने शिण्ढीत्यादावपि तत्प्रवृत्त्यापत्त्या "पूर्वत्रासिद्धे न स्थानिवत्" इत्यस्य प्रवृत्त्यनुपपत्तौ तदाश्रित्य सवर्णग्रहणप्रत्याख्यानं न स्यात् । "अनुस्वारस्य ययि परसवर्णः" इत्यत्र णकारस्यापि विधेयत्वेन भवद्रीत्या णत्वविधिः स्यात् । तथा च यत्र णत्वावच्छिन्नव्यक्तिमात्रपर्यवसन्नमादेशत्वम्, तदेव णत्वपदेन गृह्यते । तच्च "रषाभ्याम्" इत्यत्र णकारग्रहणे मूर्द्धन्यानुवृत्तौ वा तुल्यमेवेति दिक् ।

इति च 24 ।

डत्यन्ता संख्या षट्‌संज्ञा स्यात् । कति सन्ति । कत्यद्राक्षीः । "षड्‌भ्यः" इति जश्शसोर्लुक् । अत्र भाष्यम्---
"वहुगणवतु संख्या" "डति च" "ष्णान्ता षट्" इति न्यासः कर्तव्यः । यथान्यासे उभयत्र डतिग्रहणेन गौरवात् । "डित च" इत्यत्र संख्येत्यनुवर्त्तते । "ष्णान्ता षट्" इत्यत्र तु संख्या डतीत्युभयम् । न चैवं "पातेर्डतिः" इत्यौणादिकस्यापि संख्याप्रसङ्गे पतय इत्यादौ विभक्तेर्लुक् स्यादिति वाच्यम् । संख्यासाहचर्येण तद्धितस्यैव डतेर्ग्रहणात् । यतान्यासे ऽप्येवमेव वाच्यत्वात् ।

क्तक्तवतू निष्ठा 25 ।
 
एतौ निष्ठासंज्ञौ स्तः । कृतः । कृतवान् । "निष्ठा" इत्युभयोर्विधानम् । विहितयोः संज्ञा, संज्ञया च विधानमित्यन्योन्याश्रयं तत्रैव परिहरिष्यामः । सानुबन्धयोर्ग्रहणं किम् । लोतः गर्त इत्यादेर्मा भूत् ।
स्यादेतत् । अनुबन्धानां कार्यार्थमुपादानम्, न तु प्रयोगसमवायः । तथा चानुबन्धलोपे कृते यत्रावशिष्टभागस्यात्यन्तसारूप्यम्, तत्र तत्प्रयुक्तकार्यव्यवस्था न स्यात् । न च यथा उत्पतितेऽपि काके देवदत्तगृहस्येतरव्यावृत्तिबुद्धिः, तथा ऽत्रापि स्यादिति वाच्यम् । तत्र संस्थानविशेषादेरिवात्रोपलक्ष्यतावच्छेदकस्य रूपान्तरस्याभावात् । व्यावर्त्यवृत्तिधर्मान्तरोपस्थानद्वारा व्यावृत्तधीहेतोरेवोपलक्षणत्वात् । तदुक्तम्---
निष्ठासंज्ञायां समानशब्दप्रतिषेधः इति ।
मैवम् । कालकारकविशेषादयोऽर्था एवात्र संस्थानविशेषादिस्थानीयाः । तद्दर्शनादनुबन्धस्मृतौ सत्यां तत्तदनुबन्धनिबन्धनानां कार्याणां साधुत्वं विज्ञायते । तथा हि---"देवदत्तेन लूनः शालिः" इति प्रयुक्ते लक्षणज्ञस्य कर्मभूतकालावगमात् क्तप्रत्ययोऽयमिति धीरुदेति, "लोतमालभेत" इत्युक्ते तु मेषवाची लोतशब्द इति । "हसिमृग्रिणवाऽमिदमिलूपूधूर्विभ्यस्तन्" इत्युणादिसूत्रात् । अथ "अञ्जिघृसिभ्यः क्तः" इत्युणादौ अक्तं घृतं सितमित्यत्र विहितस्य क्तस्यापि संज्ञा स्यात् । न चेष्टापत्तिः । "निष्ठा च द्व्यजनात्" इत्युदात्तापत्तेः । निष्ठान्तं द्व्यच्‌कं संज्ञायामाद्युदात्तम् न चेदाकार आदिरिति तदर्थः । न चेष्टापत्तिः । घृतं मिमिक्षइत्यादावन्तोदात्तपाठविरोधात् । अत्राहुः---
उणादयः क्वचिद्‌ व्युत्पत्तिकार्यं न लभन्ते ।
"अतः कृकमि" इति सूत्रे कमेः स इति व्युत्पन्नस्य कंशब्दस्य कमेः पृथगुपादानात् । यद्वा "घृतादीनां च" इत्यन्तोदात्तमिति ।।

इति श्रीसिद्धान्तसुधानिधौ प्रथमाध्यायस्य प्रथमे पादे पञ्चममाह्निकम्।।5।।(1.1.5)


************************--------------------------