सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः १/आह्निकम् ४

विकिस्रोतः तः
← आह्निकम् ३ श्रीसिद्धान्तसुधानिधिः
आह्निकम् ४
[[लेखकः :|]]
आह्निकम् ५ →

न धातुलोपआर्द्धधातुके 4 ।
(1.1.4)

धात्ववयवलोपप्रयोजकमार्द्धधातुकं निमित्तीकृत्य प्राप्ते इको गुणवृद्धी न स्तः । लोलुवः पोपुवः मरीमृजः । लोलूयादिभ्यो यङन्तेभ्यः पचाद्यच् । "यङोऽचि च" इति यङो लुक् । तत्र "सनाद्यन्ता धातवः" इति यङन्तस्य धातुसंज्ञतया तदवयवयकारलोपनिमित्तमच्प्रत्ययं निमित्तीकृत्य "सार्वधातुकार्द्धधातुकयोः" इति गुणः प्राप्तः स एतद्वचनेन निषिध्यते । ऐक्यंचात्र निमित्तीभूतव्यक्तेरेव, न तु निमित्ततावच्छेदकस्यापि । अन्यथा धात्ववयवलोपेऽच्‌त्वं गुणे त्वार्द्धधातुकत्वमच्प्रत्ययस्य निमित्ततावच्छेदकमिति निषेधाप्रवृत्तिप्रसङ्गात् ।
इह धातुपदं तदवयवे लाक्षणिकम् । यद्यपि दुः खेन ईयते गम्यते इति "दुरीणो लोपश्च" इति दुः शब्दे उपपदे इण्‌ गतावित्यस्माद्रक्‌प्रत्ययः, धातोश्च लोपः, ततः "रो रि" इति उपसर्गान्त्यरेफलोपे "ढ्रलोपे" इति दीर्घे च दूरमित्यत्र समस्तस्यापि धातोर्लोपोऽस्ति, तथाऽपि तत्र गुणादिप्राप्तिविरहेण तन्निषेधवैयर्थ्यात् । धातुलोप इत्यत्र षष्ठीतत्पुरुषपक्षे त्रयः कल्पाः सम्भवन्ति । आर्द्धधातुकग्रहणस्य लोपविशेषणत्वं निषेध्यविशेषणत्वमुभयविशेषणत्वं वेति । तत्राद्ये आर्द्धधातुकनिमित्ते धात्ववयवस्य लोपे गुणवृद्धी न स्त इत्यर्थः । तत्रान्यनिमित्तयोरपि गुणवृद्ध्योर्निषेधापत्त्या प्रपूर्वादिन्धेः क्तप्रत्यये "अनिदिताम्" इति नलोपस्य क्तप्रत्ययरूपार्द्धधातुकनिमित्तकत्वेन प्र इद्ध इति आद्गुणो न स्यात् । तस्योभयस्थानिकत्वेऽपि इक्‌स्थानिकत्वानपायात् । न चेकइतिशब्दमुच्चार्य विहितत्वाभावान्न निषेधः । उत्तरत्र चशब्दबलात्तथात्वेऽपि इह शब्दस्वरूपपरत्वे मानाभावात् । इक इत्यस्यार्थमात्रपरत्वात् । अन्यथा तु तृतीयपक्षीयमेव दूषणं योज्यम् ।
नन्वत्र "पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण" इतिपक्षे प्रथमोपनतक्तप्रत्ययापेक्षो नलोप एवान्तरङ्गः, पूर्वमुपसर्गेण पश्चात्साधनेनेतिपक्षे तु गुण एव तथा, सर्वथाऽपि गुणो निरपवादः, "असिद्धं बहिरङ्गमन्तरङ्गे" इतिन्यायेन गुणस्यासिद्धतया निषेधानर्हत्वात्, बहिरङ्गतया निषेधस्यासिद्धत्वे गुणस्य निरपवादत्वात्, सत्यम् । नास्त्येवायं प्रकृते दोषः किं तु भेद्यते इत्यादि तृतीयपक्षे वक्ष्यमाणमेव दूषणमत्रापि बोध्यम् इति कैयटानुसारिणः ।
हरदत्तानुयायिनस्तु "नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः" इति निषेधाद् "असिद्धं बहिरङ्गम्" इत्यस्य नेह प्रवृत्तिः । द्वयोर्मध्ये एकत्र अजानन्तर्यापेक्षायाम् "असिद्धम्" इति न प्रवर्त्ततइति तदर्थात् । अत्र च आद्‌गुणे पौर्वापर्यस्य अज्घटितत्वेन अजानन्तर्यापेक्षणात् । अतः प्रेद्धमित्यस्यासिद्धिरप्यत्र दूषणमित्याहुः । इदं च "अचः परस्मिन्" इतिसूत्रे विवेचयिष्यामः ।
आर्द्धधातुकस्य निषेध्यविशेषणत्वे तु यत्किञ्चिन्निमित्तके धातुलोपे सति आर्द्धधातुकनिमित्तके गुणवृद्धी न स्त इति स्यात् । ततश्च क्नूयी शब्दे इत्यस्माण्णिचि पुकि "लोपो व्योः" इति यलोपे च पुगन्तलक्षणो गुणोऽपि न स्यात् । "चेले क्नोपेः" इत्यादिज्ञापकेन निषेधवारणे तु गौरवम्, वक्ष्यमाणदोषश्च । तन्त्रादिनोभयविशेषणत्वे तु तदेव गौरवम् ।
आर्द्धधातुकनिमित्ते धातुलोपे आर्द्धधातुकनिमित्ते गुण वृद्धी न स्त इत्यर्थे कृतेऽपि यत्रार्द्धधातुकसंज्ञं व्यक्तिद्वयं लोपस्य गुणादेश्च निमित्तं तत्रापि निषेधः स्यात् । ततश्च भिदेर्ण्यन्तात्कर्मणि यकि भिद्‌ इ य इति स्थिते नित्यत्वाद् "णेरनिटि" इति यकं निमित्तीकृत्य णिलोपे कृते प्रत्ययलक्षणेन लुप्तं णिचमाश्रित्य क्रियमाणो लघूपधगुणोऽपि न प्रवर्त्तेतेति भेद्यतइति न स्यात् । णेर्यकश्चोभयोरार्द्धधातुकत्वात् ।
न च प्रत्ययमात्रसापेक्षस्य गुणस्य तद्विशेषार्द्धधातुकसापेक्षणिलोपापेक्षयाऽन्तरङ्गत्वात्प्रागेव गुणः स्यादिति वाच्यम् । अकृतव्यूहपरिभाषया तदप्रवृत्तेः । णिलोपस्य जनिष्यमाणतया गुणानिमित्तस्यार्द्धदातुकस्य विनाशोन्मुखत्वात् । "उपसंजातनिमित्तोऽप्युत्सर्ग उपसंजनिष्यमाणनिमित्तेनाप्यपवादेन बाध्यते" इतिन्यायाच्च । णिलोपे सति धात्ववयवलोपसम्पत्त्या एतन्निषेधस्य प्रवर्त्तिष्यमाणत्वात् ।
केचित्तु उक्तन्यायोऽप्यकृतव्यूहन्यायएवान्तर्भूतः । अपवादविषयाभावस्यापि निमित्तकोटिप्रवेशादित्याहुः ।
तस्माद्धातोर्लोपो यस्मिन्नर्द्धधातुके तन्निमित्ते गुणवृद्धी न स्त इत्येवार्थः । लोपगुणाद्योरेकार्द्धधातुकव्यक्तिनिमित्तकत्वलाभादिति सिद्धमिष्टम् ।
अत्र यद्यपि पदोपस्थितेः पूर्ववाक्यार्थत्वेनात्र निषेधप्रतियोग्याकाङ्क्षायां तस्या एवान्वयापत्त्या उक्तस्थले इक्पदं नोपतिष्ठतइति सूत्रार्थः स्यात्, तथा च लोलुवादौ गुणनिषेधो न स्यात्, प्रत्युत भेद्यत इत्यादौ व्यञ्जनस्य गुण एव प्रसज्येत, तथाऽपि "दीधीवेवीटाम्" इतिसूत्रस्य तत्र इक्पदोपस्थितिनिषेधकत्वे इक्परिभाषाऽलोऽन्त्यपरिभाषयोः फले विशेषाभावेन पदोपस्थितिनिषेधस्य वैयर्थ्यापत्त्याऽत्रापि पदोपस्थितेर्न निषेध्यत्वम् । किं त्वौत्सर्गिकतया भवत इत्यस्योपस्थितौ गुणवृद्धी न भवत इति वाक्यार्थः । धातुलोपइति किम् । आर्द्धधातुकएव विहितप्रतिषिद्धत्वादगत्या विकल्पो मा भूत् । आर्द्धधातुकइति किम् । तोतोर्त्ति मोमोर्त्तीत्यादौ सार्वधातुकसंज्ञे तिपि परे "राल्लोपः" इति छ्‌वोर्लोपात्तत्र तिबाश्रयस्य लघूपधगुणस्य निषेधो मा भूत् । रेफात्परयोश्छकारवकारयोर्लोपः स्यात्क्वौ झलादावनुनासिकादौ च प्रत्यये परे इत्यर्थे इदमुदाहरणम् । यदा तु तत्र झलादावनुनासिकादौ च प्रत्यये परे इत्यर्थे इदमुदाहरणम् । यदा तु तत्र झलादावित्यस्य क्ङितीति विशेषणमितिपक्षः, तदा तोतोर्मीत्यादि । तत्रानुनासिकादिप्रत्ययपरत्वेन तत्प्रवृत्तेः । इक इति स्थानिविशेषनिर्देशः किम् । अभाजि रागः इत्यत्र भञ्जिरञ्जिभ्यां चिण्‌घञोः कृतयोः "भञ्जेश्च चिणि" "घञि च भावकरणयोः" इति च नकारलोपे कृते "अत उपधायाः' इति वृद्धिनिषेधो मा भूत् ।
इदन्त्ववधेयम् । यङन्तात्पचतेः पापच्य इत्यस्माद्‌ ण्वुलि "यस्य हलः" इत्यनेन हलः परस्य यस्य लोपविधाने "आदेः परस्य" इतिपरिभाषया परस्य यद्विहितं तत्तस्यादेर्बोध्यमित्यर्थिकया व्यञ्जनमात्रस्य लोपे "अतो लोपः" इत्यकारस्य पृथग्लोपे "अचः परस्मिन्" इति अकारलोपस्य स्थानिवद्भावे धात्वकारस्योपधात्वव्याघाताद् वृद्ध्यभावे पापचक इतिरूपम् । यङ्‌लुकि तु समुदायलोपस्वीकारेण अज्झलादेशस्य स्थानिवत्त्वाभावाद्भवत्येव वृद्धिः पापाचक इति । इग्लक्षणत्वाभावात्प्रकृतनिषेधस्यापि तत्राप्रवृत्तेः । यथा नोनावेत्यत्रेति ।
अत्र भाष्यकृतः---इदं सूत्रं नारभ्यमेव । यङ्‌लुक्यपि पृथगल्लोपं स्वीकृत्य स्थानिवद्भावे अङ्गस्य इगन्तत्वाभावादेव गुणवृद्धिविरहसिद्धेः । न च "यङोऽचि च" इति लुक् येननाप्राप्तिन्यायेन अतोलोपस्य बाधकः स्यादिति वाच्यम् । "यस्य हलः" इत्यत्र यस्येतियोगं विभज्य अतोलोप इति चानुवर्त्त्य यशब्दाकारस्य लोपविधानेन व्यञ्जनमात्रलोपस्य "यङोऽचि च" इत्येतद्विधेयत्वात् । ततश्च अकारस्य लोपः यकारस्य लुगिति विषयभेदेन येननाप्राप्तिन्यायाभावात् । एवं चाल्लोपस्य स्थानिवत्त्वेनैव निर्वाह इति सूत्रं व्यर्थमेव । न चैवं कृष्णो नोनाव वृषभमित्यत्र नोनावेत्यस्य वृद्धिर्न स्यात्, एवं पापाचक इत्यपि न स्यात्, अल्लोपस्य स्थानिवद्भावादिति वाच्यम् । अज्निमित्तकस्यैव लुको व्यञ्जनमात्रप्रतियोगिकत्वस्वीकारात् ।
यस्यु चकाराद्बहुलग्रहणेन अच्‌प्रत्ययव्यतिरेकेणापि यङो लुक् स त्वनैमिकत्वात्प्रत्ययोत्पत्तेः प्रागेव प्रवर्त्तते । प्रत्ययापेक्षप्रवृत्तिकेभ्यो बहिरङ्गेभ्योऽतोलोपादिभ्योऽन्तरङ्गत्वात् । स तु समुदायप्रतियोगिक एव । तस्य च न स्थानिवद्भावः । अज्झलादेशत्वात् । अज्मात्रस्थानिकस्यैवादेशस्य स्थानिवद्भावविधानात् ।
अथैवं गुणवदुवङादयोऽपिन स्युः । अकारस्य स्थानिवत्त्वे अच्‌प्रत्ययस्याव्यवहितपरत्वाभावादिति चेत्, अत्र कैयटादयः---
स्थानिवद्‌भूतमकारमेवाश्रित्य तत्र उवङादयः, न तु पचाद्यचं निमित्तीकृत्या । उक्तयुक्तेः । न च यङवयवस्य केवलाकारस्य प्रत्ययत्वं नास्तीति वाच्यम् । यकारलोपोत्तरं तस्यापि प्रत्ययत्वात् । न च यकारस्थितिकाले अकारस्य प्रत्ययत्वाभावाद्यकारापेक्षया प्रागेव लुप्ततया यकारलोपोत्तरमपि प्रत्ययत्वानन्वयात् कथं तस्य प्रत्ययत्वम्, स्थानिनिष्ठात्यन्ताभावप्रतियोगिनो धर्मस्यातिदेशेनाप्यलाभादिति वाच्यम् । सम्भवमात्रेणाप्यतिदेशस्वीकारात् । यकारलोपोत्तरं यद्यकारस्य लोपो न स्यात्तदा तस्य स्यादेव प्रत्ययत्वमिति योग्यतया लुप्तेऽपि तत्र सम्भावितस्य प्रत्ययत्वस्यातिदेशे बाधकाभावात् ।
वरे निषेधश्चेह लिङ्गम् । यङन्ताद्यातेर्वरचि "अतो लोपः" इति "लोपो व्योर्वलि" इति अल्लोपयलोपयोः कृतयोरल्लोपस्य स्थानिवद्भावेनाकारं निमित्तीकृत्य प्राप्तः "आतो लोप इटि च" इत्याकारलोपो मा भूदित्यतस्तत्र स्थानिवद्भावनिषेधारम्भात् । स्थानिनि दृष्टस्यैवातिदेशे तु अकारस्य स्थानिवद्भावेऽपि प्रत्ययत्वाभावे सुतरामार्द्धधातुकत्वाभावात् वरप्रत्ययस्य चानजादित्वादकारेण व्यवधानाच्च आतोलोपस्यैवाप्रसक्त्या तद्वैयर्थ्यापत्तेः ।
अत्र हरदत्तादयः । ह्रस्वदीर्घान्तेषु इयङुवङोः कृतयोर्लघूपधगुणो दुर्वारः । न चाल्लोपस्य स्थानिवद्भावेन उकारस्योपधात्वव्याघात इति वाच्यम् । उकारस्यानादिष्टादचः पूर्वत्वाभावात् । अल्लोपानन्तरमेवोवङः प्रवृत्तेः । तथा जङ्गम इत्यत्र "गमहन" इत्युपधालोपः स्यात् । यदि त्वनङीति निषेधः, तर्हि दरीदृश इत्यत्र "ऋदृशोऽङि" इति गुणः स्यात् । देद्य इत्यत्र "दीङो युडचि" इति युट् स्यात् । सनीस्रंसो दनीध्वंसः । "अनिदिताम्" इति लोपः स्यात् । याया वावा इत्यादौ "आतो लोप" इत्याकारलोपः स्यात् । तस्मात्समुदायलोपस्वीकारस्यावश्यकतया लोलुवादिसिद्धये सूत्रमारभ्यमिति ।
यत्तु स्थानिद्वारकस्यानादिष्टादचः पूर्वत्वस्य सत्त्वात्स्थानिवद्भावान्न गुणप्रसङ्ग इति, तन्न । स्थानिद्वारा उवङोऽनादिष्टादचः पूर्वत्वेऽप्युकारस्यातथात्वात् । लोलूय इत्यस्यामवस्थायामुकारे दृष्टस्य अकारात्पूर्वत्वस्योवङि सम्भवेऽपि तस्यात्र कस्यचिद्विधेरप्रवर्त्तनीयत्वात् । उकारमात्रस्य त्वादेशत्वपर्याप्त्यनधिकरणतया ऊकारनिष्ठस्यानादिष्टादचः पूर्वत्वस्य तस्मिन्नतिदेशायोगात् ।
यदप्युक्तम्---"सर्वे सर्वपदादेशाः" इतिन्यायेनार्थवत्येव स्थान्यादेशभावविश्रामादुवङ्‌द्वारा लोलू इत्यस्य स्थाने लोलुव्‌ इत्यादेशः, स च स्थानिवद्भावादनादिष्टादचः पूर्वः, तस्य गुणद्वारा लोलोव् इत्यादेशे कर्त्तव्ये अल्लोपः स्थानिवदिति युक्तमेवेति, तदप्यसत् । तथा सति लोलूय इत्यस्य स्थाने यलोपाल्लोपद्वारा लोलू इत्यादेशपर्यवसाने विशिष्टस्यैव स्थानिकोटिप्रवेशाद्‌ अकारापेक्षया स्थानिद्वारकस्यापि पूर्वत्वस्य दुर्लभत्वात् ।
वस्तुतस्तु स्थानिद्वारकमनादिष्टादचः पूर्वत्वमाश्रित्य स्थानिवद्भावो निर्बीज इति तत्रैव वक्ष्यामः ।
यदप्याहुः---"अह्गवृत्ते पुनर्वृत्तावविधिः" इतिपरिभाषया उवङि कृते न गुणप्रवृत्तिरिति, तदप्यसत् । चेक्षियः तोष्टुवः इत्यादेस्तथाऽप्यसिद्धेः । तथा हि "अन्तरङ्गानपि" इतिन्यायेन "अकृत्सार्वधातुकयोः" इति दीर्घं बाधित्वा यङो लुक् । ततोऽल्लोपस्य स्थानिवत्त्वेऽपि चेक्षि अ अ तोष्टु अ अ इति स्थान्यकारमन्त्यं कृत्वा लघूपधमङ्गमच्‌प्रत्ययपरं जातमिति लघूपधगुणः स्यादित्याशङ्क्य अन्तरङ्गत्वेन इयङुवङोः प्रवृत्तिरिति स्वयमप्युक्तम् । यस्मिन्नङ्गकार्ये सत्येवाङ्गकार्यमन्यत् प्राप्नोति तत्र कृते तन्न भवतीति चोक्तपरिभाषाऽर्थः । न चात्र लघूपधगुण उवङि सत्येव प्राप्नोति । पूर्वमपि तत्प्राप्तेः ।
यदपि जङ्गम इत्यत्रोपधालोपो नापादनीयः । अनङीतिपर्युदासेनाङ्‌सदृशे श्रूयमाणाजादौ तद्विधानादिति, तन्न । तत्र प्रसज्यप्रतिषेधस्यैवावश्यकत्वात् । न त्वङीति स्वयमेव व्याख्यातत्वाच्च । अन्यथा श्रूयमाणत्वस्योवानर्थकत्वस्यापि तत्त्वावच्छिन्नप्रतियोगिताकभेदानुयोगितावच्छेदकत्वस्वीकारापत्त्या जग्मेत्यादौ मध्यमपुरुषबहुवचनादावप्युपधालोपानापत्तेः । स्वाभाविकाजादित्वस्यापि तथात्वापत्त्या जग्मुष इत्यादावपि तदनापत्तेश्च । भेदप्रतियोगिवृत्तीनान्तत्प्रतियोगितावच्छेदकातिरिक्तानां धर्माणां मध्ये श्रूयमाणत्वस्यैव भेदानुयोगितावच्छेदकत्वमित्यत्र नियामकाभावात् ।
यदप्युक्तम्---देद्य इत्यत्र "दीङः" इत्यनुबन्धनिर्देशान्न युडागमापत्तिः, तदुक्तम्---
श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद् गणेन च ।
यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्‌लुकि ।।
इति । तदप्यसत् । अत्र यहो लोपप्रतियोगित्वेन निर्देशात् तद्भिन्नस्य कार्यं न भवतीत्यर्थप्रतीतेः । निमित्तकोटिप्रविष्टस्य कार्यानन्वयात् । प्रवेशश्च साक्षादन्यथा वेत्यन्यदेतत् ।
अत एव "सुप्तिङन्तम्" इतिसूत्रे कृत्तद्धितेत्यत्र तदन्तग्रहणाभावे "केवलानामेव कृत्तद्धितानां संज्ञापत्त्या भिदित्यादीनां संज्ञा न स्यात्, अधातुरिति निषेधाद् अर्थवत्सूत्राप्रवृत्तेः । नापि क्विबादीनाम्, अश्रूयमाणत्वात्" इत्यनन्तरं कैयटनोक्तम्---"नापि प्रत्ययलक्षणेन प्राप्नोति, प्रत्ययनिमित्तमन्यस्य यत् कार्यं विधीयते तत् प्रत्ययलोपे भवति, न तु प्रत्ययस्यैव यत् कार्यं तदपि, न ह्यसत् कार्यित्वेन वचनशतेनापि शक्यमाश्रयितुमिति ।
तत्र विधिरत्र निषेध इति परं विशेषः । श्तिपेत्यादिज्ञापकस्यापि यङ्‌भिन्नकार्यविषयकत्वात् । तच्च "एकाचः" इत्येकग्रहणं तत्तदंशे तत्तन्निर्देर्शो वेत्यन्यदेतत् ।
एतेन "दीङः" इत्यनुबन्धनिर्देशो यङ्‌लुङ्गिवृत्त्यर्थ इति तत्रत्यहरदत्तोक्तेरत्रत्यतदुक्तिविरोधोद्भावनमप्यपास्तम् । प्रत्ययान्तरसम्बन्धियुडागमवारणार्थतायास्तत्रोक्तत्वात् । यङवयवमकारमाश्रित्यात्र तदापादनस्याविरुद्धत्वात् ।
नन्वेवमपि यङकारमाश्रित्य युडापत्तिरसङ्गैतव, दीङः परस्याजादेः ङ्कित आर्द्धधातुकस्य युटो विधानादस्यापि यङ्‌कार्यत्वानपायात्, स्वविधौ स्थानिवत्त्वाभावाच्च इति चेत्, सत्यम् भवदीयस्य "श्तिपाशपा" इत्यादिवचनोपन्यासस्याप्यसङ्गतितादवस्थ्यात् ।
मिश्राणां त्वयमाशयः---अल्लोपानन्तरं यलोप इत्यत्र मानाभावः । लुकः सर्वापेक्षया बलवत्त्वमितिस्वीकारात् । अत एव गोमत्प्रिय इत्यादौ "सुपो धातुप्रातिपदिकयोः"इति सोर्लुगेव, न तु हल्‌ङ्यादिलोपः । प्रत्ययलक्षणेन नुमादिप्रसङ्गादिति सिद्धान्तः ।
न च अच्प्रत्ययस्य यङकारेण व्यवधानात्कथं पूर्वं यस्य लुगिति वाच्यम् । निर्देश्यतावच्छेदकयङ्‌त्वावच्छिन्नापेक्षस्या व्यवधानस्य सत्त्वात् । योगविभागसामर्थ्यात्तु यलोपो व्यञ्जनमात्रे पर्यवस्यतीत्यन्यदेतत् । वस्तुगत्या यत्र कार्यविश्रामस्तदपेक्षस्यैवाव्यवधानस्योपादाने तु "क्‌ङिति च" इतिसूत्रस्थकैयटग्रन्थविरोधात् । स्थानिवद्‌भूतेनाकारेण व्यवधानात्पश्चादपि कथमिति तुल्यत्वाच्च । श्रुतिकृतमेवाव्यवधानं वचनप्रामाण्यादाश्रीयतइति चेत्, तर्हि यलोपस्य परिनिमित्तकत्वं कुतो निर्णीतम् । अचीतिसप्तम्याः सतिसप्तमीत्वेनैवोपपत्तेः । अल्लोपस्य तु स्थानिवद्भावार्थं परनिमित्तकत्वस्वीकार इति वैषम्यम् । प्रयोजनं विनाऽपि परसप्तमीत्वस्वीकारे प्रमाणाभावात् । लोलूयतइत्यादावपि यकारलोपापत्तिवारणार्थमचः सत्तामात्रस्वीकारात् ।
न च तथाऽपि निर्दिष्टपरिभाषोपस्थानं दुर्वारमिति वाच्यम् । "श्नान्नलोपः" इतिसूत्रे क्ङितीत्यनुवृत्तिपक्षे हिनस्तीत्यत्र नलोपो न स्यादित्यापत्तेः सतिसप्तम्या भाष्ये समाधानात् । ननु तत् पूर्वपक्षाभिप्रायवर्णनमात्रम्, परत्वाभिमतसप्तमीस्थलेऽपि सप्तम्या भावलक्षणत्वात्, परत्वार्थकसप्तम्या विशिष्य विध्यभावात् "इको यणचि" इत्यादावपि निर्दिष्टपरिभाषाऽनुपस्थानप्रसङ्गात् । सत्यम् । तथाऽपि विषयसप्तमीत्वस्वीकारात् तत्र तदनुपस्थानस्य सिद्धान्तसिद्धत्वात् । तथा च श्रूयमाणतादशायामेव युडापत्तिः ।
न च तदपेक्षया लोपस्यैव पूर्वं प्रवृत्तिरिति वाच्यम् । ङिदुद्देशेन विहितस्य युडागमस्यानवकाशतया बलवत्त्वात् । दीङः परस्याजादेर्ङित आर्द्धधातुकस्यान्यस्य दुर्लभत्वात् । न च ङिदित्यंश उत्तरार्थ एवेति वाच्यम् । सति सम्भवे केवलोत्तरार्थत्वस्य दुर्वचत्वात् । अत एवाकृतव्यूहपरिभाषाया अपि नावतारः । कार्यिणो निनित्तत्वाभावाच्च ।
नन्वेवं चेक्षिय इत्यादौ गुणोऽपि श्रूयमाणतादशायामेवापाद्यताम्, किं स्थानिवद्‌भूतमकारमाश्रित्य तदापादनेनेतिचेत्, सत्यम् । सार्वधातुकेत्यादिगुणस्य "क्ङिति च" इति निषेधात्, लघूपधगुणस्य च तमाश्रित्यापादयितुमशक्यत्वात् । तमादायैव लघूपधत्वसम्पत्तेः । अनयोरन्यत्र चरितार्थतया तत्र लोपस्यैव प्राथम्याच्चेति वैषम्यात् ।
प्रकृतमनुसरामः । यत्तु वदन्ति---"यस्य हलः" इति लोपस्य त्वयाऽप्यवयवमात्रप्रतियोगिकत्वं स्वीकृतम् । तत्र यद्यपि देद्यक इत्यत्र युट्‌ स्यादिति नापादनार्हम्, हलः परत्वाभावेन यलोपानुपपत्त्या देदीयक इति रूपाभ्युपगमात्, सनीस्रसक इत्यादौ नलोपोऽपि सर्वसंमतत्वादेव नापाद्यः, यायायकः, वावायकः, इत्यादावातो लोपोऽपि नापाद्यः । यलोपविरहेणाजादिक्ङिदार्द्धदातुकपरत्वाभावात्, तथाऽपि गमेर्यङन्तात् ण्वुलि जङ्गमक इत्यत्राल्लोपस्य स्थानिवद्भावाद् वृद्ध्यभावो यथा तथा उपधालोपोऽपि स्यात् । अथात्र "अनङि" इति प्रतिषेधः, तर्हि तरीदृशक इत्यत्र "ऋदृशोऽङि" इति गुणः स्यात् ।
अथात्राङ्गवृत्तपरिभाषया "संज्ञापूर्वको विधिरनित्यः" इति वा समाधानम्, तर्हि यङ्‌लुक्यपि सनीस्रस इत्यत्र नलोपो याया वावा इत्यादावातो लोपश्च न शङ्क्यः । समाधानस्य तुल्यत्वादिति ।
तदपि चिन्त्यम् । "यस्य हलः" इति लोपेऽपि सङ्घातप्रतियोगिकत्वस्यैव स्वीकर्तव्यत्वात् । न च हलः परस्य यस्य लोपः स्यादार्द्धधातुके इत्यस्य "आदेः परस्य" इतिपरिभाषया व्यञ्जनमात्रे व्यवस्थापितत्वात् कथं समुदायलोप इति वाच्यम् । येननाप्राप्तिन्यायेन "यङोऽचिच" इति लोपस्यातोलोपापवादत्वात्तवापि तत्र कथमवयवलोप इत्यस्य तुल्यत्वात् । न चोक्तयोगविभागेन निर्वाहः । अत्रापि "अतो लोपः" इत्यस्मादत इत्यनुवर्त्य अकारान्तस्य यस्येतिव्याख्याने विशेषणसामर्थ्याद् "आदेः परस्य" इति न प्रवर्त्ततइति समाधेरुक्तत्वात् । व्यञ्जनाकारयोः समाहारद्वन्द्वं कृत्वा द्वयोर्लोपविधानसामर्थ्यात्तदप्रवृत्तेरपि च सुवचत्वात् । यस्येतिसङ्घातग्रहणमितिवामनग्रन्थदर्शनाच्च । बेभिदिता मरीमृजिता इत्येतत्सूत्रोदाहरणतया प्राचीनलेखनस्वारस्याच्च । प्रकृतनिषेधे इक इत्यनुवृत्त्या पापाचक इत्यत्र "अत उपधायाः" इति वृद्धेर्नायं निषेध इत्युक्तत्वाच्च । यङ्‌लोपस्य सङ्घातप्रतियोगिकत्वं विना तत्रोक्तवृद्धिप्रसङ्गस्य दुरुपपादत्वात् ।
यत्तु यकाराकारसमुदायान्तर्गतस्यैव यकारस्य लोपो न तु अहर्यीद् अमव्यीदित्यादौ केवलस्यापीति वामनवाक्यव्याख्यानम्, तच्चिन्त्यम् । निर्देशे तादृशत्वस्य वारणीयत्वाभिमतेऽपि सत्त्वात् । लोपप्रवृत्तिवेलायां तथात्वस्य संग्राह्येऽप्यभावात् । तन्मतेऽप्यतोलोपस्य प्रागेवोपगमात् ।
हरदत्तीयतथाव्याख्यानस्य च परकीयव्याख्यानानुवादमात्रतया तत्सम्मतत्वाभावात् । अत एव प्रकाशकारैः "यस्य" इति लोपसर्यावयवलोपत्वे यङ्‌लुकोऽवयवलोपपक्षे हरदत्तोक्तदोषानतिदिश्योपसंहृतम् । तस्मात्सूत्रं स्थापयितुं प्रवृत्तैर्लुकीव लोपेऽपि समुदायनिवृत्तिरेवैष्टव्या । उक्तयुक्तीर्वामनवाक्यं चोपष्टभ्य हरदत्तादिग्रन्थोपमर्दार्थमेव प्रवृत्तत्वादिति ।
तेषां ह्ययमभिप्रायः---हरदत्तांशे ग्रन्थोपमर्दो "यस्य " इति लोपस्यावयवलोपत्वे तात्पर्याभाव इति व्याख्यानम्, उभयत्राप्यवयवलोपवादिनां तु दूषणमेवोपमर्द इति ।
एतेन पापाचक इति यङन्ताण्ण्वुलि वृद्धिर्भाष्यविरुद्धेत्यपास्तम् । एतत्सूत्रप्रत्याख्याने भाष्यतात्पर्यविरहे "यस्य" इति संघातलोपे अज्झलादेशस्य स्थानिवत्त्वविरहाद् "अत उपधाया" इति वृद्धेः सुस्थत्वात् । एतन्निषेधस्तु इग्लक्षणत्वाभावान्न प्रवर्त्ततइत्युक्तम् ।
किं च "अचः परस्मिन्‌" इतिसूत्रेऽनाश्रीयमाणायां प्रकृतौ स्थानिवद्राव इति पक्षे नपदान्तसूत्रे द्विर्वचनवरेयलोपानां ग्रहणं कर्त्तव्यमिति भाष्ये वक्ष्यते । आश्रीयमाणायां प्रकृतावितिल पक्षे हि द्विर्वचनेऽनचीतिपर्युदासेन तत्सदृशस्य हल एवाश्रयणम्, न त्वचः । वरे त्वाकारलोपे विधीयमाने प्रकृतिराश्रितैवाचि क्ङितीति, तत् कथं वरेशब्दग्रहणमापाद्यते इत्याशङ्क्य कैयटेनोक्तम्---
यङ एव समुदायस्य प्रत्ययत्वं न तदवयवस्याकारस्येति । अजादौ प्रत्यये परे आकारलोपस्य विधानादत्राप्रसङ्ग एवेति । तथा चात्र कथं तदाश्रय उवङ्‌, कथं वा सम्भावितस्याप्यतिदेश इत्यत्र भाष्यकारादीनां तात्पर्यम् ।
अपि च जङ्गम इत्यादावुपधालोपादीनां ङित्त्वोपजीविनामापादनमुभयेषामप्यनुपपन्नम् । ङकारस्य यङि समुदायानुबन्धत्वात् । अकारमात्रस्य स्थानिवद्भावेऽपि तस्य यङ्‌रूपताया दुर्लभत्वात् । अत एव रमायै इत्यादौ "वृद्धिरेचि" इत्येव वृद्धिर्न तु "आटश्च" इति दीक्षितैरेवोक्तमित्यविहितैर्विभावनीयमिति दिक् ।

क्ङिति च 5 ।

इघ्लक्षणे गुणवृद्धीयं प्रत्ययमाश्रित्यते तस्य गित्त्वे कित्त्वे ङित्त्वेच सति न स्तः । ककारात्पूर्वं चर्त्वेन गकारस्यापि प्रश्लेषात् ।
यत्तु किदादिकं निमित्ततयाऽऽश्रित्य ये प्राप्नुत इति व्याख्यानम्, तच्चिन्त्यम् । निमित्तादिपदान्वयिपदजन्यबोधे प्रकारतया भासमानस्य धर्मस्य निमित्तताद्यवच्छेदकत्वेन प्रतीतिनियमात् । दण्डः कारणमित्यादौ दण्डत्वादेः कारणतावच्छेदकत्वस्य, घटः कार्यमित्यादौ घटत्वादेः कार्यतावच्छेदकत्वस्य च प्रत्ययात् । अन्यथा तादृशशब्दात्कारणत्वाद्यग्रहापत्तेः । ततश्च कित्त्वाद्यवच्छिन्नकारणतानिरूप्यकार्यत्वस्य गुणवृद्ध्योः शब्दविषयत्वे वृत्तेरप्रमाणत्वापत्तेः । तत्र शास्त्रस्यापि तात्पर्ये तु षोडशिग्रहणाग्रहणवद्विकल्पापत्तेरित्यास्तान्तावत् ।
गित् । जिष्णुः । "ग्लाजिस्थश्च" इति ग्स्नुः । कित् । स्तुतः स्तुतवान् । ङित् चिनुतः सुनुतः । "सार्वधातुकमपित्" इति ङित्त्वम् । इग्लक्षणे इति किम् । लैगवायनः । "ओर्गुणः" इति निर्दिष्टस्थानिकत्वात् इक्‌पदानुपस्थित्या फकः कित्त्वेऽपि तन्निमित्तको गुणो यथा स्यात् । अत एव कामयतइत्यत्र कमेर्णिङो ङित्त्वेऽपि तमाश्रित्य "अत उपधायाः" इति वृद्धिर्धात्वकारस्य भवत्येव । आश्रित्येति किम् । छिन्नम् भिन्नम् इत्यादौ लघूपधगुणोऽपि यथा न स्यात् ।
अत्र इक इत्यनुवर्त्तते गुणवृद्धी इति च । तत्र क्ङितीत्यनेन इको विशेषणे क्ङिति परतो य इगित्यर्थे "तस्मिन्निति निर्दिष्टे पूर्वस्य" इतिपरिभाषोपस्थितौ निर्दिष्टशब्दस्याव्यवहितोच्चारितार्थकतया चितम् स्तुतम् इत्यादौ किदाद्यव्यवहितपूर्ववर्त्तिन एव इको गुणनिषेधः स्यात्, न तु भिन्निमित्यादौ । दकारेण व्यवहितत्वात् । तस्मात्क्ङितीति गुणवृद्धिविशेषणमेव । ततश्च नेयं परसप्तमी, क्ङिति परे गुणवृद्ध्योरविहितत्वात्, अन्यथा विकल्पापत्तेः, किं तु निमित्ततामात्रे । तच्च इगन्तेऽव्यवधानेन लघूपधे व्यवधानेनेति यथाप्राप्तं गृह्यते । अनुवादस्य यथाप्राप्तपरत्वनियमात् । निमित्तत्वमपि सार्वधातुकत्वादिना तत्तद्विधौ श्रूयमाणेन धर्मेण । क्ङिदादौ निषेधसामर्थ्याद्विधिवाक्येंषु तदनुल्लेखाच्च । यद्यपि निमित्तत्वं सप्तम्यर्थो विशिष्य नोक्तः, तथाऽपि क्ङिति सति प्राप्ते ये गुणवृद्धी इति सम्बन्धे अर्थात्तत्प्रत्ययस्य निमित्तत्वं पर्यवस्यतीत्याहुः ।
रलो व्युपधाद् इत्यादिना कित्त्वातिदेशश्चात्र मानम् । अन्यथा व्यवधानेन गुणनिषेधा प्रवृत्तौ तदर्थकित्त्वस्य वैयर्थ्यापत्तेः ।
वस्तुतः क्ङितीत्यत्र विशेष्याकाङ्क्षायां पूर्वसूत्रस्थार्द्धधातुकपदेन तिङ्‌शिद्भिन्नत्वे सति धात्वधिकारोक्तप्रत्ययत्वेन रूपेण तत्समर्पणेऽपि विशिष्टस्यात्र विशेष्यत्वस्वीकारे "सार्वधातुकमपित्" इत्यादीनां व्यर्थत्वापत्त्या सत्यन्तम्परित्यज्य धात्वधिकारोक्तप्रत्ययत्वमेव विशेष्यतावच्छेदकम् विशिष्टवाचकपदानां सति बाधके विशेष्यमात्रपरत्वस्य लक्षणां विनैव स्वीकारात् । "श्रोतव्यः श्रुतिवाक्येभ्यः" इत्यत्र श्रुतिशब्दस्य प्रमाणशब्दमात्रपरत्वस्वीकारात् । ततश्च प्रत्ययेनाङ्गस्योपस्थित्या लघूपधस्याङ्गस्याव्यवधानादुभयत्रापि निषेधसिद्धिः । अङ्गापेक्षस्यैवाव्यवधानस्य स्वीकारात् । इदञ्चात्रैव कैयटे स्पष्टम् ।
इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते क्ङित्यचि वा इति पूर्वसूत्रे भाष्यम् । संक्रमो गुणवृद्धिप्रतिषेधहेतुभूतः क्ङित्प्रत्ययः । पूर्वाचार्यसङ्केतात् । अजादौ क्ङिति प्रत्यये परे मृजेर्विकल्पेन वृद्धिर्भवतीति तस्यार्थः । मृजन्ति मार्जन्ति ।
अत्र हरदत्तः---"यस्मिन्विधिस्तदादावल्‌ग्रहणे" इतिपरिभाषयैव सिद्धौ अजादाविति वचनं मुख्याजादिग्रहार्थम् । तेन व्यपदेशिवद्भावेनाजादौ न भवति । यथा यूयं ममृज त्वया ममृजे इति ।
अत्र केचित् । तथाऽपि ममृजेत्यत्र विकल्पो दुर्वारः । "लिटि मध्यमपुरुषबहुवचनस्य थस्य स्थाने विधीयमानोऽकारादेशोऽन्त्यस्य प्राप्नोति । न चैवं विधिवैयर्थ्यम्, थकारोत्तराकारस्य तत्र स्वत एव सत्त्वादिति वाच्यम् । णलादीनां यथासङ्ख्यसम्पादनेन सार्थक्यादित्याशङ्क्य अकारद्वयात्मकोऽयमादेशोऽनेकाल्‌त्वात्सर्वस्य, यद्वा---धातोरित्यधिकाराद्धातोः परस्य थस्याकारविधाने "आदेः परस्य" इति परिभाषया थकारस्यैवाकारः, उभयथाऽपि "अतो गुणे" इति पररूपमिति भाष्ये स्पष्टम् । तस्य स्थानिवद्भावेन मुख्याजादित्वमस्त्येवेति ।
अन्ये त्वाहुः---व्यपदेशिवद्भावनिबन्धनाजातित्वस्येव स्थानिवत्त्वनिबन्धनस्यापि तस्य गौणताया वक्तुं शक्यत्वान्नेदं साधीयः । किं तु अजादाविति न विधिवाक्यशरीरम्, येनोक्तमर्थं ज्ञापयेत् । किं तु "क्ङित्यचि वा" इति तदुत्तरभाष्यपठितमेव । पूर्वभाष्यस्थामजादिपदं तु अचीत्यस्य "यस्मिन्" इतिपरिभाषासिद्धार्थानुवादमात्रम् । अतो न हरदत्तोक्तं युक्तम् । अत एव ममृजेत्यत्र गणपाठादेव वृद्ध्यभाव इति आत्रेयः । धातुवृत्तिष्वपि यूयं ममृज ममार्ज इत्युदाहृतमिति ।
इदं चान्यदवधेयम् । क्ङित्येव विक्लपारम्भात् धात्वंशलोपनिमित्तत्वेन वृद्धिनिषेधहेतावच्‌प्रत्यये नायं विकल्प इत्यत्रोक्तम् । तत्सूत्रप्रत्याख्यानप्रस्तावे तु अतोलोपस्य स्थानिवद्भावमाश्रित्य यथोत्तरं मुनीनां प्रामाण्येन वृद्धिविकल्पो भवत्येवेत्युक्तम्, तच्चिन्त्यम् । सूत्रारम्भपक्षे यथारूपं तथैव तत्प्रत्याख्यानेऽपीति तत्र भाष्याभिप्रायस्यावश्यकत्वात् । तस्य चात्र हरदत्तोक्ताभिप्रायेणैव सिद्धेरिति दिक् ।
नन्वचिनोत् अमार्ट्‌ इत्यादौ स्थानिवद्भावेन तिबादेर्ङित्त्वाद् गुणवृद्धिनिषेधापत्तिः । न चानल्विधाविति तन्निषेधः शङ्क्यः । अनुबन्धकार्येषु तदप्रवृत्तेः । युक्तं चैतत् । अनुबन्धानामित्संज्ञकत्वेन आदेशात्पूर्वमेव लोपेन स्थानिन्यसंनिधानात् । आदेशप्रयोज्यनिवृत्तिप्रतियोगिन एव स्थानित्वात् । लकारानुबन्धनिवृत्त्योश्च भावाभावरूपादेशप्रयोज्यत्वात् । "अनेकान्ता अनुबन्धा" इति पक्षे तु तेषां स्थानिकोटिप्रवेशस्य दूरापास्तत्वात् । ज्ञापकं चात्र "न ल्यपि" इति ईत्वनिषेधः । क्त्वानिष्ठकित्त्वस्य स्थानिवद्भावेन ल्यप्यप्रवृत्तौ कित्त्वाभावादेव ईत्वाप्रसक्त्या तद्वैयर्थ्यापत्तेरिति चेत् अत्र वार्त्तिकं तावत्---
लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेत्, यासुटो ङिद्वयनात्सिद्धमिति ।
अन्यथा लिङ्‌वद्भावप्रयुक्तङित्त्वेन तदादेशानां ङित्त्वे तदवयवस्य यासुटोऽपि तत्त्वात् "यासुट् परस्मैपदेषूदात्तो ङिच्च" इति ङिद्वचनं व्यर्थं स्यात् । न च स्तुयादित्यादौ "उतो वृद्धिर्लुकि हलि" इत्यस्या उत इति निर्दिष्टस्थानिकत्वेनानिग्लक्षणायावृद्धेः, चिनुयुरित्यादौ "क्ङिति च" इतिनिषेधापवादस्य "जुसि च" इति गुणस्य च प्रतिषेधार्थं ङिद्वचनमस्तु, पुनर्ङित्त्वसामर्थ्यं विना स्थानिवत्त्वप्रयुक्तङित्त्वमात्रेण तन्निषेधस्यानुपपत्तेरिति कथं तस्य ज्ञापकत्वमिति वाच्यम् । उत औदित्येव सिद्धे वृद्धिग्रहणेन "संज्ञापूर्वको विधिरनित्यः" इति वृद्धिनिषेधसिद्धेः । "
क्सस्याचि" इतियस्मादचीत्यनुवर्त्त्य अजादौ जुसि गुणविधानात् यासुटि कृते च जुसो हलादित्वसंपत्तेः । यद्वा "मिदेर्गुणो जुसि च" इति संहितापाठे अजुसीति छित्वा अजादावुसि गुणविधानात् ।
यत्त्वेवं चक्रुः जहुः इत्यादावतिप्रसङ्ग इति, तन्न । तस्य अजादित्वव्यभिचाराभावेन विशेषणवैयर्थ्यापत्त्या तत्सामर्थ्येन जुस्येव पर्यवसानात् ।
वस्तुतस्तु अच्चासावुस् चेति न कर्मधारयः । उकारसकारात्मकसमुदाये अजभेदस्य बाधित्वात् । न च अच्‌पदमजादौ लाक्षणिकम् । गौरवात् । न चात्र "यस्मिन्विधिस्तदादावल्ग्रहणे" इति निर्वाहः । यस्मिन्निति सप्तम्यन्तानुकारणेन अलः सप्तम्यन्तत्वएव तत्प्रवृत्तेः । अत्र च विशेष्येणान्वये तद्विभक्त्याऽस्य सप्तम्यन्तत्वे परिभाषाप्रवृत्तिः । तस्यां चाजादिपरत्वेन योग्यतासंपत्त्या विशेष्यान्वय इत्यन्योन्याश्रयात् । एतेन उजुसीतिच्छेदोऽपि निरस्तः । अत एवाचीति सप्तम्यन्तानुवृत्तिपक्ष एव सप्तमे भाष्यकृता सिद्धान्तित इति दिक् ।
न चैवं जुसि गुणे यासुट्‌प्रतिषेध इति तत्रत्यवार्त्तिकवैयर्थ्यम् । उक्तरीतावेव तस्य तात्पर्यस्य तत्रोक्तत्वादिति । न चैवमपि ब्रूतादित्यत्र "ब्रुव ईट्‌" इतीडागमापत्तिः, तातङः स्थानिवत्त्वेन पित्त्वादिति वाच्यम् । "अनित्यमागमशासनम्" इति परिहारात् ।
भाष्यमते तु "सार्वधातुकमपित्" इत्यत्र अपिदिति योगो विभज्यते, ङिदिति चानुवर्त्तते । पर्युदासवृत्तिं नञं च पृथक्‌कृत्य ङित् पिन्न भवतीति आवृत्त्या वाक्यद्वयं कल्प्यते । तथा च ङित्त्वपित्त्वयोः परस्परात्यन्ताभावव्याप्यत्वलाभे अर्थादौपदेशिकेनातिदेशिकस्य बाधः फलति । तेन ब्रूतादित्यत्र इण्न । तातङ औपदेशिकेन ङित्त्वेनातिदेशिकस्य वित्त्वस्य बाधात् । अचिनोदित्यादौ तु पित्त्वस्यौपदेशिकत्वाद्वैपरीत्यमिति गुणदिसिद्धिः । अत्र यासुटो ङिद्वचनं लिङाश्रयातिदेशिकङित्त्वस्य तिबाद्याश्रयपित्त्वेन बाधिततया पुनर्ङित्त्वस्य विधायकमेव । ततश्चोभयोरप्यौपदेशिकत्वे सावकाशनिरवकाशन्यायेन चिनोतीत्यादौ सावकाशस्य पित्त्वस्यानवकाशेन ङित्त्वेन बाधः । प्रायणीयादिभिन्नाग्नीषोमीयप्राचीनपदार्थविषये सावकाशस्य यत्किञ्चित्प्राचीनमग्नीषोमयीत्तेनोषांशु चरन्तीत्यस्येव निरवकाशैर्यावत्या वाचा कामयीत तावत्या दीक्षणीयायामनुब्रूयान्मन्द्रम् प्रायणीयायां मन्द्रतरमातिथ्यायामुपांशूपस्त्सूच्चैरग्नीषोमीये इत्येतैः । अतः स्तुयादित्यत्र पिति हलि विहिता वृद्धिर्न । चिनुयुरित्यत्र तूक्त एव समाधिः ।
नन्वेवं भविषीष्टेत्यत्र ङित्त्वं स्यात् । आतिदेशिकङित्त्वबाधकाभावात् । एवं करिष्यमाणेत्यत्र लृडादेशस्य शानचोऽतिदेशेन उगित्त्वाट्टित्त्वाच्च ङीबापत्तिः, इति चेत् अत्राहुः---"हलः श्नः" इत्यत्र शानचः शित्त्वेन क्वचिदनुबन्धकार्येऽप्यनल्विधावितिनिषेधप्रवृत्तिर्ज्ञाप्यते । अतो नोक्तदोषः । एवं च ब्रूतादित्यत्र वार्त्तिकमतेऽपि न ईडागमापत्तिरिति ।

दीधीवेवीटाम् 6 ।

दीधीवेष्योरिटश्च गुणवृद्धी न स्तः । आदीध्यनम् आदीध्यकः आवेव्यनम् आवेव्यकः अकणिषम् अरणिषम् कणिता श्वः रणिता श्वः अङ्गसंज्ञायां तदादिग्रहणेन मिबादेशममं प्रति सिजन्तमङ्गं तिबादेशं डाशब्दं प्रति च कणित् इत्यङ्गम् । तत्रोक्तादेशद्वयसार्वधातुकं निमित्तीकृत्य प्रसक्तस्य लघूपधगुणस्यायं निषेधः । तृजन्तादौ इटः प्रत्ययावयवत्वेन तदुत्तरप्रत्ययान्तराभावादङ्गानन्तर्गतत्वेन च गुणाप्रसक्त्या लुडन्तत्वाद्योतनाय श्व इत्युक्तम् । डादेशं प्रति तास्यन्तस्याङ्गतया तास्यवयवस्य इटो गुणप्रसिक्तिसंभवात् ।
न च दीङ्‌ क्षये धीङ्‌ अनादरे वेञ्‌ तन्तुसन्ताने वी गत्यादिषु एषामेव ग्रहणं स्यादिति वाच्यम् । "अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी" इतिन्यायात् । तन्मात्रतात्पर्यग्राहकानुपूर्व्यन्तरपरित्यागसामर्थ्याच्च । इट्‌ चागम एव । न तु इट गताविति धातुः । कृत्वोऽर्थग्रहणेन साहचर्यस्य नियामकत्वनियमभ्गस्य ज्ञापितत्वात् ।
अत्र वदन्ति । दीध्यको वेव्यक इति शुद्धयोरेव दीधीवेव्यो रूपम्, न तु ण्यन्तयोः । आदीधकः आवेवकः इत्येव रूपयोस्तत्र स्वीकारात् ।
यत्तु हरदत्तेनोक्तम्---वर्णग्रहणसामर्थ्यात् श्रूयमाणएव इवर्णे लोपो न लुप्ते, तेन ण्यन्ताभ्यां ण्वुलि णिलोपस्य पूर्वविधौ स्थानिवत्त्वेऽपि श्रूयमाणत्वाभावाल्लोपाभावे यणि कृते दीध्यको वेव्यक इति शुद्धसमानाकारकमेव रूपमिति, तच्चिन्त्यम् । "नाग्लोपि" इतिसूत्रगतभाष्यविरोधात् । तत्र वर्णग्रहण लुप्तेऽपीवर्णे यथा स्यादित्येवमर्थमित्याशङ्क्य स्थानिवद्भावेन सिद्धेरन्तरङ्गत्वाण्णिलोपात्प्राग् "यीवर्णयोः" इति लोपसिद्धेश्च वर्णग्रहणस्य प्रत्याख्यातत्वात् । भाष्यकारानुरोधेन च साधुत्वस्वीकारादिति ।
भाष्यवार्त्तिकयोस्त्वेतत्सूत्रं प्रत्याख्यातम् । दीधीवेव्योश्छान्दसत्वेन लोके प्रयोगानर्हत्वात् । छन्दसि च गुणदर्शनात् । तथा च---प्रजापतिर्वै मनसा यत्किञ्चिन्नादीधेत्, हौत्राय वृतः कृपयन्नदीधेत्, अदीधयुर्दासराज्ञे वृतास इत्यादि । छान्दसत्त्वेनैतत्समाधानापेक्षया च क्वचिच्छ्‌रूयमाणगुणाभावस्यैव तेन साधयितुं युक्तत्वात् ।
इटोऽपि ग्रहणं व्यर्थम् । इड्विधौ "नेडशि कृति" इतिसूत्रादिड्‌ग्रहणमनुवर्त्त्य एकस्य इट्‌पदस्य विकाराभाववत्परत्वेन इट्‌ विकाराभाववानेवेति व्याख्यानेन गुणाभावस्य सिद्धत्वात् ।
न चैवं पिपठीरित्यादौ "र्वोरुपधाया दीर्घ इकः" इति दीर्घोऽपि न स्यादिति वाच्यम् । तस्य नियमं प्रत्यसिद्धत्वात् । यद्वा नियमस्याङ्गाधिकारीयत्वात्तत्रत्यस्यैव विकारस्य नियमेन व्यावृत्तिरित्युक्तदीर्घद्वयं निर्बाधमिति भाष्यकृतः ।
अपाठीदित्यत्रापि "सिज्लोप एकादेशे सिद्धो वक्तव्यः" इति ज्ञापकात्सवर्णदीर्घः । न च "ग्रहो लिटि" इत्यस्याप्याङ्गत्वान्निषेधापत्तिः । आरम्भसामर्थ्यादिति कैयटादयः ।
वस्तुतस्तु विकारपदस्य इकारवृत्तिभेदप्रतियोगितावच्छेदकजातिमत्परतया तादृशविकारस्य एकारादिरूपस्यैव निषेधो न तु दीर्घस्य । इत्वावच्छिन्नत्वात्तस्यापीति रहस्यम् ।
स्यादेतत् । पिपठींषि ब्राह्मणकुलानीत्यत्र "सान्त महतः संयोगस्य" इति दीर्घो न स्यात् । सिद्धत्वात्, आङ्गत्वात्, अन्यत्र चरितार्थत्वाद्, वैजात्यानवच्छिन्नत्वाच्चेति ।
अत्राहुः---असाधुरेवोक्तप्रयोगः । अतोलोपस्य स्थानिवद्भावेन झलन्तत्वाभावात्तल्लक्षणस्य नुमो दुर्लभत्वात् । न च तर्ह्यजन्तत्वादेव नुम् स्यादिति वाच्यम् । अजन्तत्वप्रयुक्तस्य नुमः सकारोत्तरमेव प्रसक्तेः । सान्तसंयोगाभावेन तस्य स्थानिवत्त्वासम्भवात् । पिपठिष इत्यजन्तस्य लोपपूर्वदशायामकारापेक्षया पूर्वत्वाभावात् । न ह्यकारविशिष्टस्याकारात्पूर्वत्वम् । बाधात् ।
न च "क्कौ लुप्तं न स्थानिवद्‌" इतिअतोलोपस्य स्थानिवत्त्वाभावाज्झलन्तलक्षणो नुम् स्यादेवेति वाच्यम् । क्कौ विधिं प्रति न स्थानिवदित्यस्यैवार्थस्य व्यवस्थितत्वात् । लवमाचक्षाण इत्यर्थे तत्करोतीति ण्यन्तात् लवशब्दात् क्विपि "णेरनिटि" इति णिलोपे कृते वकारस्य ऊठि कर्त्तव्ये णिनिमित्तकस्यातोलोपस्य स्थानिवद्भावो मा भूदित्यर्थकत्वात् । सुखीयतिसुतीयतिभ्यां क्विपि अल्लोपयलोपयोः कृतयोः अल्लोपस्य स्थानिवत्त्वेन यणादेशो मा भूदित्येतदर्थं क्वौ लुप्तमित्यस्याश्रयणेऽपि तस्यासार्वत्रिकत्वात् इति नपदान्तसूत्रे वक्ष्यमाणत्वात् । प्रकृते च नुमः क्विम्निमित्तकत्वाभावेन क्वौ विधिमित्यस्याप्रवृत्तेः ।

हलोऽनन्तराः संयोगः 7 ।

अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः । प्रदेशाः "संयोगान्तस्य लोपः" इत्यादयः । हलः किम् । तितउपदे संयोगान्तलोपो मा भूत् । न च "तनोतेर्डउः सन्वच्च" इत्यत्र उकारोच्चारणसामर्थ्यादेव तदभावसिद्धिरिति वाच्यम् । भसंज्ञास्थले संयोगान्तलोपप्रसक्त्यभावेन तत्र तत्सार्थक्यात् ।
ननु अन्तरशब्देन सहायं बहुव्रीहिरन्तराशब्देन वा । आद्ये अन्तरशब्दस्याधेयवाचितया हलपेक्षया विजातीयवर्णशून्यस्य संज्ञायामवग्रहेऽपि संयोगसंज्ञासिद्धिः । तत्र हि मतद्वयम् । मात्राकालव्यवधानेन वर्णान्तरमुच्चार्यते इत्येकम्, अर्द्धमात्राकालव्यवधानेनेत्यपरम्, उभयथाऽपि कालव्यवधानेऽपि वर्णान्तरव्यवधानाभावात् । द्वितीये तु आधारस्य कालस्यापि व्यवधाननिषेधात् अवग्रहे संयोगसंज्ञा न स्यात्, हलुच्चारणसमयध्वंसाधिकरणसमयध्वंसानधिकरणसमयवृत्त्युच्चारणप्रतियोगित्वस्य अज्‌व्यवधाने इव कालव्यवधानेऽपि विरहात् इति विशेषसत्त्वादिति चेत्---
अत्र भाष्यकाराः नैव दोषो नैव प्रयोजनमिति । पक्षद्वयमप्यदो तपमिति तस्यार्थः । न चाप्सु इत्यादौ संयोगसत्त्वे गुरुत्वाद् "गुरोरनृतः" इति प्लुतो न त्वन्यथेति कथमुभयाभाव इति वाच्यम् । अधिकरणवृत्तेः तस्य दूरद्धूतसंबन्धाभावात् । विचार्यमाणाना मित्यादौ तु वाक्यस्य टेरेव प्लुतविधानेन गुरुसंज्ञाया अनपेक्षितत्वात् । न चाप्सु भवोऽप्सव्यः दिगादित्वाद्यत् "अपो योनियन्मतुषु" इति सप्तम्या अलुक्, तत्संबुद्धौ दूराद्धूतसंबन्धात्फलभेदापत्तिरिति वाच्यम् । एवंविधे विषये अवग्रहस्य पदकारैरकरणात्तथैव संप्रदायात् । न चासु योनिर्वाऽश्व इत्यत्र विशेषः स्यादिति वाच्यम् । समासपदानामन्तोऽवगृह्यतइति पदकारसंप्रदायात्तत्रापि सुशब्दात्पूर्वमवग्रहाभावादिति कैयटादयः ।
इयं च संज्ञा समुदायस्य, नावयवमात्रस्य, संयुज्यन्तेऽस्मिन्समुदाये वर्णा इत्यन्वर्थसंज्ञाविज्ञानात् । अन्यथा निर्यायादित्यादौ रेफयकारयोः प्रत्येकं संयोगसंज्ञायां यकारस्यापि संयोगादित्वाद् "वाऽन्यस्य संयोगादेः" इत्येत्वं स्यात्, ग्लेयादित्यादिवत् । न च सिद्धान्तेऽपि "अचो रहाभ्याम्" इति द्वित्वेन यकारद्वयसम्पत्त्या स्यादेवोक्तदोष इति वाच्यम् । तस्यासिद्धत्वेन संयोगसंज्ञाया अनिष्पत्तेः ।
किं च प्रत्येकसंज्ञापक्षे संहृषीष्टेत्यत्र "ऋतश्च संयोगादेः" इति इट्‌, संह्रियतइत्यत्र "गुणोऽर्त्तिसंयोगाद्योः " इति गुणश्च स्यात् । चरमवर्णस्य संयोगतया ऋकारेकारयोः संयोगादित्वसंम्पत्तेः । दृषत्करोतीत्यत्र ककारस्य संयोगान्तस्य लोपः स्यात् । दकारस्य संयोगत्वे तदन्तत्वस्य सत्त्वात् । शक्ता वस्ता इत्यत्र "स्कोः" इति संयोगाद्योः सकारककारयोर्लोपः स्यात् । तकारस्य झलः परतः सत्त्वात् । निर्यातः इत्यादौ "संयोगादेरातो धातोर्यण्वतः " इति निष्ठानत्वं च स्यात् ।
यदि तु "वाऽन्यस्य संयोगादेः " इत्यत्र संयोगादित्येतावतैक संयोगात्परो य आकारस्तदन्तस्याङ्गस्य एत्वमित्यर्थलाभादादिग्रहणसामर्थ्यादभेदैकत्वसंख्यैव वृत्तौ भासतइति नियमं तिरस्कृत्यं संयोगावादी स्येत्युपसर्जनार्थस्यापि द्वित्वावगतिरिति संयोगद्वयादेरेव एत्वमिति सूत्रार्थान्निर्यायादित्यत्र नातिव्याप्तिः । एवम् "ऋतश्च संयोगादेः" "गुणोऽर्तिसंयोगाद्योः" इत्यत्रापि व्याख्येयम् । "संयोगान्तस्य" इत्यत्रापि पूर्वन्यायेन संयोगद्वयान्तस्य लोपविधानान्न दृषत्करोतीत्यत्र दोषापत्तिः । "स्कोः संयोगाद्योः" इत्यत्रापि सकारककारगतद्वित्वापेक्षया संयोगयोरित्येव सिद्धे आदिग्रहणबलाद् झलि परतो यः संयोगः पदान्ते च यः संयोगः तस्यादिः समीपो यः ककारः सकारश्च तयोर्लोपविधानम् । तेन शक्ता वस्ता इत्यत्र नातिप्रसङ्गः । "संयोगादेरातः" इत्यत्रापि संयोगादात इत्येव संयोगात्परो य आकारस्तदन्ताद्धातोः परस्य निष्ठातकारस्य नत्वमित्यर्थेन सिद्धे आदिग्रहणवशात्संयोगद्वयादिलाभान्निर्यात इत्यत्र नोक्तदोष इति कल्प्यते । तथाऽपि प्रतिपत्तिगौरवम्, प्रत्येकं संयोगसंज्ञायाः क्वचिदप्यनुपयोगे तत्स्वीकारवैयर्थ्यं चेत्यवधेयम् ।
हल इति बहुत्वं चाविवक्षितम् । अन्यथा शिक्षेत्यादौ "गुरोश्च हलः" इत्यप्रत्ययानुपपत्तेः । न चैवमजव्यवहितस्यैकस्यापि संयोगसंज्ञापत्तिः । अवयवार्थानुरोधेन द्वयोरवश्यमपेक्षितत्वात् । यत्र तु बहूनां हलामव्यवधानं तत्राविशेषेण द्वयोर्बहूनां च संज्ञा ।
न चैकाज्दिर्वचनन्यायः समुदायकार्येणावयवानां कार्यसंपत्तेरेव तद्ब्रीजत्वात् । निज् इत्यस्य द्विरुक्तौ तदन्तर्गतानां सर्वेषामेकाचां द्विर्वचननिर्वाहात् । इह च बहूनां संज्ञय द्वयोस्तत्कार्यासिद्धिरिति वैषम्यात् । तथा हि । संस्वर्यतइत्यत्र "गुणोऽर्ति" इति न स्यात् । गोमान्करोतीत्यत्र गोमान् त् स् करोति इति स्थिते तकारस्य संयोगान्तलोपो न स्यात् । मङ्क्तेत्यत्र "मस्जिनशोर्झलि" इति नुमागमे मन् स् ज् इति स्थिते सकारस्य संयोगादित्वाभावात् "स्कोः" इति लोपो न स्यात् । निर्ग्लेयादित्यादौ रेफघटितसंयोगस्याङ्गादित्वाभावात् अङ्गादेश्च गकारलकारसमुदायस्य संयोगसंज्ञत्वाभावादेत्वं न स्यात् । एवं निर्ग्लान इत्यत्र नत्वं न स्यात् ।
अथैवम् इन्दिद्रीयिषतीति न सिध्यति । तथा हि---तत्र नकारदकारघटित एकः दकाररेफघटितश्चान्य इति द्वौ संयोगौ उक्तरीत्या च नकारस्येव दकारस्यापि संयोगादित्वाद् "नन्द्राः संयोगादयः" इति द्वित्वनिषेधे रीशब्दस्यैव द्वित्वे इन्द्रिरीयिषतीति रूपं स्यादिति चेत्, सत्यम् । तत्र हि कर्मधारयोत्तरपञ्चम्यन्तमजादेरितिपदम् "अजादेर्द्वितीयस्य" इति सूत्रादनुवर्त्तते । आदिभूतादचः परे संयोगादयो नदरा द्विर्नोच्यन्तइति सूत्रार्थः । ततश्च दकारस्य संयोगादित्वेऽप्यादिभूतादचः परत्वाभावान्निषेधाप्रवृत्तौ द्रीशब्दस्य द्वित्वे हलादिः शेषेऽभ्यासस्य ह्रस्वे च सिद्धमिष्टम् । एवं च आदेरचः परस्यैकाचो द्वितीयत्वव्याप्यत्वात्तत्सूत्रे द्वितीयपदं नोपादेयमेवेति निष्कर्षः ।

मुखनासिकावचनोऽनुनासिकः 8 ।

मुखयुतनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । अभ्र आँ अपः । "आङोऽनुनासिकश्चन्दसि" इति आ इत्यस्यानुनासिकः । प्राण्यङ्गत्वेन समाहारद्वन्द्वे क्लीबत्वेन नासिकवचन इत्यापत्तिवारणाय मध्यमपदलोपिसमासाश्रयणम् । निपातनाद्यथाश्रुतस्य साधुत्वे तु मुखनासिकवचन इत्यसाधु । "अबाधकान्यपि निपातनानि' इति पक्षे तु तदपि साधु ।
यद्वा---मुखनासिकपदं कृत्वा ईषदर्थकनञ्समासव्युत्पन्नेन तादृशाङ्‌पूर्वेण वा वचनपदेन समासः । भागस्य मुखेन भागस्य नासिकया चोच्चारणादीषत्त्वम् । इदं च पूर्वपरयोर्भागयोर्मध्ये एको भागो मुखेनोच्चार्यते द्वितीयस्तु नासिकया । तत्र नासिकावचनभागोपरागवशान्मुखवचनभागस्यापि नासिकावचनवद्भानम् । यथा सँय्यन्तेत्यादौ अनुनासिकयकाराद्युपरागादकारस्याप्यनुनासिकत्वेन प्रतीतिरिति मतमाश्रित्योक्तम् ।
यदा तु मुखस्य नासिकायाश्चान्तरालवर्त्तिस्थानान्तरमेवैतदुच्चारणे निमित्तम्, तदा मुखोपसंहिता नासिकेति समासः । पदद्वयस्य स्वार्थान्तरालदेशे लक्षणात् । अर्द्धमन्तर्वेदि मिनोत्यर्द्धँ बहिर्वेदीत्यस्येव तदन्तराले । तत्राद्यपक्षे प्रासादवासिन्यायः । यथा प्रासादवासिनस्तद्ग्रहणेन भूमिवासिनस्तद्ग्रहणेन केवलं गृह्यन्ते । उभयवासिनस्तु प्रासादबासिग्रहणेन भूमिवासिग्रहणेन च गृह्यन्ते । ग्राहकतावच्छेदकधर्मद्वयावच्छिन्नत्वात् । उत्तरमतद्वये तु न तदवतार इति स्पष्टमेव ।
अथ पदसंस्कारपक्षे वचनपदं करणल्युडन्तम् । उच्यतेऽनेनेति व्युत्पाद्य पश्चान्मुखनासिकापदेन सम्बध्यते । अन्तरङ्गत्वात्प्रवृत्तश्च पदसंस्कारो बहिरङ्गेण पदान्तरान्वयदशायां प्रतीयमानेन स्त्रीत्वेन न बाध्यतइति ङीप्प्रत्ययो न भवति । प्रथममेव स्त्रीत्वविवक्षायां तु मुखनासिकावचनीक इत्यपि निर्बाधम् । एवं च मुखनासिका वचनं यस्य मुखनासिकमवचनं यस्येति वा बहुव्रीहिरिति भाष्यमतम् ।
केचित्तु राजभोजनाः शालय इतिवत् कर्मणि ल्युप्रत्ययं बाहुलकात् स्वीकृत्य कर्मषष्ठ्या समास इत्याहुः ।
अत्र मुखग्रहणं किम् यमानुस्वाराणामेव मा भूदिति भाष्यम् । अस्यार्थः---मध्यमदर्शने नासिकावचनपदेन उभयस्थानको वर्णो न गृह्येत, किं तु यमानुस्वारा एव । तेषां मतविशेषे एव केवलनासिकास्थानत्वात् । तथा च तैत्तिरीयप्रातिशाख्यम्---"नासिक्या नासिकास्थाना मुखनासिक्या वा" इति । तथा च "आङोऽनुनासिकः" इत्यादौ विधिस्थले तएव विधीयेरन् । "विड्‌वनोरनुनासिकस्याद्‌" इत्याद्यनुवादस्थले तु अनुवादस्य यथाप्राप्तविषयकत्वनियमात् यमानुस्वारपरस्य च विडादिप्रत्ययस्यासिद्धेरप्रतिपत्तिरेव स्यात् । अतस्तद्दर्शने मुखपदं सार्थकम् ।
आद्यमते तु नासिकावचनपदेनैव प्रासादवासिन्यायेन मुखवचनानामपि ग्रहणसभवात्तद्व्यर्थमेव । न च यमानुस्वारानादायातिप्रसङ्गः । अनुवादे यमानुस्वाराणामसंभवात्, विधौ च स्थानिनो मुखनासिकावचनत्वात् तदन्तरतमत्वेन मुखनासिकावचनस्यैवादेशत्वात्केवलनासिकावचनानां यमादीनामान्तरतम्याभावादेवातिप्रसङ्गभङ्गात् । तदुक्तं भाष्यकृता---
नैव दोषो नैव प्रयोजनम् इति ।
तथा च तेषामपि संज्ञाविधाने दोषाभावात् मुखपदं न देयमेवेति स्थितम् । नासिकापदत्यागे तु कचटतपानामपि स्यात् । ततश्च शक्त इत्यत्र ककारस्य पक्व इत्यत्र चकारस्य तप्तमित्यत्र पकारस्य च लोपः स्यात् । ओदनपगित्यादौ "अनुनासिकस्य क्विझलोः" इति दीर्घश्च स्यात् ।
अत्र वदन्ति । वर्गेष्वादितश्चतुर्णां पञ्चमे परे मध्ये पूर्ववर्णसमानाकारं वर्णान्तरं प्रातिशाख्ये स्वागमत्वेन विहितं यमसंज्ञम् । यमलजातयोः प्रायेण सारूप्यदर्शनाद्यम इव यम इति गौण्येयं संज्ञा । यथा पिलिक्‌क्नी चख्‌व्नतुः अग्‌ग्निः अघ्‌घ्नन् इत्यत्र कखगघेभ्यः परभागे तत्तत्सदृशोऽयमागमः ।
इयन्तु यमोत्पत्तिरखण्डपदे एवेति तु प्रमाणाभावादुपेक्ष्यम् । परभागे इति मूलग्रन्थेन पूर्वावयवत्वस्यैव लाभात् । अत एव छान्दोग्यलक्षणप्रणेतुरौदव्रजिसंज्ञस्याचार्यस्य सूत्रम् "अनन्त्यान्त्यसंयोगे मध्ये यमः पूर्वस्य गुणः" इति । अनन्त्या आद्याश्चत्वारः । अन्त्या ङकारादयः । गुणः पूर्वस्य भक्तः, तदवयव इति यावत् ।
यत्तु विवरणकारैरुक्तम्---वर्गपञ्चमयुक्ताः प्रथमादयो यमा इति, तच्चिन्त्यम् । अयोगवाहत्वप्रतिपादकहयवरट्‌सूत्रीयभाष्यविरोधात् । केवलनासिकास्थानत्वपरोक्तभाष्यविरोधाच्चेति ।
अत्रदं विचारणीयम् । चतुर्णामाद्यवर्त्तिनामेवानुनासिकगुणत्वेन भेदात्तज्जातीयत्वेऽपि सानुनासिकयकारादिवदण्‌सूपदिष्टैः स्वसवर्णैरगृहीतत्वाद्युक्तमेवायोगवाहत्वम् । न हि निरनुनासिकाः कादयोऽण्‌मध्ये पठ्यन्ते, येनैषामपि ग्रहणकशास्त्रेणैव संग्रहसिद्धौ अयोगवाहत्वप्रतिपादनविरोधः स्यात् । तस्मात्सानुनासिकनिरनुनासिकभेदेन कादीनां द्वैविध्यमित्येव भाष्यादितात्पर्यम्, न तु कादिवृत्तिवर्णत्वसाक्षाद्व्याप्यजात्यभाववत्तायाम् । मानाभावात् ।
अत एव कुँ खुँ गुँ घुँ इति न्यासादिग्रन्थाः सङ्गच्छन्ते । कुँ इत्यस्य तत्तद्वर्गाद्यक्षरपरत्वात् । खुँ इत्यादेश्च वर्गद्वितीयाद्यक्षरपरत्वात् । अनुनासिकत्वमात्रस्य चाधिकस्योपादानात् । नापि द्वितीयो विरोधः । अँ इत्यादीनां भागमात्रं नासिक्यम् । यमानुस्वाराणां तु मुखनासिक्यत्वेऽपि प्रासादवासिन्यायेनानुनासिकत्वमप्यस्ति, न तु तदीयं भागमात्रं तथा, इत्येवं परत्वस्य भवद्भिरेवोक्तत्वात् । एतेनादितश्चतुर्णां तदसम्भव एवेत्यपास्तम् । प्रमाणसत्त्वे बाधकाभावात् ।
ननु गुणानामभेदकत्वादेव तेषां प्रत्याहारान्तर्भावसम्भवादयोगवाहानामट्‌सूपदेशपरभाष्यवार्त्तिकविरोध एवेति चेत्, मैवम् । अयोगवाहपदेन तेषआं संग्रहेऽपि विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वाराणामेव तत्रोपदेशप्रयोजनस्योक्तत्वेन यमानां प्रयोजनस्य तत्र कुत्राप्यनुक्तत्वात् तथाऽपि प्रत्याहारविशेषपुरस्कारेणैव तन्नियमसम्पादनार्थकत्वेन तदविरोधाच्च यमानां तत्रोपदेशे तात्पर्याभावनिर्णयात् ।
यत्तूक्तम्---नैव दोषो नैव प्रयोजनमिति भाष्यविरोधः, त्वन्मते यद्‌ घ्नन्तीत्यादौ "यरोऽनुनासिके" इत्यस्य प्रवृत्त्या दोषस्योद्भटत्वादिति, तदप्यसत् । द्विर्वचनविध्येकवाक्यतापन्नयर्त्वस्यैव तेषु नियतत्वेन सत्यपि यमानां यरन्तर्भावे अनुनासिकत्वादिविध्येकवाक्यतापन्नयर्त्वस्य बाधाभ्युपगमात् । एवं च यमानां व्यञ्जनपरत्वनियमेन "अनचि च" इत्यस्य तत्र कदाचिदप्यप्रवृत्त्या फलतो यमांशे यर्त्वादिबाध एव पर्यवस्यतीति सिद्धम् । गुणानामभेदकत्वेऽपि यमानां न तत्तत्कार्यप्रवृत्तिरिति । तस्माद्यमानामयोगवाहत्वप्रतिपादकभाष्यस्य तेषां तत्तत्प्रत्याहारविशेषान्तर्भावप्रयुक्तकार्यानुदाहरणव्याजेन तत्तत्प्रत्याहारानन्तर्भावविधानएव तात्पर्यम् । अन्यथा अन्तर्भावप्रयुक्तकार्याभावे तद्विधानवैयर्थ्यात् । अप्रसक्तस्य च निषेधानर्हत्वात् । प्रसक्तेश्च वर्णान्तरत्वपक्षे वर्णसमाम्नायमध्यानुपदेशेनानुपपन्नत्वात् । ककारादिमध्यएवान्तर्भावः संमतः । तथा सति हि गुणानामभेदकत्वेन खफछठेत्यादिभिस्तत्संग्रहे प्रसक्ते भवति निषेधोपपत्तिः । तस्मादन्यथाऽनुपपन्नमुक्तभाष्यग्रन्थमेव परुस्कृत्य वक्ष्यमाणवाक्यानां वर्णान्तरत्वतात्पर्येण व्याख्यानं प्रत्यादेश्यम् ।
एकं ब्रह्मास्त्रमादाय नान्यं गणयतः क्वचित् ।
आस्ते न धीरवीरस्य भङ्गः सङ्गरकेलिषु ।।
इति न्यायात् । तथा हि---स्पर्शा यमा अनुनासिकाः स्वात्परेषु स्पर्शेष्वनासिकेषु इति प्रातिशाख्ये स्वपदस्य वर्गाद्यक्षरचतुष्टयपरत्वात् तत्परेष्वनुनासिकस्पर्शे वर्गान्त्यवर्णेषु अनुनासिकत्वविशिष्टाः स्पर्शाः प्रथमाद्याः यमसंज्ञा भवन्तीत्यर्थस्य स्पष्टतया स्पर्शसंज्ञया च कुत्र वर्णान्तरत्वे तात्पर्यम् । एतेन "प्रदोध्रुवच्छ्‌वशुषु" इत्यत्रोष्मसंज्ञकशकारा दिषूपस्थानीयस्य छकारादेर्यमवारणाय प्रवृत्तेन " स्पर्शस्योष्मप्रकुतेः परस्ताद्यमापत्तिः" इतिसूत्रे परस्ताच्छब्ददर्शनाद्वर्णान्तरत्वमित्यपास्तम् । परस्ताच्छब्देनागमत्वमात्रलाभेऽपि वर्णान्तरत्वस्य लाभे उक्तिसम्भवाभावात् ।
यदपि नारदीयशिक्षायाम्---
अनन्त्यश्च भवेत्पूर्वो ह्यन्त्यस्य परतो यदि ।
तत्र मध्ये यमस्तिष्ठेत्सवर्णः पूर्ववर्णयोः ।।
सवर्णः सदृशः । द्वित्वमपि विवक्षितम् । यज्ञ इत्यादौ जकारद्वयसत्त्वेऽपि "ज्मया अत्र वसवो रन्तिदेवा" इत्यादौ जकारद्वयाभावादिति तद्व्याख्यातार इति, तदप्यकिञ्चित्करम् । आगमे आगमिवृत्तिवर्णत्वव्याप्यजात्यभाववत्त्वरूपस्य वर्णान्तरत्वस्य ततोऽनवगमात् सावर्ण्यस्य गुणभेदेनैव निर्वाहात् । औदव्रजिसूत्रेऽपि गुणत्वस्यैव लाभात् । "अशरीरं यमं प्राहुः" इति गौतमशिक्षायाश्चार्थस्तैरेवोक्तः । अशरीरं स्वरभक्त्यादिवद् व्यञ्जकलिपिविशेषशून्यम् । लक्षणवशेनैव तदीयस्थलविशेषनिश्चयसम्भवाल्लिपिसम्प्रदायप्रवर्त्तकाचार्यैः स्वरभक्तेरिव यमस्यापि व्यञ्जकीभूता लिपिर्न कल्पितेति यावत् । "रलयोरूष्मणि परे मध्ये स्वरभक्तिः" इति शिक्षादिप्रसिद्धेः ।
यत्र तु नैवंविधलक्षणेन स्थलावधारणं कर्त्तुं शक्यते, तत्रागत्या लिप्यन्तरं प्रवर्त्तितम्, यथा विसर्गादाविति । न त्वेतावता वर्णान्तरत्वसिद्धिः । अन्वयदृष्टान्ते वर्णान्तरत्वेऽपि व्यतिरेकदृष्टान्ते तदभावात् । अन्यथा तदनुक्त्या शिक्षादौ विभागस्य न्यूनत्वापत्तेः ।
यदपि पाणिनीयशिक्षायाम्---
त्रिषष्टिश्चतुः षष्टिर्वा वर्णाः सम्भवतो मताः ।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ।।
स्वरा विंशतिरेकश्च स्पर्शाः स्युः पञ्चविंशतिः ।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ।।
अनुस्वारविसर्गौ च ःकःपौ चापि रराश्रयौ ।
दुस्पष्टश्चेति विज्ञेया लृकारः प्लुत एव च ।।
तत्र अइउऋवर्णानां ह्रस्वदीर्घप्लुतभेदात् द्वादश, लृकारस्य ह्रस्व एव, एचां दीर्घप्लुतभेदादष्टाविति अचामेकविंशतिः । स्पर्शाः कादयो मावसानाः । यरलवशषसहेत्यष्टौ । यमाश्चत्वारः । प्रथमत्वद्वितीयत्वतृतीयत्वचतुर्थत्वोपाधिभेदात् । अनुस्वारादयश्चत्वारः स्पष्टाः । दुस्पृष्टस्तु बाह्‌वृच्ये प्रसिद्धः । एवं त्रिषष्टिः, लृकारस्य प्लुतत्वसम्भवात्तेन सह चतुः षष्टिरिति ।
अत्र यमानां पृथग्गणनात् स्पष्टमेव वर्णान्तरत्वमिति, तदप्यसत् । न ह्यत्र एकसंख्येयवृत्तिवर्णत्वव्याप्यजात्यभाववत्त्वं संख्येयान्तरस्य नियतम् । ह्रस्वाद्यकारादौ तादृश्या अत्वादिजातेः सत्त्वात् । तथा च कुत्रचिज्जातिभेदेन कुत्रचिद् गुणभेदेन गणनस्यात्र दर्शनात् यमांशेऽपि कादिवृत्तिजात्यभावे प्रामाण्यमस्त्येवेति वक्तुमशक्यत्वात् ।
न चैवं यादीनामष्टत्वानुपपत्तिः, यवलानां गुणभेदेन द्वैविध्यादिति वाच्यम् । तत्रोभयसाधारणजातेरेव विभाजकत्वेनाभिमतत्वात् । स्वतन्त्रेच्छस्य महर्षेर्नियोगप्रत्यनुयोगानर्हत्वात् । तात्पर्यस्य चोक्तरीत्या विघटितत्वात् । तस्माद्विवरणमतमेव रमणीयमिति सूक्ष्ममीक्षणीयम् ।

तुल्यास्यप्रयत्नं सवर्णम् 9 ।
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्युभयं ययोर्वर्णयोस्तुल्यं तयोः परस्परं सवर्णसंज्ञा स्यात् । प्रदेशाः "अकः सवर्णे दीर्घः" इत्यादयः । उत्तरपदे द्वन्द्वगर्भः, तत्पुरुषगर्भः, पूर्वपदे तत्पुरुषगर्भः, त्रिपदो वा बहुव्रीहिरिति चत्वारोऽत्र पक्षाः । तत्राद्यो व्याख्यातः । आस्यं च प्रयत्नश्च आस्यप्रयत्नौ तौ तुल्यावस्येत्यर्थस्योक्तेः । आस्ये प्रयत्न आस्यप्रयत्नः । न च "अमूर्द्धमस्तकात्स्वाङ्गादकामे" इति सप्तम्या अलुगापत्तिः । तद्धितान्तस्यास्यशब्दस्य स्वाङ्गमात्रवाचित्वाभावात् । स तुल्योऽस्येति द्वितीयः । तुल्य आस्ये तुल्यास्यः, मयूरव्यंसकादित्वात्साधुः । तादृशः प्रयत्नो यस्येति तृतीयः । तुल्य आस्ये प्रयत्नो यस्येति चतुर्थः । अनेकपदोपादानसामर्थ्येन त्रिपदस्यापि बहुव्रीहेरङ्गीकारात् । तुल्यशब्दस्य तुलया संमित इति व्युत्पत्तावपि सदृशमात्रे रूढिः, प्रवीणादिवत् ।
आस्यशब्दे च नानाविधा व्युत्पत्तिः । अस्यन्ते उच्चार्यन्ते वर्णा अनेनेत्यास्यम् । बाहुलकात्करणे ण्यत् । यद्वा---आस्यन्दतेऽन्नं प्राप्य द्रवीभवतीत्यास्यम् । "अन्येष्वपि" इति डः । अथ वा अन्नेन द्रवीक्रियते इत्यास्यम् । अन्तर्भावितण्यर्थात्कर्मणि डः ।
स्यादेतत् । एवमनियतावयवार्थप्रदर्शनपरेण भाष्येणास्यशब्दस्य मुखे रूढिर्विवक्षिता । तथा च रूढेर्बलवत्त्वाद्‌ अवयवार्थमात्रेण ताल्वादीनां ग्रहणं न सम्भवति । "लौकिकमास्यम् ओष्ठात्प्रभृति प्राक्काकलकात्" इति भाष्योक्तेः । एवं च तदुपादानं व्यर्थम् । सर्ववर्णानामास्यएव निष्पत्तेः । न च नासिक्येषु व्यभिचारः । नासिका हि न बाह्या वर्णोत्पत्तौ निमित्तम्, तत्र जिह्वाग्रादिसंयोगाभावात्, किं तर्हि आस्यान्तश्चर्म विततमस्ति, तत्सम्बद्धा रेखा नासिका, तस्यां वाय्वभिघाताद्वर्णोत्पत्तिरिति सिद्धान्तात् । विसर्गस्य कैश्चिदुरः स्थानस्वीकारेऽपि तस्य सावर्ण्याभावेऽपि दोषाभावात् । प्रयत्नमात्रसाम्यविवक्षायां च जबगडदानां स्पृष्टप्रयत्नसाम्यात्सावर्ण्यापत्तिः । भाष्ये शकारस्याप्युपादानं तु संपातायातम् । विवृतत्वेन प्रयत्नभेदात् । ततश्च ऊर्ग्ज इत्यादौ "झरो झरि सवर्णे" इति लोपः स्यात् । ऊर्गन्नम् । "पञ्चम्यामजातौ" इति डः । एवं प्राप्ते न्यासभेदेन सिद्धान्तमाह वार्त्तिककारः---
सिद्धन्त्वास्ये तुल्यदेशप्रयत्नं सवर्णम् इति ।
अस्यार्थः---आस्ये येषां तुल्यो देशः प्रयत्नश्च ते सवर्णसंज्ञाः । उक्तस्थले तु देशभेदान्नातिव्याप्तिः । आस्येति प्रयत्नविशेषणार्थम् । तेन बाह्यप्रयत्नव्यावृत्तिः । तथा च देशांशे तस्य वैयर्थ्येऽपि न क्षतिः । बाह्यप्रयत्नाश्च विवारादयो महाप्राणान्ता अष्टौ भाष्ये कण्ठोक्ताः ।
नन्वेवमप्यकारस्य सवर्णसंज्ञा न स्यात्, काकलकस्याधस्तादुपजत्रुस्थानमवर्णस्येति कैश्चिदङ्गीकारात्, तस्य चोक्तास्यबहिर्भावात् । मैवम् । सर्वमेव मुखमवर्णनिष्पत्तौ व्याप्रियतइत्यभ्युपगमात् । न च तथाऽपि तस्यास्यमेव देशो न त्वास्ये देश इत्युक्तानुपपत्तिसाम्यम् । व्यपदेशिवद्भावेन सिद्धेः । आस्यशब्दस्य सर्वावस्थाविशिष्टास्यपरत्वात् । देशशब्दस्य तु अवर्णोत्पत्तिहेत्ववस्थाविशिष्टतत्परत्वादिति ।
भाष्यकारास्त्वाहुः---आस्ये भवमास्यम्, शरीरावयवाद्यत् । "हलो यमाम्" इति यलोपः । न चाल्लोपस्य स्थानिवत्त्वम् । यलोपे तन्निषेधात् । तथा चास्यपदादेव स्थानलाभे सूत्रभङ्गो न युक्तः । न च बाह्यप्रयत्नभेदे सावर्ण्यानापत्तिः । प्रारम्भो यत्नस्य प्रयत्न इति व्युत्पत्त्यैव तद्व्यावृत्तेः । बाह्यानां वर्णोत्पत्तिपश्चाद्भावित्वस्य वक्ष्यमाणत्वात् ।
अस्तु वा प्रयत्नपदं यथाश्रुतमेव । बाह्यभेदेऽप्याभ्यन्तरसाम्येन सावर्ण्यसिद्धेः । यावत्प्रयत्नसाम्यविवक्षायां प्रयोजनाभावात् । स्थानैक्ये सति यत्किञ्चित्‌प्रयत्नसाम्यस्यैवानतिप्रसक्तत्वात् । न चैवमपि अवर्णस्य एङोश्च सावर्ण्यापत्तिः, तत्र भागविवेकस्य सुस्थत्वादिति वाच्यम् । तयोरवर्णस्य विवृततरत्वात् एङामैचां च स्थानभेदादेव तदनापत्तेः । "एओङ्‌" इत्यादिसूत्रे पृथगनुबन्धसामर्थ्यादैचोः पृथङ्‌निर्देशाच्चेति तत्रैवोक्तम् । एतेन ऐचावपि व्याख्यातौ स्थानभेदाच्च ।
न च तथाऽप्युदात्तानुदात्तानां सावर्ण्यं न स्यात्, प्रयत्नभेदादिति वाच्यम् । स्वरूपमात्रसतां गुणानामभेदकत्वमिति स्वीकारात् ।
यत्तु भाष्यकारस्य प्रौढिमात्रमेतत् । तथा हि---एजवयवावर्णेन सह सावर्ण्यमापाद्यतउत एज्भिरेव । नाद्यः । गव्यं नाव्यमित्यत्र "यस्येति च" इति लोपापत्तिरितिकैयटविवरणादिग्रन्थविरोधात् । उत्तरभागेन व्यवधानात् । कर्त्तॄणामित्यादौ णत्वार्थं "व्यवायेऽपि" इति योगविभागस्य भाष्यकारैरेवोक्तत्वात् । न चोत्तरभाग एवावर्णसदृश इति वाच्यम् । अग्ने एहीत्यादौ पूर्वरूपस्य भाष्यएवापादितत्वात् तद्विरोधात् । जात्यन्तरत्वस्यैव तत्र सिद्धान्तितत्वाच्च । नान्त्यः । प्रश्लिष्टावर्णावित्यादिहेत्वनुपपत्तेः । हेत्वन्तरस्यैव वाच्यत्वात् । अत एव इवर्णोवर्णयोरेचश्च न सावर्ण्यमिति ।
तत्रेदं वाच्यम्---किमवयवस्य सावर्ण्यमिति शङ्कैवात्रानवकाशा । अवर्णस्य एङोश्च सवर्णसंज्ञा प्राप्नोतीति स्पष्टमेव भाष्ये उक्तत्वात् । ननु सन्ध्यक्षरेषु प्रथमभागस्याकारेण सादृश्यत्सवर्णसंज्ञाप्राप्तिरिति कैयटोक्तायामापातनिकायां तथा प्रतीयतइति चेन्न । तद्‌द्वाराऽप्यवर्णस्य सादृश्यमस्तीति तद्भावमुक्त्वा नाव्यमित्यत्र यस्येतिलोपापत्तेः तदुक्ताद्यविवरणएव सङ्गमितत्वात् । तथा च कैयटाद्युक्तयस्येतिलोपप्रसङ्गविरोधेन भाष्यस्य प्रौढिवादत्वमुपपादयता कैयटोक्तापातनिकाया अवर्णपरत्वस्य शङ्कितुमप्यशक्यत्वात् । प्रश्लिष्टावर्णाविति हेत्वनुपपत्तिस्तु एङंशे विवृततरावर्णावेताविति हेत्वन्तरस्यैवोक्तत्वात् । नाद्यः । तत्रावयवस्य पृथकत्वेन ग्रहो नास्तीति हेतोः सुस्थत्वात् । ऐचोस्तु स्फुटोऽकारस्य प्रतिभासोऽस्तीति प्रत्याहाराह्निके भाष्यकैयटयोरेव स्थितत्वात् । एतेन तदवयवाकारस्यापि सावर्ण्यापत्तिर्निरस्ता । एवमिकारोकारयोरपीति बोध्यम् । तथा च तत्र भाष्यम्---
यदत्रावर्णं विवृततरं तदन्यस्मादवर्णात् ये अपीवर्णोवर्णे विवृततरे ते अन्याभ्यामिवर्णोवर्णाभ्यामिति ।
कैयटेनाप्युक्तम्---तदेवमाकारादिस्थस्यावयवस्य भेदेनाग्रहणादग्रहणम्, सन्ध्यक्षरस्थस्य त्वसावर्ण्यात्, ऋकारस्थस्तु भेदेन प्रतिभासाद् गृह्यतइति नुडादिसिद्धिरिति ।
आकारादीत्यादिपदमेङ्‌परम् । सन्ध्यक्षरपदमैच्‌परम् । गृह्यते रेफग्रहणेनेत्यर्थः ।
नन्वेवमवयवीभूताकारस्य सावर्ण्यापत्तिपरिहारेऽपि एचां तदापत्तौ समाधानानुक्तितादवस्थ्यमेवेति चेद्, मैवम् । तर्हि एचाम् अकारेण सावर्ण्यापत्तिरेव नास्तीत्युच्यताम्, कृतं समाधानानुक्त्युद्भावनेन । अवयवसावर्ण्यद्वारा तेषां सावर्ण्यापत्तिरस्तीति चेत्, तर्हि तत्परिहारद्वारा तेषां तत्परिहार इति सुस्थम् । तदेवं द्वन्द्वगर्भबहुव्रीहिपक्षो व्याख्यातः ।
ननूत्तरस्मिन्पक्षत्रये तुल्यपदस्य आस्यपदेन समन्वयाभावाद्भिन्नस्थानानामपि प्रयत्नसाम्यात्सावर्ण्यं स्यात्, मैवम् । तद्धितान्तास्यपदोपादानसामर्थ्यादास्यइत्येकत्वविवक्षायामेकस्मिन्नेव स्थाने ययोस्तुल्यः प्रयत्न इत्यर्थलाभात् । अन्यथा स्थानानामास्यवृत्तित्वनियमादास्यपदेनैव सर्वस्थानलाभे स्थानभेदेऽपि प्रयत्नैक्यमित्यर्थस्य सिद्धेः ।
नन्वेवमपि अन्येन सह तुल्यस्थानप्रयत्नस्यान्येन सावर्ण्यं स्यात्, प्रतियोगिविशेषस्यानुपात्तत्वात्, तद्वारणाय "तस्य" इति वक्तव्यम्, यो यस्य तुल्यस्थानप्रयत्नः स तस्य सवर्ण इत्यर्थलाभादुक्तातिप्रसङ्गसमाधानात्, मैवम् । तथा सति सवर्णसंज्ञाविधानवैयर्थ्यात् । सर्वेण सह सर्वस्य सावर्ण्यप्रसङ्गे च व्यावर्त्त्यालाभात् । न च रेफोष्मणां किञ्चिन्निरूपितसावर्ण्याभावात्तन्निवृत्त्यर्थतया सार्थक्यम् । स्वनिरूपितसावर्ण्यस्य तत्रापि स्वीकारात् । रेफोष्मणां सवर्णा न सन्तीति प्रवादस्य विजातीयसवर्णाभावपरत्वात् ।
वस्तुतस्तु तुल्यशब्दस्य ससम्बन्धिकत्वादेवोक्तार्थसिद्धिः । "पिता शुश्रूषितव्यः" इत्यादौ यन्निरूपितं पितृत्वं तस्यैव शुश्रूयकत्वलाभात् । अत एव "तुल्याय कन्या देया" इत्यादौ यज्जात्यवच्छिन्ननिरूपितकन्यात्वं तज्जात्या तुल्यत्वं सम्प्रदानस्य लभ्यते ।
स्थानग्रहणं किम्, कचटतपानां मा भूत् । स्पृष्टप्रयत्नस्य तुल्यत्वात् । अन्यथा तर्प्तत्यत्र "झरो झरि सवर्णे" इति पलोपः स्यात् । प्रयत्नग्रहणं किम्, चकारशकारयोर्मा भूत् । तालुस्थानस्य तुल्यत्वात् । स्पृष्टविवृतप्रयत्नभेदात्तु नातिव्याप्तिः । अन्यथा वाक्‌श्च्योततीत्यत्र पूर्वसूत्रेण शकारलोपः स्यात् । अत एवाभ्यन्तरत्वविशेषणस्यापि सार्थक्यम् । अन्यथा श्वासाघोषविवाराख्यबाह्यप्रयत्नत्रयसादृश्यसत्त्वादतिव्याप्तितादवस्थ्यात् । सर्वप्रयत्नसाम्यविवक्षायां कङयोरपि बाह्यप्रयत्नभेदादङ्कित इत्यादौ परसवर्णाद्यभावापत्त्या तस्याश्रयितुमशक्यत्वात् । चकारशकारयोरल्पप्राणमहाप्राणरूपबाह्यप्रयत्नभेदस्याकिञ्चित्करत्वात् ।
किं च "झरो झरि" इत्येवोक्ते "हलो यमां यमि" इतिवत् यथासंख्यापत्तौ शिण्ढीत्यादौ डलोपो न स्यादिति तत्र सवर्णपदग्रहणं कृतम् । यावत्प्रयत्नसाम्यविवक्षायां च डढयोरप्यल्पप्राणमहाप्राणरूपप्रयत्नभेदेन सावर्ण्यानुपपत्त्या डलोपाभावतादवस्थ्ये सर्णपदमपि व्यर्थं स्यात् ।
वस्तुतस्तु अभित्था इत्यादौ सकारलोपार्थतया तत्र सवर्णपदं सार्थकमेव । सकारथकारयोर्महाप्राणत्वेनापि साम्यात् । किन्तु निश्छझम् निष्ठुरम् निस्स्थानम् मधुलिट् स्थानम् इत्यादावपि लोपः स्यादिति बोध्यम् ।
अथ तथाऽपि तद्धितान्तास्यशब्दबलादेव स्थानप्रयत्नोभयलाभसम्भवात् प्रयत्नपदं व्यर्थम्, ताल्वादिस्थानवत् प्रयत्नस्याप्यास्यभवत्वादिति चेन्न । प्रत्येकव्यापारनिरासार्थमुभयोरुपादानात् । तेनोभयसाम्ये सत्येव सावर्ण्यम् । न त्वन्यतरमात्रसाम्येऽपीति न दोषः ।
अथ स्थानप्रयत्नविवेकः---अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्द्धा । लृतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । नासिकाऽनुस्वारस्य ।
केचित्तु वर्गपञ्चमानां स्वस्ववर्गापेक्षया नासिकास्थानमधिकमित्याहुः । अन्ये तु---
अनुस्वारयमानां च नासिकास्थानमिष्यते ।
इति पाणिनीयशिक्षायां पञ्चमानां नासिकास्थानानुक्तेर्न तथेत्याहुः । तदग्रे विचार्यम् ।
यत्नो द्विधा---आभ्यन्तरो बाह्यश्च । आद्यश्चतुर्द्धा । स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । स्पृष्टं प्रयतनं स्पर्शानाम् । ईषत्स्पृष्टमन्तस्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रस्वस्यावर्णस्य प्रयोगदशायां संवृतत्वम्, प्रक्रियादशायां तु विवृतत्वं प्रतिज्ञायतइति प्रागुक्तम् । आभ्यन्तरत्वं चैषां वर्णोत्पत्तिपूर्वभावित्वात् । तथा हि---नाभिप्रदेशात् प्रयत्नप्रेरितः प्राणवायुरूर्द्धमाक्रमान्नुरंः प्रभृतीनामन्यतमे स्थाने प्रयत्नेन विधार्यमाणः स्थानमाहन्ति, ततो वर्णस्य तद्व्यञ्जकध्वनेर्वोत्पत्तिः । तत्र वर्णोत्पत्तेः पूर्वं जिह्वाग्रोपाग्रमध्यमूलानां तत्तत्स्थानैस्ताल्वादिभिः सह यदा सम्यक् स्पर्शः तदा स्पृष्टत्वम्, ईषत्स्पर्शे ईषत्स्पृष्टत्वम्, सामीप्यमात्रे संवृतत्वम्, दूरत्वे तु विवृतत्वमिति । इदं चात्र तत्त्वम्---
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ।।
सोदीर्णो मूर्द्‌ध्न्यभिहतो वक्त्रमापद्य मारुतः ।
वर्णाञ्जनयते, इत्यादिशास्त्रपर्यालोचनया अवच्छेदकतासम्बन्धेन वर्णं प्रति तादात्म्यसम्बन्धेन हेतुत्वं स्थानत्वमिति लभ्यते । अवच्छेदकता च कण्ठे अकार इत्याद्यभियुक्तप्रतीतिनियामकः स्वरूपसम्बन्धविशेषः, भेर्यां शब्द इत्यादिवत् । न हि तिष्ठन्त्यस्मिन्स्थानमिति व्युत्पत्त्या तदतिरिक्तः सम्बन्धो वक्तुं शक्यः । उत्पत्तिपक्षे वर्णानामाकाशसमवेतत्वात्, अभिव्यक्तिपक्षे च विभुत्वादवृत्तित्वात् । एतेन "आस्ये तुल्यदेशप्रयत्नम्" इत्यधिकरणत्वबोधकदेशपदगर्भं वार्त्तिकमपि व्याख्यातम् ।
करणपदं च किं पुनरास्ये भवं स्थानं करणं चेति भाष्यमुपादाय स्पृष्टतादिजिह्वाग्रमध्यमूलानि वेति कैयटेन व्याख्यातम् । तत्राद्यं स्पृष्टप्रयत्नेत्यादि व्यवहाराभिप्रायम् । न तु तात्त्विकम् । तथाहि---जिह्वाग्रदिप्रतियोगिकताल्वादिसंयोगस्य स्पृष्टादिपदात्प्रतीयमानस्य करणत्वमनुपन्नम् । व्यापारहितत्वात् । न ह्युक्तसंयोगेन किञ्चित् जनयित्वा वर्णा जन्यन्ते । मानाभावात् । एतेन तदभिव्यञ्जको ध्वनिरपि व्याख्यातः । जिह्वाग्रादीनां तु यथोक्तसंयोगं व्यापारमाश्रित्य युक्तमेव करणत्वम् । आत्ममनः सयोगेनात्मनो ज्ञानकरणत्वस्य, चक्षुर्घटादिसंयोगेन चक्षुरादीनां चाक्षुषादिकरणत्वस्य च प्रसिद्धत्वात् । अत एव कण्ठाद्यभिघातस्य कत्वं कसाक्षात्कारत्वं वा कार्यतावच्छेदकमिति तान्त्रिकाणामुद्‌घोषः । अत्रावच्छेदकता कार्यतावच्छेदकः सम्बन्धः, समवायस्तु कारणतावच्छेदकः । भवति चावच्छेदकतया वर्णवति ताल्वादौ समवायेन जिह्वाग्रादिसंयोगः ।
एवं संयोगसम्बन्धेन जिह्वाग्रादीनां हेतुत्वम् । न चैवं करणैक्यापत्तिः । यद्वर्णोत्पत्तौ यत् स्थानमवच्छेदकं तदनुयोनिकजिह्वाग्रदिसंयोगस्य तत्र व्यापारतया तद्भेदेन करणतानां भेदात् । एवं च यद्येवं प्रयत्नग्रहणं न कर्त्तव्यम्, तस्याप्यास्यभवत्वात्, सत्यमेतत्, प्रत्येकं तु व्यापारनिरासार्थमुभयोरूपादानम्, तेन द्वयोस्तुल्यत्वे सवर्णसंज्ञा भवतीतिग्रन्थोत्थानमपि सङ्गच्छते । न ह्युक्तसंयोगस्यास्यभवत्वम् । आस्यसमवायनिरूपकत्वरूपस्य तस्य तदवयवे ताल्वादाबेव सम्भवात् । उक्तसंयोगस्य त्वास्यावयवे एव समवेतत्वात् ।
यद्यपि जिह्वाग्रादीनामपि न साक्षादास्यसमवायनिरूपकत्वम्, जिह्वयैव सह तेषामवयवावयविभावात्, तथाऽप्यास्यनिरूपितसमवायनिरूपकत्वमुभयसाधारणं वाच्यम् । आस्यप्रतियोगिको यः समवायस्तदनुयोगित्वं ताल्वादौ, तदनुयोगिजिह्वाप्रतियोगिकसमवायानुयोगित्वं च जिह्वाग्रादाविति । न चैतत्पूर्वोक्तसंयोगे । जिह्वाग्रप्रतियोगिकसंयोगस्य अधिकस्य दानं विना तत्सङ्ग्रहाभावात् । यदि तु दन्तानां शरीरानवयवत्वात्तदसङ्ग्रह इति विभाव्यते, तदाऽऽस्यप्रतियोगिकेत्यत्र समवायस्थाने साक्षात्सम्बन्धेति वाच्यम् । संयोगसमवाययोरेव तथात्वात् । पक्षान्तरेऽप्येवमेव वाच्यत्वाच्च । तस्माद्यथोक्तमास्यभवत्वं तद्धितान्तस्य आस्यपदस्य लक्ष्यतावच्छेदकमिति शङ्काऽर्थः ।
प्रत्येकसाम्ये सवर्णत्ववारणाय पृथक्‌प्रयत्नग्रहणावश्यकत्वे च आस्यपदस्य न यथोक्तं लक्ष्यतावच्छेकम्, मानाभावात्, किं तु स्थानमात्रसाधारणम् । संग्राह्यानुरोधेनैव वृत्तिस्वीकारात् ।
वस्तुतस्तु आस्यसमवायनिरूपकत्वं लक्ष्यतावच्छेदकसम्बन्धः । लक्ष्यतावच्छेदकं तु अवच्छेदकतासंबन्धावच्छिन्नवर्णनिष्ठकार्यत्वप्रतियोगिककारणताशालित्वमेव । अन्यथा आस्यरूपादौ तदवयवान्तरे च तस्यातिप्रसक्तत्वात् ।
प्रकृतमनुसरामः । बाह्यप्रयत्नास्त्वेकादश---विवारः संवारः श्वासो नादो घोषः अघोषः अल्पप्राणो महाप्राण उदात्तः अनुदात्तः स्वरितश्चेति । एते च वर्णोत्पत्त्यनन्तरं मूर्द्‌ध्नि प्रतिघातान्निवृत्ते प्राणे जायन्त इति बाह्या उच्यन्ते । वायुना कण्ठे अभिहन्यमाने गलबिलस्य विकासाद्विकारः । तत्संकोचात् संवारः । अत एव दूरसमीपावस्थानात्मकाभ्यामाभ्यन्तरविवृतसंवृताभ्यामनयोर्भेदः । अन्येषां स्वरूपमाह न्यासकारः---
संवृते गलबिलेऽव्यक्तः शब्दो नादः, विवृते श्वासः । उपरिवर्त्तिनौ श्वासनादावनुप्रदानमिति केचिदाचक्षते । वर्णनिष्पत्तेरनु पश्चात्प्रदीयते इत्यनुप्रदानम् ।
अन्ये तु ब्रुवते---अनुप्रदानमनुस्वानम् । घण्टानिर्ह्रादवत्स्थानाभिघातजे ध्वनौ नादोऽनुप्रतीयते, तदा नादध्वनिसङ्गाद् घोषो जायते । यदा श्वासोऽनुप्रदीयते, तदा श्वासध्वनिसङ्गादघोषः । महति वायौ महाप्राणः । अल्पे वायावल्पप्राणः । यदा सर्वाङ्गानुसारी प्रयत्नस्तीव्रो भवति, तदा गात्रस्य निग्रहः, कण्ठविवरस्य चाणुत्वम्, स्वरस्य च वायोस्तीव्रगतित्वाद्रौक्ष्यं भवति, तमुदात्तमाचक्षते । यदा तु मन्दः प्रयत्नो भवति तदा गात्रस्य स्रंसनम्, कण्ठबिलस्य महत्त्वम्, स्वरस्य वायोर्मन्दगतित्वात् स्निग्धता भवति, तमनुदात्तमाचक्षते । उदात्तानुदात्तसंनिकर्षात्स्वरितगुण इति ।
एषाञ्च सवर्णसंज्ञायामनुपयोगेऽपि आभ्यन्तरत्वविशेषणव्यावर्त्यतयोपस्थितत्वादान्तरतम्यपरीक्षायामुपयोगाच्छात्र व्युत्पादनमिति न दोषः । तदयं संग्रहः---
खरः ःकःपौ विसर्गश्च श्वासाघोषविवारकः ।
हानुस्वारझशन्तस्था घोषवन्नादसंवृताः ।।
जश्चयोऽल्पासवोऽन्तस्था महाप्राणाः परेऽखिलाः ।
पञ्चमा जश्‌वदेव स्युरनुनासिकताऽधिकाः ।।
अयमर्थः---वर्गाणां प्रथमा द्वितीयाः शषसाश्च खरः, जिह्वामूलीयोपध्मानीया विसर्गाश्च श्वासाघोषविवारप्रयत्नाः । हकारानुस्वारौ वर्गाणां तृतीयचतुर्था यरलवाश्च घोषनादसंवारप्रयत्नाः । वर्गाणां तृतीयप्रथमा यरलवाश्चाल्पप्राणाः । अन्ये सर्वे महाप्राणाः । वर्गपञ्चमास्तु तत्तद्वर्गतृतीयतुल्यप्रयत्नाः । अनुनासिकत्वं पुनरेषामधिको गुण इति ।
स्यादेतत् । उदात्तादीनां त्रयाणां कथं बाह्यत्वम् । तत्र विवारादीनामष्टानामेव भाष्ये पठितत्वात् । उदात्तादीनां सावर्ण्यप्राप्त्यभावमाशङ्क्य गुणानामभेदकत्वेन परिहृतत्वाच्च । उदात्तादीनां बाह्यन्ते च तत्साम्याभावेन सावर्ण्याभावस्यापादयितुमशक्यत्वात् । अभेदकत्वपक्षानुसारवैयर्थ्याच्चेति चेन्न । यद्यप्युदात्तादीनां बाह्यत्वमुक्तम्, तथाऽप्यभ्युपेत्याभ्यन्तरत्वशङ्केति विवरणकारैरेवोक्तत्वत् ।"विवारादय एकादश प्रयत्नाः" इति कैयटोक्तेश्चेति दिक् ।
अत्र केचित्---आभ्यन्तरत्वमभ्युपगम्यापि सावर्ण्याभावशङ्कापरभाष्यमनुपपन्नमेव । उदात्तादिरूपप्रयत्नभेदेऽपि विवृतरूप तदैक्यात्सावर्ण्योपपत्तेः । यावत्प्रयत्नैक्यविवक्षायां च बाह्यप्रयत्नसाम्येऽप्याभ्यन्तरप्रयत्नभेदे सावर्ण्यं मा भूदित्येतदर्थमाभ्यन्तरग्रहणमित्याकरविरोधात् । आपत्तिस्थले यावत्प्रयत्नैक्यविरहात्तदनुपपत्तेः । तदर्थकप्रशब्दवैयर्थ्याच्च । स्थानेऽन्तरतमसूत्रस्थभाष्यादिबलात् । शकारादिवद्वर्गद्वितीयचतुर्थानामप्यूष्मत्वप्रतीत्या विवृतमूष्मणआमिति वाक्येऽपि तद्ग्रहणस्य तुर्वारतया स्पर्शविवृतोभयप्रयत्नानां वर्गद्वितीयचतुर्थानां केवलस्पृष्टप्रयत्नान् वर्गप्रथमतृतीयान् अपेक्ष्य प्रयत्नाधिक्येन सावर्ण्याभावे "चोः कुः" इत्यादौ तद्ग्रहणानुपपत्तेश्च । ककाराद्यपेक्षया ङकारादीनां नासिकास्थानाधिक्यात्सावर्ण्यानापत्तेश्च । प्रयत्नवत् स्थानेऽपि यावत्त्वस्य विवक्षणीयत्वापत्तेः । वैषम्ये बीजाभावात् ।
अस्मन्मते तु यावत्त्वविवक्षायां प्रमाणाभावान्नासिकास्थानसाम्येन ञमङणनानां परस्परं सावर्ण्ये त्वन्नयसीत्यादौ पर्यायेण पक्षे "वा पदान्तस्य" इति ञादयः प्रवर्त्तन्ते इति ।
अत्रेदं वक्तव्यम्---अयं ह्याकराभिप्रायः । आभ्यन्तरत्वमनन्तर्भाव्य प्रयत्नसाम्यविवक्षायां यो वर्णो यद्वर्णसमानस्थानकत्वे सति यद्वर्णसमानप्रयत्नकः स तस्य सवर्ण इति फलितम् ।
तत्र प्रयत्ने यावत्त्वं विवक्षितं न वा । नाद्यः । प्रथमतृतीयानां द्वितीयचतुर्थानां च सावर्ण्यानुपपत्तेः । अल्पप्राणमहाप्राणत्वाभ्यां भेदात् । नान्त्यः । खकारहकारादेः सावर्ण्यप्रसङ्गात् । कण्ठ्यत्वान्महाप्राणत्वाच्च । एवमन्यत्राप्यापाद्यम् । यदि त्वाभ्यन्तरप्रयत्नसाम्यमपि निवेश्यम्, ततस्तेनैवानतिप्रसङ्गे बाह्यप्रयत्नसाम्यनिवेश एव व्यर्थोऽप्रसङ्गसम्पादकश्चेति । एवं चास्यभवत्वमात्रेण बाह्यव्यावृत्तिविरहादाभ्यन्तरमात्रलाभाय प्रशब्दविशिष्टयत्नपदोपादानमावश्यकमिति ।
आस्यपदं स्थानमात्रपरम् । प्रयत्नपरत्वे प्रयोजनाभावात् । तथा च बाह्यप्रयत्नसाम्यस्य सावर्ण्यप्रयोजकत्वं विकल्प्य दूषयत आकरस्य प्रयत्ने यावत्त्वविवक्षायां तद्विरहे वा तात्पर्याभावात् । उदात्तादीनामाभ्यन्तरत्वे तद्भेदेन सावर्ण्याभावशङ्कायास्तद्विरुद्धत्वात् ।
ननु तथाऽपि सिद्धान्ते आभ्यन्तरप्रयत्नस्यैव सवर्णसंज्ञोपयोगेऽपि तत्र यावत्त्वविवक्षणं किमर्थम्, येनोदात्तानुदात्तादीनां सावर्ण्याभावशङ्का स्यात्, तद्वर्णसमानस्थानत्वे तद्वर्णवृत्त्याभ्यन्तरप्रयत्नवत्त्वे च सति तद्वर्णवृत्त्याभ्यन्तरप्रयत्नान्तरवतो व्यावर्त्यवर्णस्याभावात्, उदात्तानुदात्तादीनां तु सावर्ण्यस्येष्टतया व्यावर्त्यवर्णस्याभावात्, उदात्तानुदात्तादीनां तु सावर्ण्यस्येष्टतया व्यावर्त्यत्वायोगात्, इति चेन्न । देवदत्तयज्ञदत्तौ तुल्यधनावित्यादावसति बाधकेऽन्यूनानतिरिक्तत्वस्यैव धनादौ प्रतीत्या तस्यौत्सर्गिकतया विवक्षानधीनत्वात् । राजमिन्त्रिणौ तुल्यावित्यादौ तु प्रत्यक्षादेर्बाधकत्वात् । अत एवोक्तं भाष्ये---
किं सति भेदे, सतीत्याह । सत्येव हि भेदे सवर्णसंज्ञया भवितव्यम् । कुत एतत्, भेदाधिष्ठाना हि सवर्णसंज्ञा । यदि हि यत्र सर्वं समानं तत्र स्यात् सवर्णसंज्ञाविधानमनर्थकं स्यात् इति ।
अस्य ह्ययमर्थः---आस्यपदेन बाह्यप्रयत्नस्यापि संग्रहे यावद्‌बाह्याभ्यन्तरप्रयत्नसाम्यं सवर्णसंज्ञानिमित्तम् इति लभ्येत, ततश्च स्वस्यैव स्वसावर्ण्यं स्यान्न तु वर्णान्तरस्येति संज्ञावैयर्थ्यम् । तत्परिहाराय विधानसामर्थ्यादौत्सर्गिकार्थत्याग इति ।
अत एव सति सङ्कोचे किञ्चिन्‌मात्रसाम्येऽपि स्यादित्यासङ्कापरः "यदि तर्हि सति भेदे किञ्चित् समानमिति कृत्वा सवर्णसंज्ञा भविष्यति शकारच्छकारयोः षकारठकारयोः सकारथकारयोः सवर्णसंज्ञा प्राप्नोति, एतेषां हि सर्वमन्यत् समानं करणवर्जम् " इति ग्रन्थः सङ्गच्छते । श्वासाघोषविवारमहाप्राणरूपबाह्यप्रयत्नचतुष्टयस्य ताल्वादिस्थानस्य च तुल्यत्वात् । आभ्यन्तरप्रयत्नस्तु शरां विवृतत्वम्, छादीनां तु स्पृष्टत्वमिति भेदः ।
एवं च प्रयत्नपदेनाभ्यन्तरस्य तस्यास्यपदेन च स्थानमात्रस्योपादाने तु नोक्तदोषः । औत्सर्गिकरीत्या प्रत्नपदस्य यावदाभ्यन्तरपरत्वं तु दुर्वारम् । बाधकस्य दुर्वचत्वादिति । उदात्तादीनां तर्हि सवर्णसंज्ञा न प्राप्नोतीति शङ्काऽभिप्रायः । अत एव गुणानामभेदकत्वेनैव निर्वाहे यत्किञ्चित्‌प्रयत्नपरत्वकल्पनयौत्सर्गिकार्थबाधो न युक्त इतिपरिहारोपपत्तिः । एतेन "अनुदात्तादेरञ्‌" इत्यादाविव भेदकत्वपक्षस्यैव युक्तत्वादित्यपास्तम् । वृद्ध्यादिसूत्रस्थसर्वग्रन्थविरोधात् । "आमुदात्तः" इत्यादिसूत्रविरोधाच्च । "अनुदात्तादेः " इत्यादौ त्वनन्तानुदात्तादिव्यक्तिपरिचायकत्वेन तद्विवक्षा । तावद्व्यक्तीनां विशिष्य निर्देशासंभवादनुदात्तग्रहणवैयर्थ्यापत्तेश्च ।
यत्तु "स्थानेऽन्तरतमे" इत्यादि, तन्न । विवृतमूष्मणामित्यत्र हि किं पदे जुहोतीत्यनेन आहवनीये जुहोतीत्यस्येव सामान्यविशेषन्यायेन वर्गद्वितीयचतुर्थानां स्पष्टत्वं बाधित्वा विवृतत्वं विधीयते उत सावकाशनिरवकाशन्यायेन स्पृष्टं प्रयत्नं स्पर्शानामित्यस्य प्रथमादिषु सावकाशत्वात् द्वितीयचतुर्थयोर्विवृतत्व विधीयते स यावत्या वाचा कामयीत तावत्या दीक्षणीयायामनुब्रूयादित्यादिनेव यत्किञ्चित् प्राचीनमग्नीषोमीयात्तेनोपांशु चरतीत्यादेः । नाद्यः । सामान्यविशेषभावो हि न विधेयांशे । स्पृष्टत्वविवृतत्वयोर्विरोधात् । नाप्यनुवाद्यांशे । शकारादिषु वर्गप्रथमतृतीयेषु च स्पर्शत्वोष्मत्वयोः परस्परात्यन्ताभावसमानाधिकरणत्वात् । न द्वितीयः । स्पृष्टत्वविधेर्वर्गविषमवर्णेष्विव विवृतत्वविधेरपि ऊष्मसु सावकाशत्वात् । न च द्वितीयचतुर्थानां स्पर्शत्वमेव नास्तीति वाच्यम् । "स्पर्शेषु यत्षोडशमेकविंशम् " इतिभागवतादिविरोधात् । "स्पर्शाः स्युः पञ्चविंशतिः" इतिशिक्षाविरोधाच्च । प्रथमतृतीयपञ्चमानां तत्सावर्ण्यानापत्तेश्च । न च स्पृष्टत्वमबाधित्वैव विवृतत्वं विधीयतइति वाच्यम् । तयोर्विरुद्धत्वेन समुच्चयानर्हत्वात् । "न हि बाधितमर्थमागमोऽपि बोधयति" इति न्यायात् इति न किञ्चिदेतत् ।
यदप्युक्तम्---कङादीनां सावर्ण्यं न स्यादिति । तत्र केचित् तावदाहुः---वर्गपञ्चमानां नासिका स्थानं न भवति, शिक्षायां यमानुस्वाराणामेव तदुक्तेः, किं तु करणम् । तद्व्यापारेण तदुच्चारणात् । तावन्मात्रेण स्थानत्वे अकारादीनामपि नासिकास्थानत्वापत्तेः । तदकथनेन न्यूनतापत्तेश्च ।
यत्तु करणरूपाया अपि नासिकायास्तद्धितान्तास्यपदेन ग्रहणात्तद्भेदे सावर्ण्यमनुपपन्नमेव । आस्यपदस्य स्थानमात्रपरतया संकोचे बीजाभावादिति, तन्न । आस्यपदस्य करणपरत्वे मानाभावात् । संकोचस्य दूरापास्तत्वात् । वृत्तिविषयतावच्छेदकधर्मावच्छिन्नकिञ्चिद्व्यक्तिविषयकतात्पर्याभावकल्पनस्यैव संकोचत्वात् । एतेन किं पुनरास्ये भवं स्थानं करणं चेति भाष्यविरोध इत्यपि निरस्तम् । न हि करणमास्यभवं नेति ब्रूमः । किं तु आस्यपदार्थतावच्छेदकं प्रकृते स्थानत्वमेवेति ।
यदप्युक्तम्---एतेन तुल्यशब्दसंकोचापेक्षया पश्चादुपस्थितास्यशब्दसंकोच एव न्याय्य इत्यपास्तम् । कखगघङादीनां स्वरूपतो भेदार्थं स्थानादाववान्तरभेदस्यावश्यकत्वेन सर्वस्थानसाम्ये सवर्णसंज्ञेति पक्षेऽपि तुल्यशब्दसंकोचावश्यकत्वाच्चेति । तदप्यसत् । आस्यशब्दस्य संकोचः करणव्यावृत्तलक्ष्यतावच्छेदकत्ववस्थापनमेव । तस्य च न्याय्यत्वम् । तत्साधारण्ये प्रमाणाभावात् । तुल्यशब्दसंकोचस्तु यत्किञ्चित्परत्वम् । तत्र चान्याय्यत्वम् । भाष्यादिभिरनुक्तत्वात् । कखेत्यादिकं तु व्यर्थमेव । स्थानतावच्छेदकरूपेण स्थानसाम्यविवक्षायां वस्तुसतोऽप्यवान्तरभेदस्य स्थानतानवच्छेदकतया दोषाभावात् । त्वन्मते उभयत्र संकोच इति वैषम्यसत्त्वाच्च ।
यदप्युक्तम्---तुल्यशब्दस्यान्यूनानधिकपरत्वेऽन्यतरैक्ये यावदास्यभवैक्याभावादप्राप्तौ प्रयत्नग्रहणवैयर्थ्यापत्तिः । एतेन प्रयत्नस्य पृथगुपादानात्तद्धितान्तास्यशब्देन नासिकारूपं करणं न गृह्यते इत्यपास्तम् । उभयत्रापि तुल्यत्वस्य वक्तुं शक्यत्वेनाऽऽनुमानिकवचनकल्पनापत्त्या संकोचस्यान्याय्यत्वेन च विनिगमनाविरहात्सर्वत्र प्रवृत्तौ तात्पर्यग्राहकतया प्रयत्नपदस्य व्याख्यातुं युक्तत्वाच्चेति, तदप्यसत् । आस्यपदस्य स्थानमात्रपरत्वेऽयं दोषः उतास्यभवपरत्वे । नाद्यः । प्रयत्नपदवैयर्थ्यानापत्तेः । नान्त्यः । तत्परत्वस्यानङ्गीकारात् । न च पदान्तरोपादानापेक्षयाऽऽस्यशब्दस्य तदुभयपरत्वमेव सम्यगिति वाच्यम् । प्रत्येकसाम्ये संज्ञाया अप्रवृत्त्यर्थं प्रयत्नपदसार्थक्यावश्यकत्वे आस्यपदस्योभयपरत्वकल्पनाया एव गुरुत्वात् । स्थानकरणोभयसाधारणस्य लक्ष्यतावच्छेदकस्य दुर्वचत्वाच्च ।
यत्तु त्वन्नयसीत्यादौ ङादयोऽपि भवन्तीति, तत् साहसमात्रम् । शाब्दिकमात्रानबिमतत्वात् । अत एव कौस्तुभेऽपि यावत्स्थानसाम्यविवक्षायां ञमङणनानां स्ववर्ग्यैः सावर्ण्यानापत्तिरित्येवोक्तम् । अन्यथा तेषां परस्परं सावर्ण्याभावोऽप्यापादितः स्यात् । किं बहुना नासिकायाः स्थानत्ववादिभिरपि यावत्स्थानसाम्यमेव विवक्षित्वा नासिकास्थानं सवर्णसंज्ञायामनुपयुक्तमित्येव स्वीक्रियते । तथा च तद्ग्रन्थार्थः---
ननु "शाद्‌" इति सूत्रे शकारात्परस्य तवर्गस्य श्चुत्वनिषेधो व्यर्थः "स्तोः" इत्यत्र तुशब्देन नकारस्यानुपादानात्, नासिकास्थानाधिक्येन तस्य सवर्णत्वाभावाद्ग्रहणकशास्त्रप्रवृत्त्यविषयत्वात् । मैवम् । नासिकास्थानसाम्यं सवर्णसंज्ञायां नाद्रियते इत्यत्रेदं ज्ञापकम् । न च यत्किञ्चित्स्थानसाम्यं सावर्ण्यप्रयोजकमिति न तद्वैयर्थ्यमिति वाच्यम् । तथा सति त्वन्नयसीत्यादौ ङादीनां पर्यायेण प्रवृत्त्यापत्तेः ।
अन्ये तु अन्यूनस्थानत्वमेव तुल्यस्थानत्वम्, पञ्चमानां परस्परं नासिकास्थानसाम्येऽपि ताल्वादिसाम्याभावात् । स्ववर्ग्यैः समं त्वधिकस्थानत्वेऽपि न्यूनस्थानकत्वाभावात्सावर्ण्यम् । तेन त्वङ्करोषीत्यादौ ङकारादिसिद्धिः । न चाद्यानां पञ्चमसावर्ण्यं तथाऽप्यसिद्धमिति वाच्यम् । प्रयोजनाभावादिष्टापत्तेः । न च गौरि एहीत्यादौ सवर्णदीर्घः स्यात्, प्रकृतिभावश्च न स्यादिति वाच्यम् । एकारस्य विवृततरत्वमाश्रित्य प्रयत्नभेदोपगमात् । न च "तोर्लि" इत्यत्र लकारेणाण्त्वाद्वकारोपस्थापने तद्वस्तु इत्यादौ दकारस्य वत्वापत्तिरिति वाच्यम् । द्वितीयकारप्रश्लेषेण लकारस्वरूपस्यैवोपादानात् । नापि "रलो व्युपधाद्" इत्यत्र रलन्तर्गतलकारेण वकारस्यापि ग्रहणे देवित्वा दिदेविषतीत्यादौ पाक्षिककित्त्वापत्तिः । हयवरट्‌सूत्रे रेफस्य यात्पूर्वमपकर्षप्रस्तावे भाष्योक्तरीत्या अवकारादिति पदच्छेदेन समाधानसम्भवात् ।
यद्वा---स्थानतावच्छेदकपर्याप्त्याश्रयत्वं स्थानत्वम् । वकारस्य दन्तोष्ठमित्यत्र च द्वन्द्वनिर्देशादुभयत्वं स्थानतावच्छेदकम्, तच्च न प्रत्येकविश्रान्तमिति न वकारस्य लकारसावर्ण्यम् । "लुग्वा दुह" इति सूत्रे "उदोष्ठ्यपूर्वस्य" इति सूत्रे च दन्त्यत्वमोष्ठ्यत्वं च दन्तादिभवत्वमात्रं निवेश्यते, न तु तत्स्थानत्वम् । तत्र योगार्थेनैवोभयपरतया ग्रहणकशास्त्रानुपयोगेन सावर्ण्यस्यानपेक्ष्यत्वात् । तेन अदुग्धामित्यादाविव अदुह्वहीत्यादावपि क्सलोपः, पुपूर्षतीत्यादाविव सुस्वूर्षतीत्यादावप्युत्वं च सिद्धम् । तेन यल्लोँकमित्यादौ अनुस्वारस्य परसवर्णे सानुनासिकवकारापत्तिरप्यनासङ्क्या इत्याहुः ।
प्रकृतमनुसरामः । सर्वथाऽपि वर्गपञ्चमानां परस्परं सावण्यै नेति सिद्धम् ।
यदप्युक्तम्---"वर्णोत्पत्तौ नासिकायाः पाके काष्ठादिवत्स्थाल्यादिवद्वा करणत्वम् । नाद्यः । "आस्ये तुल्यदेशप्रयत्नं सवर्णम्" इत्यधिकरणत्वबोधकदेशशब्दसहितवार्त्तिकेन तद्भाष्येण च विरोधात् । अधिकरणरूपप्रासादवासिन्यायप्रतिपादकभाष्येण मुखनासिकयोरधिकरणत्वबोधनाच्च । नान्त्यः । करणत्वेऽपि स्थानत्वस्य दुर्वारत्वात्" इति, तदप्यसत् । कण्ठादेरेव ङकारादिदेशत्वेन तद्विरोधाभावात् । न हि तेन नासिकाया ङकारादिदेशत्वमपि बोध्यते । प्रमाणप्रयोजनयोरभावात् । नासिकायाः सवर्णसंज्ञायामनुपयोगात् । प्रासादवासिन्यायस्य समस्त एव च वर्णो द्वाभ्यामुच्चार्यतइत्याद्यपक्षेऽवतारेऽपि एको भागो मुकेनोच्चार्यते द्वितीयस्तु नासिकया, यद्वा---तदुभयान्तरालवर्त्तिस्थानान्तरमेव तदुच्चारणे निमित्तमित्युत्तरपक्षद्वये तदनवकाशात् । इदं च कौस्तुभेऽपि स्पष्टम् । यदप्युक्तम्---"यथा---
अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः ।
इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वादजादिग्रहणम् । "सुपां सुलुग्" इतिसूत्रस्थभाष्यादिप्रामाण्यादचामल्पप्राणत्वप्रतीतेः । यथा वा---"क्विन्प्रत्ययस्य" इतिसूत्रस्थकैयटादिप्रामाण्याद्वर्गचतुर्थानामल्पप्राणताऽपि दन्त्योष्ठ्यवकारस्य महाप्राणताऽपि । तथोक्तसिक्षायां चकारेण ञादीनामकारादीनां च ग्रहणं व्याख्येयम् । अत एव कौस्तुभे ञकारादीनां नासिकास्थानत्वं साक्षादुक्तम्" इति । तदप्यसत् । प्रकृते कल्पकाभावेन वैषम्यात् । ञादीनां परस्परं सावर्ण्यस्यापि कौस्तुभानभिमतत्वाच्चेति दिक् ।
वस्तुतस्तु तेषां सावर्ण्ये लण्‌सूत्रात्पूर्वं ञमङणनेष्वन्यतममेव मकारानुबद्धं पठेत् । अन्येषां तेनैव ग्रहणसिद्धेः । न च स्ववर्ग्याणामपि ग्रहणापत्तिः । तेषां पृथक्‌पाठसामर्थ्यात् । न चैवं तच्छ्लोकेनेत्यत्र छत्वं न स्यात्, लस्य अम्‌बहिर्भावापत्तेरिति वाच्यम् । छत्वमणीति वाच्यत्वात् अमीत्यस्मादधिकस्यान्तर्भावानापत्तेः । ग्रहणकशास्त्रादन्यत्र पूर्वेणैवाण्‌ग्रहणमित्यस्य यथाश्रुतपरत्वात् । न च यणि दोषः । आन्तरतम्येन व्यवस्थोपपत्तेः । भवदभिमतत्वाच्च । एतेन रप्रत्याहारोऽपि व्याख्यातः ।
न च नस्य इणन्तर्भावे सुहिन्सु इत्यादौ षत्वापत्तिः । सिद्धान्तेऽपि तत्र "नुम्‌विसर्जनीय" इति षत्वप्रसक्त्या नुम्‌ग्रहणं तत्स्थानीयानुस्वारोपलक्षणार्थमित्यत्र व्याख्यानातिरिक्तस्य बीजस्य दुर्वचतया तस्य च साक्षान्नुमः परस्य सस्य षत्वं नास्तीत्येतन्निश्चयं विनाऽनुपपन्नतयाऽत्रापि तेनैव संकोचोपपत्तेः । नुमः साक्षादुपादाने तदादेशलक्षणया संकोचः । प्रत्याहारान्तर्भावे तु तदतिरिक्तपरत्वेनेत्यन्यदेतत् ।
यद्वा---वर्णोपदेशे "लण्‌" इत्यस्मादनन्तरमेव ञादिष्वन्यतमो मानुबद्धः पठनीयः । ग्रहणकसूत्रे तु अण्‌पदस्थाने अमित्येवास्तु, लाघवस्य भूयस्त्वात् । न चात्र "अचो ञ्णिति" "ञ्नित्यादिर्नित्यम्" इत्यादेर्मिदादावतिप्रसङ्गः । उभयोपादानसामर्थ्यात् । एवम् "ङ्‌णोः कुक्‌टुक् शरि" इत्यत्र योज्यम् । नापि "क्‌ङिति च" इत्यस्य । णलादौ वृद्ध्यर्थणित्त्वस्य वैयर्थ्यापत्तेः । न च "मिदचोऽन्त्यात्परः" इत्यस्य णलादौ । "अत उपधायाः" इत्यस्य वैयर्थ्यात् । ननु "मिदचोऽन्त्यात्परः" इत्यस्य नित्यतिप्रसङ्गः, एवं मोऽनुस्वारस्य णान्तादौ, "णो नः" इत्यस्य नकाराद्यादौ, "नोदात्तोपदेशस्य मान्तस्य" इत्यस्य नान्तादौ, "रषाभ्याम्" इति मादीनामपि णत्वं स्यात्, इति यथायोगमापाद्यमिति चेत्, सत्यम् । ङकारस्यैव पाठ्यत्वात् ञणनमानां सवर्णग्राहकत्वापत्त्यभावात् ।
अथैवमपि ग्रहिज्यादिसूत्रेण जग्राह ग्राह्यमित्यादौ संप्रसारणं स्यात्, ङितीति ङकारेण णकारस्यापि ग्रहणात् । मैवम् । भृज्जतीनां ङिति चेति संहितया ङकारप्रश्लेषेण स्वरूपतोङकारस्यैव ग्रहणात् । न च तथाऽपि "हलो यमां यमि लोपः" इत्यत्र ञकाराद्यंशे यथासंख्यं न स्यात् इति वाच्यम् । तत्रातिप्रसङ्गस्थलाभावेन क्षतिविरहात् । न च "ङमो ह्रस्वादचि ङमुण्नित्यम्" इत्यत्र ङमुटोऽप्यापत्तिरिति वाच्यम् । ङणनानामिति स्वरूपेणैव पठितव्यत्वात् । ङमुडित्यत्र द्वे इत्येव पाठ्यम् ।
यद्वा---वर्णोपदेशे न ङम् इति पाठ्यम् । तेन ङकारमकारौ परस्परं ग्राहकौ नेति फलितम् । तेन "ङमो ह्रस्वाद्‌" इत्यत्र न दोषः । नापि "मिदचोऽन्त्यात्" इत्यस्य अण्‌फिन्‌फिञादिष्वतिप्रसङ्गः । ङित्त्वस्यानन्यार्थकङित्त्वस्थलएव प्रवृत्तिस्वीकारात् । स्वरवृद्ध्यर्थतया नित्त्वादीनामुपक्षीणतया तेषां प्रत्ययत्वात् परत्वोपपत्तेः । न च तातङ्‌न्यायेन प्रवृत्त्यापत्तिः । तत्र ङकारस्य श्रूयमाणत्वात् प्रकृते सवर्णग्रहणं कृत्वाऽपवादबाधकल्पने मानाभावात् । यथान्यासमपेक्ष्य लाघवस्य भूयस्त्वात् । मय्‌प्रत्याहारस्थले ङयित्येव पठनीयम् । "तुभ्यमह्यौङयि" इत्यत्र तत्प्रकृतिकघञादिप्रत्ययबाधाद्विभक्तिप्रकरणाच्चानतिप्रसङ्गात् । वहूर्ञ्जि इत्यादौ "अचो रहाभ्याम्" इति द्वित्वस्य सिद्धान्तेऽपीष्टतया "यणो मयः" इत्यस्य प्रवृत्तावप्यदोषात् ।
न च ञकारस्याधिकस्य संग्रहापत्तिः । पदान्ते ञकारस्याप्रसिद्धतया "मय उञः" इत्यत्राप्यदोषात् । तस्मात् ञादीनां मिथः सावर्ण्यं नेति सिद्धम् । अन्यथा सानुनासिकयवलानामपि मिथस्तदापत्तौ सय्यँन्ता इत्यादौ स्थलत्रयेऽपि पर्यायेण तेषामापत्तेः ।
किं च विवरणकारादिमते सानुनासिकककारादीनामपि यमत्वात्तेषां सावर्ण्यप्रसङ्गे त्वन्नयसीत्यादौ ककारादिरूपयमानामप्यादेशत्वं प्रसज्येव । यावत्स्थानसाम्ये सावर्ण्यस्वीकारपक्षे तेषां केवलनासिकास्थानत्वमाश्रित्य समाधानेऽपि मुखनासिकोभयस्थानत्वमादाय तत्तद्वर्गीययमापत्तेर्दुष्परिहरत्वात् "नासिक्या नासिकास्थाना मुखनासिक्या वा" इति वचनान्मुखपदेन तद्वर्गस्थानस्यैवोपादेयत्वात् । वर्णान्तरत्वमतेऽपि स्थानान्तरानुक्त्या स्ववृत्तिसादृश्यप्रतियोगिवर्णसमानस्थानप्रयत्नत्वस्यैव वाच्यत्वात् । तथा च "पञ्चमे परे यमोत्पत्तिः" इत्यादिकमपि व्याकुलं स्यात् ।
ननु तथाऽपि उक्तवचनान्नासिकायाः स्थानत्वं सिध्यत्येवेति चेत्, सत्यम् । अत्रत्यस्थानपदस्य तदुच्चार्यत्वमात्रपरत्वात् । मुखनासिक्या इति वाक्ये तु मुखावयवकण्ठादीनां प्रमाणान्तरेण स्थानत्वनिर्वाहात् । "मुखनासिकावचन" इत्यत्र वचनपदस्वारस्यान्मुखनासिकोच्चार्यत्वस्यैव प्रतीतेः । अत एव बाह्यप्रयत्नाभिधानोत्तरं "यथा तृतीयाः तथा पञ्चमा आनुनासिक्यवर्जम् आनुनासिक्यं तेषामधिको गुणः" इति भाष्यं संगच्छते । अन्यथा बाह्यप्रयत्नसाम्यकथनप्रस्तावे स्थानवैषम्याभिधानस्यानर्हत्वात् । उक्तरीत्या तु आन्तरतम्यमात्रपरीक्षोपयोगित्वेन तदौचित्यात् । न चानुनासिकत्वनिर्मुक्तङकारादीनाममनुपलम्भात्कथं गुणत्वमिति वाच्यम् । जलपरमाणुरूपादीनां तद्गुणत्वानुपपत्तिप्रसङ्गात् । तन्निष्ठात्यन्ताभावप्रतियोगित्वस्य गुणलक्षणानुपयोगात् । "सत्त्वे निविशतेऽपैति" इत्यादेरन्यथैव व्याख्यास्यमानत्वात् ।
अपि च अनुनासिकसंज्ञासूत्रे मुखस्य नासिकायाश्च तदुच्चारणे करणत्वं सर्वग्रन्थसिद्धम् । स्थानत्वं च करणप्रतियोगिकसंयोगानुयोगित्वम् । तत्र करणप्रतियोगिकत्वमुपलक्षणं विशेषणं वा । नाद्यः । जिह्वाग्रादीनामपि स्थानत्वापत्तेः । न चेष्टापत्तिः । तत्साम्यमादाय समानप्रयत्नानां सावर्ण्यापत्तेः । यत्किञ्चित्स्थानसाम्यस्यैव भवन्मतेऽपेक्ष्यत्वात् । नान्त्यः । स्वप्रतियोगिकत्वविशिष्टसंयोगानुयोगित्वस्य स्वस्मिन्ननङ्गीकारात् नासिकायाः स्थानत्वानुपपत्तेः स्थिरत्वात् । इत्यास्तामतिविस्तरः ।
प्रकृतमनुसरामः । ऋलृवर्णयोः स्थानभेदादप्राप्तां सवर्णसंज्ञां विधातुं वार्त्तिकमारभ्यते---
ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यमिति ।
अत्र व्याचक्षते---आ च आ च रलौ, तौ च तौ वर्णौ चेति विग्रहः, उश्च उल्‌ च ऋलोस्तयोरिति वा । प्रथमान्तेन परिनिष्ठितविभक्त्या वा विग्रह इति सिद्धान्तादिति ।
तत्राद्ये ऋ लृ औ इति स्थिते "ऋत्यकः" इति प्रकृतिभावः । "ऋतो ङि" इति लृकारस्य गुणः, तत ऋकारस्य यणादेशः । न चाकृतव्यूहन्यायात्प्रकृतिभावानुपपत्तिः । गुणे सत्यपि स्थानिवद्भावसंभवान्निमित्तविघाताभावात् । न चैवं यणोऽपि दौर्लभ्यम् । "ऋत्यकः" इत्यत्र "प्लुप्तप्रगृह्याः " इत्यतोऽचीत्यनुवर्त्य ऋकाररूपमचमाश्रित्य यत्कार्यं तस्यैव वारणात् । यणादेशस्तु अच्सामान्यमुपजीवतीति तद्व्यावृत्तिविरहात् ।
न च "अचः परस्मिन्" इत्यनेनाभावोऽप्यतिदिश्यतइति सिद्धान्तात् ऋकारकालीनस्य यणभावस्य गुणेऽप्यतिदेश इति वाच्यम् । "न पदान्त" इति तन्निषेधात् । अन्तर्वर्तिविभक्त्या पूर्वपदस्य सुबन्ततया पदसंज्ञत्वात् । द्वितीये तु ओसि गुणस्य दौर्लभ्यादकारोत्तरमुच्चारणार्थमकारं तन्निमित्तकयणं च स्वीकृत्य योज्यम् ।
ऋलोरिति वा पाठ इति । अत्रेदं बोध्यम्---ऋकाररूपाज्‌निमित्तकत्वं न तावदृत्वावच्छइन्ननिमित्तताकत्वम् । सवर्णदीर्घयणोरयादीनां च वारणानुपपत्तेः । तत्र ऋत्वेन निमित्तत्वविरहात् । "उपसर्गादृति धातौ" इत्यत्रैव प्रकृतिभावस्य कथंचित्प्रवृत्त्यापत्त्या धातुग्रहणं पाक्षिकप्रकृतिभावनिवृत्त्यर्थमित्यादिसकलव्याकोपप्रसङ्गात् । नापि ऋकारविश्रान्तनिमित्तताकत्वं यणादेशसाधारण्यात् ।
अथ यस्यां लक्ष्यव्यक्तौ ऋकारपरत्वाभावप्रयुक्तो यत्कार्याभावस्तदेव कार्यं प्रकृतिभावेन व्यावर्त्यते, इति चेन्न । गुणात्पूर्वं प्रकृते यणादेशस्याप्येतादृशत्वात्प्रवृत्त्यापत्तेः । तद्व्यक्तौ ऋकारपरत्वाभावस्याप्रसिद्ध्या यद्यत्र ऋकारपरत्वं न स्यात्तदा यणादेशो न स्यादित्येवंरूपस्यैव प्रयुक्तत्वस्य वाच्यत्वात् । तस्य चान्यत्र ऋकारपरत्वाभावेऽपि दध्यत्रेत्यादौ यणादेशाभावस्यादर्शनादापादकत्वानुपपत्तेः । एवं ब्रह्मऋषिरित्यादौ गुणस्याचि दुर्वारत्वं योज्यम् । एवं च प्रकृते गुणोत्तरम् ऋकारषरत्वव्यतिरेकप्रयुक्तो न यणादेशाभावः, आकारपरत्वेनापि तदुपपत्तेरिति कथञ्चित् आशङ्काऽपि निरवकाशा । आदेशाभावस्थले सवर्णदीर्घव्यावृत्तावपि यथायोगमादेशान्तरस्य दुर्वारत्वप्रसङ्गात् । तस्मादचीत्यनुवृत्तावपि यणादेशव्यावृत्तस्य निवर्त्यतावच्छेदकस्य दुर्वचत्वादुपरञ्जकत्वमात्रं तस्य, न तूपयुक्तत्वमपीति न किञ्चिदेतत् ।
यदप्युक्तम्---प्रकृतिभावाभावपक्षे "वार्णादाङ्गं बलीयः" इति गुणे कृते यणादेशसौलभ्यमिति, तदपि न । तयोर्युगपत्प्रवृत्तौ समाननिमित्ततायां च तन्न्यायप्रवृत्तेऋ कौस्तुभादौ स्पष्टत्वात् । एतेन तथात्वे न किञ्चिन्मानमिति निरस्तम् । व्याश्रयत्वे लक्ष्यानुरोधात्तत्प्रवृत्तिस्वीकारेऽपि प्रकृते लक्ष्यनिश्चयाभावेन औत्सर्गिकीं समानाश्रयप्रवृत्तिमाश्रित्य तदप्रवृत्तेरेव स्वीकर्त्तुमुचितत्वात्, क्वौ लुप्तं क्वौ विधिं प्रति वा न स्थानिवदित्यादिवत् । तस्मात्प्रकृतिभावपक्षे ऋअलाविति ऋलोरिति च, तदभावे तु राविति रोरिति च रूपं यथायोगं बोध्यमित्यलं बहुना ।
सावर्ण्यप्रयोजनं तु होतृ लृकार इति स्थिते सवर्णदीर्घौ यथा स्यात्, होतॄकारः । उभयान्तरतमस्य लृकारान्तरतमस्य च दीर्घस्यासम्भवादृकारान्तरतमो दीर्घऋकारः ।
अथ "अकः सवर्णे" इति सूत्रे "ऋति ऋ वा" "लृति लृ वा" इति पठ्यते । अकः सवर्णे ऋति परे पूर्वपरयोः स्थाने ऋ इत्ययमादेशो वा स्यात् । ईषत्स्पृष्टो द्विमात्रश्चायम् । मध्ये द्वौ रोफौ तयोरेका मात्रा, उभयतोऽज्‌भक्तेर्द्वितीया । एवं द्वितीयवचनविधेये लृकारेऽपि बोध्यम् । तत्र मध्ये द्वौ लकाराविति विशेषः । उभयोरपि प्रयत्नभेदादृलृवर्णाभ्यामगृहीतत्वेनाच्‌त्वाभावादप्राप्तयोरेव विधानम् ।
तत्र वाशब्दस्य समुच्चयार्थत्वमङ्गीकृत्याप्राप्त एव दीर्घो विधीयताम्, किं सावर्ण्येन । न च द्वितीये सवर्णपदस्यानुवृत्तौ तत्संज्ञाया अप्यावश्यकत्वम्, अननुवृत्तौ तु दध्य्लृकार इत्यादावतिप्रसङ्ग इति वाच्यम् । प्रथमवार्त्तिके ऋतीत्यपनीय "ऋतः" इति पञ्चम्यन्तस्य पाठ्यत्वात् । न च धात्रंश इत्यादावतिप्रसङ्गः । सवर्णे इत्यस्यानुवृत्तेः । द्वितीये तु ऋत इत्यस्यानुवृत्तिः, सवर्णइति निवृत्तम् । अतः सवर्णसंज्ञाविधानं व्यर्थम् इति चेत्, मैवम् । षाष्ठवचनद्वयस्यैव प्रत्याख्यातुमुचितत्वात् । तदारम्भपक्षेऽपि हि तद्विधेययोरीषत्स्पृष्टयोरच्‌त्वमवश्यमपेक्षणीयम् । अन्यथा विधानमात्रं तयोः स्यान्न तु प्लुतः । तस्याज्मात्रकार्यत्वात् । सति त्वच्‌त्वे ताभ्यां त्रिमात्रयोरपि सावर्ण्याद्ग्रहणे सति प्लुतसंज्ञायां सत्यां प्लुतसिद्धिः ।
न च विवृतस्थाने आन्तरतम्याद्विवृतावेव दीर्घौ स्याताम्, न त्वीषत्स्पृष्टाविति वाच्यम् । रेफद्वययुक्तस्य स्थानिनस्तादृगेवादेशः सुसदृश इत्यस्यापि सम्भवात् विनिगमकाभावेन उभयोः पाक्षिक्यां प्रवृत्तौ विवृतेषत्स्पृष्टयोरिष्टयोः सिद्धेः । न चैवं सावर्ण्यविधानपक्षे लृकारस्थानिकादेशस्यापि रपरत्व प्रसङ्गः । रप्रत्याहारग्रहणस्य व्याख्येयतया लपरत्वसिद्धेः । न च तथाऽपि "नाग्लोपिशास्वृदिताम्" "पुषादिद्युताद्य्‌लृदितः" इत्यादीनामनुबन्धकार्याणां सङ्करापत्तिः । भिन्नानुबन्धनिर्देशसामर्थ्यात् ।

नाज्झलौ 10 ।

तुल्यस्थानप्रयत्नावप्यज्झलौ मिथः सवर्णसंज्ञौ न स्तः । अप्यन्तं प्रसक्तिप्रदर्शनमात्रार्थम् । सवर्णपदं संज्ञापरम् । पूर्वं विधेयतयोपस्थितत्वात् । तुल्यास्यप्रयत्नत्वस्य वस्तुधर्मतया निषेधानर्हत्वाच्च । तेन आनडुहं चर्म वैपाशो मत्स्य इत्यत्र हकारशकारयोर्लोपो न । अन्यथा "यस्येति च" इत्यत्र अकारेकाराभ्यां ग्रहणकसूत्रेण दीर्घादीनामिव हकारशकारयोरपि ग्रहणापत्तेः । ऋकारषकारयोर्लृकारसकारयोरपि सावर्ण्यं प्राप्तमत्र निषिध्यतइति कौस्तुभकृतः ।
कैयटादयस्तु अकारहकारयोरिकारशकारयोश्चेति स्थलद्वयमेव दर्शयन्ति । तेषआं चायमाशयः---बह्‌वृचप्रातिशाख्योक्तरीत्या ऋकारलृकारयोर्जिह्वामूलस्थानत्वात् मूर्द्धदन्तस्थानाभ्यां षकारसकाराभ्यां सावर्ण्यप्रसक्तिरेव नास्ति । न च तत्‌प्रातिशाख्यमात्रोक्तत्वादनादृत्यम् । पूर्वोक्तरीत्या सूत्रवार्त्तिकसंमतत्वात् । अत एव नाण्‌शलावित्येव सूत्रयितुं युक्तमिति प्रामाणिकाः ।
एवं च "ग्रहणकशास्त्रादन्यत्र पूर्वेणैवाण्‌ग्रहणनियमात् कर्त्तृषट्‌कमित्यादौ सवर्णदीर्घः स्यात् । परेणाण्‌ग्रहणेऽपि अजपेक्षया व्यक्तिगौरवमेव । तस्मान्नाक्‌शलाविति सूत्रं युक्तम्" इत्यलग्नकं वेदितव्यम् । अत एवाग्रे पूर्वपक्षवार्त्तिके शकारसावर्ण्यप्रतिषेध एवोक्तो न तु षकारादेः । एतेन "शकारग्रहणं शरामुपलक्षणम्" इत्युक्तत्वा रामष्षष्ठः यशस्सारमित्युदाहरणान्तरकल्पनं च तेषामपास्तम् । आद्यन्तभाष्ये शकारमात्रस्यैव श्रवणादुपलक्षणत्वे मानाभावात् ।
स्यादेतत् । शकारस्यापि परस्परं सावर्ण्यनिषेधः स्यात् । स हि इकारादिभिर्गृहीतत्वादच्‌, स्वरूपतस्तु हल् । न चास्मादेव निषेधादिकारेण शकारग्रहणं नेति वाच्यम् । एतद्वाक्यार्थबोधौपयिक्तां पदार्थबुद्धौ पूर्वसूत्रप्राप्तसंज्ञामुपजीव्य ग्रहणकशास्त्रप्रवृत्तौ बाधकाभावात् । न हि तदानीं सावर्ण्यनिषेधधीरस्ति । तदुत्तरभावित्वात् । न हि तदानीं सावर्ण्यनिषेधधीरस्ति । तदुत्तरभावित्वात् । न चैतद्वाक्यार्थबोधात्पूर्वं तुल्यास्यसूत्रार्थबोध एव न भवतीति वाच्यम् । प्रतियोगिप्रसक्तिविरहे निषेधानुपपत्तेः । "यस्येति च" इत्यादौ तु एतद्वाक्यार्थबोधात्सावर्ण्याभावज्ञानान्न तद्ग्रहणमिति वैषम्यम् । अत एव ग्रहणकसूत्रस्थमण्‌पदं न सवर्णग्राहकम्, सूत्रान्तरस्थं तु सवर्णग्राहकमेवेति सिद्धान्तः । एवं "न्ज्झलौ" इत्यस्यापि निषेधस्य न स्वस्मिन्प्रवृत्तिः । स्वात्मनि व्यापारविरोधस्य तुल्यत्वात् ।
परिहृत्यापवादविषयमित्यस्यापि नायं विषयः । अपवादस्यैवानवगतत्वात् । न चेष्टापत्तिः । परश्शतानि कार्याणीत्यत्र दोषापत्तेः ।
परश्शताद्यास्ते येषां परा संख्या शतादिकात् ।
इत्यमरः । "कर्तृकरणे कृता बहुलम्" इति बहुलोक्तेः शतात्पराणीति समासः । पारस्करादित्वात्सुट्‌ । श्चुत्वेन शकारः । "अनचि च" इति तस्य द्विर्वचनं च । तत्र "झरो झरि सवर्णे" इति लोपाप्रवृत्त्या शकारत्रयश्रवणं स्यात् । न च "अनचि" इति "शरोऽचि" इति वा द्वित्वनिषेधो भविष्यतीति वाच्यम् । तत्र "नाज्झलौ" इति सावर्ण्यनिषेधेन ग्रहणकशास्त्राप्रवृत्त्या उच्‌पदेन शरामुपस्थानासम्भवात् । उक्तनिषेधयोर्नित्यत्वात् । तथा च वार्त्तिकम्---
अज्झलोः प्रतिषेधे शकारप्रतिषेधोऽज्झल्‌त्वादिति ।
प्रतिषेधे प्रकरणवशात्सावर्ण्यस्य प्रतियोगित्वेनान्वयः ।
सावर्ण्यप्रतिषेधो वक्तव्यः स्यादित्यर्थः ।
किं च अवर्णस्य स्वभेदैः सह सावर्ण्यं न स्यात् । हकारेण तद्ग्रहणे सति हल्‌त्वात्स्वरूपेण त्वच्‌त्वात् इति प्राप्ते सिद्धान्तवार्त्तिकम्---
सिद्धमनच्‌त्वात्, वाक्यापरिसमाप्तेर्वा इति ।
सूत्रप्रत्याख्यानाभिप्रायं प्रथममुत्तरम् । तथा हि---विवृतमूष्मणामिति योगे ईषदित्यनुवर्त्तते । स्वराणां चेत्यत्र विवृतमित्यस्यैवानुवृत्तिः, ईषदिति तु निवृत्तम् । तथा च प्रयत्नभेदात्सावर्ण्यप्रसक्तिरेव नास्तीति भावः । एवं चाकारस्य हल्‌त्वमपि नास्तीति दण्डाग्रमित्यादावपि न दोषः ।
यथाश्रुतमभ्युपेत्याप्याह---वाक्यापरिसमाप्तेर्वेति । प्रथमं हि वर्णानामुपदेशः, तत इत्संज्ञा, ततः प्रत्याहारः, ततोऽपवादपरिहारेण सवर्णसंज्ञानिष्पत्तिः । ततो ग्रहणकशास्त्रप्रवृत्तिः । यद्यपि निषेधप्रतियोगिप्रवृत्त्यर्थम् "नाज्झलौ" इति वाक्यार्थबोधात्प्राक् सवर्णसूत्रार्थबोध आवश्यकः, तथाऽपि अपवादविषयांशे तद्वाक्यतात्पर्यज्ञानस्य अपवादवाक्यार्थबोधोत्तरमप्रामाण्यज्ञानसम्पादनद्वारा तदंशे उत्सर्गवाक्यस्य तात्पर्याभावव्यवस्थापनात्स बोधो न शास्त्रप्रवृत्तावुपयोगी । यदंशे शास्त्रतात्पर्यं तद्विषयकबोधस्यैव प्रमाणत्वात् । अन्यथा सर्वत्र बोधस्यानियतत्वेन व्यवस्थाभङ्गप्रसङ्गात् । तथा च भ्रमरूपप्रतियोगिप्रसिद्धिमादाय निषेधप्रवृत्तावपि न ग्रहणकशास्त्रस्य प्रवृत्तिसम्भवः । अतो निषेधोपयोगितुल्यास्यसूत्रार्थबोधदशायामिकारेण शकारस्यानुपस्थानाच्छकारस्याच्‌त्वं नास्तीति न तस्य तेनैव समं सावर्ण्यनिषेधापत्तिः । निषेधप्रवृत्त्युत्तरकाले च सावर्ण्याभावादेवानुपस्थानमिति समाधानतात्पर्यम् । अत एव भाष्ये प्रत्याहारोत्तरकाला सवर्णसंज्ञा, सवर्णसंज्ञोत्तरकालं सवर्णग्रहणमिति उक्तम् । "नाज्झलौ" इत्यस्य सवर्णसंज्ञायामेवोपयोगात् । हरिणाऽप्युक्तम्---
अनेकाख्यातयोगेऽपि वाक्यं न्यायापवादयोः ।
एकमेवेष्यते कैश्चिद्भिन्नरूपमिव स्थितम् ।।
इति । न्याय उत्सर्गः । भिन्नरूपमिव परस्परानपेक्षबोधजनकमिव । अपवादज्ञानाभावे उत्सर्गस्य तात्पर्यभ्रमेण स्वतात्पर्याविषयकस्यापि बोधजनकत्वादप्रामाण्यापत्तौ स्वतात्पर्यविषयमात्रबोधजननार्थमपवादज्ञानस्य तेनापेक्षणीयत्वात् प्रणाणतावच्छेदकरूपसम्पत्तिः पश्चादेव भवतीति तदर्थात् । न चैवं "नाज्झलौ" इति सूत्रे सवर्णदीर्घोऽपि न स्यादिति शङ्क्यम् । तत्प्रकारकज्ञानस्य शास्त्रप्रवृत्तावनपेक्षितत्वात् । तदेवं द्वेधा समाधानम् ।
भाष्ये तु एकवाक्यतयाऽपि हेतुद्वयम् अपर आहेत्यादिना व्याख्यातम् । तथा हि---अनच्‌त्वादिति पूर्वोक्तदोषनिवृत्तिसिद्धौ हेतुः, अनच्त्वे तु वाक्यापरिसमाप्तेरिति । सा च यथोक्तरीत्यैव ।
नन्वेवं वाशब्दोऽसंगतः स्यात्, एकसमिन्साध्ये हेतुद्वयस्य साधकत्वएव तत्संगतेः, इह तु साध्यभेदोक्त्या एकत्र द्वयोरसमावेशात् । न हि भवति पर्वतो वह्निमान् धूमात् आर्द्रेन्ध नाद्वेति । भवति तु धूमादालोकाद्वा इति चेत्, सत्यम् । अस्तु वा ग्रहणमिकारेण शकारस्येति वाक्यशेषमध्याहृत्य प्रतिज्ञाविकल्पार्थत्वेन वाशब्दोपपत्तेः । शकारस्य शकारेण समं सावर्ण्यनिषेधे इष्टापत्तिरिति तदर्थः । न चात्र पक्षे शकारयोः सावर्ण्यनिषेधात्परश्शतादावुक्तदोष इति वाच्यम् । रूपद्वयं हि तत्र इष्टमेव । तच्च "अनचि " इति द्वित्वस्य वैकल्पिकत्वादेव सिध्यति । तत्र "यरोऽनुनासिके" इत्यतो विकल्पानुवृत्तेः ।
न च "झरो झरि" इति लोपस्य नित्यत्वात् द्विशकारकमेव रूपमिष्यतइति वाच्यम् । तत्रापि "झयो होऽन्यतरस्याम्" इत्यतो विकल्पानुवृत्तेः । एतत्पक्षे त्वपरितोषो दण्डाग्रमित्यत्र सवर्णदीर्घासिद्धिरित्याहुः ।
नन्वगृहीतसवर्णानामेवायं निषेध इति स्थिते दीर्घस्य ईकारस्य शकारेण सह सावर्ण्यनिषेधाभावात् कुमारी शेतइत्यत्र सवर्णदीर्घः स्यात् इति चेन्न । तत्राचीत्यनुवृत्त्या समाधानात् ।
अथ तथाऽप्याकारस्य दीर्घस्य प्लुतस्य च हकारेण सह सावर्ण्यं स्यात् । तथा च विश्वपाभिरित्यत्र "होढ" इति ढत्वं स्यादिति केचित् ।
अन्ये तु संयोगान्तलोप एवापाद्यः । ढत्वस्यासिद्धत्वात् पूर्वत्रासिद्धे विप्रतिषेधाभावादित्याहुः । एवं मालास्वित्यत्र पत्वम्, वागाशीरित्यत्र "झयो होऽन्यतरस्याम्" इत्याकारस्य घत्वम्, गासीध्वमित्यत्र "इणः षीध्वम्" इति धस्य ढत्वम्, दासीष्टेत्यत्र "दादेर्धातोः" इति घत्वम्, राम आयाहीत्यादौ "हशि च" इत्युत्वम्, देवा आयान्तीत्यादौ "हलि सर्वेषाम्" इति यलोपः, चाखायितेत्यादौ "यस्य हल" इति यलोपः । श्येनायितेत्यादौ "क्यस्य विभाषा" इति यलोपः, निचाय्येत्यादौ "हलो यमाम्" इति यलोपश्च स्यात् इति चेद्---
अत्राहुः---आकारस्य अइउण्‌सूत्रोदाहृतशिक्षोक्तरीत्या विवृततरत्वाद्विवृतेन हकारेण न सावर्ण्यम् । मतान्तरे तु दीर्घत्लुताकारयोः सवर्णदीर्घं कृत्वा तत्सहितोऽच्‌ आच्‌ इति व्याख्याय दीर्घप्लुताकारयोरपि सावर्ण्यनिषेधो व्याख्येयः । अत्र लिङ्गं च "कालसमयवेलासु" इत्यादिनिर्देशः प्लुतस्यापि प्रश्लेषात् यियासो इत्यादौ "गुरोरनृत" इति प्लुतादाकारात्परस्य सनः सस्य षत्वं नेति ।
वार्त्तिकमते तु हलामचां चोभयसाधारणैकवर्णत्वव्याप्यजात्यभावात् कुत्रापि नातिप्रसङ्गशङ्केति ।।
इति श्रीसिद्धान्तसुधानिधौ प्रथमस्याध्यायस्य प्रथमे पादे चतुर्थमाह्निकम् ।।


*******************-------------------

आ कडारादेका संज्ञा ।। 1 ।।
इत ऊर्ध्वं `` कडारादेका कर्मधारये इत्यतः प्रागेकस्यैकैच संज्ञा स्यात्। उभयोः सावकाशत्वे विप्रतिषेधात्परैच, निरवकाशत्वे तु सैवेति विवेकः। नच ``विप्रतिषेधे परं कार्यम् इत्यनेन परस्याः तक्रकौण्डिन्यन्यायेन च निरवकाशाया विशेषविहितत्वादेव सिद्धिरिति वाच्यम्। संज्ञानां समावेशस्य दर्शनाद्विप्रतिषेधाऽनवकाशात्। फलभेदाभावस्य च तक्रकौण्डिन्यायमूलत्वात्। कर्त्तव्यमित्यादौ प्रत्ययकृत्कृत्यसंज्ञाः, धातोरङ्गसंज्ञा, प्रतिपदिकसंज्ञा, ``तयोरेव इति कर्मणि विधानं चेति फलभेदश्चेति दर्शनात्।।
नच `आ द्वन्द्वादेका संज्ञा इत्येवास्तु, ``चार्थे द्वन्द्वः इत्यतः परन्नास्यानुपयोगाद् इति वाच्यम्।। ``द्वन्द्वश्च प्राणि-इत्यस्य व्याप्तिन्यायादवधित्वापत्तौ संबुद्धिसंज्ञाऽऽमन्त्रितसंज्ञयोः समावेशानुपपत्ते। अत एव ``आ कडाराद् इति पाठे ``प्राक्कडारात्समासः इत्यस्य नावधित्वम्।। इह प्राक्कडारात्परं कार्यमित्यपि पाठः। तेन सह तारतम्यं भाष्ये विचारितम्।।
तथा हि -`एका संज्ञा' इति पाठे संज्ञाग्रहणे गौरवम्। `परं कार्यम्' इति फाठे `विप्रतिषेधे च' इत्येवोत्तरत्र सूत्रयित्वा तत्रत्यस्य परं कार्यम्' इत्यस्य त्यागे लाघवम्। एतत्सूत्रे च कार्यपदं संज्ञापरमेव प्रकरणात्। यस्याः संज्ञायाः संज्ञायाः परस्याः पूर्वयाऽनवकाशया बाधः प्राप्नोति सा पराऽनेन भाव्यत इति विध्यर्थमिदं न नियमार्थम्। एतदेव च परसंज्ञाविधानमेतत्प्रकरणे संज्ञानां बाध्यबाधकभावज्ञापकम्। तत्र परयाऽनवकाशया सावकाशा पूर्वा द्वयोश्च सावकाशयोर्विप्रतिषेधे परया पुर्वा बाध्यते।
नचमयाऽपि`आ कडारादेका'इति सूत्रणीयं संज्ञाप्रकरणादेकेति स्त्रीलिङ्गनिर्द्धेशःसंज्ञाऽनुच्चारणेऽपि न विरुद्धः। एतत्सूत्रोत्तरं च ``सरूपाणां शेष एकविभक्तौ इति प्रकरणं कर्त्तव्यम् तत्र स्वरितत्वादत्रत्यस्यैकशब्दस्यानुवृत्तौ लिङ्गविपरिणामेन सम्बन्धे पुनरेकग्रहणं न कार्यमिति लाघवमिति वाच्यम्। तथाऽपि अङ्गसञ्ज्ञाया भपदसंज्ञाभ्यां बाधापत्तेः। तथाच सार्पिष्कः याजुष्क इत्यादौ अङ्गस्य विधीयमाना आदिवृद्धिर्न स्यात्। अङ्गसंज्ञा हि कर्त्तव्यमित्यादिषु सावकाशा। धातुप्रत्ययेषु पूर्वस्य भपदसंज्ञयोरभावात्।
नच ``तद्धितेष्वचामादेः ``कितिचइत्यङ्गस्य वृद्धिविधा नसामर्थ्यात्समावेश इति वाच्यम्। वचनादनङ्गस्यापि वृद्धिप्रदायस्यादिवृद्धिःस्यात्।। यथा डित्यभस्यापि अनुबन्धकरणसामर्थ्यात्कुमुद्वानित्यादौ टिलोपः। परं कार्यमिति पक्षे तु पूर्वे भपदसंज्ञे पराऽङ्गसंज्ञा इति न दोषः। ``यस्मात्प्रत्ययविधिस्तदादि सुप्तिडन्तं पदं नःक्ये सिति च स्वादिष्वसर्वनामस्थाने यचिभं प्रत्ययेऽङ्गम् इतिन्यासाश्रयणात्। तथाचारम्भसामर्थ्याद्भपदसंज्ञे परकार्यत्वाच्चाङ्गसंज्ञेति समावेशसिद्धिः।
नचैका संज्ञेति पाठे अङ्गं सद्भपदसंज्ञं भवतीति व्यख्यानात्समावेश इति वाच्यम्। एका संज्ञेति वचनादह्गंज्ञाया नित्ये बाधे प्राप्ते पर्यायार्थानुवृत्तिः स्यात्, नियबाधाभावाद् अनुवृत्तिसाफल्याच्च।
अत्राहुः-अङ्गसंज्ञानुवृत्तेः प्रयोजनान्तरविरहादिह पर्याय उक्तः, भसंज्ञायां पदसंज्ञानुवृत्तेस्तु प्रयोजनं भसंज्ञायाः पदकार्यत्वं यथा स्यादिति। ततश्च ``न पदान्त- इति अकारलोपस्य स्थानिवत्त्वनिषेधात् ``तसौ मत्वर्थे इति भसंज्ञायां पदत्वाभावे वेतस्वानिति सिद्धम्। भसंज्ञाविधौ हि पदमिति पर्त्तते अनुवृत्तिसामर्थ्यात्पूर्वं पदसंज्ञाप्रवृत्तौ भसंज्ञायाः पदकार्यत्वसिद्धिः। प्रवृत्तया तु भसंज्ञया पदंसंज्ञा बाध्यते। एका संज्ञेतिनियमात्।
किञ्च `एका संज्ञा'इति पक्षे कर्मधारयसंज्ञायामेकसंज्ञाधिकारेऽन्यत्र वा क्रियमाणायां तत्पुरुषग्रहणं कर्त्तव्यम्। आद्ये संज्ञासमावेशार्थं द्वितीये समासान्तरस्य कर्मधारयसञ्ज्ञानिवृत्त्यर्थम्। परं कार्यमिति पक्षे त्वस्मिन्नेव प्रकरणे कर्मधारयसंज्ञा क्रियते समावेशश्च सिद्ध्यतीति तत्पुरुषग्रहणं न कर्त्तव्यमिति लाघवम्। ``पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन कर्मधारयः `तस्यान्ते श्रितादिस्तत्पुरुषः' इति न्यासकल्पनात्। तत्रारम्भसामर्थ्यात् कर्मधारयसंज्ञा परकार्यत्वाच्च तत्पुरुषसंज्ञा। नचैवं समानाधिकरणस्य कथं तत्पुरुषसंज्ञेति वाच्यम्। पाठक्रमादार्थक्रमस्य बलवत्त्वात् पूर्वं नत्पुरुष इति कर्त्तव्यं ततो द्वितीयाश्रितेति। तत्पुरुष इत्यत्र पूर्वकालेत्यादिसूत्राण्यनुवर्त्त्य तत्पुरुषसञ्ज्ञाविधानाद्। एकसंज्ञापक्षे तु व्यधिकरणानां तत्परुषसंज्ञां विधाय समानाधिकरणस्य तत्पुरुषसंज्ञानुवृत्त्य्ा तत्पुरुषसंज्ञापूर्वककर्मधारयसंज्ञाविधानेऽपि पर्याय एव स्यात्।
एवं एकासंज्ञेति पक्षे ``द्विगुश्च इत्यत्र चकारग्रहणं कार्यम्। ननु सर्वं सूत्रमेव कर्त्तव्यं कथं चकारमात्रं चोद्यते।
अत्राहुः ``दिवगुश्चइति सूत्रं पक्षद्वयेऽपि न कर्त्तव्यम् एकसंज्ञापक्षे``संख्यापूर्वोद्विगुश्च इति चशब्दः समावेशार्थः कर्त्तव्यो न पक्षान्तरे इति वार्त्तिकाभिप्रायः। भाष्यमप्येवं व्याख्येयं ``तद्धितार्थ-इत्यत्रोक्तः संख्यापूर्वकः समासस्तत्पुरुषो द्विगुश्च भवति। संज्ञाद्वयं लभते इति यावत्। एतदर्थश्चकारः कर्त्तव्य इति।
परं कार्यमिति पक्षे तु ``तद्धितार्थोत्तरपदसमाहारे च ``संख्यापूर्वो द्विगुः तस्यांते श्रितादिस्तत्पुरुषः। एतत्पूर्ववद्व्याख्येयम्।
तथा गतिदिवःकर्महेतुमत्सु चग्रहणं कार्यम्। ``उपसर्गाः क्रियायोगे ``गतिश्च इत्यत्र चकारः, अन्यथाऽनवकाशा उपसर्गसंज्ञा ऊर्यादिषु सावकाशां गतिसंज्ञां बाधेन। वस्तुतो गतिरित्यत्र प्रादीनामनुवृत्त्या गतिसंज्ञा विधीयते तत्र च वचनसामर्थ्यात्पर्याये लब्धे उपसर्गसंज्ञाऽनुवृत्तिः समावेशार्थेति चकारग्रहणम् एकसंज्ञापक्षेऽपि न कार्यम्। समावेशस्य च प्रणीतमभिषिक्तमिति गतिस्वरो णत्वषत्वे च प्रयोजनानि।
एवं ``साधकतमं करणम् ``दिवः कर्मचइत्यत्र चकारः कार्यः। अन्यथा कर्मसंज्ञया करणसंज्ञायाबाधः स्यात्। `परं कार्यम्'इति पक्षे तु दिवः साधकतमं कर्मकरणं करणसंज्ञं च भवति। ततः साधकतमं दिव इति निवृत्तम्। समावेशस्य चाक्षैर्देवयते देवदत्तो यज्ञदत्तेनेति। प्रयोज्यस्य कर्त्तुर्गतिबुद्धीतिनियमात्कर्मसंज्ञानिवृत्तिः, ``अणावकर्मकाद इति परस्मैपदाभावश्च। नचैवम् `अक्षान्दीव्यति'इति द्वितीया न स्यात् परत्वात्तृतीयया बाधात्। कर्मसंज्ञाया अकर्मकव्यपदेशव्यावृत्त्यर्थत्वात्। करणसंज्ञायाश्च `देवना अक्षाः' इति ल्युडर्थत्वाद् इति वाच्यम्। `कर्यकालं संज्ञापरिभाषम्' इति पक्षाश्रयणात्। `कर्मणि द्वितीया'इत्यत्र यत्कर्मसंज्ञोपस्थानम् तदनवकाशम् इति द्वितीयासंभवत्। अक्षाणां देवितेत्यादौ कृद्योगषष्ठ्या अपवादत्वाद् द्वितीया बाध्यते। तृतीया तु परत्वात्।
``तत्प्रयोजको हेतुश्चइत्यत्रापि चकारः कार्यः। अन्यथा कर्तुसंज्ञाबाधापत्तेः। समावेशस्य च कारयतीति हेतुमण्णिचि कर्त्तारि लकारः प्रयोजनम्।
एवं गुरुलघुसञ्ज्ञयोर्नदीधिसंज्ञाभ्यां बाधः स्यात्। यदि घिनदीसंज्ञे वर्णमात्रस्य तदाऽयं दोषः। यदा तु तदन्तस्य तदा भिन्नबिषयत्वात्सिद्धःसमावेशः। तत्प्रयोजनं तु वात्सीबन्धुरित्यत्र ``नदीबन्धुनिइति पूर्वपदान्तोदात्तत्वं वात्सीबन्धो इत्यत्र ``गुरोरनृत इति प्लुतो गुरुसंज्ञानिबन्धनः। घिलघुसंज्ञासमावेशस्य तु विश्च ना च निनरौ इति घिनिमित्तिः पूर्वनिपातः, विन्नोर्भावो वैन्नमिति ``इगन्ताच्च लघुपूर्वाद्इत्यण्। अथ ``द्वन्द्वमनोज्ञादिभ्यश्चइति वुञ्प्रसंगान्नेवमिति विभाव्यते तदा विनरावाच्ष्चे विनयति ``तत्करोति तदाचष्टे इति णिच्। णाविष्टवादित्यतिदेशाट्टिलोपः। विविनय्येति ``ल्यपि लघुपूर्वादइत्ययादेशः। नच ``अचः परस्मिन् इत्यत्र पूर्वस्‌माद्विधावपि स्थानिवद्भावविधानाट्टिलोपः स्तानिवत्स्यादिति वाच्यम्। तस्यानित्यत्वात्। पञ्चमीसमासाश्रयणाद्वा।
परस्मैपदसंज्ञां च पुरुषसंज्ञा बाधेत ततश्च क्रामतीत्यादौ दीर्घो न स्यात्। नच ``सिचि वृद्धिः परस्मैपदेषुइति ज्ञापकात्समावेशः। पर्यायसिद्धावपि समावेशासिद्धेः। ततश्च पाक्षिकी वृद्धिः स्यात्। यदि तु परस्मैपदमित्यस्य ``तिङस्त्रीणी'इत्यत्रानुवृत्तिसामर्थ्यामाश्रयणीयम्।
परं कार्यमिति पाठे तु ऋत्वियशब्दो न सिध्यति। ऋतोरणः छन्दसि घस्। अयं ते योनिर्ऋत्वियः। प्रजां विंदाम ऋत्वियः। अत्र सितिचेति पदत्वमेवेष्यते। परं कार्यमिति वचनाद्भसंज्ञाऽपि स्यात्। तथाच ओर्गुणः प्रसज्यते। पदसंज्ञा त्ववग्रहार्था स्यात्।
गतिबुद्ध्यादीनां ण्यन्तानां प्रयोज्यःकर्मसंज्ञां कर्तृसंज्ञां च प्राप्नोति।
तथाहि एकसंज्ञाधिकारे कर्मसंज्ञाधिकारे कर्मसंज्ञां कर्मसंज्ञायां सिद्धायां गत्यादिसूत्रं नियमार्थम्।
तथाहि प्रयोज्यः स्वव्यापारे स्वतन्त्रः प्रयोजकव्यापारेण चाप्यत इति संज्ञाद्वयप्रसङ्गे एकसंज्ञाधिकारादन्यतरसंज्ञया भाव्यम्, तत्र प्र्तययार्थस्य प्राधान्यात्तत्प्रयुक्तसंज्ञयैव भाव्यं गुणप्रधानसंनिधौ प्रधानस्य प्रयोजकत्वसंभवे गुणानां तद्विरुद्धस्वकार्यप्रयोजकत्वानुपपत्तेः। ततः सिद्धायां प्रयोज्यस्य कर्मसंज्ञायां गत्यर्थादीनामेवाण्यन्तानां कर्त्ता ण्यन्तावस्थायां कर्मसंज्ञो भवति नान्येषामिति नियमः क्रियते। तेन पाचयत्योदनं देवदत्तो यज्ञदत्तेनति कर्मसंज्ञा न प्रवर्त्तते ततश्च बाधकाभावाद्गुणक्रियानिमित्ता कर्तृसंज्ञैव भवति। परं कार्यामिति पाठे तु अविरोधात्सर्वत्र संज्ञाद्वयप्रसङ्गे गत्यर्थादीनामेवेति नियमेन ण्यन्तधात्वन्तरप्रयोज्यात् कर्मसंज्ञाव्यावृत्तावपि गत्यर्थादिप्रयोज्यस्य संज्ञाद्वयं स्यात्।
यदि तु ``हृक्रोरन्यतरस्याम्इत्यत्रान्तरस्यां ग्रहणं ज्ञापकं कर्मसंज्ञायां कर्तृसंज्ञा न भवति इति, यदि हि गत्यर्थादिप्रयोज्यस्य संज्ञाद्वयं स्यात् तदा तत्रैव सूत्रे हृक्रोरित्यपठिष्यदिति कल्प्यते तदा न दोषः।
एवं धिसंज्ञायां शेषग्रहणं न कर्त्तव्यं नदीसंज्ञानिवृत्त्यर्थम्। अन्यथा शकटिशब्दात् ङेप्रत्यये नदीसंज्ञानिमित्ते आटि कृते तस्य ङिद्भक्तत्वाद् घेर्ङितीति गुमः स्यात्।
वस्तुतस्तु यद्यत्र घिसंज्ञा प्रवर्त्तेत तदाऽन्तरङ्गत्वात्पूर्वमेव तत्प्रवृत्तिः स्यात् नदीसञ्ज्ञातु ``ङिति हस्वश्चइतिङित्प्रत्ययापेक्षा बहिरङ्ग तत्र घिलक्षणे गुणे कृते हस्वाभावादल्विधित्वाच्च स्थानिवत्त्वाभावान्नदीसंज्ञा नैव प्रवर्त्तेतेति नदीसंज्ञाविधानं व्यर्थमेव स्यादिति नदीसंज्ञाविधानसामर्थ्यादत्र घिसञ्ज्ञान भवतीति बोध्यम्। नचैवं यणादेशोऽपि न स्यादिति वाच्यम्। यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते यस्य तु विधेर्निमित्तमेव नासौ बाध्यत इति न्यायात्।
``शेषो बहुव्रीहिःइत्यत्र शेषग्रहणं च कर्त्तव्यम्। उन्मत्तगङ्गमित्यत्रान्यपदार्थप्रधानतयाऽव्ययीभावसंज्ञया सह बहुव्रीहिसंज्ञायाः समावेशवारणार्थम्। अन्यथा पूर्वपदप्रकृतिस्वरः पाक्षिकः सामासान्तश्च कप् स्यात् शस्त्रीश्यामेत्यत्र यदा श्यामा शब्द उपमाने शश्त्र्यामेव वर्त्तते उपमेयं तु समासवाच्यं तदाऽन्यपदार्थवृत्तित्वाद्वहुव्रीहिसञ्ज्ञाप्रसंगे पाक्षिकः कप् स्यात्। ``तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः इतिपूर्वपदप्रकृतिस्वरविधानादत्र स्वरे विशेषाबावः। समाहारशब्दस्य भावसाधनत्वपक्षे पञ्चगवमित्यस्य द्विगोरन्यपदार्थप्राधान्यात्पूर्वपदप्रकृतिस्वरत्वं स्यात्। कपस्तु नापत्तिरशेषत्वात्। नच टचश्चित्करणाद्बहुव्रीहिस्वरो न भविष्यतीति वाच्यम्। पञ्चपात्रमित्यस्योदाहार्यत्वात्। एवं निष्कौशाम्बिर्निवाराणसिरित्यत्र क्रान्तस्यान्यपदार्थस्य समासवाच्यत्वे बहुव्रीहिसंज्ञायां तन्निबन्धनो नदीलक्षणःकप्स्यात्। पूर्वपदस्यैव क्रान्ताद्यर्थत्वे अव्ययीभावः शेषग्रहणे क्रियमाणेऽपि द्वीरावतीको देशइत्यत्र बहुव्रीहिर्न स्यात्। नदीभीश्चेत्यव्ययीभावप्रसङ्गात् समाहियमाणार्थस्य तद्वाच्यत्वे पञ्चनदमित्यादौ तदवकाशसत्त्वात् वीरपुरुषको ग्रामः, अब्रह्मणकोदेश इत्यत्रापि बहुव्रीहिर्न स्यात्। `तत्पुरुषः समानाधिकरणः' `अव्ययं विभक्ति'इत्यत्र चोपयुक्तत्वात्। एकासंज्ञेति पक्षे तु शेषग्रहणं न क्रियते अनवकाशाभिरव्ययीभावादिशञ्ज्ञाभिर्बढुव्रीहिसञ्ज्ञाबाधस्य सिद्धत्वात्। द्वीरावतीकादिषु तु परत्वाद्बहुव्रीहीर्भविष्यति। एवं प्रपतितपर्ण इत्यर्थे प्रपर्ण इति बहुव्रीहिर्न स्यात्। निःकौशाम्बिरित्यत्रेव तत्पुरुषसंज्ञाप्रसङ्गात्। एवञ्चसंज्ञापक्षे तु क्तार्थो यत्र समासार्थस्तत्र तत्पुरुषसंज्ञा। प्रपर्ण इत्यत्र तु क्तार्थः पर्णविशेषणं समासार्थस्त्वन्य एवेति बहुव्रीहिः सिद्धः तस्मादेका सञ्ज्ञेति पाठे यासां संज्ञानां समावेश इष्टस्तत्र चकाराणां सूत्र एव कृतत्वाद् न दोषः। परं कार्यामिति पाठे तु उक्तस्थलेषु दोष इति सिद्धम्।
अथ प्रयोजनान्युच्यन्ते तानि चात्रान्यस्मिन्वा प्रकरणे पठितानामनिष्यमाणसमावेशानां द्वितीयानाम् उपसंख्यानमिति विशेषः।
``ऊकालोऽज्इत्यत्र उकालस्य हस्वसंज्ञा विहिता तस्य चाण्‌त्वेन सवर्णग्राहकत्वाद्दीर्घप्लुतयोरपि हस्वसंज्ञा प्राप्नोति, सा दीर्घप्लुतसंज्ञाभ्यां बाध्यते। सच बाधस्तत्रैव विचारितः।
एवं लिङ्लिटोरार्धधातुकसंज्ञया तिङ्त्वेन प्राप्तसार्वधातुकसंज्ञाबाधः। अन्यथा संज्ञाद्वये शबादय इट् च स्यात्। नच छन्दस्युभयथाइति संज्ञाद्वयविधानं समावेशज्ञापकम्। तिङामार्धधातुकसंज्ञार्थतया सेषस्य सार्वधातुकसंज्ञार्थतयाऽपि तदुपपत्तेः।
युवसंज्ञया अपत्यवृद्धसंज्ञाबाधः। समावेशे हि शालङ्केः पैलस्य च यूनः छात्रा इति ``फक्फिञोरन्यतरस्याम्इति लुग्विकल्पस्य आनन्तर्यात् ``यूनि लुग्इत्येतस्यैव लुको बाधकतया ``पैलादिभ्यश्चइति लुकं प्रत्यबाधकत्वात्।
नदीसंज्ञया घिसंज्ञाबाधः। तेन शकट्यै इत्यत्र गुणाभावः।
``संयोगे गुरुइतिगुरुसंज्ञया लघुसंज्ञाबाधः। तेनाततक्षदित्यादौ न सन्वद्भावः।
``अपादानमुत्तराणि कारकाणि बाधन्ते। तेन धनुषा विध्यतीत्यत्रापायविवक्षां विना धनुषः साधकतमत्वाभावात्संज्ञाद्वयप्रसङ्गे परत्वात्करणंसंज्ञा। कांस्यपात्र्यां भुंक्ते इत्यत्राधिकरण संज्ञा, गां दोग्धीत्यत्र कर्मसंज्ञा धनुर्विध्यतीत्यत्र कर्तृसंज्ञा।
क्रुधदुहोरुपसृष्टयोः कर्मसंज्ञया संप्रदानसंज्ञाबाधः। करणसंज्ञां पराणि बाधन्ते। तेन धनुर्विध्यतीत्यादौ कर्तृसंज्ञा। अधिकरणसंज्ञां कर्मसंज्ञा गेहं प्रविशति। अधिकरणं कर्ता स्थाली पचति। अध्युपसृष्टं कर्माधिकरणसंज्ञाम् अधिवसति गृहम्।
गत्युपसर्गसंज्ञे कर्मप्रवचनीयसंज्ञा। तेन सुसिक्तमित्यादौ षत्वम्, ``सूपमानात् क्तः इति गतिसंज्ञकसुशब्दाश्रयमन्तोदात्तत्वं च न भवतीति पूर्वपदप्रकृतिस्वर एव।
परस्मैपदसंज्ञामात्मनेपदसंज्ञा। तेनाच्योष्ट आक्रमत इत्यादौ वृद्धिदीर्घाद्यभावः।।
समाससंज्ञाश्च या याः परा अनवकाशाश्च तास्ताः पूर्वाः सावकाशाश्च बाधन्ते। तेन लोहितगङ्गमित्यव्ययीभावः। द्वीरावतीक इति बहुव्रीहिरेव।
अर्थवत्प्रातिपदिकं गुमवचनं च समासकृत्तद्धिताव्ययसर्वनामसंज्ञं च भवतीति वक्तव्यम्। एकविषयत्वाच्चकारकरणाच्च गुणवचनप्रातिपदिकसंज्ञयोः समावेशः। उत्तरसंज्ञास्वनुवर्त्तनात् प्रातिपदिकसंज्ञायाः समावेशः। गुणवचनसंज्ञायास्तु ताभिः संज्ञासंज्ञान्ताभिर्बाधः। गुणवचनसंज्ञायास्तु ष्यञ्विधिः प्रयोजनम्। ``गुणवचनब्राह्मणादिभ्यः ित्यत्र ब्राह्मणादिग्रहणं तु समासादिसंज्ञाविषयीभूतशब्दसंग्रहार्थम्। प्राणभृज्जतिलक्षणप्रत्ययबाधनार्थं युवाद्यण्‌समावेशार्थं च।
असर्वलिङ्गा जातिरिति च वक्तव्यम्। लिङ्गानां च न सर्वभागिनि लक्षणे तात्पर्यम्।
संख्यासंज्ञा द्रुसंज्ञा च वक्तव्या। द्रु इति षट्‌संज्ञायाः प्राचीनव्यवहारः।
एकद्रव्योपनिवेशिनी संज्ञेति च वक्तव्यम्। डित्थादियदृच्छाशब्दानां संज्ञासंज्ञेत्यर्थः। समासादिसंज्ञाभिर्गुणवचनसंज्ञाबाधात् चित्रगुत्वं कारकत्वं औषगवत्वं उच्चैस्त्वं सर्वत्वं गोत्वं बहुत्वं पञ्चत्वं डित्थत्वमित्यादौ न ष्यञ्। ऐक्यं राजपौरुष्यं इत्यादौ तु ब्राह्मणादित्वात्षयञ्।